पृथिवीकृतं २ विष्णुस्तोत्रम्
पृथिव्युवाच ।
नमस्ते पुण्डरीकाक्ष शङ्खचक्रगदाधर
मामुद्धरास्मादद्य त्वं त्वत्तोऽहं पूर्वमुत्थिता ॥ १२॥
त्वयाहमुद्धृता पूर्वं त्वन्मयाहं जनार्दन ।
तथान्यानि च भूतानि गगनादीन्यशेषतः ॥ १३॥
नमस्ते परमात्मात्मन्पुरुषात्मन्नमोऽस्तु ते ।
प्रधानव्यक्तभूताय कालभूताय ते नमः ॥ १४॥
त्वं कर्ता सर्वभूतानां त्वं पाता त्वं विनाशकृत् ।
सर्गादिषु प्रभो ब्रह्मविष्णुरुद्रात्मरूपधृक् ॥ १५॥
सम्भक्षयित्वा सकलं जगत्येकार्णवीकृते ।
शेषे त्वमेव गोविन्द चिन्त्यमानो मनीषिभिः ॥ १६॥
भवतो यत्परं तत्त्वं तन्न जानाति कश्चन ।
अवतारेषु यद्रूपं तदर्चन्ति दिवौकसः ॥ १७॥
त्वामाराध्य परं ब्रह्म याता मुक्तिं मुमुक्षवः ।
वासुदेवमनाराध्य को मोक्षं समवाप्स्यति ॥ १८॥
यत्किञ्चिन्मनसा ग्राह्यं यद्ग्राह्यं चक्षुरादिभिः ।
बुद्ध्या च यत्परिच्छेद्यं तद्रूपमखिलं तव ॥ १९॥
त्वन्मयाहं त्वदाधारा त्वत्सृष्टा त्वत्समाश्रया ।
माधवीमिति लोकोऽयमभिधत्ते ततो हि माम् ॥ २०॥
जयाखिलज्ञानमय जय स्थूलमयाव्यय ।
जयानन्त जयाव्यक्त जय व्यक्तमय प्रभो ॥ २१॥
परापरात्मन्विश्वात्मञ्जय यज्ञपतेऽनघ ।
त्वं यज्ञस्त्वं वषट्कारस्त्वमोङ्कारस्त्वमग्नयः ॥ २२॥
त्वं वेदास्त्वं तदङ्गानि त्वं यज्ञपुरुषो हरे ।
सूर्यादयो ग्रहास्तारा नक्षत्राण्यखिलं जगत् ॥ २३॥
मूर्तामूर्तमदृश्यं च दृश्यं च पुरुषोत्तम
यच्चोक्तं यच्च नैवोक्तं मयात्र परमेश्वर ।
तत्सर्वं त्वं नमस्तुभ्यं भूयो भूयो नमो नमः ॥ २४॥
इति विष्णुपुराणे प्रथमभागे चतुर्थाध्यायान्तर्गतं
पृथिवीकृतं विष्णुस्तोत्रं समाप्तम् ।
विष्णुपुराण । अध्याय १/४/१२-२४॥
viShNupurANa . adhyAya 1/4/12-24..
Proofread by PSA Easwaran