प्रातरनुसन्धेयश्लोकाः
श्रीरस्तु ।
श्रीमते हयग्रीवाय नमः ।
श्रीमते रामानुजाय नमः ॥
ग्राहग्रस्ते गजेन्द्रे रुवति सरभसं तार्क्ष्यमारुह्य धावन्
व्याघूर्णन्माल्यभूषावसनपरिकरो मेघगम्भीरघोषः ।
आबिभ्राणो रथाङ्गं शरमसिमभयं शङ्खचापौ सखेटौ
हस्तैः कौमोदकीमप्यवतु हरिरसांवहसां संहतेर्नः ॥ १॥
नक्राक्रान्ते करीन्द्रे मुकुलितनयने मूलमूलेति खिन्ने
नाहं नाहं नचाहं न च भवति पुनस्तादृशो मादृशेषु ।
इत्येवं त्यक्तहस्ते सपदि सुरगणे भावशून्ये समस्ते
मूलं यः प्रादुरासीत्स दिशतु भगवान् मङ्गलं सन्ततं नः ॥ २॥
प्रातःस्मरामि भवभीतिमहार्तिशान्त्यै
नारायणं गरुडवाहनमञ्जनाभम् ।
ग्राहाभिभूतमदवारणमुक्तिहेतुं
चक्रायुधं तरुणवारिजपत्रनेत्रम् ॥ ३॥
प्रातर्नमामि मनसा वचसा च मूर्ध्ना
पादारविन्दयुगलं परमस्य पुंसः ।
नारायणस्य नरकार्णवतारणस्य
पारायणप्रवणविप्रपरायणस्य ॥ ४॥
प्रातर्भजामि भजतामभयङ्करं तं
प्राक्सर्वजन्मकृतपापभयापनुत्त्यै ।
यो ग्राहवक्त्रपतिताङ्घ्रिगजेन्द्रघोर-
शोकप्रणाशनकरो धृतशङ्खचक्रः ॥ ५॥
इति प्रातरनुसन्धेयश्लोकाः समाप्ताः ।
Proofread by Aruna Narayanan narayanan.aruna at gmail.com