पीठस्तोत्रम्
पीठस्तोत्रमहं वक्ष्ये श्रीशार्चाफलसिद्धये ।
येनास्य परिवाराणां देवानां स्यात्समर्चनम् ॥ १॥
चिदानन्दमयभक्तिज्ञानसौरभसम्पदी ।
कारुण्याम्बुधिसञ्जाते गुरुपादाम्बुजे नमः ॥ २॥
शब्दार्थचरणस्तर्कमध्यो योगहृदन्तरः ।
वेदान्तवदनस्तस्मै हरये गुरवे नमः ॥ ३॥
षड्गुणैश्वर्यसम्पन्नं हरिलीलैकसाक्षिणम् ।
प्रपन्नजनमन्दारमाचार्यं प्रणमाम्यहम् ॥ ४॥
भजनानन्दलब्ध्यर्थं भक्तवृन्दैरुपासितम् ।
श्रीनन्दनन्दनात्मानं वन्दे वन्दारुवत्सलम् ॥ ५॥
अविघ्नं कुरु मे नाथ अर्चनाज्ञां प्रदेहि मे ।
तव पादाम्बुजध्यानात्सफलं स्यात्स्वपूजनम् ॥ ६॥
तवैव पूजनं ह्येतत् श्रीमतो वानुशासनम् ।
तवैवातः प्रसादोऽस्तु त्वदीयोऽहं सदा भवे ॥ ७॥
मनो भगवतेऽनन्त महापुरुषरूपिणे ।
समस्तु गुणसङ्ख्यानायां व्यक्ताय च विष्णवे ॥ ८॥
नमो धरायै जगतां सर्वरत्नमहेश्वरि ।
सर्वंसहायै दिव्यायै विष्णुपत्न्यै नमोऽस्तु ते ॥ ९॥
नमः क्षीरसुधासिन्धो अग्निरुद्धाश्रयाय ते ।
विशुद्धैश्चर्यविज्ञानशालिने हरये नमः ॥ १०॥
वैकुण्ठाय नमो नित्यं विरजायै नमो नमः ।
नन्दनाय नमो विष्णोः सुनन्दादिभ्य एव च ॥ ११॥
ब्रह्मणे विष्णवे चापि शिवाय रवये नमः ।
मथुरामण्डलायाथो श्रीमतेऽस्तु नमो नमः ॥ १२॥
नमो वृन्दे च सङ्केते वने कात्यायनि परे ।
मथुरे नववारे च चतुर्वारे महेश्वरि ॥ १३॥
योगमाये नमस्तुभ्यं गोकुलाय नमो नमः ।
नन्दाद्रये तथानन्दाद्रये कामाद्रये नमः ॥ १४॥
गोवर्द्धनाय चरणाद्रये नित्यं नमो नमः ।
अक्षरब्रह्मरूपायै स्वर्णभूम्यै नमो नमः ॥ १५॥
वेदाय ऋग्यजुःसामाथर्वज्ञानभुवे नमः ।
भक्त्यै नमस्तदङ्गेभ्यः श्रवणेभ्यो नमो नमः ॥ १६॥
नमः सर्वात्मभावाय प्रेम्णे नित्यं नमो नमः ।
सर्वोपनिषदानन्दरसायै सरिते नमः ॥ १७॥
ऐश्वर्येभ्यो नमस्तस्यानुग्रहाय नमो नमः ।
महानुभावभावाय प्रभवाय नमो नमः ॥ १८॥
योगसंशुद्धहृत्पद्मं नत्वा श्रीव्रजभृद्वधूः ।
निचोलाय नमो नित्यं पीठाय हरये नमः ॥ १९॥
नमो मानसगङ्गायै पानमानरतीन्दुषु ।
सरस्सु च नमश्चाथ नमः कुसुमपुष्करम् ॥ २०॥
हरये भानवे जातपीतपुष्करयोर्नमः ।
अथेशपुष्करं नत्वा कालिन्दिन्यै नमो नमः ॥ २१॥
नमोऽस्तु दशकूपेभ्यस्तडागेभ्यो नमो नमः ।
नमः षोडशघट्टेभ्यो नमेत्कुण्डोनषष्टिषु ॥ २२॥
द्वादशेभ्यो वनेभ्यश्च तथोपवनकान्नमेत् ।
नमो दशवटेभ्यश्च चतुस्तापिच्छिकान्नमेत् ॥ २३॥
वन्दिन्यैश्च नमश्चाथ आनन्दिन्यै नमो नमः ।
प्रभुप्रियायै स्वामिन्यै वल्लभायै नमो नमः ॥ २४॥
खगेश्चराय मन्दाराद्यायुधेभ्यो नमो नमः ।
दामभ्यो बहुलाश्वादिभ्यो यदुभ्यो नमः ॥ २५॥
प्रभुप्रियायै स्वामिन्यै वल्लभायै नमो नमः ।
पाथेभ्यश्चोद्धवादिभ्यो भक्तेभ्योऽपि नमो नमः ।
कुशस्थलनिवासिभ्यो मन्त्रिभ्योऽपि नमो नमः ॥ २६॥
वसुदेवाय देवक्यै सहजाभ्यां नमो नमः ।
पत्नीभ्यो महिषीभ्यश्च तत्प्रियाभ्यो नमो नमः ॥ २७॥
नमो यशोदानन्दाभ्यां नमो गोपालबालयोः ।
यमुनायै सखिभ्यश्च गोभ्यो नित्यं नमो नमः ॥ २८॥
सिद्धाभ्यो दमनेभ्यश्च शक्तिभ्योऽपि नमो नमः ।
स्वात्मगोपालकेभ्यश्च स्वप्रियाभ्यो नमो नमः ॥ २९॥
परमानन्दरूपाय श्रीनाथाय नमो नमः ।
नमो निखिलगोविन्दपरिवारात्मने नमः ॥ ३०॥
पीठस्तोत्रमिदं पुण्यं यः पठेद्वैष्णवो जनः ।
ध्यायंस्तत्प्रातरुत्थाय तस्य स्यान्मनसेप्सितम् ॥ ३१॥
इति श्रीशाण्डिल्यसंहितायां पञ्चमे भक्तिखण्डे षोडशोऽध्याये
पीठस्तोत्रं सम्पूर्णम् ।
Proofread by Manish Gavkar