पापदुःखसुखपुरुषपूजनम्

पापदुःखसुखपुरुषपूजनम्

(पापदुःखसुखपुरुषस्तोत्रम्) प्रसन्नवदनं सौम्यं पुष्टं श्वेतं सुभूषणम् । स्वर्णाम्बरं समस्ताङ्गकृतशोभं सुयौवनम् ॥ ९०॥ सर्वाभरणसंयुक्तं पुष्पाक्षतादिभिः शुभैः । पायसं चापि मिष्टान्नं फलादि चार्थयेद्बलिम् ॥ ९१॥ धर्मयुतं भक्तियुतं शीलव्रतादिसंयुतम् । पूजयित्वा शुभे पुण्ये मन्दिरे चालये तथा ॥ १२॥ जले विसर्जयेद्भक्त्या सम्प्रार्थ्य च प्रणम्य च । सर्वात्मन् सर्वलोकानां महानन्दप्रद प्रभो ॥ ९३॥ तव वासेन मे नित्यमहानन्दः प्रजायते । अविमुक्तो मम नित्यं भव वासं सदा कुरु ॥ ९४॥ तव दृष्ट्यापि लोकेशा भवन्ति चेश्वरा दिवि । पृथ्व्या ते कृपया देव सुखिनः सन्ति मानवाः ॥ ९५॥ तेनाऽहं च सुखी स्यां वै प्रसन्नो वरदो भव । इत्यभ्यर्थ्य सुखं देवं पूजयित्वा प्रणम्य च ॥ ९६॥ विसर्जयेज्जलमध्ये पूजकः सुखवान् भवेत् । नरो नारी च वा नान्यतरोऽपि चोक्तरीतितः ॥ ९७॥ पूजयित्वा लभेल्लक्ष्मीं सम्पदं धनमुत्तमम् । पुत्रं पशुं क्षितिं नारीं वंशविस्तारमित्यपि ॥ ९८॥ अदुःखं लभते नित्यं महोत्सवान् प्रपद्यते । अत्र लोके भवेच्चापि महास्मृद्धः परत्र च ॥ ९९॥ महाभोगान् प्रसम्पाद्य मोक्षलोकं प्रयाति सः । न तस्य जायते हानिश्चाकस्मात्तो न जायते ॥ १० ०॥ पीडा चाकस्मिकी चापि दारिद्र्यं नैव जायते । नित्यं सम्पत् सुखं सर्वं वर्धते भोग उत्तमः ॥ १०१॥ पठनाच्छ्रवणादस्य पूजनस्य फलं भवेत् । सुखवान् धनवान् स्याच्च दाता भवेत् पुनः पुनः ॥ १०२॥ इति श्रीलक्ष्मीनारायणीयसंहितायाः द्वापरयुगसन्तानात्मकस्य तृतीयखण्डे १६८-अध्यायान्तर्गतं पापदुःखसुखपुरुषपूजनं तथा स्तोत्रं सम्पूर्णम् । लक्ष्मीनारायणीयसंहिता । खण्ड ३। अध्याय १६८/९०-१०२॥ lakShmInArAyaNIyasaMhitA . khaNDa 3. adhyAya 168/90-102.. Proofread by PSA Easwaran
% Text title            : Papaduhkhasukhapurushapujanam
% File name             : pApaduHkhasukhapuruShapUjanam.itx
% itxtitle              : pApaduHkhasukhapuruShapUjanam (lakShmInArAyaNIyasaMhitAntargatam)
% engtitle              : pApaduHkhasukhapuruShapUjanam
% Category              : vishhnu, vishnu, lakShmInArAyaNIyasaMhitA, pUjA
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : lakShmInArAyaNIyasaMhitA | khaNDa 3 | adhyAya 168/90-102||
% Indexextra            : (Scans 1, 2, 3, 4)
% Latest update         : April 12, 2026
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org