पूर्णब्रह्मस्तोत्रगीतम्
पूर्णचन्द्रमुखं निलेन्दुरूपं
उद्भाषितं देवं दिव्यस्वरूपं
पूर्णं त्वं स्वर्णं त्वं वर्णं त्वं देवं
पिता-माता-बन्धु त्वमेव सर्वं
जगन्नाथस्वामी भक्तभावप्रेमी नमाम्यहं
जगन्नाथस्वामी भक्तभावप्रेमी नमाम्यहम् ॥ १॥
कुञ्चितकेशं च सञ्चितवेशं
वर्तुलस्थूलनयनं ममेशं
पिनाकनीनाका नयनकोशं
आकृष्ट ओष्ठं च उत्कृष्ट श्वासं
जगन्नाथस्वामी भक्तभावप्रेमी नमाम्यहं
जगन्नाथस्वामी भक्तभावप्रेमी नमाम्यहम् ॥ २॥
नीलाचले चञ्चलया सहितं
आदिदेव निश्चलानन्दे स्थितं
आनन्दकन्दं विश्वविन्दुचन्द्रं
नन्दनन्दनं त्वं इन्द्रस्य इन्द्रं
जगन्नाथस्वामी भक्तभावप्रेमी नमाम्यहं
जगन्नाथस्वामी भक्तभावप्रेमी नमाम्यहम् ॥ ३॥
सृष्टि-स्थिति-प्रलय सर्वमूलं
सूक्ष्मातिसुक्ष्मं त्वं स्थूलातिस्थूलं
कान्तिमयानन्तं अन्तिमप्रान्तं
प्रशान्तकुन्तलं ते मूर्त्तिमन्तं
जगन्नाथस्वामी भक्तभावप्रेमी नमाम्यहं
जगन्नाथस्वामी भक्तभावप्रेमी नमाम्यहम् ॥ ४॥
यज्ञ-तप-वेदज्ञानात् अतीतं
भावप्रेमछन्दे सदावशित्वं
शुद्धात् शुद्धं त्वं च पूर्णात् पूर्णं
कृष्णमेघतुल्यं अमूल्यवर्णं
जगन्नाथस्वामी भक्तभावप्रेमी नमाम्यहं
जगन्नाथस्वामी भक्तभावप्रेमी नमाम्यहम् ॥ ५॥
विश्वप्रकाशं सर्वक्लेशनाशं
मन-बुद्धि-प्राण-श्वासप्रश्वासं
मत्स्य-कूर्म-नृसिंह-वामनः त्वं
वराह-राम-अनन्त-अस्तित्वं
जगन्नाथस्वामी भक्तभावप्रेमी नमाम्यहं
जगन्नाथस्वामी भक्तभावप्रेमी नमाम्यहम् ॥ ६॥
ध्रुवस्य विष्णु त्वं भक्तस्य प्राणं
राधापति देव हे आर्त्तत्राणं
सर्वज्ञानसारं लोकाधारं
भावसञ्चारं अभावसंहारं
जगन्नाथस्वामी भक्तभावप्रेमी नमाम्यहं
जगन्नाथस्वामी भक्तभावप्रेमी नमाम्यहम् ॥ ७॥
बलदेव-सुभद्रा पार्श्वे स्थितं
सुदर्शनसङ्गे नित्यशोभितं
नमामि नमामि सर्वाङ्गे देवं
हे पूर्णब्रह्म हरि मम सर्वं
जगन्नाथस्वामी भक्तभावप्रेमी नमाम्यहं
जगन्नाथस्वामी भक्तभावप्रेमी नमाम्यहम् ॥ ८॥
कृष्णदासहृदि भावसञ्चारं
सदा कुरु स्वामी तव किङ्करं
तव कृपा बिन्दु हि एक सारं
अन्यथा हे नाथ सर्व असारं
जगन्नाथस्वामी भक्तभावप्रेमी नमाम्यहं
जगन्नाथस्वामी भक्तभावप्रेमी नमाम्यहम् ॥ ९॥
रचयिता -- श्रीकृष्णदासः