पीठस्तोत्रम्
देवा देवेश्वराद्याश्च ऋषयो ऋषिसत्तमाः ।
पृथगेवोपदेष्टारस्तेषां पीठं पृथक् पृथक् ॥ १॥
मनुष्येश्वरावतारा ये आचार्या मुरवैरिणः ।
पारम्पर्यागतं तेषां पीठमेकं विशिष्यते ॥ २॥
यथा महीभृतां पीठं जगतां पालनाय वै ।
तथैवादेशिकानां च पीठं धर्मप्रवृत्तये ॥ ३॥
पीठस्थ एव भूपालो यथा न्यायप्रवर्तकः ।
तथा पीठस्थिताचार्यो योग्यो धर्मप्रवृत्तये ॥ ४॥
पीठस्थितो यथा राजा मान्यो देवैर्नरैरपि ।
तथा पीठस्थिताचार्यः पूज्यः स्यान्न विना च तम् ॥ ५॥
यदा विलुप्यते पीठं पारम्पर्यक्रमागतम् ।
देशकालप्रमादाद्यैस्तदा नूत्नं विधीयते ॥ ६॥
देवर्षीणां च पूर्वेषां मन्त्रं वा नाममन्त्रकम् ।
संयोज्य पीठमन्त्रेण पीठं संस्थापयेत्सुधीः ॥ ७॥
राजपीठाङ्गवद्राजपीठाङ्गैः पीठमर्चयेत् ।
अथवा भावनामात्रैः पूर्वोक्तं वा यथेप्सितम् ॥ ८॥
अथवा सप्तदशभिर्यन्त्रैर्मन्त्रैर्निरूपितम् ।
संराडाचार्यपीठं स्यात्समर्च्यं नित्यमेव तत् ॥ ९॥
तस्य दक्षिणपार्श्वे तु कुर्याद्यन्त्रचतुष्टयम् ।
तत्त्वतत्त्वेशर्षिदेवैरुपदेवैस्तदिष्यते ॥ १०॥
वामे पार्श्वे चतुर्यन्त्री कुर्यात्साधकसत्तमः ।
स्वरैर्वर्णैर्मन्त्रबीजैः पदैर्मानस्य सम्भवात् ॥ ११॥
पुरतः पदके तत्र पुनर्यन्त्रचतुष्टयम् ।
गायत्र्या निगमानां च तथा वै शास्त्रमन्त्रयोः ॥ १२॥
मध्ये सिद्धिनिधीयन्त्रमासनं तत्र कल्पयेत् ।
गोपालयन्त्रराजं च पृष्ठे तस्याग्रतो भवेत् ॥ १३॥
सङ्ख्यायन्त्रं चाङ्कयन्त्रं पृष्ठे पीठस्य पृष्ठतः ।
अधर्मचक्रं चक्रस्याधस्थं मूर्ध्नि गुरुर्विशेत् ॥ १४॥
गोपालोपासकानां च एतत्सिंहासनं मतम् ।
सौवर्णं राजतं ताम्रं काष्ठमाश्मं च मृन्मयम् ॥ १५॥
असम्भवे भावनैव मन्त्रादीनां विधीयते ।
उत्सेधः परिणाहश्च शास्त्रतो वाप्यभीप्सितः ॥ १६॥
आचार्यकुलसम्भूत आचार्यगुणसंश्रयः ।
स्थित्वैव तत्त्वमाचार्या योग्यो व्याख्योपदेशयोः ॥ १७॥
समृद्धयोऽस्य वर्द्धन्ते प्रतापोऽस्य यतो महान् ।
आचार्यतो हरेर्भक्तिर्विरक्तिरपि जायते ॥ १८॥
एतत्सिंहासनं दिव्यं राज्ञा शिष्यैश्च सम्मतैः ।
पूजितं मननीयं स्यादाचार्यः साम्प्रदायिकः ॥ १९॥
व्याससिंहासनं चान्यद्दीयते ऋषिभिर्द्विजैः ।
रोमहर्षणये यद्वच्छास्त्रव्याख्याकृतेऽर्पितम् ॥ २०॥
संश्रयेद् ब्राह्मणो विद्वान्सूतो नैव विलोमजः ।
मन्त्रयोः प्रातिलोम्येन मखें जातस्तथोच्यते ॥ २१॥
विनन्दन्निजकाण्डार्थं पाञ्चरात्रं सदागमम् ।
वदन् स्वसंहितां गर्वाज्जज्ञे सङ्कर्षणश्च तम् ॥ २२॥
आचार्यं मानयेद्धीमान्मनसा कर्मणा गिरा ।
पञ्चाक्षरी महामन्त्रयन्त्रं स्थित्वा स्वयं हरिः ॥ २३॥
इत्थं पीठस्य माहात्म्यं ज्ञात्वा पीठं समाश्रितम् ।
राधिकायै ददौ पूर्वं ललितायै च सा ददौ ॥ २४॥
सा मह्यमददाद् देवी वागीशाय सदस्पतिः ।
सङ्कल्पमस्य सङ्कल्प्य चरितं च महात्मनाम् ॥ २५॥
पञ्चाक्षरं चाष्टवर्णं तथैवाष्टादशाक्षरम् ।
नारायणाय शेषाय स ददौ त्रिपुरारये ॥ २६॥
दशार्णेन च संयुक्तान्सोऽदान्मन्त्रान्सुरर्षये ।
द्वादशार्णेन संयुक्तान्तान् व्यासाय ददावसौ ॥ २७॥
नमः पीठाय महते आचार्याय नमो नमः ।
उपदेशाय मन्त्रेभ्यः शिष्येभ्यश्च नमो नमः ॥ २८॥
छत्रायामृतवर्षाय वारणायातपस्य च ।
नमश्चामरयुग्माय शङ्खयुग्माय वै नमः ॥ २९॥
वादित्रेभ्यो नमस्तस्य दरारिभ्यां नमो नमः ।
ज्योतिर्युग्मायान्धकारमर्दनाय नमो नमः ॥ ३०॥
मायूरहस्तकद्वन्द्वस्वर्णवेत्रयुगं नमः ।
रूप्यं वेत्रयुगं भव्यं हरिवक्त्रचतुष्टयम् ॥ ३१॥
आर्यसिंहासनं वन्दे केतुध्वजविराजितम् ।
नीराजमानं यः पश्येत्प्रणमेत्स हरिं व्रजेत् ॥ ३२॥
(५६-८७)
इति श्रीशाण्डिल्यसंहितायां पञ्चमे भक्तिखण्डे तुरीयांशे
साम्प्रदायिकस्तोत्रनिरूपणं नामैकादशोऽध्याये पीठस्तोत्रं सम्पूर्णम् ।
Proofread by Manish Gavkar