श्रीपाण्डुरङ्गसुप्रभातंम्

श्रीपाण्डुरङ्गसुप्रभातंम्

उत्तिष्ठ पाण्डुरङ्गेश उत्तिष्ठ रुक्मिणीप्रिय । उत्तिष्ठोत्तिष्ठ सर्वेश त्रैलोक्यं मङ्गलं कुरु ॥ १॥ उत्तिष्ठोत्तिष्ठ गोविन्द नन्दानन्दविवर्धन । उत्तिष्ठ पण्ढरीनाथ भक्तकार्यं समाचर ॥ २॥ मातः पयोधितनये जगदादिभूते ब्रह्मादिदेवजननि श्रितदुःखहन्त्रि । श्रीकृष्णनाथपदपङ्कजदास्यनिष्ठे श्रीपाण्डुरङ्गदयिते तव सुप्रभातम् ॥ ३॥ सौन्दर्य-मार्दव-कृपादि-गुणालये च मातः स्वभक्तजनकल्पलते प्रसन्ने । श्रीरुक्मिणीतिविदिते हरिलग्नचित्ते श्रीपाण्डुरङ्गदयिते तव सुप्रभातम् ॥ ४॥ विघ्नेश-सूर्य-शिव-शक्ति-धनाधिपेश वागीश-वायु-विबुधेश-मरुद्गणाद्याः । त्वद्द्वारिबद्धकरसम्पुटतः पठन्ति श्रीपण्ढरीपुरपते तव सुप्रभातम् ॥ ५॥ नारायणाङ्घ्रिसरसीरुहजा-सुनीला- गोदावरी-शरयु-भीमसमुद्भवाङ्गाः । नद्यः प्रसन्नसलिला जगदुः प्रभाते श्रीपण्ढरीपुरपते तव सुप्रभातम् ॥ ६॥ प्रह्लाद-नारद-शुकार्जन-पुण्डरीक व्यासाम्बरीष-बलि-शौनक भीष्ममुख्याः । त्वत्पादपद्म-मकरन्द-रसानुसक्ताः श्रीपण्ढरीपुरपते तव सुप्रभातम् ॥ ७॥ कूजन्ति कोकिलमिषेण मुदात्र सिद्धाः नृत्यच्छिखण्डिमिषतो मुदमावहन्ति । गुञ्जारवेण मधुपाः पदपङ्कजरक्ताः श्रीपण्ढरीपुरपते तव सुप्रभातम् ॥ ८॥ त्वद्याम्य-पार्श्वगत-गोपिगणाङ्गनस्था गाढानुरागभरतो बत मुक्तकेशी । सद्मस्थिताश्च मृदु केलिशुकाः पठन्ति श्रीपण्ढरीपुरपते तव सुप्रभातम् ॥ ९॥ त्वत्सङ्गिसङ्गिजनसङ्ग-मनीषया च त्वत्पादधूलिकणमज्जनलब्धुकामाः । देवास्त्वदत्रनगरे तृणलोष्टदेहाः श्रीपण्ढरीपुरपते तव सुप्रभातम् ॥ १०॥ वाय्व्ग्निशक्रविधिशङ्करसोममुख्या देवाः ससिद्ध-ऋषिकिन्नरबन्दिमुख्यैः । त्वत्क्षेत्रवाससमुपासनलालसा वै श्रीपण्ढरीपुरपते तव सुप्रभातम् ॥ ११॥ सौवर्णपद्म-करवीर-सुपारिजाताः खर्जूर-चूत-बदरी-सुकपित्थवृक्षाः । त्वां स्वीयपुष्पफलसम्भृतो उअजन्ति श्रीपण्ढरीपुरपते तव सुप्रभातम् ॥ १२॥ यस्याङ्घ्रिकञ्जयुगसम्भवसीधुपान पुष्टान् विलोक्य सुजनान् विबुधा लषन्ति । मर्त्येजनुर्निरतिशायि-सुखाप्ति-हेतु श्रीपण्ढरीपुरपते तव सुप्रभातम् ॥ १३॥ पित्रोश्च सेवनरतं निजभक्तवर्यं श्रीपुण्डरीकमनघं शुभकृत्तमं तम् । पुष्ट्वा वरैर्वससि देव सदास्य भूमौ श्रीपण्ढरीपुरपते तव सुप्रभातम् ॥ १४॥ माण्डव-कण्व-ऋभु-शङ्ख-मृकण्डसूनु- व्यासात्रि-कश्यप-वसिष्ठ-पराशराद्याः । क्षेत्रप्रदक्षिणकराः प्रवदन्त्य्युषायां श्रीपण्ढरीपुरपते तव सुप्रभातम् ॥ १५॥ त्वन्मन्दिरस्थशिखराग्रनिरीक्षणेन तत्प्राप्तवारि-निकरेषु सुमज्जनेन । प्राप्ताः कृतार्थपदवीं स्तवमुज्जगन्ति श्रीपण्ढरीपुरपते तव सुप्रभातम् ॥ १६॥ पद्मं च कुण्डलमथापि च चन्द्रभागा तीर्थानि पापहरणानि सुपुण्यदानि । त्वत्क्षेत्रभूमिमधिगम्य रटन्ति कल्ये श्रीपण्ढरीपुरपते तव सुप्रभातम् ॥ १७॥ श्रीनारदः सरसिसम्भवजातजाया दुर्गा च विश्वजननी भुवनेश्वरी च । त्वद्द्वारदेशमधिकृत्य पठन्त्युषस्सु श्रीपण्ढरीपुरपते तव सुप्रभातम् ॥ १८॥ श्रीपाण्डुरङ्ग हरवन्द्य त्रिदष्ट्रघातिन् श्रीपुण्डरीकमुनिवर्य-वरप्रदायिन् । श्रीरुक्मिणीश बलदेवसुपूजिताङ्घ्रे श्रीपण्ढरीपुरपते तव सुप्रभातम् ॥ १९॥ मन्दातिमन्दमतिपापरताल्पचित्त संसारसागरसमुद्धरणावतीर्ण । मायापते यदुपते जगदेकबन्धो श्रीपण्ढरीपुरपते तव सुप्रभातम् ॥ २०॥ श्रीपाण्डुरङ्ग निख्लेश धनुर्धरोऽसि क्षेत्रं धनुः शरवरस्तव चन्द्रभागा । लक्ष्यं समस्तशमलं निजबोधनाश्यं श्रीपण्ढरीपुरपते तव सुप्रभातम् ॥ २१॥ उत्कर्षिनी च विमला च क्रियाऽथ ज्ञाना- योगा तथा वितथताऽनुग्रहेशना च । प्रह्वीतिशक्तिनवकं गिरति स्तवं ते श्रीपण्ढरीपुरपते तव सुप्रभातम् ॥ २२॥ श्रीपुण्डरीकमुनिदत्तमृदासने ते पादारविन्दयुगलं सममेव नाथ । नासाग्रदृष्टि-कटिहस्ततया स्थितोऽसि श्रीपण्ढरीपुरपते तव सुप्रभातम् ॥ २३॥ श्रीवत्ससन्मकरकुण्डलकौस्तुभाश्च पीताम्बरं तुलसिदाम दरोथ पद्मम् । एतानि भूषवराणि तवाश्रितानि श्रीपण्ढरीपुरपते तव सुप्रभातम् ॥ २४॥ आषाढकार्तिकसिते तव देव यात्रा चैकादशीव्रतमलं हरिनामद्घोषः । एतैः प्रसीदसि सदा भगवन् स्वभक्तान् श्रीपण्ढरीपुरपते तव सुप्रभातम् ॥ २५॥ निर्माण-रक्षण्-विनाशकरोस्यथापि कर्तृत्वभावरहितोऽसि-सदाव्ययोऽसि । श्रीरामकृष्णनरसिंहकृतावतार श्रीपण्ढरीपुरपते तव सुप्रभातम् ॥ २६॥ श्रीपौण्डरीकनगरं किल चन्द्रभागा श्रीविष्णुपाद-सुषमा पुलिनं च नद्याः । एतत्त्वदीयवसतेः शुभनामशेयं श्रीपण्ढरीपुरपते तव सुप्रभातम् ॥ २७॥ ज्ञानेश्-नाथ-जगमित्र-तुका-निळोबा नामा-जनी-सखु-मीरादि-समस्त-सन्तः । श्रीविठ्ठलेश तव पादयुगं प्रपन्नाः श्रीपण्ढरीपुरपते तव सुप्रभातम् ॥ २८॥ अस्मत्कुलाग्रजननास्तव भक्तवर्या गुण्डाख्यसद्गुरुवराश्च तदीय वंश्याः । सर्वे प्रभातसमये प्रपठन्ति नित्यं श्रीपण्ढरीपुरपते तव सुप्रभातम् ॥ २९॥ श्रीपण्ढरीपुरपतेरिह सुप्रभातं ये श्रद्धयाप्रतिदिनं मनुजाः पठन्ति । ते पाण्डुरङ्गकृपया हरिपादपद्म- भक्तिं समाप्य निजबोधयुता भवन्तु ॥ ३०॥ तव विठ्ठल दसोऽहं चन्द्रशेखरनामभाक् । सुप्रबातस्तवं भक्त्या त्वत्कृपार्थं समर्पये ॥ ३१॥ श्री चन्द्रशेखरमहाराज देगलूरकरविरचितं श्रीपाण्डुरङ्गसुप्रभातं सम्पूर्णम् ॥ पुण्डलीकवरदा हरि विठ्ठल । श्रीज्ञानदेव-तुकाराम । सद्गुरु गुण्डमाहाराज की जय । सद्गुरु हरिमाहाराज की जय ।
% Text title            : Panduranga Suprabhatam
% File name             : pANDurangasuprabhAtam.itx
% itxtitle              : pANDurangasuprabhAtam (chandrashekaramaharAja deglurakaravirachitam)
% engtitle              : pANDurangasuprabhAtam
% Category              : vishhnu, suprabhAta
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Author                : Shri Chandrashekaramaharaja Deglurkar
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : NA
% Proofread by          : NA
% Indexextra            : (Video)
% Acknowledge-Permission: Amit S Nagare Sanskrit Amod
% Latest update         : April 22, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org