प्रपन्नानन्दस्तोत्रम्
श्रीवेङ्कटधरणीधरपतिवक्षस्स्थलविशालकेलिगृहम् ।
जगदुज्जीवनसुस्मितललितमुखं तन्ममास्तु वस्तु हृदि ॥ १॥
निबरीसभ्रमरीरुचिकबरीसङ्गतमनोज्ञसुमहारान् ।
कलयामहेऽत्युदारान्मुररिपुदारान्कृतार्तिपरिहारान् ॥ २॥
नववज्रकलितदिनकरसितकिरणाभरणरुचिरकचभारान् ।
करुणाभरसुस्मेरात्रुचिरविहारान्भजे हरेर्दारान् ॥ ३॥
कुङ्कुमतिलकितभाल विलुलितसुस्निग्धमुग्धकुन्तलजालम् ।
कलये वदान्यशीलं कलशाम्बुनिधेरपत्यमच्युतलोलम् ॥ ४॥
निटिलविजितेन्दुबालं भ्रूवल्लिस्फुरणवशितयदुबालम् ।
लक्ष्मीवदान्यलीलं वस्तु मदियेऽस्तु हृदि विनतपालम् ॥ ५॥
चम्पकसुमसमनासां सम्पन्निधिमाश्रयेंऽबुधिं भासाम् ।
अमरीणां सर्वासां शरण्यचरणां सरोरुहनिवासाम् ॥ ६॥
कुवलयरुचिमदविघटनपटुनयनयुगं तवार्थिकल्पनगम् ।
स्वान्ते करोमि मुररिपुकान्ते शान्ते नितान्तमेकान्ते ॥ ७॥
कलिताश्रितार्तिभङ्गान् वशितमहापुरुषविभ्रमविभङ्गान् ।
सञ्चिन्तयाम्यपाङ्गान्मङ्गल्देव्यास्सदा महोत्तुङ्गान् ॥ ८॥
वदनरुचिह्वदविहरन्नयनमहामीनराजनिष्ठथूतम् ।
नासाविवरविलग्नं नूनं ध्यायामि मौक्तिकं देव्याः ॥ ९॥
मुखविजितचन्द्रबिम्बं मुग्धाधरकान्तिधूतनवबिम्बम् ।
पङ्कजनयनकुटुम्बं सङ्कलये सर्वसुरजनालम्बम् ॥ १०॥
सकलजगदग्रगण्यं सरसिजनयनस्य परिणतं पुण्यम् ।
अस्मादृशां शरण्यं विभावये मनसि किमपि लावण्यम् ॥ ११॥
जगदीश्वरत्वयोग्य जगदीश्वरविहरणैकतमभोग्यम् ।
तत्किमपि महाभाग्यं मम नृत्यतु मनसि कल्पितारोग्यम् ॥ १२॥
शुभदायिनामधेयं सकलसुरस्तोमयुवतिजनगेयम् ।
गोविन्दभागधेयं गोपायतु मा नतावलिविधेयम् ॥ १३॥
मलयानिलकेलिसखं सुधासहाध्यायिदिव्यतररचनम् ।
वचनं सुधाब्धिपुत्र्या रचयतु सकलां श्रियं ममाविकलाम् ॥ १४॥
निजदयितवदनविधुरुचिविलोकनायात्तमुकुरयुगलमिव ।
विमलं कपोलयुगलं कमलायाश्चिन्तयान्तरङ्ग मम ॥ १५॥
लक्ष्म्या वदनशशाङ्कं श्रुतियुगसङ्कलितवज्रताटङ्कम् ।
ध्यायामि धुतातङ्कं मुक्तामणिभूषितं गताशङ्कम् ॥ १६॥
धृतदिव्यकनकचेलाः कैरवबन्धुस्तनन्धयनिटालाः ।
दिव्याः काश्चन लीला अव्यासुर्विकचपद्मवनलोला ॥ १७॥
चञ्चलकटाक्षरेखान्कांश्चिदुदञ्चितविभूषणमयूखान् ।
किलिकिञ्चितपरिवञ्चितबलिवञ्चकमानसान्भजामि रसान् ॥ १८॥
कनकसरोरुहकुट्मलदायादस्तनभरान्गभीरतरान् ।
कलयामि रूपविभवान्कांश्वन लीलातरङ्गितात्मभवान् ॥ १९॥
अमृतसखव्याहारानाश्रयविधुकिरणमदहरणहारान् ।
विभवान्काञ्चिदपरान्विश्वजगज्जीवनस्तनक्षीरान् ॥ २०॥
नलिनालङ्कृतहस्ता नलिनाक्षस्य प्रियां सुगुणशस्ताम् ।
प्रणमामश्शतशस्तां शरणागतरक्षणेष्वविस्रस्ताम् ॥ २१॥
मणिमयकङ्कणवलयं कलितसुराधीशखेदभरविलयम् ।
काञ्चनकाञ्चिकलापानञ्चितविद्युल्लतासदृशरूपान् ॥ २२॥
शरणागतभरणानघचरणामरुणाधरां जगज्जननीम् ।
करुणाभरवरुणालयपरिणाहिविलोचनां भजे शरणम् ॥ २३॥
किं बहुभिर्देवैरिह शम्बरडम्बरहरस्य तामम्बाम् ।
अश्रुजनयनसखीं विधुबिम्बमुखीं संश्रयानिशं हृदय ॥ २४॥
ललितपदं कलितमुदं जननिपदं श्रेयसां पठन्विशदम् ।
स्तवमिह तव प्रपन्नानन्दं विन्दत्यमन्दमानन्दम् ॥ २५॥
स्तुतिमिति महिशूरपुरीचाममहीपालकुलसमृद्धिकृते ।
तत्कुलगुरुर्व्यतानीच्छ्रीकृष्णब्रह्मतन्त्रपरकालः ॥ २६॥
इति श्रीकृष्ण ब्रह्मतन्त्र परकाल महादेशिकानां कृतिषु
श्रीप्रपन्नानन्दस्तोत्रं सम्पूर्णम् ।
Proofread by Swamini Tattvapriyananda tattvapriya3108 at gmail.com