पाण्डुरङ्गस्तोत्रम् ३

पाण्डुरङ्गस्तोत्रम् ३

(तृतीयम्) (द्रुतविलम्बितवृत्तं) व्रजपते ! । जपतेऽस्यभयप्रदः सुरसदो(१) रसदो महिमा तव । अधनगे (२)घनगेयरुचेऽशनिस्त्वमव माऽभव मामकरोर्वराम् । (?) ॥ १॥ सततमस्तु मयि प्रणतेऽखिलप्रणतवत्सल ! । भव्य यशोनिधे! चरणभक्तिरुदार! तव प्रभो! रविवराविवरासन! मुनिधिः ॥ २॥ इह कलावपि जन्तुमजामिलादधिकमच्युत! । नाम यदृच्छया । सकृदथाप्यसमप्रमितं नु कं न समलं(३) समलङ्कुरुते भवान् ? ॥ ३॥ रुडपि ते शिवकृद्भगवन् ! । द्विषां प्रणमतां किमु युष्मदनुग्रहः । परमदुर्लभमीश! सुनिर्भयं पदमिता दमिता भवता खलाः ॥ ४॥ सपदि सम्प्रति भीमरथीतटे स्थितिमुपेत्य जडा अपि जन्तवः । इह कृता निजकीर्त्यमृतेन के न भवता भवतापविवर्जिताः? ॥ ५॥ (४)सितसरोरुहसाहमुनेः पितृव्रतवशाज्ञतमःप्रशमोद्यत ! । प्रणतवत्सल ! विठ्ठल ! ते यशः कविशते विशते स्वयमादरात् ॥ ६॥ श्रुतिनुतस्य जने कृपणे कृपा परमते ! । रमतेऽपि सदाशिवः । तव यशस्यमले विपुले सुधासरसि को रसिको न निमज्जति ? ॥ ७॥ बत कबीरमुखा यवनाः कृताः शुचितमा निजनामपरास्त्वया । भवति पात्रमपि प्रजडः सतां द्युनग! ते न गतेरिह को हरे! ॥ ८॥ वरदराज! । मुकुन्द ! तुकाभिधो वणिगतिप्रथितः स्तवनैस्तव । सकलसाधुमनःपरितोषकृत्कविवरो (५)विवरोहितशुद्धवाक् ॥ ९॥ स्वकरुणां वदसि ध्रुवमन्त्यजः स्मरणकृयदि देवि न तं त्यज । पतितपावन! नाम च तन्मृताववसरे वस रे ! वदने श्रुतौ ॥ १०॥ श्रुतकथे! । भवतः स्वजनापदामगदयागदया क्रियते न सा । पितृशतैः करुणा करुणानिधे! तनुभवेऽनुभवेन सतामिदम् ॥ ११॥ दिश दयार्णव ! । चक्रमनर्थहृत्स्वशरणाङ्गतविघ्नविनाशकृत् । त्वयि मनोऽस्तु मम प्रणतोद्धृतावनलसेऽनलसेवितसत्कथे ॥ १२॥ सुपतिसा अतितापसमाकुला अशरणाः शरणागतवत्सल ! । तव मुकुन्द ! सकृच्छ्रुतसस्कथाः सुरगुरोरगुरोकसि सस्कृतिम् ॥ १३॥ जडसमुद्धरणं प्रथितं कलौ करुणविठ्ठल ! । तेऽद्य महाप्रभोः! अनुभवञ्श्रुतवांश्च सदुक्तितो नयमतो यमतोऽपभयोऽखिलः ॥ १४॥ सदयकोटिशताधिककर्मणे नतसमस्तजनाशनिर्वमणे(६) भगवते ननु तुभ्यमहं करोम्यज! नमो जनमोहहराभिध! ॥ १५॥ उदितहार्दभरैः कृतकीर्तनैस्त्वमिह विठ्ठल भीमरथीतटे । लसदभङ्गगुणैस्तव सद्यशः सुरसिकैरसि कैर्न वशीकृतः ॥ १६॥ श्रुतिरहस्यविदः स्वपदं गता अपि भवन्तमुदारगुणं प्रभुम् । परमकारुणिकं सुहृदं परं मुनिजना निजनाथमुपासते ॥ १७॥ स्वपरिरम्भसुखातिशयोचितं प्रणतमाशु करोष्यखिलं जनम् । अयि! वदान्यगुरो(७)! तव सोऽधिकं हनुमतोऽनुमतोऽप्यलसो जडः ॥ १८॥ तव पुमर्थदपुण्ययशःकथाश्रवणविस्मृतदेह इतस्ततः । भवति विठ्ठल कोऽपि जनस्तपोवनमना न मनागपि तीर्थधीः ॥ १९॥ य इह दृष्टभवच्चरणाम्बुजानपदमूनमुमेशवृतास्पदात् । खलु लभन्त उदारशिरोमणेस्त्वदयि ते दयितेषदपि श्रियः! ॥ २०॥ निजयशोधिकमातरमादरं प्रकटयन्तमुदारगुणं प्रभुम् । स्वजनसद्यशसः श्रवणे सदा कृतमहं तमहं शरणं गतः ॥ २१॥ निजयशोमृतसेवनसक्तया सततसात्विकभावंसमृद्धया । भगवता भवता बहवः कृताः स्वसभया समया भृशनिर्भयाः ॥ २२॥ (अनुष्टव्वृत्तं) प्रियस्तुतेर्भगवतः पाण्डुरङ्गस्य पादयोः । मयूरेणार्पिता भक्त्या या स्तुतिः सास्तु तीर्थवाः(८) ॥ ३३॥ इति श्रीरामनन्दनमयूरेश्वरकृतं पाण्डुरङ्गस्तोत्रं सम्पूर्णम् । टिप्पणि १। सुराः सीदन्ति अस्यामिति सुरसत् तस्याः । देवसभाया इत्यर्थः । २। धनबद् गेया वा रुचिः कान्तिर्यस्य तत्सम्बुद्धौ । त्वमघनगे पापपर्वते अशनिर्वज्रं तद्वत् पापानि नाशयसीति भावः । हे अभव अज । मा मां अव रक्षेति योजना । ३। समलं सपापम् । ४। पुण्डरीकमुनेः । सितसरोरुहं पुण्डरीकं सा आहा नाम यस्य तस्य मुनेः । ५। विवरं मुखबिलं तस्मादुज्झिता निर्गता शुद्धा वाग् यस्य सः । ६। वर्म कवचम् । ७। ``गुरोऽद्य तवाधिकं'' इति पाठान्तरम् । ८। तीर्थोदकम् । अस्मिन स्तोत्रे चित्रकाव्यपरायणस्य कवेर्बहवः श्लोका अतीव दुर्बोधाः सन्ति । महता प्रयत्नेनापि तेषामर्थो न ज्ञायत इति विदितमस्तु रसिकानाम् । Proofread by Rajesh Thyagarajan
% Text title            : Panduranga Stotram 3
% File name             : pANDurangastotram3.itx
% itxtitle              : pANDuraNgastotram 3 (shrIrAmanandanamayUreshvarakRitam vrajapate! japate.asyabhayapradaH surasado)
% engtitle              : pANDurangastotram 3
% Category              : vishhnu, vishnu, moropanta, stotra
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Author                : Mayurakavi or Moropanta
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : Stotras composed by Moropanta mayUrakavi
% Indexextra            : (Scan)
% Latest update         : December 23, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org