$1
श्रीपार्थसारथि सुप्रभातम्
$1

श्रीपार्थसारथि सुप्रभातम्

कौसल्या-सुप्रजा राम पूर्वा सन्ध्या प्रवर्तते उत्तिष्ठ नरशार्दूल कर्तव्यं दैवमाह्निकम् ॥ उत्तिष्ठोत्तिष्ठ गोविन्द उत्तिष्ठ गरुडध्वज । उत्तिष्ठ कमलाकान्त त्रैलोक्यं मङ्गलं कुरु ॥ वन्दे वृन्दावनान्ते मणिगणविलसत्सौधहर्म्ये गृहाढ्ये सम्राजत्कैरविण्यास्तटभुवि घृणिमद्गोपुरे सालरम्ये । आनन्दाख्ये विमाने मुनिगणविनुतं पार्थसूतं च रामं रङ्गेशं श्रीनृसिंहं गजवरवरदं श्रीक्षितिभ्यां समेतम् ॥ १॥ मातः श्रीर्जगतामशेषजगतां नाथस्य भर्त्तुः प्रिये तद्वक्षस्थलनित्यवासिनि सदा श्रीवेदवल्याह्वये । वृन्दारण्यनिवासियोगिसदने सम्भूय वारान्निधे- र्मन्नाथामरभूरुहेण सहिते नैशं प्रभातं शुभम् ॥ २॥ श्रीमद्वेदलतां श्रितामृतलतां वृन्दावने संस्थितां सम्यग्दृष्टपरावरेण मुनिना संवर्धितां तद्धिताम् । लब्ध्वा तां समुपेत्य दुग्धजलधेस्तद्दत्तनामा वसन् मन्नाथाश्रितकल्पभूरुहविभो ते सुप्रभातं हरे ॥ ३॥ समस्तकल्याणगुणैकधाम्नः स्वशक्तिलेशोद्धृतभूतलस्य । प्रह्लादभक्तेः परिवर्धकस्य मन्नाथनाम्नस्तव सुप्रभातम् ॥ ४॥ श्रीमत्कैरविणीसरोवरतटे नित्यं तपः कुर्वते सम्यग्ज्ञानवतां वराय भृगवे दत्वा त्वभीष्टं वरम् । लब्ध्वा तस्य सुतां जगत्त्रयमुदे तस्मै प्रसन्नस्य ते मन्नाथाद्य हि सुप्रभातमखिलांस्त्रातुं प्रसीद प्रभो ॥ ५॥ श्रीमन् धरापरविमोचनदीक्षितं त्वां सम्बोधयन्ति विधिशङ्करशक्रमुख्याः । स्वामिन् जगत्त्रयविभो यदुवंशनाथ श्रीपार्थसूत भगवंस्तव सुप्रभातम् ॥ ६॥ भास्वान् विकासयति पङ्कजकुड्मलानि पद्माकरेषु परिकूजितसारेसेषु । कूजन्ति पञ्जरशुकाः सह सारिकाभिः श्रीपार्थसूत भगवंस्तव सुप्रभातम् ॥ ७॥ वीणां प्रगृह्य मुनिवाहनयोगिवर्यो गानं करोति सह तुम्बुरुनारदाद्यैः । var तुम्बुरुनारदाद्याः सङ्गीतवाद्यनिपुणास्तव सुप्रभात- गाथाः पठन्ति यदुनन्दन सुप्रभातम् ॥ ८॥ ब्रह्मादयस्सुरपतिप्रमुखा दिगीशाः स्वस्वाधिकारनियतास्तव सैन्यनाथाः । संप्रार्थयन्ति तव सद्मपुरोविभागे श्रीपार्थसूत भगवंस्तव सुप्रभातम् ॥ ९॥ गोपाङ्गनास्तव हि मङ्गलगीतकानि गायन्ति कामशरपीडितगात्रयष्ट्यः । गोपालबालककुलानि विसृज्य वत्सान् त्वां प्रार्थयन्ति यदुशेखर सुप्रभातम् ॥ १०॥ स्नेहप्रतिस्नुतपयोधरपारयुक्ताः गावः स्ववत्ससहिताः परितोषयुक्ताः । वत्सान् विसृज्य च पयः परिदोहयन्ति गोपालकास्तव यदूद्वह सुप्रभातम् ॥ ११॥ वृन्दावने विहरतां पशुपालकानां रक्षार्थमात्तवरवेत्र सुशङ्खपाणे । भ्रात्रा समेत सुमनोहर भूषणार्ह प्रोत्तिष्ठ पार्थरथपालक सुप्रभातम् ॥ १२॥ वृन्दावनान्तरमनोज्ञवनान्तरेषु नानातरुप्रवरशोभिजलाशयेषु । कूजद्विहङ्गमगणेषु मधुव्रतानि गायन्ति पार्थरथनायक सुप्रभातम् ॥ १३॥ मन्दारकुन्दवरकैतकमाधवीनां आमोदनिर्भरवनान्तरनिस्सृतोऽसौ । मन्दानिलः प्रसरति प्रवरः प्रभाते श्रीपार्थसूत भगवंस्तव सुप्रभातम् ॥ १४॥ सम्फुल्लकैरवसरोवरनीरसंस्थाः हंसास्सचक्रमिथुनास्सह सारसैश्च । तीरे तु देशिकगणैस्सह संविवादान् तन्वन्ति पार्थरथनायक सुप्रभातम् ॥ १५॥ तद्देशिकाः सकलशास्त्रविदां वरिष्ठाः त्वत्प्रोक्तदिव्यचरमार्थनिविष्टभावाः । कासारयोगिमुखदेशिकसूक्तिनिष्ठाः तिष्ठन्ति किङ्करकृतौ तव सुप्रभातम् ॥ १६॥ श्रीभट्टनाथकृतिभिस्तव मङ्गलानि शंसन्ति देशिकवरास्त्वमितप्रभावाः । गोदासुसूक्तिभिरपि प्रविबोधयन्ति श्रीपार्थसूत भगवंस्तव सुप्रभातम् ॥ १७॥ सूर्योदये ग्रहगणास्त्वितरे सुरेन्द्राः आज्ञां तवैव निजवैभवसंप्रयुक्ताः । संप्रार्थ्य तोषितुमिहाद्य जगत्पतिं त्वां तिष्ठन्ति पार्थरथनायक सुप्रभातम् ॥ १८॥ नित्यार्चनां रचयितुं विविधोपहारान् वस्तूनि वस्त्रवरदिव्यविभूषणानि । सङ्गृह्य वैदिकशिखामणयः प्रभाते तिष्ठन्ति पार्थरथभूषण सुप्रभातम् ॥ १९॥ काश्मीरकेसरयुतं हरिचन्दनञ्च कस्तूरिकां च घनसारवरं गृहीत्वा । द्वारि स्थितास्तव हि दासगणास्समस्ताः श्रीपार्थसूत भगवंस्तव सुप्रभातम् ॥ २०॥ सम्फुल्लपङ्कजनवोत्पलकैरवाणि सच्चम्पकैर्मरुवकैः कृतमालिकानि । सङ्गृह्य तावकसमर्चनमादरेण तिष्ठन्ति कर्तुमनघास्तव सुप्रभातम् ॥ २१॥ भाग्याधिकास्तव पदाब्जनिविष्टभावाः पीताम्बराण्यपरिमेयविभूषणानि । रत्नानि काञ्चनयुतानि समर्पयन्ति श्रीपार्थसूत भगवंस्तव सुप्रभातम् ॥ २२॥ प्रातःप्रयुक्तनवनीतपयःफलानि मुद्गान्नलड्डुकमनोहरमिश्रितानि । सोपायनानि च समर्पयितुं यतन्ते श्रीवैष्णवास्तव यदूद्वह सुप्रभातम् २३॥ भेरीमृदङ्गपटहानकगोमुखादि- वाद्यानि घोषयति दासगणस्तवाग्रे । तिष्ठन्ति नर्तनपरा गणिकास्समस्ताः श्रीपार्थसूत भगवंस्तव सुप्रभातम् २४॥ हस्तीन्द्रमूर्ध्नि धृतकाञ्चनकुम्भतीर्थं छत्रावृतं विधृतचामरयुग्ममारात् । श्रीमन् प्रभो तव हि मङ्गलमज्जनाय श्रीपार्थसूत भगवंस्तव सुप्रभातम् ॥ २५॥ एकान्तिनश्च विमलाशययोगिवर्याः अध्यापकास्तव पदाब्जनिविष्टभावाः । तिष्ठन्ति सन्निधिमुपेत्य भवत्पदाब्जे सेवार्थमर्जुनसखे तव सुप्रभातम् ॥ २६॥ त्वत्सेवनाय सकलद्रविडागमानां वक्ता पराङ्कुशमुनिस्स्वपदप्रपन्नैः । रामानुजोऽपि कृतनित्यसमस्तकृत्यः त्वद्द्वारि तिष्ठति विभो तव सुप्रभातम् ॥ २७॥ उत्तिष्ठ लक्ष्मणगुरो सह सीतयाऽद्य धर्मं विवर्धय विभो जय पालयास्मान् । दासान् कुरुष्व सहसा तव किङ्करांश्च ते सुप्रभातमधुना रघुवंशनाथ ॥ २८॥ श्रीमन् गजेन्द्रवरदाश्रितपारिजात श्रीवैनतेयभुजमूलविभूषणाढ्य । इन्द्रादिदेवगणपूजितपादपद्म श्रीमन् वरप्रद सुरेश्वर सुप्रभातम् ॥ २९॥ श्रीमन् नृसिंह जगतां जनिहेतुभूत सम्पालनान्तकरणादिषु जागरूक । अन्तःप्रविश्य च नियन्तृतया भवास्मान् श्रीमन् नृसिंह भगवंस्तव सुप्रभातम् ॥ ३०॥ श्रीमन् नृसिंह तव मङ्गलमस्तु नित्यं सूर्येन्दुतारकसमानमहःप्ररोहैः । नैशं तमःप्रसरमान्तरमप्यपास्तं स्वामिन् नृसिंह भगवंस्तव सुप्रभातम् ॥ ३१॥ काव्योऽपि पूर्वदिशि संस्थितपर्वतस्थो वाचां पतिर्हिमकरोऽस्तमितो बभूव । पक्षी निनादमपि पञ्जरगः करोति श्रीमन् नृसिंह भगवंस्तव सुप्रभातम् ॥ ३२॥ श्रीपार्थसारथि रघूत्तम वेदवल्ली- मन्नाथ सौम्यनरसिंहवरप्रदानाम् । ये सुप्रभातमनिशं प्रपठन्ति तेषां ब्रह्मेश्वराद्यसुलभं सुलभं पदं स्यात् ॥ ३३॥ इति श्रीपार्थसारथि सुप्रभातम् । Proofread by PSA Easwaran
$1
% Text title            : Parthasarathi Suprabhatam
% File name             : pArthasArathisuprabhAtam.itx
% itxtitle              : pArthasArathisuprabhAtam
% engtitle              : pArthasArathisuprabhAtam
% Category              : vishhnu, suprabhAta, krishna
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : NA
% Proofread by          : NA, PSA Easwaran
% Indexextra            : (Scan)
% Latest update         : May 23, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org