पिशाचमोचनस्तोत्रम्

पिशाचमोचनस्तोत्रम्

श्रीगणेशाय नमः । श्रीलक्ष्मीनृसिंहाय नमः । विशुद्धमजमानन्दमेकमात्रमखण्डितम् । सच्चिन्मात्रं परं शान्तं तद्धि ब्रह्म नमाम्यहम् ॥ १॥ यद्धासा निखिलं भाति यस्य नान्यत्प्रकाशकम् । पुराणमव्ययं ज्योतिं तद्धि ब्रह्म नमाम्यहम् ॥ २॥ यदेकं सर्वभूतेषु प्रतिरूपतया स्थितम् । ज्योतिर्यथोदपात्रेषु तद्धि ब्रह्म नमाम्यहम् ॥ ३॥ यदन्तः सर्वभूतानां यद्रूपमबाधितम् । मेवाभरणादीनां तद्धि ब्रह्म नमाम्यहम् ॥ ४॥ यदेकं सर्वभावानां निरन्तरमदूषितम् । चिन्मात्रं निष्कलं पूर्णं तद्धि ब्रह्म नमाम्यहम् ॥ ५॥ ये नार्थान्भजते जन्तुः इन्द्रियेषु मनस्यपि । निरहङ्कारमानन्दं तद्धि ब्रह्म नमाम्यहम् ॥ ६॥ यन्मनो मनसां प्राणः प्राणानामिन्द्रियं वरम् । सर्वात्मकमखण्डं सत्तद्धि ब्रह्म नमाम्यहम् ॥ ७॥ यन्नामगुणरूपाद्यैः विचित्रमणिसर्वगम् । नीयते पशुबुद्धीनां तद्धि ब्रह्म नमाम्यहम् ॥ ८॥ यस्मादुदेति सद्विश्वं येन जीवति वर्धते । यस्मिन् प्रलीयते सर्वं तद्धि ब्रह्म नमाम्यहम् ॥ ९॥ यतो वागादया भावाः उत्थिताः स्वस्वकर्मसु । प्रवर्तन्ते साक्षिरूपात् तद्धि ब्रह्म नमाम्यहम् ॥ १०॥ यद् ग्रासकं ग्रासकाणां वीराणां च विवर्धनम् । व्यापकं व्यापकानां च तद्धि ब्रह्म नमाम्यहम् ॥ ११॥ सकलं निष्कलं व्योम मायातीतं निरञ्जनम् । अस्तिनास्तिद्वयातीतं तद्धि ब्रह्म नमाम्यहम् ॥ १२॥ यज्ज्वालयति कालाद्यास्तमो येन प्रकाशते । महाज्वालातमोरूपं तद्धि ब्रह्म नमाम्यहम् ॥ १३॥ यत्सर्वतो वदनवत्सर्वतः करणाच्छिरः । सर्वतो नयनश्रोत्रं तद्धि ब्रह्म नमाम्यहम् ॥ १४॥ यद्विचारवतो नृणां बन्धोऽनादि तमोभवः । सद्यो नश्यति शारीरस्तद्धि ब्रह्म नमाम्यहम् ॥ १५॥ यस्याज्ञयानिलार्केन्दुमृत्युवह्निग्रहादयः । स्वकर्मसु वर्तन्ते तद्धि ब्रह्म नमाम्यहम् ॥ १६॥ यन्नाम मङ्गलतमं मङ्गलानामनुत्तमम् । स्तुतिभिः स्तूयते वेदैस्तद्धि ब्रह्म नमाम्यहम् ॥ १७॥ यस्याऽत्मतां विदां मृत्युरनादि म्रियते क्षणात् । मृत्युमारणमापूर्णं तद्धि ब्रह्म नमाम्यहम् ॥ १८॥ निषिध्य सर्वलोकेऽस्मिन् यच्छेषमुपलभ्यते । सत्तामात्रमनिर्देश्यं तद्धि ब्रह्म नमाम्यहम् ॥ १९॥ पूर्णमन्तं बहिः पूर्णं येन पूर्णेन पूर्यते । पूर्णस्य पूर्णमाकाशं तद्धि ब्रह्म नमाम्यहम् ॥ २०॥ उग्रं वीरं महाविष्णुं ज्वलन्तं सर्वतो मुखम् । नृसिंहं भीषणं भद्रं मृत्युमृत्युं नमाम्यहम् ॥ २१॥ इति नृसिंहपुराणे शिवपार्वतीसंवादे पिशाचमोचनस्तोत्रं सम्पूर्णम् । Proofread by M K Barman
% Text title            : Pishachamochana Nrisimha Stotram
% File name             : pishAchamochanastotram.itx
% itxtitle              : nRisiMhastotram pishAchamochana
% engtitle              : pishAchamochana nRisiMhastotram
% Category              : vishhnu, dashAvatAra, stotra, narasiMhapurANa, viShNu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : dashAvatAra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : M K Barman
% Description/comments  : nRRisiMhakosha 2 upAsanA khaNDa, narasiMhapurANa | adhyAya
% Indexextra            : (Scans 1, 2, padmapurANalist)
% Latest update         : August 4, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org