श्रीपूर्णत्रयीशस्तोत्रम्

श्रीपूर्णत्रयीशस्तोत्रम्

पूर्णत्रय्याख्यपुर्यां हरिभवननिभे स्वालये सन्निषण्णः पीठे हैमे स कृष्णः फणिवरलसितो हारकोटीरधारी । केयूरैः कुण्डलैस्तैर्मणिवरकटकैर्भूषणैर्भासुराङ्गो माटश्रीरामभूपं कठिनकवचधृक् पातु पूर्णत्रयीशः ॥ १॥ पूर्वं यः कंसहेतोर्निजपितृजननीभ्यां स्तुतो बालकृष्णो जातः पित्रा निशायां व्रजपतिरमणीसूतिकागेहमध्यम् । सन्नीतः स्वीयताते व्रजपतितनयां सम्प्रयाते गृहीत्वा माटश्रीरामभूपं मृदुहसनपरः पातु पूर्णत्रयीशः ॥ २॥ बालघ्नी पूतना सा शिशुहननकृते प्रेषिता नन्दगेहं कंसेन क्रूरबुद्ध्या यदुपतितनयं शङ्कमानेन कृष्णम् । सम्प्राप्य स्तन्यदुग्धं निजमुखकमले दातुकामां सजीवं स्तन्यं पीत्वाहनत्तां नृपकुलतिलकं पातु पूर्णत्रयीशः ॥ ३॥ हेमाढ्ये तल्पवर्ये व्रजपतिसुदृशा शायितो जातनिद्रः तत्काले चागतं तं शकटदितिसुतं योगदृष्टया निशाम्य । स्तन्यार्थी रुद्यमानो निजचरणयुगेनोक्षिपन् दैत्यहेयं (दैत्यदेहं) च्छिन्नाभिन्नाङ्गसन्धिं त्वतनुत स नृपं पातु पूर्णत्रयीशः ॥ ४॥ कंसेन प्रेषितं तं निजहननविधौ चक्रवातस्वरूपा- दात्मानं सङ्गृहीत्वा गतमपि च तृणावर्त नामानमाशु । कण्ठे निष्पीड्य कोपाद्विगलितरसनं शीर्णनेत्रं व्यधाद्यः सोऽयं तं रामभूपं गुणनिधिमनिशं पातु पूर्णत्रयीशः ॥ ५॥ कस्मिन् काले तु गोपैर्यदुपतितनयो रामकृष्णौ च पांसु- क्रीडां सञ्चक्रतुस्ते मृदुमिति बुभुजे चीचिरे नन्दपत्न्यै । दृष्ट्वा पुत्रस्य वक्त्रं त्रिभुवनसहितं नन्दपत्नी सुभीता तां पश्यन मन्दहासं बहुतरमतनोत् पातु पूर्णत्रयीशः ॥ ६॥ बालोऽसौ गोपगेहे व्रजकुलरमणीष्वन्यरोहं गतासु पीठे पीठं विनिक्षिप्य च शिशुमपरं पृष्ठभागेऽस्य तिष्ठन् । भित्त्वा शिक्यस्थभाण्डं त्वमृतरससमं पीतवानाशु दुग्धं माटश्रीरामभूपं शशिनिभवदनं पातु पूर्णत्रयीशः ॥ ७॥ अङ्क त्वारुह्य मातुर्द्रुततरमथनं चावरुध्य प्रवृत्तं स्तन्यं पातुं निजाङ्कात् ॥ जननीं स्थापयित्वा च चुल्ल्याम् । क्षिप्तं दुग्धं ग्रहीतुं त्वगमदथ दृषद्भिन्नपात्रः प्रयातो हृत्वा हैयङ्गवीनं नृपगणिमपि यः पातु पूर्णत्रयीशः ॥ ८॥ सम्प्राप्योलूखलाग्रं निभृतपदमदं तं च हैयङ्गवीनं मर्केभ्यः सम्प्रदाय द्रुततरनयनं वीक्ष्य तिष्ठन्तमारात् । भिन्नं दध्नोऽपि भाण्डं निजकरमथ सङ्गृह्य बद्धस्तु दाम्ना गोपस्त्रीभिः स कृष्णो नृपममलधियं पातु पूर्णत्रयीशः ॥ ९॥ आकृष्योलूखलं यः करचरणयुगैश्चङ्क्र्मन् बालकृष्णः सन्दृष्ट्वा शापहेतोर्धनपतितनयौ भूरुहत्वं प्रपन्नौ । भित्वा चोलूखलात्तौ धृतनिजवपुषौ प्रेष्य पश्चात् स्वलोकं वृक्षस्थो मन्दहासं बहुतरमतनोत् पातु पूर्णत्रयीशः ॥ १०॥ गोप्यस्ता नन्दपत्नीं निजगदुरथ ते पुत्र आगत्य गेहं वत्सान् बद्धान विमुञ्चत्यथ पिबति पयस्तक्रभाण्डं भिनत्ति । पश्चाद्धैयङ्गवीनं हरति परिहसन् बालमुन्मर्द्य याती- त्येवं चाक्रुश्य याता हसति स च वधूः पातु पूर्णत्रयीशः ॥ ११॥ वीथ्यां क्रीडन् स रामो निजपितृजननीभ्यां मुदालङ्कृताङ्गः क्रीणीध्वं सत्फलानीत्यथ वचनमहो क्रीणयित्र्या निशम्य । धान्यान्यादाय दत्त्वा त्ववददथ स तां मानय त्वं फलानि धान्यानीत्थं गृहीत्वा फलमथ बुभुजे पातु पूर्णत्रयीशः ॥ १२॥ दृष्ट्वा ह्युत्पातसङ्घान् व्रजपतिरभितो तत्र वस्तुं हि नालं निश्चित्यैवं स गोपैर्व्रजकुलरमणीभिश्च गोभिः समेतः । वृन्दारण्यं प्रपेदे त्वथ हरिरभजत् गोपवत्सैर्घनान्ते तिष्ठन् गच्छन् हसन् यो मुदमिममल पातु पूर्णत्रयीशः ॥ १३॥ वृन्दाकान्तारमध्ये पशुगणमभितश्चारयन् रामयुक्तो दृष्ट्वा दैत्यं बकं स्वग्रसनपरमथो हासयित्वात्मदेहम् । दग्ध्वा गत्वा तत्तालुमूलं तदनु दितिसुतं छिद्यमानस्तमेनं द्वेधा कृत्वा सतुण्डात् मुदमगमदुं पातु पूर्णत्रयोशः ॥ २४॥ कस्मिन् काले दु गोपा वनभुवमगमन् चारयन्तोऽथ वत्सान् लीलार्थं भूषयन्तः स्तबकफलसुमैः काचगुञ्जाफलैः स्वान् । दध्मुः श‍ृङ्गाणि वेणून् पिकरुतमपरे चक्रिरे कीशचेष्टां गायन्तस्तांश्च पश्यन् मुदमगमदसौ पातु पूर्णत्रयीशः ॥ १५॥ तस्मिन् वृन्दावनान्ते व्रजकुलतिलकोऽघासुर भोगिरूपं तद्वत् क्रान्तः प्रविष्टान् ब्रजशिशुपशुकान् वीक्ष्य चान्तः प्रविश्य । वृद्धिं गत्वा तदास्ये तदुदरवसतः प्राणवातान्निरस्या- रक्षत्तान् गोपवत्सानमृतमयदृशा पातु पूर्णत्रयीशः ॥ १६॥ गास्तास्ता वत्सयुक्ता वनभुवमभितश्चारयन् गोपबालै- र्वेणुं श‍ृङ्गं च कूजन् श्रममगमदिने मध्यकालं प्रपन्ने । बद्ध्वा तद्भानुपुत्रीतटभुवि पुलिने चाधिनिक्षिप्य गोपैः भुञ्जन नृत्यन् हसन् यो मुदमगमदमुं पातु पूर्णत्रयीशः ॥ १७॥ तत्काले लोककर्ता पशुकुलमनयच्चान्यदेशं तदानीं याते कृष्णे विचेतुं त्वनयदपि शिशून् गाश्च गोपांश्च दृष्टा । कृत्वात्मान द्विधा यः पशुशिशुवपुषं गोत्रवर्णस्वरूपं तत्तद्गेहं प्रविष्टः स्मितमुखकमलः पातु पूर्णत्रयीशः ॥ १८॥ मुञ्ज ... न्नृण परीतो गोकुलै गोपसङ्घा गावस्तास्ते न दृष्ट्वा यदुकुलपतये प्रोचुराराद्भ्रमन्तः । तच्छ्रुत्वाहूयमाना यदुकुलतिलकेनाययुस्ताः स्वनाम्ना दृष्ट्वा यः प्राप मोदं नरवरमनघं पातु पूर्णत्रयीशः ॥ २६॥ मुञ्जारण्ये समन्ताद्विपिनमुखभको धूमकेतुर्दवाग्निः सर्वान् वृक्षान परीत्य द्रुततरमुदभूज्जिह्वया लेलिहानः । दृष्ट्वा गा वत्रायुक्ता व्रजकुलतनयाश्चुक्रुशुः कृष्णरामौ तद्दृष्टिं मीलयित्वा स्वयमपिबदमुं पातु पूर्णत्रयीशः ॥ २७॥ कृष्णायाः कूलदेशे निशि पशुपसुता भूरि सम्भूय कृष्णं गायन्त्यः प्रार्थयानाः पतिमिति नितरां कामतप्ता जगुस्ताः । त्वन्नाथास्त्वां भजामः कृणु पदमयि नः कामतप्तस्तनेषु चेत्येवं प्रार्थितस्तास्त्वभजत कृपया पातु पूर्णत्रयीशः ॥ २८॥ चापस्थेऽर्केऽर्कपुत्र्यास्तटभुवि वसनान्याशु सङ्क्षिप्य नीरं संयाता गोपिकास्ता द्रुततरमपहृत्यांशुकान्याप वृक्षम् । गृह्णीध्वं चेत्यनुक्त्वा (चैनमद्धा) वसनगणमथेत्युक्तवन्तं समीक्ष्य मुग्धास्ता भूरिलज्जास्त्वपगतमतयो नम्रमुल्यो बभूवुः ॥ २९॥ भूयस्तास्त्वेत्य शीघ्रं करतलबसनैर्यो निमाच्छाद्य नेमुः नालं कृष्णेन चोक्ताः प्रणमनमिति ताः स्निग्धमुख्यस्तदानीम् । साञ्जल्यस्तं प्रणेमुर्विकसितवदनो वस्त्रपूगं ददौ यः स्वीकृत्यैतद्दधुस्ताः स्मितमुखकमलाः पातु पूर्णत्रयीशः ॥ ३०॥ गोवृन्दैर्गोपवृन्दैर्वनभुवमगमत्तत्र वृक्षान् स दृष्टा प्राहेत्थं गोपवत्सानमृतनिभफलैः पुष्पवृन्दैर्लताभिः । सुच्छायाभिर्नितान्तं पथिकजनकृते चोपकुर्वन्ति वृक्षाः प्रेक्षव्वं पुण्यवृक्षानिति यदुतनयः पातु पूर्णत्रयीशः ॥ ३१॥ वृन्दारण्येऽथ गास्तास्तृणगणमशितं भक्षितुं चारयन्तो गोपालाः क्षुत्पिपासाश्रममुषितधियस्तत्र तत्र स्थितास्ते । तान् दृष्ट्वा गोपवर्यः श्रमजलमलिनान् गोपवत्सान्नितान्तं तेषां रक्षाविधौ यो मतिममुमतनोत् पातु पूर्णत्रयीशः ॥ ३२॥ गोपानां भोजनार्थं मखयजनपरान् ब्राह्मणान् पृष्टवन्तो भिक्षां देहीति गोपा न तु ददुरथ ते कृष्णवाक्याच्च पत्नीः । ता दत्त्वा पूर्णमन्नं यदुकुलपतये मोदमापुस्तदन्नैः योऽरक्षद्गोपवत्सानमुमपि कृपया पातु पूर्णत्रयीशः ॥ ३३॥ यागान् सन्धातुकामं ब्रजपतिमवदद्देवनाथेन किं न स्त्वस्मद्गोरक्षकाय त्वगकुलपतये यागवर्याः क्रियन्ताम् । इत्युक्त्वा चाद्ये तान् व्रजकुलपतिना कारयित्वा मुदा तान् नन्दादीन् प्राह तुष्टस्त्वहमिति स नृपं पातु पूर्णत्रयीशः ॥ ३४॥ गोपेन्द्रात् स्वीययागप्रतिहतिकुपितेनाशु देवाधिपेन सन्दिष्टैर्मेघवृन्दैर्व्रजभुवि नितरां वर्षवत्यां कृतायाम् । गोपालैः प्रार्थितो यः सरभसमचलं छत्रवद्वामहस्तात् धत्ते गोवर्धनाख्यं नृपवरमनघं पातु पूर्णत्रयीशः ॥ ३५॥ गोपास्ते नन्दमूचुस्तव शिशुरिति कः पूतनाजीवहन्ता धून्वानोऽहन् स्वपादं शकटमपि तृणावर्तमालिङ्ग्य कण्ठम् । हृत्वा हैयङ्गवीनं व्रजपतिरमणीबन्धितोलूखलेऽन्तः गच्छन्तौ वृक्षभूतौ धनपतितनयौ भूतलेऽपातयच्च ॥ ३६॥ आत्मानं हन्तुकामं बकमपि मुखतो पाटयद्दैत्यहेयं नागेशः सूर्यपुत्र्याः पदकमलयुगोन्मन्ध्यनीतोऽन्यदेशम् । श‍ृण्वन् गोपालवाक्यान्यवदथ हसन् गर्गवाक्यानि नन्द- स्त्वित्थं चाश्रर्यकारी व्रजपतितनयः पातु पूर्णत्रयीशः ॥ ३७॥ आसारादक्षितायां व्रजभुवि सुरराट् कामधेन्वा समेत- स्त्वागत्यारात् सुभीत्या पदयुगमनमत् क्षाम्यतामित्यमुष्य । स्तुत्वाथो भक्तिपूर्वं सुरसुरभियुतः प्राविषिय्यावदत्तं गोविन्देति प्रसिद्धोऽभवदमुमपि यः पातु पूर्णत्रयीशः ॥ ३८॥ एकादश्यां स नन्दस्त्वनशनवशतस्तद्दिने मध्यरात्रे कालिन्द्यां स्नातुमारादगमदपहरत्पाशिदूतोऽसुरोऽमुम् । श्रुत्वा चातः स कृष्णो जलपतिभवनं पूजितस्तेन भक्त्या तातं स्वीकृत्य तुष्टो व्रजमगमदमुं पातु पूर्णत्रयीशः ॥ ३९॥ नन्दो गोपानवोचत् प्रहसितवदनः पाशिलोकेऽस्य पूजां श्रुत्वा भक्त्या प्रणेमुस्तदनु मुररिपुः स्वीयभक्त्या प्रहृष्टः । वैकुण्ठं त्वानयित्वा निजपितृसविधे दर्शयित्वा च तेभ्यः (तांश्च नीत्वा) स्वं रूपं नीतवान् यः स्वभुवनमपि तं पातु पूर्णत्रयीशः ॥ ४०॥ कस्मिंश्चिद्रात्रिकाले शरदि वनभुवं सङ्गतः केलिहेतो- स्तस्मिन् काले सुधांशुर्दिवमगमदथो वेणुगानं स चक्रे । तच्छ्रुत्वा गोपिकास्ता द्रुततरमगमन् यत्र कृष्णोऽवतस्थे हित्वा कार्याण्यहेतोर्निजभवनभवान्याशु कामाभितप्ताः ॥ ४१॥ काश्चिद्धित्वाथ वत्सान् घटमथ पयसः स्थापितं चुल्लिकायां हित्वा दोहं दुहेन्त्यस्त्वशनमथ पराः पाययन्त्यः शिशूंश्च । शुश्रूषन्त्योऽथ भर्तॄन सुमगणमपरा धारयन्त्योऽङ्गरागम् । त्वञ्जन्त्यस्स्वक्षियुग्मं विलुलितचिकुरा लोलवस्त्राङ्गभूषाः ॥ ४२॥ भर्त्रा पित्रा च मात्रा स्वसृतसखिभिर्भ्रातृभिर्वृन्धुवर्गैः सम्प्रेत्यावार्यमाणा हरिहृतमतयः प्रापुराराद्धारिं ताः । कृष्णो दृट्वावदत्ताः कुहननरवपुः भर्तृपुत्राः श्वसख्यः कुप्यन्ति भ्रातरस्ते निजभवनमतो गम्यतां मा चिरं वः ॥ ४३॥ इत्युक्ताः शुष्ककण्ठास्त्वथ हरिमवदन् मन्दमन्दस्वरास्ताः पृष्टा धर्मस्त्विदानीं न च पितृसहना मातरः कोपमीयुः । त्वन्नाथास्त्वां भजन्तीर्भुज मदनहतास्त्वेवमुक्तोऽभजद्यः (भजन्तीस्त्वयि) तां रात्रिं क्रीडमानो मुदभगमदमुं पातु पूर्णत्रयीशः ॥ ४४॥ इत्येवं क्रीडमानो व्रजकुलरमणीभिः सतोषं तदानीं दृष्ट्वा गर्वं स तासां नरवरसदृशश्शीघ्रमन्तर्धिमाप । कृष्णं नालोकमाना द्रुततरमबलास्तत्र तत्र प्रचेलु- स्त्वन्देषन्त्यो नितान्तं वनभुवमभितः क्लिष्टबुद्ध्या प्रतप्ताः ॥ ४५॥ वृक्षान् दृष्ट्वालपन्त्यः किमु यदुतनयं दृष्टवांश्चूत वृक्ष (नाली)- केर त्वं वा कपित्थानस पनसवराश्वत्थ नीपार्जुन त्वम् । सिंह त्वं पुण्डरीक त्वमपि करिवर त्वं हि पक्षिप्रवीर हंस त्वं चक्रवाक त्वमपि च कृपया नन्दसूनुं वदेति ॥ ४६॥ गच्छन्त्योऽन्यत्र देशे पदयुगयुगलं वीक्ष्य काचित्तु गोपी नाथेनान्यत्र नीता शुभगुणसहितेत्यूचिरे तां च दृष्ट्वा । पृच्छन्त्यो गोपवर्यं पुनरपि पुलिनं प्राप्य सर्वाश्च गोप्य- स्तिष्ठन्त्यश्वालपन्त्यो हरिमथ नितरां मुक्तलज्जाः प्रलेपुः ॥ ४७॥ वल्लव्यः प्रोचुरन्याः स्मरमुषितधियो भाति ते जन्मनामा नित्यं नृत्तं करोति व्रजभुवि नितरां वर्धते गोकुलं नः । पाहि त्वं कामतप्ता द्रुततरमधुनालिङ्ग्य मोदं कुरुष्वे- त्येवं सम्प्रार्थितो यः पशुपवरसुतः पातु पूर्णत्रयीशः ॥ ४८॥ प्रोचुरता गोपदाराः पुलिनतलगताः पूर्णचन्द्राननं तं हित्वास्मान् कुत्र यातो मनसिजनिभ हे नः पुरस्तात् त्वमेहि । धम्मिल्लेऽस्मान् गृहीत्वा विगलितवसनास्त्वाशु चुम्बस्व गण्डे वक्षोजौ मर्दय त्वं कनकघटनिभौ नाथ किं वाद्य कुर्मः ॥ ४९॥ धेनुस्वामिन्न याहि द्रुततरमधुना कामतप्तस्तनीनां त्वस्माकं बिम्बतुल्यं त्वमृतरसयुतं चाधरोष्ठं पिब त्वम् । इत्येवं प्रार्थितो यो व्रजकुलरमणीभिस्तदा प्रादुरासीत् तासां प्रीतिं च कुर्वन् स्मितकमलमुखः पातु पूर्णत्रयीशः ॥ ५०॥ कृष्णं दृष्ट्वा तु गोप्यः स्मितमुखकमलाः शीघ्रमाश्लिष्य सत्यः रासक्रीडां प्रचक्रुस्त्वथ हरिसहिता गानपूर्वं सनृत्तम् । कृष्णो गोपी च कृष्णस्त्वथ पशुपसुतेत्येवमावृत्य हस्तान् आश्लिष्य प्रेमयुक्ताः स तु मुदमगमत् पातु पूर्णत्रयीशः ॥ ५१॥ कृष्णो नन्दादिगोपा वनमुखमगमन् सेवितुं चाम्बिकां तां स्नात्वा सारस्वतेऽशोऽम्बुनि मुनिकुसुमैरर्चयन्तः शिवौ तौ । गोवस्त्रादीन् द्विजेभ्यो ददुरुदकमथो प्राश्य भक्त्या नितान्तं देवौ सम्प्रार्थ्य भूयस्त्वभिमतमपि ते भक्तभक्तौ विजह्रुः ॥ ५२॥ तस्यां रात्र्यां तु नन्दं त्वजगरजरठस्त्वग्रहीद्भक्षणार्थं चुक्रोश त्राहि कृष्णेत्यजगरमुखतो नन्दवाक्यं निशम्य । गत्वा पादेन हित्वोरगपरिबृढकं को भवानित्यपृच्छत् श्रुत्वा कृष्णस्य वाक्यं द्रततरमवदद्भक्तिपूर्व विनम्रः ॥ ५३॥ स्वामिन् मे श्रूयतां भो जगति मम गतिस्त्वङ्गिरोब्राह्मणेन्द्रं विद्याद्ध्रुक् प्राहसं सत्ववददिति रुषा चोरगत्वं प्रयाहि । त्वत्पादस्पर्शमुक्तोऽभवमनुजानीहि गन्तुं सुदर्शं त्वित्युक्तोऽयं हि चोक्त्वा मुदमगमदमुं पातु पूर्णत्रयीशः ॥ ५४॥ कस्यां रात्र्यां स रामो वनमगमदसौ गोपनारीजनौघै- र्गायंश्चिक्रीड तस्यां निधिपसहचरः शङ्खचूडोऽभ्युपेत्य । तन्नाथं स्त्रीसमूहं भयरहितमनाः प्रैरयद्दिश्युदीच्यां क्रोशन्तं कृष्ण रामेत्यथ निजसुहृदा गायमानौ वनान्ते ॥ ५५॥ (काल्यमानौ) तच्छ्रुत्वा रोदनं तौ जगदतुरभयं सालहस्तौ प्रयातौ तौ दृष्ट्वा विद्रतोऽसौ युवतिजनमवन् सीरपाणिर्व्यतिष्ठन् । कृष्णो हत्वा च हृत्वा तमपि मणिवरं दत्तवानग्रजाय प्रीतास्ता गोपवध्वः स च मुदमगमत् पातु पूर्णत्रयीशः ॥ ५६॥ गोप्यः कृष्णं ह्यदृष्ट्वा निजगदुरथ ताः कार्यमन्यद्विहाय चान्योन्यं वेदयुक्ता निजहनुममलां वामभागांसदेशे । क्षिप्त्वा वेणुं सरन्ध्रं त्वधरपरिसरे चाङ्गुलीभिः पिधाय सभ्रूभङ्गं त्वपोह्य त्वमृतरससमं यत्र गानं करोति ॥ ५७॥ हे गोप्यो नन्दसूनुर्निजचरणगतान् गोपनारीजनौघा- नस्मान् हित्वा प्रयातः क्व नु भुवनतले वेणुगानं प्रकुर्वन् । श्रुत्वा यद्वेणुगानं गगनमनुगताः सिद्धपत्न्योऽथ सिद्धान् हित्वा तान्ता अभूवन स्मरमुषितधियो मूर्छिता मुक्तलज्जाः ॥ ५८॥ हे गोप्यो हन्त हन्त स्वकरजलभवेनाथ सङ्गृह्य श‍ृङ्गं कच्छे धृत्वा च वेणुं ह्युरसि मणियुतां हारवल्लीं प्रधार्य । ध्मानं कुर्वन् प्रयातः सुरवरसुदृशो यस्य नादं निशम्य देवान् हित्वा स्मरार्ता मुमुहुरथ मुहुः स्निग्धमुख्यो नितान्तम् ॥ ५९॥ हे गोप्यो नन्दपत्नी वदनवनभुवोन्मेषकारी दिनेशः सालिर्बर्हावतंसः स्मिआकमलमुखः पुण्डरीकायताक्षः । वेणुं गायन् क्व यातो वृषमृगपशवो वेणुनादं यदीयं श्रुत्वा तद्दत्तकर्णा विगलितकबलाश्चित्रभूता भवन्ति ॥ ६०॥ वल्लव्यो गोपचोरो द्रुततरमपहृत्याथ यातः क्व वासौ- यास्माकं चित्तरत्नं हृदयपिठरगं वेणुगानं प्रकुर्वन् । गन्धर्व्यो यस्य गानं स्वरवरसहितं प्रीतिपूर्वं गृणन्त्यो निन्दन्त्यः स्वीयगानं सुमृदुकलगिरः कामतप्तास्त्वभूवन् ॥ ६१॥ हे गोप्यो गोपवेषो निजकरकमले धारयन् यष्टिमेकां संयुक्तो गोपवत्सैर्वनभुवि रणयन् वेणुनादं क्व यातः । व्यत्यस्ता ङ्घ्रिर्यदीयं मृदुतरनिनदं सर्पवर्यास्तु पीत्वा संश्लाघन्ते शिरोभिर्मणिवरसहितैर्दीर्घजिह्वे प्रसार्य ॥ ६२॥ इत्थं गोपीजनैर्यो निजविरहवशाद्दूयमानान्तरङ्गैः भूयः प्रस्विन्नगात्रैर्विगलितवसनैर्भूयसाक्रुश्यमानः । वत्सान् सम्प्रेर्यमाणः पशुपसुतगणैर्गीयमानात्मकीर्तिः तं कुर्वन् वेणुनादं व्रजकुलमगमत् पातु पूर्णत्रयीशः ॥ ६३॥ गोष्ठं प्राप्तस्त्वरिष्टः खरतरमतुलं रम्भमाणः सुश‍ृङ्गः तं दृष्ट्वा कृष्ण कृष्णेत्यव तव सुहृदः श‍ृङ्गिणो भीतभीतान् । इत्येवं चुक्रुशुस्तं वृषमवनितले श‍ृङ्गयोः सम्प्रगृह्णन् निष्पिष्यारादरक्षद्धरिरथ सुहृदः पातु पूर्णत्रयीशः ॥ ६४॥ केशी कंसस्य मित्रं व्रजमगमदसौ वाजिरूपोऽतिकायो धून्वन् बभ्रूः सटाः स्वाः खुरदलितमहीरेणुभिश्छन्नगात्रः । पद्भ्यां हत्वा हरिं तं व्यनददथ रुषा कम्पयन् गोपसङ्घान् धून्वानः स्वीयपुच्छं त्वतिकुपितमनाश्चण्डवेगोऽञ्जनाभः ॥ ६५॥ तत्क्षेपं वञ्चयित्वा हरिरथ जगृहे पादयोर्भ्रामयित्वा चिक्षप क्रोशमात्रं पुनराप स रुषा लब्धसज्ञस्तमाप । तस्यास्ये स्वीयबाहुप्रसरणमतनोत्तेन दग्धोऽपतत् सः गोपास्ते मोदमापुः स्वयमपि नृवरं पातु पूर्णत्रयीशः ॥ ६६॥ लीलां नीलायनाख्यां पशुपसुतवराश्चक्रुरन्योन्यमेत्य केचित् पालास्तु चोरास्त्वजकुलमिति तान् योऽहरच्चोररूपी । व्योमो नीत्वाद्रिकुञ्ज पुनरपि हरणे चोद्यतं वीक्ष्य वक्षो- देशं भित्त्वा वरक्षत् पशुपशिशुगणान् पातु पूर्णत्रयीशः ॥ ६७॥ अक्रूरः कंसवाचा व्रजमगमदथो रामकृष्णौ ननाम ताभ्यां सम्पूज्य पश्चान्निजपितृचरितं कंसवाक्यं निशम्य । नन्देनालोच्य राज्ञे करमपि च घृतं क्षीरमादाय गोपैः नन्दाद्यौ रामकृष्णौ ययतुरथ रथपृष्ठमारुह्य शीघ्रम् ॥ ६८॥ तत्काले गोपकन्या निजगुणमनुसृत्यादराद्दुःखितास्ताः वाचा स प्रेमष्ट्यामृतकरनिभया प्रेरयन्नाप कृष्णाम् । तस्यां स्नातुं प्रविष्टो यदुवरतनयौ वीक्ष्य चोन्मज्ज्य याने दृष्ट्वा क्रूरः स कृष्णं फणिवरशयितं प्राप मोदं नितान्तम् ॥ ६९॥ नत्वा स्तुत्वा जलौघे फणिवरशयनं कृष्णमुन्मज्ज्य यानं सम्प्राप्तः कृष्णरामौ निजनुतिमुदितौ नन्दगोपाद्यनेकैः । नीत्वा कंसपुरीं नितान्तमधुरामावेद्य कंसाय तौ प्राप्तौ स्वीयगृहं जगाम स हरे राज्ञां प्रगृह्यानमन् ॥ ७०॥ द्रष्टुं तां मधुरां ययौ बलमुतो गोपैर्वृतः सर्वतो हृत्वा वस्त्राणि पुष्पाण्यपि बहुरुचिरं कुङ्कुमं चन्दनं च । कुब्जां तामतनोन्नितान्तरमणीं तद्याचितः प्राह यः कृत्वा कार्यं व्रजे ते सदनमिति मुदा पातु पूर्णत्रयीशः ॥ ७१॥ पृष्दा शालां प्रयातं वन्धिमपि गजं वीक्ष्य मार्गे स्थितं तं मार्गादानात् स कृष्णो गजमथ तरसोन्मथ्य चोत्पाट्य दन्तम् । अम्बष्ठं चापि हृत्वा करिवररदनात् युद्धरङ्गं प्रयातौ दृष्ट्वा चाणूर ऊचे स्मितमुषितमना मुष्टिकश्चाब्जनाभौ ॥ ७२॥ मल्लोन्मल्लौ युवां तौ नृपसद इदमप्यत्र युद्धं च कुर्मः चाणूरो मुष्टिकोऽसौ निजकरयुगमारफाल्य चोरुप्रदेशम् । बद्ध्वा चान्योन्यहस्तान् द्रुतपदयुगलं चिक्षिपुर्दूरदूरं वक्षोभिर्मुष्टिभिस्तेत्युयुधुरथ पुनर्जानुभिश्चोत्तमाङ्गैः ॥ ७३॥ चाणूरं सम्प्रगृह्णन् युधि यदुतिलको भ्रामयित्वा कुपृष्ठे चास्फाल्यापेषयन्तं द्रुतमथ स बलो मुष्टिकं मुष्टिहत्या । कूटं चापेषयत्तं शलमथ कुपितस्तोसलं गोपवर्यो मल्लास्त्वन्येऽथ रङ्गाद्द्रुततरमगमन् भीतभीताः समन्तात् ॥ ७४॥ दृष्ट्वाथो रामकृष्णावतिकुपितमनाः प्राह निःसार्य तान्ता- वित्युक्ते मातुले स्वे द्रुतमगपदसौ मञ्चवर्यं सभायाम् । रोषात् केशान् प्रगृह्य स्वकरकमलतोऽपातयद्युद्धरङ्गे तस्मिन् कंसे पतित्वाख्यनुमतनुत यः पातु पूर्णत्रयीशः ॥ ७५॥ हत्वा युद्धे च कंसं त्वथ बलसहितो मोचयित्वा स बन्धा- दम्बां तातं च नत्वा सविनयमनघौ तस्थतुः साञ्जली तौ । तावाश्लिष्य स्वपुत्रौ प्रमुदमगमतामुग्रसेनाय राज्यं दत्त्वा यः प्राप मोदं नृपममलधियं पातु पूर्णत्रयीशः ॥ ७६॥ नन्दं प्रत्यर्च्य गोपान् धनवसनवरैः प्रेषयित्वा व्रजं तान् सम्प्राप्तौ ब्रह्मचर्यं स्वकुलगुरुमुखाद्गर्गसंज्ञां श्रुतिं तौ । काश्यां सान्दीपिनेश्च प्रथितगुरुवरालब्धविद्यौ प्रभास- क्षेत्रे नष्टं समुद्रे स्वतनयमवृणोत् निष्क्रियार्थं गुरुस्तौ ॥ ७७॥ तौ गत्वा याम्यगेहं गुरुसुतमधुना चानयेत्युक्तमात्रौ नेतारं च जनं ततोन्बुधिजले हत्वा तदङ्गोद्भवम् । शङ्खं हृत्वाथ गत्वा यमपुरिशयनात् प्राप्य पुत्रं गुरोस्तौ दत्त्वा देशिकपुङ्गवाय तदनुज्ञातौ पुरीं जग्मतुः ॥ ७८॥ कृष्णोऽयं चोद्धवं तं निजसखमवदद्गच्छ शीघ्रं व्रजं तं तातं नन्दं यशोदां व्रजकुलरमणीः सान्त्वसन्देशतो मे । आयाहि (हीति) प्रयुक्तो व्रजमगमदथो स्यन्दनेन प्रपूज्य नन्दोऽयं यस्य लीलाश्रवणलसितधीः पातु पूर्णत्रयीशः ॥ ७९॥ गोप्यो दृष्ट्वोद्धवं तं भ्रमर इति धिया चाब्रुवन् वञ्चकस्य बन्धुस्त्वं मा स्पृशाघ्रिं त्वितरयुवतिभिर्दत्तमाल्याङ्गरागः । बिम्बाभं चाधरोष्ठं सकृदपि हृदयं वल्लवीनां वनान्ते क्रूरेणाक्रूरनाम्ना पुरमनुगमितस्तस्य दूतो हि तस्मात् ॥ ८०॥ भृङ्गास्मत्सन्निधौ तं यदुपतिमगुणं गायसि त्वं किमर्थं स्त्रीणां वक्षोजयुग्मग्रहणपटुतरं धूर्तलोकाग्रगण्यम् । तासां स्त्रीणां पुरस्ताद्विजयसखममुं गीयतां तास्तदानीं इष्टं ते कल्पयन्ति व्रजपतिशिशुना भुज्यमानास्त्रयो याः ॥ ८१॥ ऊचुर्गोप्यः षडङ्घ्रिं कपटयदुपतेर्भूतले वा रसायां स्वर्लोके वा दुरापाः किमिति युवतयो हासश‍ृङ्गारभूम्नः । हित्वा बन्धून पतीन् तान् यमनिशमगमामास्य वाक्याद्वयं नः कुर्यात् किं प्रेमदृष्टिं बहुतरमलपंश्चोद्धवाग्रे हि कृष्णम् ॥ ८२॥ श्रुत्वा गोपीविलापं यदुवरसचिवः प्राह गोपीरथायं प्रोष्ठो युष्मत्कृते मां व्रजकुलमधुना प्राहिणोत् सान्त्वयेति । अत्रागत्याथ शीघ्रं भजति च भवतीरित्थमुक्त्वा प्रयातो श्रुत्वा सर्वं च सख्युर्मुदमगादसौ पातु पूर्णत्रयीशः ॥ ८३॥ सैरन्धया मन्दिरं तत् प्रययतुरनघश्चोद्धवश्चक्रपाणिः तत्पूजां प्राप्य पश्चाच्छयनवरनथो प्राप्तवान् कामतप्ताम् । आलिङ्ग्याहो स्त्रियं तामभजत विमलां भूयसामन्त्र्य यातो माटश्रीरामभूपं स्वभवनमथ यः पातु पूर्णत्रयीशः ॥ ८४॥ कृष्णो रामोद्धवाभ्यां द्रुतमगमदथाक्रूरगेहं वरिष्ठं दृष्ट्वा तौ रामकृष्णौ प्रणमनमकरोद्भक्तिपूर्वं स ताभ्याम् । पूजाभिः पूजयित्वा पदयुगमनयोरभ्यषिञ्चत् स तोयैः पीत्वा पूतोऽभवत्तन्मृदुहसनपरोऽक्रूरमूचे तदानीम् ॥ ८५॥ दाशार्हाक्रूर गत्वा पुरवरमधुना हस्तिनाख्यं तु कुन्तीं तत्पुत्रांस्तातहीनान् कुरु नरपतिना पत्तनं सम्प्रणीतान् । दृष्ट्वा वृत्तान्तमेषां कुरु नगरपतेरन्धनेत्रस्य भूयो ज्ञात्वा चायाहि शीघ्रं त्विति यदुपतिना प्रेषितस्तत्र यातः ॥ ८६॥ गत्वा कुन्तीं सपुत्रां त्वनुनयवचसा सान्त्वयित्वान्धनेत्रं दृष्ट्वान्यान् द्रोणभीष्मप्रभृतिकुरुवरान् पाण्डुपुत्रास्त्वदीयाः । पोष्यास्ते तातहीनास्तव पदशरणा यामि राष्ट्रं त्विदानी- मित्युक्त्वागत्य यस्मादवददमुमसौ पातु पूर्णत्रयीशः ॥ ८७॥ श्रुत्वा कंसं हतं तं रथकरिहरिभिः पत्तिसङ्घैर्जराया अत्रायं मागधाख्यो यदुपुरमगमत् कंसहन्त्रा नियोद्धुम् । कृत्वा युद्धं स रामान्निहतनिजबलो बन्धितः कृष्णमुक्तो दुःखार्तोऽगात्तदानीं सुरगणनुदितः पातु पूर्णत्रयीशः ॥ ८८॥ इत्थं त्वक्षोहिणीभिर्दश च पुनरसौ सप्तवारं च युद्ध्वा भग्नो भूत्वाथ यातस्तदनु यवनपः स्वीयसैन्यैर्निरुद्धः । तत्काले द्वारकायां निजजनमनयद्योगमायाप्रभावात् तद्रक्षायै बलं चागमयदथ हरिः पातु पूर्णत्रयीशः ॥ ८९॥ पुर्या निष्क्रान्तमेनं स तु यवनवरः प्राद्रवन्निद्रितं तं अद्रेरन्तर्गुहाया नृपतिमथ पदाहत्य तद्दृष्टिदग्धः । भस्मीभूतस्तदानीं यदुपतिरगमत्तत्पुरस्तात् स दृष्ट्वा नत्वा सम्प्राप्य चेष्टं तपसि कृतमनाः प्रापयाद्रिं नृपेन्द्रः ॥ ९०॥ प्रत्यावृत्याथ राज्यं यवनगणवृतं संहरन् म्लेच्छसङ्घान् हृत्वा द्रव्यं प्रयातौ यदुवरतनयो मार्गमध्ये स दृष्ट्वा । अक्षोहिण्या वृतस्तौ द्रुततरमगमच्चेलतुर्दूरदूरं पादाभ्यां पर्वताग्रं हरिवरसदृशौ प्रापतू रामकृष्णौ ॥ ९१॥ सोऽप्यावृत्य स्वसैन्यै र्गिरिवरमभितस्तावदृष्ट्वा कृशानुं दत्त्वा सद्यो गिरीन्द्रं त्वदहदथ जवाद्रामकृष्णौ गिरीन्द्रात् । तस्माच्चाधो निपत्य स्वपुरमगमतां सिंहशार्दूलवेगौ निर्यातो मागधोऽसौ निजपुरमथ तौ यादवेन्द्रावदृष्ट्वा ॥ १२॥ आनर्तो रैवताख्यो निजवरतनयां रेवतीं दत्तवांस्तां रामायाथो स कृष्णो द्विजवरवचनात् कुन्डिनं प्राप सद्यः । हृत्वासौ रुक्मिणीं तां यदुवरतनयश्चैद्यराजाय क्लृप्तां भूपानां पश्यतां तद्रथवरमगमत् पातु पूर्णत्रयीशः ॥ ९३॥ राजानः क्रोधयुक्ता द्रुततरमगमन् योद्धुमावृत्य सैन्यैः वीराः सम्प्रापुरेते यदुबलपतयः सम्प्रचुक्रुर्मृघं तैः । कृष्णश्चापं विधून्वंस्त्वरिषु बहुशरान् प्रैरयत्तेऽपि भग्नाः याताश्चैद्यं निमग्नं व्यसनजलनिधौ सान्त्वयामासुरेनम् ॥ ९४॥ रुक्मी कोपाद्रथस्थो हरिमवददसौ चोर किं यासि हृत्वा कन्यामेनां विसृज्य व्रज यदि तु न चेत्त्वां निहन्यां शरौघैः । इत्युक्त्वा भल्लबाणानमुचदथ हरिर्बाणवर्षै रथं तं छित्त्वा केशांश्च चापं व्यसृजदमुमसौ मुन्डयन् रामवाक्यात् ॥ ९५॥ वाद्यानुद्घुष्य चारात् पुरमगमदसौ ब्राह्मणैर्बन्धुवर्गैः मात्रा पित्रा च राज्ञा निजसहजवरेणाशु सङ्गम्य पुर्याम् । रुक्मिण्याः पाणिपद्मं परिणयविधिना तद्गृहीत्वा हसन् यो भेजे मोदं नितान्तं स्मितवदन इमं पातु पूर्णत्रयीशः ॥ ९६॥ प्रद्युम्नं चाम्बुधौ तं व्यसृजदथ रुषा शम्बरस्त्वग्रसीत्तं मत्स्यः कैवर्तसङ्घा ददुरथ झषमस्मै पुनः सोऽपि तस्यै । मायावत्यै तदन्तःस्थितममुमथ सारक्षदारब्धकामा ज्ञातार्थं यौवने तं यदुवरतनयं चाकरोत् कामपत्नी ॥ ९७॥ श्रुत्वा पन्याः सकाशान्निजरिपुमसुरं शम्बरं युध्यमानं खड्गेनापाहरत्तद्गलमथ निजया भार्यया नीयमानः । गत्वा स्वीयगृहं नितान्तमहितं मात्रा च पित्रा स्वकैः देवक्यानकदुन्दुभिप्रभृतिभिः संलाल्यमानोऽवसत् ॥ ९८॥ सत्राजित्त्वेककाले मणिवरमनुजो धारयन् काननान्तं यातो जग्राह रत्नं त्ववददिति हरिस्तच्छ्रुतं शौरिणाथ । तन्मार्ष्टुं स्वीयसङ्घैर्वनमविशदसौ सिंहशग्नं प्रसेनं सिंहं चर्क्षेण भग्नं बिलमविशदवस्थाप्य बन्धून निशाम्य ॥ ९९॥ तं दृष्ट्वा भल्लराजस्त्वगमदविनयाद्योद्धुमासीच्च युद्धं त्वष्टाविंशद्दिनान्तं त्वनवरतमथो तन्निशाम्य स्वनाथम् । दत्त्वासौ स्वीयकन्यां मणिवरमपि तौ जाम्बवान् प्रेष्य पश्चात् मोदं भेजे हरिस्तौ युवतिमणिवरौ पातु पूर्णत्रयीशः ॥ १००॥ लब्ध्वा स्त्रीरत्नवर्यं मणिवरमपि सम्प्राप्य राज्ञः सभां तां नीत्वा सत्राजितं तं स मणिवरमदान् पश्यतां चादवानाम् । सत्राजित् स्वीयकन्यां मणिवरमपि तद्रोषशान्त्यै ददौ तत् रत्नं नो सत्यभामामभजत स हरिः पातु पूर्णत्रयीशः ॥ १०१॥ श्रीकृष्णे हस्तिनाख्यं गतवति च पुरं प्राप्य सम्भाजितं तं हत्वा सङ्गृह्म रत्नं शतधनुरगमत्तत्सुता सत्यभामा । दृष्ट्वा वृत्तं स्वतातं कुरुपुरमगमत् स्वीयनाथाय चोचे श्रुत्वा तद्रामकृष्णौ निजपुरमनुसम्प्रापतुः स्यन्दनेन ॥ १०२॥ ज्ञात्वायान्तं च कृष्णं तदनु सकृतवर्मान्विताक्रूरमेत्य द्राक्र्ँ साहाय्ये निराशः शतधनुरथ तद्रत्नमक्रूरसंज्ञे । निक्षिप्यागादुदूचीं हरिवरमधिरुह्याथ रामेण कृष्णो गत्वा तं दूरदूरं हरिरमुमकरोत् कृत्तकण्ठं स्वचक्रात् ॥ १०३॥ कृष्णो रत्नं विमृश्यालभत न तु यदागात् पुरीं द्वारकाख्यां उक्त्वा भार्यासुहृद्भिः सह निजगुरवे चोर्ध्वकृत्यं विधाय । आनाय्याक्रूरसंज्ञं मणिमथ सुहृदां दर्शयित्वा निवृत्य स्वस्मिंल्लोकोक्तिदोषं मुदमगमदमुं पातु पूर्णत्रयीशः ॥ १०४॥ इन्द्रप्रस्थं स गत्वा विजयसखयुतः सूर्यपुत्रीतटान्ते कालिन्दीं तत्र दृष्ट्वा रथवरमधिरोप्याययौ द्वारकां ताम् । तामुद्वाह्याथ तात स्वसृवरतनयां मित्रविन्दामवन्ती- नाथस्याथोपयेमे नृपमतुलयशाः पातु पूर्णत्रयोशः ॥ १०५॥ सत्यां कौसल्यपुत्रीं गिरिवरसदृशान् सप्त तान् गोवृषान् सः जित्वा चोद्वाह्य पश्चात् परिणयमकरोत् केकयास्यात्मजायाः । भद्रायामाद्रपुत्रीं गुणगणसहितां लक्ष्मणां चोपयेमे चाष्टौ ताः पट्टनारीरुदवहदपि यः पातु पूर्णत्रयीशः ॥ १०६॥ गत्वा प्राग्ज्योतिषाख्यं पुरमथ स हरिर्भेदयित्वा च दुर्गा- ण्यायान्तं पञ्चशीर्षं मुरमतिनिगदन् युध्यमानं स्वचक्रात् । हृत्वा तत्कण्ठसङ्घं नरकमपि तदा शूरशूरं शतेन युक्तं नारीजनाष्टद्वितयदशशतं नीतवान् द्वारकां ताम् ॥ १०७॥ गत्वा स्वर्लोकमिन्द्रं सुरगणसहितं युध्यमानं नितान्तं जित्वा तत्कल्पवृक्षं हरिरथ गरडेनोह्य नीतं गृहान्ते । सत्राजित्कन्यकाया विकसितवदनायास्तु श‍ृङ्गारभूमौ निक्षिप्यासां गृहस्थो मदन इव बभौ पातु पूर्णत्रयीशः ॥ १०८॥ तासां स्त्रीणां गृहस्थः स सुखमनुभवन् मोदमानोऽथ धर्मान् गार्हस्थ्यान् सम्प्रकुर्वन् त्वथ वररमणीं रुक्मिणीं नर्मवाक्यैः । प्रीत्या संलालयन् तां बहुतनयवरान् ताभ्य उत्पाद्य कृष्णः प्रद्युम्नादींश्च पौत्रानपि मुदमगमत् पातु पूर्णत्रयीशः ॥ १०९॥ प्रद्युम्नो रुक्मिपुत्रीं परिणयविधिना चोपयेमेऽनिरुद्धो रुक्मीपौत्र्या विवाहं स्वयमपि कृतवान् रोचनाया रमण्याः । द्यूते रामोऽजयत्तं स च कपटयुतस्त्वं जितो नाहमूचे श्रुत्वा शक्त्याहनत्तं निजपुरमगमद्रुक्मिणं पुत्रपौत्रैः ॥ ११०॥ स्वप्राप्तं बाणपुत्री हरिसुततनयं चित्रलेखाख्यसख्या चानीतं सौधमध्ये त्वरमत सततं गर्भवत्या सयोषा । श्रुत्वा रोषात् स बाणो यदुवरतनयं स्वीयपाशैर्बवन्ध योद्धारं स्वीयसङ्घान् परिघवरकर कोपसंरक्तनेत्रम् ॥ १११॥ ज्ञात्वा तं नारदोक्त्या यदुवरतनया रामकृष्णाववाप्य राज्यं बाणस्य युद्धं द्रततरमभवत् कृष्णरुद्रास्तराणाम् । शान्तं कृत्वा ज्वरं तं करगणमभिनद्द्रुद्रवाक्याच्चतुर्भिः हस्तैः संस्थाप्य बाणं पुरमगमदसौ पौत्रतद्दारयुक्तः ॥ ११२॥ प्रद्युम्नाद्या वनान्तं ययुरथ तृषिताः श्वभ्रमन्तस्तु जन्तुं दृष्ट्वा चोद्धर्तुमेते त्वथ न परिबृढाः प्राप्य कृष्णाय चोचुः । कृष्णस्तूद्धृत्य हस्तादमुमवददतो मुक्तजन्तुस्वरूपं कोपात् त्वं चेति पृष्टस्त्ववददमुमसौ देवरूपी स राजा ॥ ११३॥ ऐक्ष्वाकोऽहं नृगाख्यो पशुनिवहमदां तत्र काचिद्द्विजातेः । तत्स्वामी गां च दृष्ट्वा द्विजमपि च गृहीत्वोचतुर्मां द्विजेन्द्रौ । तौ नत्वा सान्त्ववादैरवदमनुनयन् नैच्छतां गां विमोक्तुं तच्छापात् प्राप्तमेतत् तदपि तव करस्पर्शनादाशु मुक्तम् ॥ ११४॥ इत्युक्त्वा तं च नत्वा दिवमनुगतवान् प्राप्तदेवस्वरूपो राजा कृष्णस्त्ववादीच्छ्रुतमिदमधुना राजवाक्यं हि पुत्राः । ब्रह्मस्वं यो हरेद्वो मम रिपुन्थ मत्सन्निधौ नैव तिष्टेत् इत्युक्त्वा पुत्रपौत्रैः पुरमगमदमुं पातु पूर्णत्रयीशः ॥ ११५॥ रामोऽगाद्गोव्रजं तं यदुगणसहितस्तत्र नन्दं यशोदां नत्वा तल्लालितः सन् दिनकरतनयातीरकान्तारमध्ये । गोपीभिः क्रीडमानो जलपतितनयां वारुणीं चापि पीत्वा कृष्णामाकृष्य कोपान्निजहलमुखतो वन्दितश्चोत्ससर्ज ॥ ११६॥ तत्काले पौण्ड्रकोऽयं यदुकुलपतये प्राहिणोद्दूतमुक्त्वा बालैः सङ्कथ्यसे त्वं गतनिजमतिभिर्वासुदेवोऽहमस्मि । तच्छ्रुत्वा दूतवाक्यं यदुगणसहीतः प्राप्य काशी तु पौण्ड्रं हत्वा तं स्वीयवेषं हरिरथ नगरीं प्राप पूर्णेन्दुवक्त्रः ॥ ११७॥ काशीनाथं च हत्वा यदुवरतनयो मित्रभूतं दुरीहं तत्पुत्रस्याभिचारोद्भवमनलमथो स्वीयराज्यं दहन्तम् । दृष्ट्वा तं चुक्रुशुस्ते यदुपतितनयं कृष्ण रक्षेति तुष्टो हत्वा चक्रेण काशीपतिसुतमपि यः पातु पूर्णत्रयीशः ॥ ११८॥ रामोऽसौ रैवताख्यं गिरिमगमदतः स्वीयनारीजनोघैः पीत्वाथो वारुणीं तामरमत हलिनं हेलयन् प्राप कीशः । तं दृष्टा युद्धमासीद्द्विदमुसलिनो वृक्षपूगैरनेकैः अन्योन्यं तं च हत्वा पुरवरममलः प्राप नारीजनौधैः ॥ ११९॥ साम्बो दुर्योधनस्य त्वहरदथ सुतां लक्षणां तां गृहीत्वा कर्णाद्यास्तं बबन्धुः सुरमुनिवचनाद्यादवान् क्रोधयुक्तान् । शान्तान् कृत्वा बलोऽगात् कुरुपुरमनु ते द्रोणभीष्मप्रमुख्याः सत्कारैः पूजयित्वातुलमुदमगमन् सोद्धवं सीरपाणिम् ॥ १२०॥ साम्बोऽयं बन्धमाप श्रुतमयमधुना नीयतां मत्पुरस्तात् इत्युक्ताः क्रोधयुक्ता बलमनु नितरां हेलयन्तोऽथ जग्मुः । रामः क्षेप्तुं पुरीं तां निजहलमुखतश्चोद्यतो गाङ्गतोये भीताः साम्बं सदारं ददुरथ नगरं प्राप रामः सपुत्रः ॥ १२१॥ देवर्षिर्नारदोऽसौ हरिगृहमगमत् तत्र भैष्मीसमेतः पर्यङ्के तिष्ठतीशः पुनरपि च गृहं स्नाति भुक्तिं करोति । अक्षैर्दीव्यत्यथायं द्विजगणसहितः कुत्रचिच्छास्त्रसङ्घान् श‍ृण्वन्नास्ते स दृष्ट्वा मुनिरगमदहो मोदमन्यैरलभ्यम् ॥ १२२॥ कृत्वा गार्हस्थ्यधर्मान् युवतिगमयुतं मोदमानं निशान्ते तिष्ठन्तं राजदूतो ह्यवददिति जरापुत्ररद्धा नृपौघैः । पार्थेनाहूयमानो मखमनु हलिना चोद्धवेन स्वयम्भू- पुत्रेणालोच्य कृष्णः परिजनसहितः पार्थराज्यं प्रपेदे ॥ १२३॥ कृष्ण्णाभीमेन युक्तौ मगधमनुगतौ व्याजभूदेवरूपं कृत्वोचुर्मागधं तं यदि पटुरधुना द्वन्द्वयुद्धं प्रदेहि । श्रुत्वा भीमेन युद्धं बहुतरमकरोन्मुष्टियष्टिप्रहारैः पादेनाक्रम्य भीमस्तमथ स गुदतः पाटयामास शूरः ॥ १२४॥ भूपान् दुर्गेषु रुद्धान् हरिरथ कृपया मोचयित्वा समस्तान् सुस्नातान् भोजयित्वा निजपुरमनु तान् प्रेष्य तस्यैव पुत्रम् । तत्पुर्यामभ्यषिञ्चन्नृपमथ सहदेवाख्यमाशु प्रयातः शक्रप्रस्थं सुहृद्भ्यां सुरगणसहितः पातु पूर्णत्रयीशः ॥ १२५॥ यज्ञार्थं भूसुराद्या मुनिगणसहिता भूपसङ्घास्त्ववाप्ताः चक्रुर्यागं सुमृष्टं तदनु नृपवरस्त्वग्रपूजां स चक्रे । कृष्णायातः स चैद्यः सदसि हरिमधिक्षिप्तवान् निन्द्यवाक्यैः छित्त्वा चक्रेण कण्ठं मुदमगमदसौ पातु पूर्णत्रयीशः ॥ १२६॥ तत्काले साल्वभूपः शिवभजनवशात् प्राप्य सौभाल्ययानं गत्वाथो द्वारकां तां स यदुबलवरैर्युद्धमारात् स चक्रे । प्रद्युम्नप्रेषितास्त्रप्रहतनिजबलं वीक्ष्य मन्त्री द्युमास्तं यष्ट्या गुर्व्या प्रजघ्ने तमथ निहतवान् कार्ष्णिर्स्त्रैः स्वकीयैः ॥ १२७॥ इन्द्रप्रस्थात् स कृष्णो निजपुरमगमद्वीक्ष्य साल्वं प्रकोपात् अस्त्रैः शस्त्रैः प्रजघ्ने करमथ स हरेः शार्ङ्गयुक्तं न्यकृन्तत् । पश्यन् मायाहतं तं निजपितरमथो सौभमुन्मर्द्य शक्त्या तत्कण्ठं चापि चक्रान्मुदमगमदमुं पातु पूर्णत्रयीशः ॥ १२८॥ युद्धार्थं दन्तवक्रस्त्वगमदथ रुषा यष्टिमुद्यम्य पद्भ्यां कृष्णो यष्टीधरस्त्वगात् स समितिं तौ चक्रतुर्भीषणाम् । कौमोदक्याहनत्तं व्यसुरपतदथो भ्रातरं तस्य चक्रात् प्रख्यातं च विडूरथं हृतगलं चक्रे स गोपालकः ॥ १२९॥ रामोऽसौ नैमिशाख्यं वनमगमदथो ब्राह्मणाः सत्रयागे स्तुत्वा सम्पूज्य नेमुर्हलिनमथ स तं सूतमालोक्य पीठे । तिष्ठन्तं प्राहरत्तैः किमिति कृतमिदं चोक्तमात्रस्तदानीं चोन्मथ्याथो करे तं पुनरपि जनयामास योगाधिनाथः ॥ १३०॥ तद्यागे विघ्नकारी बटुगजबलवानिल्वलस्यात्मजोऽयं पर्वण्यागत्य भूयस्त्वशुचिमनुदिनं बिल्वलाख्यः करोति । सीरेणाकृष्य जन्ने शिरसि च मुसलेनापतत् सोऽपि भूम्यां स्नात्वा तीर्थेषु पश्चात् पुरमगमदसौ मोदमानः प्रकामम् ॥ १३१॥ कृष्णं दृष्टुं कुचेलः पृथुकमपि गृहीत्वाप्तवास्तस्य गेहं दृष्ट्वा कृष्णः प्रमोदात् प्रणमनयुतमाश्लिष्य पर्यङ्कमध्ये । संस्थाप्यादाद्गृहीत्वा पृथुकमपि मुदा तस्य दत्त्वा धनानि स्वेच्छं सम्प्रेरयद्यो गृहमगसदसौ पातु पूर्णत्रयोशः ॥ १३२॥ भूलोकस्थास्तु भूपा ग्रहणमनु रवेः कृष्णरामादयस्ते चाजग्मुर्वृष्णयस्ते कुरुपदसहितं क्षेत्रमन्योन्यमत्र । दृष्ट्वा तुष्टाः कथास्ता जगदुरथ मुदा नन्दमन्यांश्च गोपान् गोपीराश्लिष्य मोदात् कुशलमनुवदन् पातु पूर्णत्रयीशः ॥ १३३॥ द्रौपद्या कृष्णपत्न्यः त्वमुपयमविधि पृष्टवत्यस्तदानीं विस्तार्य प्रोचुरेता निजपरिणयमाश्राव्य मोदं गता सा । तत्त्रे कृष्णतातो मखमापि कृतवान् ब्राह्मणान् भूपसङ्घान् नन्दं चापृच्छ्य गोपान् निजपुरमगमन् रामकृष्णादयस्ते ॥ १३४॥ मात्रा पित्रानुनीतौ यदुवरतनयौ हिंसिता भोजपत्या चानेतव्याः स्वपुत्रास्त्विति तु हरिबलौ प्रापतुस्तौ रसान्ताम् । पातालात् पुत्रषट्कं ददतुरथ सुता देवकी स्तन्यपानात् शुद्धा नत्वा च कृष्णं बलमपि पितरौ भेजिरे स्वर्गलोकम् ॥ १३५॥ बीभत्सुः स्नानहेतोरगमदथ पुरीं द्वारकां मस्करी सन् कृष्णः स्नानाय सिन्धुं यदुगणसहितः प्राप्तजित्वापुररस्थान् । हृत्वागाच्छारिकन्यां तदनु हरिबलौ तातवाचाथ दत्त्वा दम्पत्योः पारिबर्हं स्वपुरमगमतां मोदयित्वा स्वसारम् ॥ १३६॥ कृष्णो यात्वा पुरीं तां जनकनरपतेस्तेन सम्पूज्यमान- श्चोक्त्वा तास्ताः कथास्तं मुनिगणसहितः प्रोक्तवानिन्द्रवक्त्रः । लोकेऽस्मिंस्त्वत्समानो नहि मम भजने मैथिल ज्ञानदृष्टे पूज्या भूदेवमुख्या नृपवर भवता नित्यमस्मत्स्वरूपाः ॥ १३७॥ तस्यां पुर्यां स कृष्णो धिषणमुनिवरं नारदं कण्वमत्रिं वेदव्यासं प्रवृद्धं शुकमुनिमथ तं वृद्धशातातपं च । दृष्ट्वा प्रीत्या नितान्तं प्रणमनमकरोत् साञ्जलिस्तांस्तथा तैः भक्त्या नत्वा स्तुतोऽसौ मुनिवरविनतः पातु पूर्णत्रयीशः ॥ १३८॥ प्राप्यायं श्रुतदेवभक्तसदनं सम्पूज्यमानोऽमुना भक्त्या प्रीतियुतो नितान्तमहितः प्रोवाच कृष्णस्तु तम् । भक्त त्वं श्रुतदेव भू सुरवरान् सम्पूजयन् मां हरिं वर्तस्वेति वदन् ययौ पुरवरं संस्तूयमानः सुरैः ॥ १३९॥ वेदा ये वेदमूर्तिं दशशतशिरसं तावताक्ष्णाभियुक्तं पद्भिः साहस्रसङ्ख्यैर्वरकरकमलैर्व्याप्य भूमिं समन्तात् । तिष्ठन्तं स्तोत्रवर्यैः स्तुतपदकमलं भक्तिपूर्वं प्रणेमुः सोऽयं वेदान्तवेद्यो नृपवरमनिशं पातु पूर्णत्रगोशः ॥ १४०॥ दैतेयः पापबुद्धिः पथि च सुरमुनिं चाशुतोषं त्वपृच्छत् प्राहेत्थं शाकुनेयं वृकमथ स मुनिः शन्भुमन्वेहि दैत्य । श्रुत्वाथो नारदोक्तिं शिवमनु तप आतिष्ठदस्मै ददौ सः पृष्टोऽयं मूर्ध्नि हस्तः पतति मम पुनर्भस्म भूयात् स चेति ॥ १४१॥ इत्येवं धूर्जटेस्तद्वरमपि स पुनः प्राप्य तन्मूर्ध्नि हस्तं क्षेप्तुं दृष्ट्वाऽगतं तं द्रुततरमगमत् सोऽपि पश्चादधावत् । विष्णुस्त्वागत्य वाक्यैशिरसि करमतः पातयित्वा वृकं तं कृत्वा भस्म त्वरक्षच्छिवमपि स हरिः पातु पूर्णत्रयीशः ॥ १४२॥ तीरे सारस्वतीये भृगुमथ ऋषयः प्रेषयामासुरेषा मुत्कर्षं ज्ञातुकामारतदनु विधिमगान्नत्यभावात् स रुष्टः । रुद्रस्त्वालिङ्गनेच्छुस्त्वगमदथ रुषा गर्वितोऽसीति चोक्तः क्रुद्धो हन्तुं प्रवृत्तस्तदनु गिरिजया प्रार्थितोऽगाद्गिरीन्द्रम् ॥ २४३॥ विष्णुं गत्वा जघान द्रतमथ स पदा वीक्ष्य चोत्थाय शीघ्रं लक्ष्म्यङ्कात् साञ्जलिस्तं प्रणमनमकरोद्ब्राह्मणं प्रार्थयानः दृष्ट्वा तूष्णीं स गत्वा मुनिगणमवदत् सर्वमेतेषु ते तं विष्णुं श्रेष्ठं नितान्तं त्वमनुत स हरिः पातु पूर्णत्रयीशः ॥ १४४॥ भूदेवः कश्चिदेवं त्ववददनुगतो द्वारदेशं नृपस्य दोषान्नष्टाः सुता मे स तु कुरुतनयः फाल्गुनस्तन्निशाम्य । गत्वा भूदेवगेहं निजशरनिवहैः सूतिकागेहमध्ये कृत्वाथो पञ्जरं तच्छिशुमपि स ददर्शाङ्गनष्टं न तत्र ॥ १४५॥ पार्थोऽधिक्षिप्तमानो द्विजवरमुखतः सर्वलोकान् परीत्य नष्टं (पुत्रं) त्वदृष्ट्वाऽनलमनुनिविशन् कृष्णरुद्धस्त्ववाप । विष्णोर्लोकं गृहीत्वा मररिपुकृपयागत्य बालान द्विजाय दत्वाभूत्प्रीतियुक्तो निजसखसहितः पातु पूर्णत्रयीशः ॥ १४६॥ श्रीकृष्णो द्वारकायां सुरगणसदृशैर्वृष्णिसङ्घैर्युतायां प्राकाराट्टालसौधोत्तमगृहविपणीपङ्क्तिसधैर्युतायाम् । मुक्तावैदूर्यनीलप्रवरमरतकप्रौढगोमेधवज्रैः माणिक्यैर्भासुरायां निजवायुवतीं क्रीडयन् प्राप मोदम् ॥ १४७॥ गेहोद्याने स कृष्णः सरसि मणिजले पद्मकल्हारयुक्ते गोमेधैः पुष्यरागैः विकृततटवरे रत्नसोपानयुक्ते । कादम्बैश्चक्रवाकैः पिकशुकविहगैः सारसैः शोभमाने हास्यन् क्रीडन् वधूभिर्मुदमगमदमुं पातु पूर्णत्रयीशः ॥ १४८॥ उद्याने मण्डलेऽस्मिन्नमृतकरशिलानिर्मितैः स्वर्णकुम्भैः युक्ते मुक्तावितानैर्गरुडमणिचयस्तम्भसङ्घप्रयुक्ते । नारीभिश्चोत्तमाभिर्वरवसनमणीन् धारणीभिः समन्तात् आक्रीडन् भासमानो नृपमदनममुं पातु पूर्णत्रयीशः ॥ १४९॥ पूर्णत्रय्याख्यपुर्यां विरचितविहृतिर्देवगन्धर्वयक्षैः सिद्धैः साध्यैर्मुनीन्द्रैर्दिगधिपतिवरैः सेव्यमानाङ्घ्रियुग्मः । भक्ताभीष्टप्रदाता विकसितवदनाम्भोरुहः श्रीनिकेतः माट श्रीरामभूपं वरगुणरुचिरं पातु पूर्णत्रयीशः ॥ १५०॥ पूर्णत्रयीशचरितं यदुनाथभक्ताः श‍ृण्वन्ति ये त्वनुदिनं च पठन्ति ये वै । सत्कीर्तिपुण्यधनधान्यमहीसुतांश्च दीर्घायुरन्यविभवान् समवाप्नुयुस्ते ॥ १५१॥ इति श्रीपूर्णत्रयीशस्तोत्रं सम्पूर्णम् । Proofread by Rajesh Thyagarajan
% Text title            : Shri Purnatrayisha Stotram 05 17
% File name             : pUrNatrayIshastotram.itx
% itxtitle              : pUrNatrayIshastotram
% engtitle              : pUrNatrayIshastotram
% Category              : vishhnu, krishna, stotra
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : From stotrArNavaH 05-17
% Indexextra            : (Scan)
% Latest update         : October 9, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org