परशुरामस्य वृत्तं परं शोभनम्
परशुरामस्य वृत्तं, परं शोभनम् ।
नौमि पुरूषार्थमित्रं, परं शोभनम् ॥ १॥
वर्तते शम्भुशिष्यस्य तेजोमयम्,
जीवनं तत्पवित्रं, परं शोभनम् ॥ २॥
पितृभक्तस्तपस्वी, यती युद्धविद्,
सुदृढं तच्चरित्रं, परं शोभनम् ॥ ३॥
भगवता तेन शौर्येण संस्थापितम्,
नो हि शीर्षेषु छत्रं, परं शोभनम् ॥ ४॥
जन्मदाता पिता सेवितव्यः सदा,
संस्मरामैव मन्त्रं, परं शोभनम् ॥ ५॥
प्रीतवाचा हृदा चेतसा कर्मणा,
पूजितं तस्य चित्रं, परं शोभनम् ॥ ६॥
अक्षया त्वागत्तै तृतीया तिथिः
अक्षयं तस्य शस्त्रं, परं शोभनम् ॥ ७॥
सम्भवेत्सार्थकं मे कवित्वं कथम्?
सूत्रये कीर्ति-पत्रं परं शोभनम् ॥ ८॥
-- प्रेम शङ्कर शर्मा