पाण्डुरङ्गस्तोत्रम् ५
(पञ्चमम्)
(स्रग्विणीवृत्तम्)
सख्यमापुर्यया बालगोपा वने भीमरथ्यास्तटे सत्यतः(१) पावने ।
साधिता पुण्डरीकेण या साधुना सिद्धिरालिङ्ग्यते(२) सज्जनैः साऽधुना ॥ १॥
क्वापि(३) कस्मादपीषन्नदासादरं यान्त्विति त्यक्तनिद्रं सदासादरं ।
तिष्ठते या कलौ सानुकम्पाऽवनौ श्यामलाहं तदङ्घी भजे पावनौ ॥ २॥
विठ्ठलाख्या भवाब्धौ तरिः(४) पारदा यां श्रिता (५)वज्रवेदेन्दुभृन्नारदाः ।
स्थापयामास सद्धार्मिकः कोऽपि तां चेतसैवाश्रये साधुभिर्गोपिताम् ॥ ३॥
पाणिपद्मद्वयन्यासराजत्कटिं श्यामलां कोमलां पीतविद्युत्पटीं ।
साधुभिर्नृत्यमानामुदारां नटीं सम्पिबामोद्भुताङ्गीं सुधाया घटीम् ॥ ४॥
गाढमालिङ्ग्यते या सदा पापिभी रम्यरूपा यया नेक्ष्यते कापि भीः ।
स्वैर्गुणैर्मुग्धगीतैः सदा मोहितां तां विशङ्कं स्वमातुर्वदामो हिताम् ॥ ५॥
मय्यपत्ये स्वकर्मालसेऽलं क्रुधा चिन्तया साधुभिस्ताम्यते कीं मुधा ।
भीमरथ्यास्तटे (६)स्वर्ग्यलभ्या बुधा भो मया पीयते साधुलब्धा सुधा ॥ ६॥
तापपापौषधं साधु यन्नाम या सन्मुखाच्च श्रुता सुप्रसन्नाभया(७)
बल्लवीनां सखीं देवतादेवतां चिन्तये (८)चित्तमेत्युस्सवादेव ताम् ॥ ७॥
त्यक्तसिंहासनाः साधवः केवलं प्राप्तुकामा हि यत्पादपांसुं दरीं ।
ईयुरेवोत्सुकाः को न तो चिन्तयेन्निर्जितस्वर्गसत्पादपां सुन्दरीम् ॥ ८॥
को न तां चिन्तयेच्छुद्धिकामः कलौ (९)यत्पदाम्भोजनिर्णेजनापां ततिः ।
साधुनीराजिता (१०)साधुनीराऽजिता सा धुनी राजिता शम्भुमौलावपि ॥ ९॥
सिद्धिरत्युत्तमा योग्यलभ्याऽसतस्त्रासदेवावरान्नित्यमभ्यासतः ।
पुण्डरीकेण या साधुनीराऽजिता(११) भक्तवृन्दैः कलौ साधुनारं जिता ॥ १०॥
जीवनेनाप्यहोधीष्टकं(१२) तर्पितो भीमरथ्यास्तटे पुण्डरीकेण यः ।
श्यामलः कोऽपि दीपः पतङ्गप्रियः(१३) श्लिष्यतां तापहा निर्मलः स्नेहकृत् ॥ ११॥
इति श्रीरामनन्दनमयूरेश्वरकृतं पाण्डुरङ्गस्तोत्रं सम्पूर्णम् ।
टिप्पणि
* अस्य कविलिखिता मातृकोपलभ्यते । किन्तु तस्यां समाप्तिद्योतको लेखो न दृश्यते न वात्रैवेतत्समाप्तमिति परिज्ञातुं पार्यते । इदं तु नामधेयमस्माभिः प्रकरणार्थमनुसृत्यैव विहितमित्यवधेयं सहृदयैः ।
१। सत्यतः सत्यलोकादपि ।
२। सिद्धिः श्रीविठ्ठलरूपा ।
३। ईषदपि दासाद् अरं द्रुतं क्वचिदपि मा यात्वितीव याऽवनौ तिष्ठते तदङ्घी अहं भजे इत्यन्वयः । ``यान्त्विति'' इति तु बहुवचन प्रामादिकम् । ``तिष्ठते'' इत्यामनेपदमपाणिनीयम् ।
४। तरिर्नौः ।
५। वज्रभृदिन्द्रः, वेदभृद ब्रह्मा, इन्दुभृत् शङ्करः ।
६। स्वर्गिणो देवास्तेषामलभ्या ।
७। अविद्यमानं भयं यस्याः सा अभया ।
८। चित्तं तामुत्सवादेवैति इत्यन्वयः ।
९। यस्य पदाम्भोजयोर्निणेजनं क्षालनं तदर्थमुपयुक्तानामपां ततिः साधुभिनीराजिता स्तुता ।
१०। साधुनीरा अजिता सा धुनी भीमरथी शम्भुमौलावपि राजिता इत्यन्वयः ।
११। आदरान्नित्यमभ्यासतः सततमुपसेवनया असतो भावयतीति तादृशीति कथञ्चिद्योजनीयम् ।
१२। अधीष्टकमिष्टकायाम् ।
१३। पतङ्गस्य वैनतेयस्य प्रियः ।
Proofread by Rajesh Thyagarajan