परमस्तुतिः
मौक्तिकाङ्कुरकल्पदंष्ट्रमुखाम्बुजं प्रलयाम्बुजं
चक्रशङ्खवराभयच्छविमत्करं सुयशस्करम् ।
रत्नराजिविराजिवृत्तशिरोधरं धरणीधरं
पोत्रिरूपिणमच्युतं प्रणतोऽस्मि तं सुखदस्मितम् ॥ १॥
अङ्कहीननिशेशबिम्बसमाननं निजमाननं
शङ्खमाल्यसुबोधपुस्तकधारिणं मधुवैरिणम् ।
कुङ्कुमाङ्कितचन्दनोज्जवलकन्धरं श्रुतिमन्दिरं
किङ्करीकृतविश्वमश्वमुखं भजत्सुखदं भजे ॥ २॥
नीलशैलविशालवप्रलसद्भुजान्तरसद्भुजा-
बाल्यमानुषसक्तभूललनाश्रमघ्न जितश्रम् ।
मालतीमणिमञ्जुमाल्य सरोजनेत्र गुरो जने
कोलरूप भवन्तमीश नतोऽस्मि तं सुखदस्मितम् ॥ ३॥
हारशोभिविशालवक्षसमीश्वरं तमनश्वरं
वारिजातसुजातपत्रविलोचनं कृतसेचनम् ।
शारदाम्बुदसन्निभं सकलोन्नतं सुजनैर्नतम् ।
पारवर्जितशौर्यमश्वमुखं भजत्सुखदं भजे ॥ ४॥
जातरूपमयाग्र्यमध्यविभूषणं भवभीषणम
पीतवस्त्रविषक्तसद्रशनोर्जितं मलवर्जितम् ।
आततायिसुरारिसञ्चयभङ्गदं कनकाङ्गदं
ख्यातसूकररूपिणं प्रणतोऽस्मि तं सुखदस्मितम् ॥ ५॥
पद्मरागविरागकिङ्किणिमेखलाञ्चितमेखला
साध्य बुद्धिरियं वरोदरबन्धन स्मरतां धन ।
त्वाद्य चिन्तयदुद्यदर्कसमाम्बरं गतडम्बरं
तद्वराय भवन्तमश्वमुखं भजत्सुखदं भजे ॥ ६॥
मृद्विभेन्द्रकरोपमाङ्कगवल्लभं सुरवल्लभं
स्निग्धजानुयुगं मनोहरजङ्घमुद्धृतजङ्गमम् ।
पद्मशोभिपदानखीकृतनागमान्यघनागमा-
वेद्यमद्भुतसूकरं प्रणतोऽस्मि तं सुखदस्मितम् ॥ ७॥
वर्तुलोरुयुगं मनोरमवृत्तजानुमवृत्तजा
स्तुत्यकोमलपुष्टजङ्घमहीनतल्पमहीनतम् ।
रक्तशारदचारुपद्मलसत्पदं निगमास्पदं
दैत्यवार्धिमहौर्वश्वमुखं भजत्सुखदं भजे ॥ ८॥
वादिराजयतीरिता हयवक्त्रभूधरवक्त्रभू
र्वेदवागिव पावनी परमस्तुतिर्गुणविस्तृतिः ।
सादरं पठतां सतां हरिपादपेशलपादपे
साधुभक्तिलतां स्थिरीकुरुतेतरामवृतेतरा ॥ ९॥
इति श्रीमद्वादिराजपूज्यचरणविरचिता
परमस्तुतिः सम्पूर्णा ।
भारतीरमणमुख्यप्राणान्तर्गत श्रीकृष्णार्पणमस्तु ।
Proofread by Malati Shekar