प्रार्थनाष्टकम्

प्रार्थनाष्टकम्

मया ज्ञातं सर्वं खलु जगदिदं ब्रह्म विमलं तथैवेह स्वात्मा निगमगुरुवाक्यादनुभवात् । तथापीच्छा स्वस्य त्वयि नयनपातस्य न गता प्रभो श्रीकृष्ण त्वं भव भव मदीयाक्षिविषयः ॥ १॥ ममेमामाशाधिं हरसि यदि न त्वं च विपुला- महं भक्ताधीनो वदसि कथमित्थं प्रियमुधा । श्रुतं घार्ण्यं भक्ते तव मयि करोषीह न च किं (घार्ण्यं एवं कारुण्यं) प्रभो श्रीकृष्ण त्वं भव भव मदीयाक्षिविषयः ॥ २॥ अमूल्यान्यस्वार्थे यदि तव रुचिर्नास्ति भगवन् सतां श्रीरन्यार्था क्व गतमिति वाक्यं च महताम् । यथा मेऽस्ति प्रीतिस्त्वयि मयि तव स्वात्मनि न किं प्रभो श्रीकृष्ण त्वं भव भव मदीयाक्षिविषयः ॥ ३॥ त्वदन्यं दुःखघ्नं शरणमुपयामोत्र वद कं तनूजोर्थोनारी निगमयतिवेषौ वनज्ञतिः । तवाप्राप्तौ सर्वे निरयमिव दुःखादसुखदाः प्रभो श्रीकृष्ण त्वं भव भव मदीयाक्षिविषयः ॥ ४॥ गजास्योयं देव्यास्तनुज उत तस्याः पतिहरः स लोकेशाज्जातस्तदपि हरेस्तत्प्रभृतयः । कलांशाः कृष्णस्तु स्वयमिति विभुर्भागवततः प्रभो श्रीकृष्ण त्वं भव भव मदीयाक्षिविषयः ॥ ५॥ मनश्वाञ्चल्यं मे करणकृतदोषं मनसिजं स्मयं रोषं लोभं न च मम गतिर्द्रक्ष्यसि यदा । स्ववात्सल्यं दृष्ट्वा कुरु गुरुदयां स्वात्मशरणे प्रभो श्रीकृष्ण त्वं भव भव मदीयाक्षिविषयः ॥ ६॥ सखा सख्युर्नार्याः पतिरिव तनूजस्य जननी क्षमस्व त्वं मेऽधं जलनिधिग काकस्य शरणम् । यथा पोतादन्यं मम भवदृते नास्ति जगति प्रभो श्रीकृष्ण त्वं भव भव मदीयाक्षिविषयः ॥ ७॥ अहोऽत्राहं धन्यश्चरणमणिशब्द श्रुतिगणं बहिःश्यामं त्वन्तः सितममरवाग्बुद्ध्यविषयम् । (शुद्धम्) यतो द्रक्ष्यामीशं रविशतसमापीडशिरसं प्रभो श्रीकृष्ण त्वं भव भव मदीयाक्षिविषयः ॥ ८॥ इति श्रीस्वामिज्ञानदासशिष्यगोपालदासेन विरचितं प्रार्थनाष्टकं सम्पूर्णम् । Proofread by Saritha Sangameswaran
% Text title            : Prarthana Ashtakam
% File name             : prArthanAShTakam.itx
% itxtitle              : prArthanAShTakam
% engtitle              : prArthanAShTakam
% Category              : vishhnu, krishna, aShTaka
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : gopAladAsa
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Saritha Sangameswaran
% Description/comments  : vairAgyabhAskaraH shlokasangraha by gopAladAsa
% Indexextra            : (Scan)
% Latest update         : November 12, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org