प्रतिबिम्बलहरी
Introduction
Pratibimbalahari -- Tiruvaymoli / Tiruvaimozhi (Tamil: dhiruvAymoLi)
The Naalayira Divya Prabandham -
(Tamil: nAlAyiradh dhivviyabhbhirabhandham, romanized: Nālāyira Divya Prabandham, lit. 'Four Thousand Divine Hymns') is a collection of 4,000 Tamil verses composed by the 12 Alvars. It was compiled in its present form by Nāthamuni during the 9th–10th centuries.
Description :
The Divya Prabandham sings the praises of Narayana (Vishnu) and his many forms. The Alvars sang these songs at various sacred shrines known as the Divya Desams.
Prominent among its 4,000 verses are the 1,102 verses known as the Tiruvaymoli (᳚verses of the sacred mouth᳚), composed by Nammalvar and which forms the third portion of the overall Divya Prabandham. The poem is divided into 10 sections (pattu) of about 100 verses each. Each hundred is divided into 10 decads (dashakas).
Pratibimba Lahari :
This magnum opus by Sri U.Ve. Villur Nadadoor Sribhashya Simhasanadhipati ᳚Sahitya Vyakarna Vachaspati᳚ Venkataseshacharya Swami (1855-1934 CE) is translation of Tiruvaimozhi into Sanskrit Shlokas.
U. Ve. Dr. Karunakarachariar Swamy, the grandson of the author, took the tremendous task of publishing the entire work in 10 volumes in a span of 35 years. He mentions perhaps due to funds constraints it was not published during his grandfather and Father's times.
The original text in Grantha, had to be transcribed in Devanagari. With great efforts and help from family members, he finally succeeded to complete the task of publishing the entire text of Pratibimbalahari in Devanagari, in his lifetime thankfully.
Dr. V.S. Karunakarachariar Swamy is a renowned scholar and speaker in the Bhagavatha Ramanuja Sampradayam, known for his lectures and writings in Tamil, Sanskrit, and English.
For the benefit of Sanskrit admirers all over the world, Swamiji has conveyed his permission to post this work on Sanskritdocuments website.
Any queries may please be sent to sanskrit at cheerful.com.
मूलम्
श्रीः
॥ सर्वदिव्यप्रबन्धसाधारणमुखपद्यानि ॥
रामानुजदयापात्रं ज्ञानवैराग्यभूषणम् ।
श्रीमद्वेङ्कटनाथार्यं वन्दे वेदान्तदेशिकम् ॥ १॥
लक्ष्मीनाथसमारम्भां नाथयामुनमध्यमां
अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम् ॥ २॥
यो नित्यमच्युतपदाम्बुजयुग्मरुक्म-
व्यामोहतस्दितराणि तृणाय मेने ।
अस्मद्गुरोः भगवतोऽस्य दयैकसिन्धोः
रामानुजस्य चरणौ शरणं प्रपद्ये ॥ ३॥
माता पिता युवतयस्तनया विभूतिः
सर्वं यदेव नियमेन मदन्वयानाम् ।
आद्यस्य नः कुलपतेः वकुलाभिरामं
श्रीमत्तदङ्घ्रियुगलं प्रणमामि मूर्ध्ना ॥ ४॥
भूतं सरश्च महदाह्वय-भट्टनाथ-
श्रीभक्तिसारकुलशेखरयोगिवाहान् ।
भक्ताङ्घ्रिरेणु-परकालयतीन्द्रमिश्रान्
श्रीमत्पराङ्कुशमुनिं प्रणतोऽस्मि नित्यम् ॥ ५॥
मङ्गलाशासनादिसूक्तप्रणेतुः श्रीभट्टनाथस्य
॥ स्तुतिपद्यगाथाः ॥
गुरुमुखमनधीत्य प्राहवेदानशेषान्
नरपतिपरिक्लृप्तं शुल्कमादातुकामः ।
श्वशुरममरवन्द्यं रङ्गनाथस्य साक्षात्
द्विजकुलतिलकं तं विष्णुचित्तं नमामि ॥ १॥
ज्वलता* पृथुना चापि प्राकारेणाभिवेष्टितम् ।
धन्विनव्यपुरं ब्रूते सकृद्यो मनुजोत्तमः ॥
तस्याङ्घ्रिकमलं शीर्ष्णा वहामो; राजसंसदि ।
पूर्वं दारितशुल्कं तं प्रशंसामो मनो! वयम् ॥
इत्यधोगतिदं मार्गं दारयामस्समागताः ॥ २॥
(*अस्माभिः इमानि पद्यानि उपरिस्थितमुखद्रमिडगाथा-
विवर्तनतया कृतानि । - परिशोधकः)
प्रशंसेच्च यथा पाण्ड्यो शङ्खध्मानं जना यथा ।
कुर्युः प्राप्त इहाद्यायं भट्टनाथो महानिति ॥
तथा काङ्क्षितवेदानां पठन् वाक्यानि संसदि ।
आददाराशु शुल्कं यः तस्याङ्घ्री शरणं हि नः ॥ ३॥
श्री विष्णुचित्तदिव्यसूरिश्रीसूक्ते प्रथमं दशकं
॥ मङ्गलाशासनम् ॥
(संस्कृतविवर्तनम्)
(बालकवि-विल्लूर्-नडादूर्-श्री-सुन्दरराज-प्रणीतम्)
विजयतां चिरं शाश्वतीस्समाः बहुसहस्रिणीः कोटिकोटिशः ।
मल्लजिन्महास्कन्ध ! रत्न ! ते रक्तपद्प्रभा स्वस्तिशलिनी ॥ १॥
दासैस्समैररहितो विजयस्य नित्यं त्वद्दक्षिणोरसि चिरं जयतु स्थिता श्रीः ।
भास्वच्चिरं जयतु दक्षिणवर्ति चक्रं घुष्यन् स दीव्यतु चिरं युधि पाञ्चजन्यः ॥ २॥
शेषाः प्रभोर्यदि मृदं मुदमाप्नुतास्मद्यूथं प्रवेष्टुमुदरम्भरयो न योग्याः ।
आसप्तपूर्वपुरुषादनघा हि रक्षोलङ्कां विनाशितवते जयमीरयामः ॥ ३॥
अस्मद्गणं धरणिखेटनिवेशनात्प्राक्सीमावधीर्य समुपेत समेतुकामाः ।
नारायणाय नम इत्यखिलेड्यरीत्या भक्ताः ! प्रभोर्जयमुदीरययताभ्युपेत्य ॥ ४॥
दैतेयराक्षसकुलान्यखिलाण्डनाथं उन्मूल्य मूलहरमीश्वरमिन्द्रियाणाम् ।
दासाः ! प्रणम्य शुभनामसहस्रमुक्त्वा त्यक्त्वा पुरातनकुलं विजयं ब्रवीध्वम् ॥ ५॥
मत्ताततातपितृकालत एत्य दास्यं वंशक्रमेण तनुमः श्रवणोत्सवेऽसौ ।
भूत्वा प्रदोषसमयेऽरिमहन् हरिर्यः तं दृष्टिदोषविगमाय जयेति वच्मः ॥ ६॥
अत्यग्निभास्वरसुदर्शनचक्रचिह्नाः दास्यं प्रभोरिह कुलक्रमशो दधानाः ।
मायाविबाणभुजतः क्षतजं पुराजौ चक्रेण वाहितवते जयमीरयामः ॥ ७॥
अन्नं घृतादि सुभगं परमं च दास्यं ताम्बूलहारवरचन्दनकुण्डलानि ।
दत्वा शुभानि मम शुद्धिकराय वच्मि नित्यं जयेति वचनं गरुडध्वजाय ॥ ८॥
धृत्वाऽम्बरं तव निषेव्य च भुक्तशेषं दासास्त्वदीयतुलसीस्रजमाभरन्तः ।
कृत्वा निदिष्टमभिजिन्मह ईरयामः नागे फणावति शयान चिरं जयेति ॥ ९॥
दासः प्रभोरभवमत्र यदा तदैव मोक्षं ममालभत नीचतरः कुटीरः ।
पुण्याहजात मथुरापुरि भग्नचाप पञ्चास्यभोगिमकुटस्थ जयेति वच्मः ॥ १०॥
निष्पापगोष्ठिपुरजन्यभिमानतुङ्गः श्रीमान् यथाहमहपि नाथ! तवास्मि दासः ।
नारायणाय नम इत्यभिधाय पुण्यात् तुभ्यं पवित्र! बहुधा जयमीरयामि ॥ ११॥
नित्यं जयेति परमेष्ठिनमूढशार्ङ्गं पुण्यं यथाऽस्तुत गिरा किल विष्णुचित्तः ।
तं युक्तकाल इति येऽनुदिनं पठन्ति ते मूलमन्त्रमुखराः परमं परीयुः ॥ १२॥
॥ श्रीमधुरकविदिव्यसूरिविरचितः ग्रन्थिमल्लघुगुणप्रबन्धः ॥
(बालकवि विल्लूर् नडादूर् सुन्दरराजकृत संस्कृतविवर्तनयुतः)
॥ मुखपद्यगाथे ॥
अविदितविषयान्तरश्शठारेः उपनिषदामुपगानमात्रभोगः ।
अपि च गुणवशात्तदेकशेषी मधुरकविहृदये ममाविरस्तु ॥ १॥
*जानामि नान्यत् किल किञ्चनाहं वेदं घटोद्भूतगिरि प्रदाता ।
मारश्शठारिः कुरुकावृषो नः जीवातुरित्यादि नुतीर्विधाय ।
आस्ते कविर्यो मधुरः प्रशास्ता मान्यः सुरक्षा च स एव नोऽस्ति ॥ २॥
(*इदं परिशोधकैः अस्माभिः कृतं विवर्तनम् ।)
``लघीयसा ग्रन्थिमता गुणेन''
लघिष्ठसग्रन्थिगुणेन मायिनः प्रभोर्मम प्रापितबन्धनादपि ।
जपेन नाम्ना कुरुकागुरोरितः मदीयजिह्वा मधुमत्तरा भवेत् ॥ १॥
अवापमानन्दमुदीर्य जिह्वया शुभं तदीयं च पदं यदार्थतः ।
त वेद्मि दैवं कुरुकेशतः परं चरामि गायन् मधुरा हि तत्कृतीः ॥ २॥
तथा चरन् रूपमवेक्षितुं क्षमे सितेतरं देवपतेः श्रिया युतम् ।
उदारवृत्तेः कुरुकाप्रभोरहं समासदं श्रेय इदं सुसेवया ॥ ३॥
समुन्नताः श्रेयसि वेदवित्तमाः विनिन्दितं विद्युरिमं जनं यतः ।
पितेव मातेव च रक्षकस्ततः स नायकः श्रीशठकोप एव मे ॥ ४॥
परस्स्वविश्वासपरः पुराभवं विलासिनीः व्यश्वसमेवमेव च ।
सहेमसौधां कुरुकामधिष्ठितं प्रभुं समाश्रित्य जयामि साम्प्रतम् ॥ ५॥
इतः परं सप्तसु जन्मसु स्वकं यशस्स गातुं कृतवाननुग्रहम् ।
बृहद्गृहश्रीकुरुकापुरीप्रभुः उपेक्षिता मां न कदापि पश्यत ॥ ६॥
स कारिजो मामवलोक्य पार्श्वतः ममार्ज सर्वं मम पापसञ्चयम् ।
प्रबोधयन्नष्टदिशोऽपि कीर्तये शठद्विषो द्राविडगायिनो दयाम् ॥ ७॥
दयां श्रियः पत्युरवाप्य नन्दतां ददौ मुदे यो निगमार्थसंविदम् ।
सहस्रगाथाः द्रमिडीयभाषया प्रणेतुरिन्धे करुणा शठद्विषः ॥ ८॥
द्विजातिगीतश्रुतिसारसम्पदं न्यधत्त सङ्गीय स मानसे मम ।
यशस्विनो दास्यरुचिश्शठद्विषः परं फलं किङ्करजीवितस्य नः ॥ ९॥
अपक्वबुद्धेरपि निष्फलस्य च क्रियास्समीकृत्य मुदानुगृह्णतः ।
पिकाढ्यगुल्मे कुरुकापुरे स्थित! प्रभो ! परं त्वत्पदयोः प्रियं यते ॥ १०॥
प्रियं श्रियः कान्तमुपेयुषां सतां प्रियस्य दासः कुरुकाशठद्विषः ।
कविर्यदूचे मधुरः प्रियोऽत्र तत् परं पदं विश्वसतां पदं ध्रुवम् ॥ ११॥
॥ श्रीशठकोपसूरेः सहस्रगीतिप्रबन्धस्य मुखपद्यानि* ॥
(* एतेषां द्रमिडमुखपद्यानां संस्कृतीकरणं अस्माभिः कृतं -- शोधकः)
भक्तामृतं विश्वजनानुमोदनं सर्वार्थदं श्रीशठकोपवाङ्मयम् ।
सहस्रशाखोपनिषत्समागमं नमाम्यहं द्राविडवेदसागरम् ॥ १॥
देशं श्रीवलुदेः तथा च कुरुकां तां दक्षिणां श्रीपुरीं
गम्भीरां ललितां च ताम्रसरितं सङ्कीर्त्य चित्त ! स्फुटम् ।
गम्भीरान् अतिदुर्लभान् निजगिरा त्वन्तादिरूपेऽकरोत्
यो वेदान् सततं तदीयचरणावेव प्रचिन्त्यौ त्वया ॥ २॥
वाचा हृदा वा कुरुकापुरीं तां समाश्रितानां गणतो बहिर्ये ।
न तान् भजेयं धनतो न हीनः शठारिपादौ मम सर्वभूतौ ॥ ३॥
युक्तातिकीर्तेः यतिशेखरस्य रामानुजार्यस्य पदारविन्दे ।
दिव्ये भजेऽहं निरवद्यदीव्यत्तादृक्षकीर्तेः शठकोपसूरेः ।
लब्धुं हि चित्तं द्रमिडश्रुतीनां सन्धारणे पाटवदार्ढ्ययुक्तम् ॥ ४॥
व्योमस्पृगुद्यानसुवप्रयुक्तरङ्गेशकल्याणगुणप्रशंसाः ।
आतन्वतीनां द्रमिडश्रुतीनां माता सवित्री शठकोपसूरिः ॥
सङ्ख्या सहस्रं भवतीह यासां तासां समारोहणतोऽतिमान्यात् ।
संवर्धने नित्यरतोपमाता रामानुजार्यो यतिराज इन्धे ॥ ५॥
पत्युः प्रबन्धः कुरुकाजनानां वीणासनाभिः मधुरं प्रवक्ति ।
प्राप्यं परं जीवमथास्य मार्गं विघ्नीभवत्कर्म च मुक्तिसौख्यम् ॥ ६॥
श्रीमद्वेदान्तदेशिकैरनुगृहीता ॥ तात्पर्यरत्नावलिः ॥
॥ श्रीः ॥
रामानुजदयापात्रं ज्ञानवैराग्यभूषणम् ।
श्रीमद्वेङ्कटनाथार्यं वन्दे वेदान्तदेशिकम् ॥
(अवतारिका)
सारस्सारस्वतानां शठरिपुभणितिः शान्तिशुद्धान्तसीमा
मायामायामिनीभिः स्वगुणविततिभिः बन्धयन्तीं धयन्ती ।
पारम्पारम्परीतो भवजलधिभवन्मज्जनानां जनानां
प्रत्यक् प्रत्यक्षयेन्नः प्रतिनियतरमासन्निधानं निधानम् ॥ १॥
प्रज्ञाख्ये मन्थशैले प्रथितगुणरुचिं नेत्रयन् सम्प्रदायं
तत्तल्लब्धिप्रसक्तैः अनुपधि विबुधैः अर्थितो वेङ्कटेशः ।
तल्पं कल्पान्तयूनः शठजिदुपनिषद्दुग्धसिन्धुं विमथ्नन्
ग्रन्थाति स्वादुगाथालहरिदशशतीनिर्गतं रत्नजातम् ॥ २॥
पाञ्चालीगात्नशोभाहृतहृदयवधूवर्गपुम्भावनीत्या
पत्यौ पद्मासहाये प्रणयिनि भजतः प्रेयसीपारतन्त्र्यम् ।
भक्तिः शृङ्गारवृत्त्या परिणमति मुनेः भावबन्धप्रथिम्ना
योगात् प्रागुत्तरावस्थितिरिह विरहो देशिकास्तत्र दूताः ॥ ३॥
भाषागीतिः प्रशस्ता भगवति वचनात् राजवच्चोपचारात्
सा चागस्त्यप्रसूता त्विति परिजगृहे भूमिकाभेदयोग्या ।
यत्तत्कृत्यं श्रुतीनां मुनिगणविहितैः सेतिहासैः पुराणैः
तत्रासौ सत्त्वसीम्नः शठमथनमुनेः संहिता सार्वभौमी ॥ ४॥
आदौ शरीरकार्थक्रममिह विशदं विंशतिर्वक्ति साग्रा
सङ्क्षेपोऽसौ विभागं प्रथयति च ऋचां चारुपाठोपपन्नम् ।
संयग्गीतानुबद्धं सकलमनुगतं सामशाखासहस्रं
संलक्ष्यं साभिधेयैः यजुरपि दशकैः भात्यथर्वारसैश्च ॥ ५॥
प्राच्ये सेवानुगुण्यात् प्रभुमिह शतकेऽमंस्त मुक्तेरुपायं
मुक्तप्राप्यं द्वितीये मुनिरनुबुबुधे भोग्यताविस्तरेण ।
प्राप्यत्वोपायभावौ शुभसुभगतनोरित्यवादीत् तृतीयेऽ-
नन्यप्राप्यश्चतुर्थे समभवदितरैरप्यनन्याद्युपायः ॥ ६॥
देवः श्रीमान् स्वसिद्धेः करणमिति वदन् एकमर्थं सहस्रे
सेव्यत्वादीन् दशार्थान् पृथगिह शतकैः वक्ति तत्स्थापनार्थान् ।
एकैकश्यात् परत्वादिषु दशकगुणेष्वायतन्ते तथा ते
तत्तद्गाथागुणानामनुविदधति तत्पङ्क्तयः पङ्क्तिसङ्ख्याः ॥ ७॥
सेव्यत्वात् भोग्यभावात् शुभतनुविभवात् सर्वभोग्याधिकत्त्वात्
श्रेयस्तद्धेतुदानात् श्रितविवशतया स्वाश्रितनिष्टहृत्वात् ।
भक्तच्छन्दानुवृत्तेः निरुपधिकसुहृद्भावतः सत्पदव्यां
साहाय्याच्च स्वसिद्धेः स्वयमिह करणं श्रीधरः प्रत्यपादि ॥ ८॥
ब्रूते गाथासहस्रं मुरमथनगुणस्तोमगर्भं मुनीन्द्रः
प्रत्येकञ्चात्र गाथाः प्रथितविभुगुणाः स्पष्टमध्यक्षयामः ।
तत्रासङ्कीर्णतत्तद्दशकगुणशतस्थापनौचित्ययुक्तान्
ऐदम्पर्यावरुद्धान् अगणितगुणितान् तद्गुणानुद्गृणीमः ॥ ९॥
इच्छासारथ्यसत्यापितगुणकमलाकान्तगीतान्तसिध्यत्-
शुद्धान्ताचारसिद्धैः इयमनघगुणग्रन्थिबन्धानुबद्धा ।
तत्तादृक्ताम्रपर्णीतटगतशठजिद्दृष्टसर्वीयशाखा-
गाथातात्पर्यरत्नावलिरखिलभयोत्तारिणी धारणीया ॥ १०॥
॥ इति अवतारिका ॥
प्रस्तावना
॥ श्रीः ॥
॥ श्रीमते लक्ष्मीहयवदनपरब्रह्मणे नमः ॥ श्रीमते वकुलभूषणमहागुरवे नमः ॥
॥ श्रीमते रामानुजाय नमः ॥ श्रीमते वात्स्यवरददेशिकाय नमः ॥
॥ श्रीमते निगमान्तमहादेशिकाय नमः ॥ श्रीमते सुन्दरार्यमहादेशिकाय नमः ॥
तिरुवाय्मोषि (Tiruvaimozhi)
तस्याः श्रीवेङ्कटशेषार्यमहादेशिकैः संस्कृतश्लोकैः कृता
॥ प्रतिबिम्बलहरी ॥
(श्रीमद्वेङ्कटशेषार्यमहादेशिकविरचिता)
(तत्र प्रस्तावना)
कल्याणं कोऽपि कल्पद्रुः करोतु करुणाकृतिः ।
वटाक्षैः पुनरुक्तश्रीः रुक्मिणीसत्यभामयोः ॥ १॥
वन्दे वन्दारुबृन्दायानन्दसन्दोहदं गिरा ।
मन्देतरदयाकन्दं तं देवं हयकन्धरम् ॥ २॥
श्रीशं श्रियं शठारातिं तदीयां द्रमिडश्रुतिम् ।
तद्व्याख्याः तत्कृतश्चाहं प्रणमाम्यखिलान् गुरून् ॥ ३॥
तातपादानहं वन्दे वात्स्यान् वरददेशिकान् ।
यानन्वगृह्णन् वेदान्तरामावरजयोगिनः ॥ ४॥
श्रीसुन्दरार्यगुरुवर्यतयावतीर्य मादृक्समस्तजनताजनितापहर्तुः ।
चित्ते स्थितस्य मम रङ्गपतेः प्रसत्त्यै कुर्वेऽनुबिम्बलहरीं द्रमिडश्रुतीनाम् ॥ ५॥
दयन्तां देशिकाः पूर्वे ते ते दिव्याश्च सूरयः ।
द्रमिडोपनिषद्गाथासंस्कृतीकरणाय मे ॥ ६॥
क्वाहं मन्दमतिः क्वचातिगहनस्वान्ताः शठारेर्गिरः
कालक्षेपधिया यतेऽत्र न तु तत्सर्वस्वलेखेछया ।
यद्यप्यस्वरसैव मत्कृतिरियं पूर्णेतरत्वात्तथाऽपि-
अत्यन्तादरणक्षमार्भकवचस्सारस्यसारस्पृशाम् ॥ ७॥
(इति प्रस्तावना)
॥ प्रतिबिम्बलहरी - प्रथमशतकम् ॥
॥ श्रीः ॥
श्रीमद्वेङ्कटशेषार्यमहादेशिकविरचिता
॥ अथ प्रथमशतके प्रथमं दशकम् ॥
प्रतिबिम्बलहरीवृत्तं - शार्दूलविक्रीडितम् ।
एतद्दशकप्रतिपाद्यगुणविशेषः - परत्वम् ॥
॥ सङ्गतिमणिमाला ॥
श्रीमच्छ्ठारेश्चरमप्रबन्धगाथासहस्त्रे दशकं प्रतीष्टा ।
सुसङ्गतत्वावहचित्रपद्य शताभिरम्या मणिमालिकेयम् ॥
श्रियःपतिं श्रीशठजित् स्वयोगात् यथातथत्वात् अनुभूय चास्य ।
बाह्याद्यधृष्यां परतां च जानन् प्रेम्णाऽस्य दास्ये स्वमनोऽनुशास्ति ॥
यः सर्वोच्छ्रितनिस्समाधिकनिजानन्दादिदीव्यद्गुणः
यश्चाज्ञाननिवृत्तिमन्मतिमहानन्दप्रदोऽभून्मम ।
यश्चाविस्मृतिदीप्तसूरिनिवहाधीशस्सदैवोज्ज्वलं
तस्यानम्य पदं भवज्वरहरं मच्चित्त ! वर्धस्व भोः ॥ १.१.१॥
यो बाह्येन्द्रियजन्यबुद्धिविषयाचित्तत्त्वतो भिद्यते
योगाभ्यासविशुद्धचित्तविषयाच्छुद्धात्मतत्त्वादपि ।
यः कालत्रितये समाभ्यधिकताशून्योऽन्तरात्मा मम
ज्ञानानन्दघनो य ईदृगमुमुज्जीवानमन्मे मनः ! ॥ १.१.२॥
तद्वानेतदभाववानिति च यो ज्ञातुं न शक्योऽन्तरा
रोदस्योः धृतरूपरूपरहिताचिच्चेतनाकारवान् ।
युक्तोप्यैन्द्रियकैर्न चेन्द्रियपदं दिग्देशकालानव-
च्छिन्नस्तादृशसर्वसद्गुणनिधेः कस्याप्यभूमान्तिकाः ॥ १.१.३॥
यो भूत्वास्ति वयं सुदूरनिलयो दूरस्थितो मध्यगः
दूरस्थात्कगतान्तरस्थितियुताप्रष्टव्यकोटिस्थिताः ।
पूज्यत्वोपहितास्त ईदृशगुणाचिद्वस्तु यन्नश्वराः
ते ते तद्गुणदुर्गुणौ स हि गतं भाव्यं भवच्च स्थितः ॥ १.१.४॥
ते ते हि त्रिगुणात्मकाः स्वशरणं स्वस्वोपलब्धिक्रमात्
तांस्तान् स्वामिन इत्ययन्ति पदयोस्तेषां तदीशा अपि ।
अन्यूनाश्च फलप्रदानशकने तत्तत्फलाप्त्यै विधेः
मार्गात् सर्वसुरात्मना स्थितियुतो जागर्ति सर्वेश्वरः ॥ १.१.५॥
ये तिष्ठन्ति य आसते चिदचितो ये शेरते यान्ति ये
तिष्ठन्त्यादिनिवृत्तिभाज उभये ते ते यदीयात्मकाः ।
नो शक्यः सततैकशील इति यस्स्मर्तुं च सर्वात्मको
योऽस्तित्वेन सदैकरूपविभवः श्रीमान् स नः संश्रुतः ॥ १.१.६॥
आकाशादिमरुत्ज्वलावनिमयं यत् पञ्चभूतं दृढं
यच्चात्रत्यसमस्तभौतिकमयं तत्तच्च भूत्वा स्वयम् ।
तत्रैकैकमनुप्रविश्य यमयन्नैकैकदेहात्मवान्
निर्बाधः श्रुतिगोचरो विजयते देवो जगद्भक्षकः ॥ १.१.७॥
देवानामपि दुर्ग्रहस्थितियुतो व्योमातिगानां वशे
हेतुः सन्नखिलं निजोदनकरो यो यः परस्मात् परः ।
दग्ध्वैकं च पुरत्रयं दिविषदां ज्ञानं च दत्वा हरो
ब्रह्मेति प्रथितो विनाश्य सकलं सृष्ट्वा तदन्तःस्थितः ॥ १.१.८॥
ईशोऽस्तीति यदि स्थितोऽस्य चिदचिद्रूपाणि रूपं न चे-
दस्तीशोऽयमरूपवन्ति चिदचिज्जालानि सूक्ष्मं वपुः ।
सत्त्वासत्त्वगुणित्वचिन्तनविधौ सस्थूलसूक्ष्माखिला-
कारेण द्विविधोऽखिलस्य सततं व्याप्यास्ति सर्वेश्वरः ॥ १.१.९॥
विस्तीर्णोदधिशीतलाम्बुकणिकाखण्डेष्वनल्पेष्विव
व्याप्तः पूर्णतया सदास्ति भुवि दिव्यत्यल्पदेशेषु च ।
तत्रत्यात्मसु चान्तरस्त्यविदितो व्याप्तो बहिश्चैतद-
स्त्यन्तेऽदन् सुदृढोऽस्य चित्त ! भवहार्येधस्व नत्वा पदम् ॥ १.१.१०॥
(तात्पर्यरत्नावलीश्लोकः)
निस्सीमोद्यत्गुणत्वात् अमितरसतयाऽनन्तलोलास्पदत्वात्
स्वायत्ताशेषसत्तास्थितियतनभिदावैभवात् वैश्वरूप्यात् ।
त्यक्षब्रह्मात्मभावात् सदसदवगतेः सर्वतत्त्वेषू पूर्तेः
पश्यन् योगी परं तत्पदकमलनतावन्वशादात्मचित्तम् ॥ १.१.११॥
(प्रतिबिम्बलहरी)
सौक्षम्योपेतवियद्धुताशनमरुत्तोयक्षितिव्याप्तिमत्-
श्रेष्ठत्वावहशब्ददाहबलिताशैत्यक्षमारूपिणः ।
ईशस्याधिपदाम्बुजन्म कुरुकाधीशा शठारातिना
प्रोक्ते पूर्णपदार्थलक्ष्म दशकं मोक्षः सहस्रे त्विदम् ॥
॥ इति प्रथमशतके प्रथमं दशकम् ॥
॥ श्री वेङ्कटशेषार्यमहादेशिकाय नमः ॥
॥ अथ प्रथमशतके द्वितीयं दशकम् ॥
प्रतिबिम्बलहरीवृत्तं -अनुष्टुप्
एतद्दशकप्रतिपाद्यगुणविशेषः - ``अखिलसमता''
॥ सङ्गतिमणिमालाश्लोकः ॥
तदेकभोगैर्बहुभिस्सहानुबुभूषया तद्भजनं जनानाम् ।
महाफलं तत्र च भक्तियोगं हेतुं क्रमं चोपदिदेश तस्य ॥
सर्वं त्यजत सन्त्यज्य स्वं च स्वामिनि मोक्षदे ।
समर्पयत मोक्षेशे स्वाधारेऽपीच्छतार्पणम् ॥ १.२.१॥
शम्पास्थित्यापि शून्यानि शरीराणि स्थिरात्मनाम् ।
इत्यत्र विषये किञ्चित् भवन्तः चिन्तयन्तु वै ॥ १.२.२॥
त्वङ्कारतवकाराविति एतावामूलतो रिपू ।
विनाश्य आश्रयतेशं तत्समा नह्यात्मपूर्णता ॥ १.२.३॥
सदसच्छब्दवाच्याभ्यां चिदचिद्भ्यां विलक्षणम् ।
तद्रूपं तादृशानन्दं त्यक्त्वा संङ्गं परिष्वज ॥ १.२.४॥
यदि सङ्गः परित्यक्तः तदात्मा मुक्तवत्स्वयम् ।
तथोपेक्ष्य स्थिरेच्छा चेत् त्यज सङ्गं श्रितेश्वरः ॥ १.२.५॥
निष्पक्षपात ईशोऽपि सर्वस्नेह्येव तिष्ठति ।
भूत्वा त्वमपि तत्स्नेही भव तत्-सर्वर्धूर्वहः ॥ १.२.६॥
दृष्ट्वा कृत्स्नोज्वले कृत्स्ने तल्लीलाभोगसम्पदौ ।
तत्कृत्स्नं मामकेशातिशय इत्यत्र भूयताम् ॥ १.२.७॥
मनोवाक्कायरूपेण पुराणोपायनत्रयम् ।
स्थितं विचार्य निःसङ्गस्तद्धीशे प्रवणं कुरु ॥ १.२.८॥
तस्मिन् प्रवणतां नीते सर्वसङ्कोचमोचनम् ।
भवेत् पश्चात्प्रतीक्षस्व वपुषो मुक्त्यनेहसम् ॥ १.२.९॥
असङ्ख्यतच्छुभगुणस्वप्रकाशस्थिरात्मनः ।
सुगुणानां निधेर्नारायणस्यैहि दृढं पदम् ॥ १.२.१०॥
(तात्पर्यरत्नावलीश्लोकः)
स्वामित्वात् सुस्थिरत्वात् निखिलनिरुपधिस्वात्मवित्ग्राह्यभावात्
तादृक्सर्वानुकूल्यात् च्यवनवदितरप्राप्यवैषम्यवत्त्वात् ।
सर्वत्रापक्षपातात् शुभविभवतया मानसाद्यर्च्यभावात्
सङ्कोचोन्मोचकत्वात् जगदयनतयोपादिशत् सर्वयोग्यम् ॥ १.२.११॥
(प्रतिबिम्बलहरीश्लोकः)
समीपस्थतटाकश्रीकुरुकाशठजित्कृतौ ।
इदं सुन्दरसन्दर्भे सहस्रे दशकं पठ ॥
॥ इति प्रथमशतके द्वितीयं दशकम् ॥
॥ अथ प्रथमशतके तृतीयं दशकम् ॥
प्रतिबिम्बलहरीवृत्तं स्रग्धरा
एतद्दशकप्रतिपाद्यगुणविशेषः - भक्तसौलभ्यभूमा
॥ सङ्गतिमणिमालाश्लोकः ॥
आप्ताखिलेष्टः कथमस्मदादिनिहीनलभ्यः स इहेति शङ्काम् ।
निरस्य सोऽनाश्रितदुर्लभः स्वं समाश्रितानां सुलभोऽभ्यधायि ॥
दासानां भक्तिभाजां अतिशयसुलभोऽनाश्रितानां दुरापः
स्वाश्चर्यः पद्मजातात्यभिमतविषयोऽलभ्यलाभोऽस्मदीशः ।
मन्थानेनातिमात्रोन्मथनजनवनीतस्य चौर्ये गृहीतो
बद्धोऽथोलूखलेनोरसि भृशचकितो हन्त ! सौलभ्यमस्य ॥ १.३.१॥
सौलभ्यैकस्वभावः जनननियतताकार्यभेदव्यवस्था-
शून्यो मीनादिनानाकृतिरखिललसत्सद्गुणो जन्मशून्यः ।
निर्नाशोऽत्यन्तमोक्षात्मकशुभमतिदानन्ददिव्यस्वभावः
स्वामी शीतानुकम्पानिधिः उपनमतामन्तरङ्गोऽन्यबाह्यः ॥ १.३.२॥
धर्म्यैर्मार्गैरनन्तैः परमतिशयितानप्यतीत्यातिशायि-
प्रोद्यत्सृष्ट्यन्तमध्यप्रलयविहृतयः सौख्यलीला हि येषाम् ।
तादृक्सर्वातिशयिद्रुहिणहरमुखाः चेतनाचेतने यः
को वा जानाति मायां परमतिशयितुः तस्य नारायणस्य ? ॥ १.३.३॥
यैः कैश्चिद्भिरेवंविध इति गदितुं दुश्शकोऽस्माकमीशः
भक्तैर्नीचैरपीत्थंविध इति सुशको ज्ञातुमस्माकमीशः ।
अद्वैतीयीकनाम्नामयुतयुगनघानेकरूपोऽस्मदीशः
नामैकं रूपमेकं त्वपि नहि भवतीत्यस्ति चेत्यस्ति वादः ॥ १.३.४॥
षोढा प्रख्याततत्तत्समयकलहसंशान्तये वेदमार्गं
ज्ञात्वा वक्तुर्विमृश्यानवधिकसुगुणाब्धेरनन्तस्य तस्य ।
आदेस्स्थित्वा नमोऽर्थं वहति भगवतो भक्तिमार्गेऽन्यमार्गान्
जित्वा तद्गीतया तं करणमिति विदन् शोषयामूलसङ्गम् ॥ १.३.५॥
ह्रस्वस्थूलोच्चदेहाद्यतिविशदभिदे स्वस्वरूपे श्रुतेन
ज्ञात्वा ज्ञात्वा विदित्वा बहुमननमुखैरीक्षितेऽपीह जीवाः ! ।
ऐशं रूपं सुदुर्ज्ञं हरिविधिहरसंज्ञान् विदित्वा बहूक्त्वा
चित्ते निष्पन्नमेकं श्रयत बहुविधज्ञानसङ्कीर्तनैश्च ॥ १.३.६॥
एकात्माधिष्ठिता वा किमु बहुनिलया इत्यविज्ञेयमूर्ति-
ष्वत्यन्तौज्ज्वल्यनारायणविधिहरसंज्ञेषु संयग्विचार्य ।
एकं संस्थाप्य युष्मन्मनसि तदितरद्वन्द्वतस्तत्त्वशङ्कां
छित्वा वस्तत्र कार्या निरुपधितरघा भक्तिरास्माककाले ॥ १.३.७॥
स्थित्वाजस्रं महोग्राप्यघततिरखिला बाधमाना पुराणी
सद्यो नश्येन्न हानिः क्वचिदपि मनसो द्वेषरागादिदोषम् ।
त्यक्त्वाजस्रं च नः श्रीकमितुरतिशुभे स्वामिनः पादयुग्मे
क्लृप्ते भक्त्या प्रणामे मृतिरपि मरणे साञ्जलिश्चेद्बलं तत् ॥ १.३.८॥
आस्ते दग्धा पुराणां वपुषि सहगणैर्दक्षिणे नाभिपद्मे
वृद्ध्याढ्यो दिङ्मुखस्तज्जनितविविधवैचित्र्ययुक्ताश्च लोकाः ।
यस्याबाधं वसन्ति स्वयमथ च निजप्रेक्षणीयस्वलोके
वक्तुं कामेत्वनन्तास्तदुदरनिलया एष सर्वोऽस्य माया ॥ १.३.९॥
निस्सन्देहं स्वचित्तस्फुरितशुभधियां ब्रह्मरुद्रादिमानां
मोहे शक्तासु मायास्वपि खसुमहतीष्वाप्तशक्त्या युतस्य ।
मेघश्यामात्मकान्तेर्बृहदवनिमिमां क्रान्तवत् सत्पदाब्जं
स्थैर्यादुच्चैः स्तवान्यस्मरणयुगधिकं श्लेषयाण्यानमानि ॥ १.३.१०॥
(तात्पर्यरत्नावलीश्लोकः)
बन्धार्हत्वात्स्वभक्तैः अधिकतरगुणानन्तदिव्यावतारात्
सर्वेष्वासक्तिमत्त्वात् नतसुगमतया स्वप्रबोधप्रदत्वात् ।
ख्याताभिख्यादिचिह्नात् स्वरुचिवितरणात् सर्वकालाश्रयत्वात्
शर्वादेः स्वाङ्गदानात् प्रहितपदतयाऽनन्तसौलभ्यमाह ॥ १.३.११॥
(प्रतिबिम्बलहरी)
देवेष्वानम्य हृष्टेष्वथ कृतमथनं वारिधौ वीचिपूर्णे
प्रोद्दिश्योपान्तलीलावनशुभकुरुकाधीशीतुः श्रीशठारेः ।
कैङ्कर्येऽस्मिन् सहस्रे रसवति दशकं चैतदाधीतवन्तः
छेत्स्यन्त्यारुह्य नित्यैः परमदिवि निजां क्रूरसंसारकाराम् ॥
॥ इति प्रथमशतके तृतीयं दशकम् ॥
॥ अथ प्रथमशतके चतुर्थं दशकम् ॥
प्रतिबिम्बलहरीवृत्तं - मन्दाक्रान्ता
एतद्दशकप्रतिपाद्यगुणविशेषः - निश्शेषागस्सहत्वं
॥ सङ्गतिमणिमालाश्लोकः ॥
सौलभ्यचिन्ताकबलीकृतात्मा वियोगयोगात् निजमन्तुशान्त्यै ।
अन्यापदेशात् घटकीचकार पत्युः प्रियाभावगतो गुरून् स्वान् ॥
भव्ये ! दिव्यच्छदयुगयुते ! नारदि ! त्वं कृपालो !
दीव्यत्पक्षस्तव च दयितो हेति मे सानुकम्पौ ।
शत्रुध्वंसिच्छदखगरथस्यास्मदाज्ञप्तदूतौ
यातौ चेद्वां स हि निगलयेत्तत्स्थितिर्वां वहेत्किं ? ॥ १.४.१॥
सर्वेशाय स्वरुणजलजाक्षाय मे मद्विसृष्टाः
किंस्यादुक्तौ परभृतगणाः! कोकिलाः ! किं न यूयं ? ।
प्रत्नानन्तस्वदुरितवशात् श्रीमदङ्घ्र्यब्जदास्यं
पूर्वं कर्तुं त्वकृतसुकृतेऽतोप्ययोगो विधिः किं ? ॥ १.४.२॥
भाग्याच्छिलष्यन्-मुदितवरटा ! मन्दयाना ! मरालाः !
बुद्ध्या खर्वप्रतितनुभृतः क्ष्मार्थिनो वञ्चकस्य ।
तद्विश्वासान्मम लघुधियः क्रूरपापं च नाश्यं
हन्तेत्येका कलुषितमतिः मुह्यतीति ब्रुवन्तु ॥ १.४.३॥
श्यामाः ! क्रौञ्च्यो ! मनसि विमृशन् मत्स्वभावं दयार्द्रः
भूत्वानर्हेत्यकथितवतो मन्नवाम्भोदकान्तेः ।
वक्ष्याम्युक्त्वा किमहमथ हा ! तासु सत्ता सती स्यात्
नेत्येकोक्तिं वदत कुरुत प्रेम वा नाद्रियध्वे ॥ १.४.४॥
कच्छाक्रीडे शिशुभृतिहितान्वेषको दारबाल!
स्निह्यन् सृष्ट्वा समजगदवन् सारसालोकितश्चेत् ।
श्रीमान्नारायण इयमये! बाष्पयुग्लोचनायाः
पापिष्ठायाः परमदयितेत्याहरैकां तदुक्तिम् ॥ १.४.५॥
निष्कारुण्यस्त्वमुदितदयः तन्मृतेः पूर्वमस्याः
वीथ्यां एकं दिनमपि दयावार्धिवाहं नयेथाः ।
इत्युक्त्वाब्धीकृतनिजकृपं स्वामिनं दृष्ट्वांश्चेत्-
रेखाचक्रभ्रमर ! किमघाः स्मो वयं वा दयेथाः ॥ १.४.६॥
अस्थ्ययुद्वेधोपमहिममरुद्बाधतेऽघं ममैवा-
लोच्याकर्तृर्मयि निजकृपां श्रीपतेः श्रीकृपायाः ।
किं पापं साऽचरदिति वद स्वामिने वाचमेकां
अस्थिच्छेदिन् ! शिशुशुक ! मया वर्धितो नासि किं त्वं ? ॥ १.४.७॥
किं त्वं सीदस्ययि वद शिशो ! शारिके ! दूरगाय
श्रीशे दूती मम रुजमिति प्रेरिता जोषमासीः ।
छायाश्रीभ्यामपि विरहिताहं ततस्तावकास्ये
भोग्यान्नस्य प्रददमपरं शीघ्रमन्विष्य गच्छेः ॥ १.४.८॥
दुस्सम्पादं कुसुमनिचयं प्राप्य नारायणस्या-
जस्रं क्षेप्तुं समुचितमदोऽम्लानपुष्पोपमाङ्घ्रौ ।
किं विश्लेषानुभवपृथुसाम्राज्यदुर्भाग्यतः स्या-
दित्यं देहं व्यथय हिमवद्वात ! मध्ये चरोक्त्वा ॥ १.४.९॥
देहश्चक्रं भव इति भवन्मुक्तिरात्मादिरन्यत्
सर्वं चाब्धेः महदुदकमाहृत्य तस्मिन् शयानम् ।
हिंस्त्रं चक्रं दधतमिदमुक्त्वेश्वरं दृष्टवच्चेत्
भव्यागाध! त्यज न हृदयाश्लेषमुग्रांहसां नः ॥ १.४.१०॥
(तात्पर्यरत्नावलीश्लोकौ)
त्राणे बद्धध्वजत्वात् शुभनयनतया स्वार्थलाभेऽर्थिभावात्
तिम्यन्मेघस्वभावात् -जगदुपजननस्थापनातिप्रियत्वात् ।
कारुण्याप्तत्वयोगादनुगतमहिषीसन्निधेः सङ्गदैर्घ्यात्
नानाबन्धैः स्वरक्षावहिततमतया क्षाम्यतीत्याह कृष्णम् ॥
सद्ध्रीभव्यान् सुचाचस्सुचरितसुभगान् कृष्णसारूप्यसौम्यान्
स्वाहारोदारशीलान् तनुधृतभगवल्लक्ष्मणो बाल्यगुप्तान् ।
छात्रस्वच्छन्दवृत्तीनभिगतशिशिरानन्तरङ्गोक्तियोग्यान्
आचार्यान् कृष्णलब्धाववृणुत शठजित्प्रेयसीदूतनीत्या ॥ १.४.११॥
(प्रतिबिम्बलहरी)
निस्सीमश्रीसकलभुवनस्थायिसर्वेशकृष्णं
सत्केदारावृतसुकुरुकाधीट्शठार्याप्ततोक्ते ।
निस्सीमान्तादिकदशशते त्वीदृशीनां दशानां
गाथानां सत्पठनसुलभा मोक्षसाम्राज्यलक्ष्मीः ॥
॥ इति प्रथमशतके चतुर्थं दशकम् ॥
॥ अथ प्रथमशतके पञ्चमं दशकम् ॥
प्रतिबिम्बलहरीवृत्तं शार्दूलविक्रीडितं
एतद्दशकप्रतिपाद्यगुणविशेषः - कृपणसुघटनं
॥ सङ्गतिमणिमालाश्लोकः ॥
सर्वेश्वरे स्वार्त्त्यसहे प्रदर्श्य सर्वेश्वरत्वादिकमागतेऽपि ।
स्वीयस्तवाश्लेषणतोऽत्यवद्यं मत्वा स्वनैच्यात् ददृशे सुशीलम् ॥
स्मृत्वा सर्धिकसप्तलोककरणं सुरीश्वरं दुर्निरा-
साघोऽहं स्फुटमोषमुष्टनवनीतादेति सीदन् शठ ! ।
स्वामिन्नित्यवदं ततोऽतिबलगोपेशोल्लसद्यूथिका-
हासायै कृतसप्तगोवृषयुवाश्लेषेति नीलाश्रियै ॥ १.५.१॥
स्मृत्वा सन्नमनस्तनुद्रुतियुजोऽनेकेऽमरास्तापसाः
बद्धस्रग्जलगन्धचन्दनलसद्धूपार्पणैश्चेन्नताः ।
चिन्तोद्यन्निखिलार्थमूल ! विकृतिं मायेश! मूले विना
किं ते चिन्तितसृष्टसर्वजगतो नो वैभवं सङ्कुचेत् ? ॥ १.५.२॥
उत्कृष्टात्मजनीन् बहून् सुरमुनीन् सृष्ट्याद्यभिज्ञान् भवान्
प्राजापत्ययुतान् सृजत्वितिगुणैः पूर्णं विधिं सृष्टवान् ।
सर्वज्ञानसुदूरगोऽखिलदिशः पादेन च क्रान्तवान्
नानात्मस्वपि मातृवत् स्वयमसावेकस्स्वभावः सदा ॥ १.५.३॥
एकस्सन् स्वयमन्यहेतुरहितो हेतुस्त्रिमूर्त्यादिकाः
स्वेनासङ्ख्यसुरेशतापसनराः सर्वे च तिर्यङ्मुखाः ।
भूत्वैव स्वयमेकवारिधिमुपेत्यास्मिन् शयानोऽधिपः
सूरीणां मम चित्रचेष्टितगुणः स्वामी स वैकुण्ठराट् ॥ १.५.४॥
वक्षस्स्थापितमुग्धरङ्कुनयनश्रीक! स्वयं माधव !
त्रैवक्राद्भुतवक्रतां तु गुलिकाकोदण्डनीत्याहरः ।
गोविन्दोर्ध्वगभातिनील! मधुसंहारिन् ! दयेथा मधु-
स्यन्दि त्वच्चरणारविन्दभजनोपायं तु पापस्य मे ॥ १.५.५॥
पापिष्ठस्य ममाद्य हौषध ! वियत्सूरीशितः ! केशव !
प्राप्तोकोव्रजवंशमूल ! चरितैराश्चर्य ! हे माधव ! ।
सालान् सप्त सुशाखिनः सुमदलाढ्यान् विद्धवन् ! श्रीधरा-
नेकैवंविधनामचेष्टितगुणेत्युक्त्वावसन्नोऽस्म्यहम् ॥ १.५.६॥
अल्पज्ञानयुतोऽहमुज्ज्वलधियां ज्ञातुं तथा दुश्शकं
कृष्णं दिव्यसुगन्धिशीततुलसीमालासरालङ्कृतम् ।
कान्तारोपमदेहबन्धहरमानम्रात्मनां श्रीपतिं
क्रोशामीह दिदृक्षरस्ति किमितोऽप्यज्ञानमन्यत् परम् ॥ १.५.७॥
पूर्वं भक्षितवान् हि सप्त भुवनान्युद्गीर्य मायाबलात्
हेयक्षुद्रनृदेहसंस्थितिमदन् हैयङ्गवीनं विशन् ।
मायिन् ! भुक्तिदशावशेषितमृदा पुंसां भविष्यत्तनु-
र्वैवर्ण्यं भवितेति सर्पिरशनं किं मृत्क्षतेरौषधं ? ॥ १.५.८॥
कूरस्वान्तबहूदितातिकपटां हन्तुं हि तां पूतनां
भूत्वा शुद्धशिशुर्विषस्तनपयो मायी सुधावत्पिबम् ।
एक सूरिपतिं श्रियः प्रियतमं सर्वात्मनां मातरं
स्वात्मेशं मम नाथमेत्य सुमहामूर्तिं न नाश्या वयम् ॥ १.५.९॥
पूर्णज्ञानसुदीधितिर्दश दिशो व्याप्तोऽतिसूक्ष्मायिता-
त्मात्मीयसुवत्सलस्स्वविषयं चित्तं परिष्कृत्य मे ।
स्वीयस्थद्विविधातिघोरदुरितान्युन्मोच्य सप्राकृता-
सङ्गं सोऽयमलङ्करोति परमं स्थानं च सम्यक् प्रभुः ॥ १.५.१०॥
(तात्पर्यरत्नावलीश्लोकः)
क्षुद्राह्वानाभिमुख्यात् निजमहिमतिरस्कारकार्चाप्रियत्वात्
सर्वत्राव्यङ्घ्रिदानात् सविधशयनतः स्वाङ्घ्रिसक्तैकरस्यात् ।
गोपाद्याप्तेरशेषेक्षणविषयतया भक्तवस्तुप्रसत्तेः
श्लिष्यन्नाशव्यपोहात् तदहितशमनात्प्राह नाथं सुशीलम् ॥ १.५.११॥
(प्रतिबिम्बलहरी)
अत्याश्चर्यगुणातिचित्रचरित स्वामिन्! महन्नित्यती-
वाशां प्राप्य कृपावशात् भगवतः तद्भाक्शठद्वेषिणः ।
एतद्भक्तिविशिष्टगीतिरसिकक्षीरोपमद्राविडी-
सारज्ञेड्यसहस्रवर्तिदशकाध्येतुर्न दुःखं भवेत् ॥
॥ इति प्रथमशतके पञ्चमं दशकम् ॥
॥ अथ प्रथमशतके षष्ठं दशकम् ॥
प्रतिबिम्बलहरीवृत्तं - उपजातिः
एतद्दशकप्रतिपाद्यगुणविशेषः - शक्यसंराधनत्वं
॥ सङ्गतिमणिमालाश्लोकः ॥
सौशील्यदृष्ट्यास्य समाहितस्तं कथं जनोऽयं त्यजतीति चित्ते ।
कृतानुकम्पः सुलभेन धूपदीपादिना तत्सुगमत्वमूचे ॥
निर्दोषमीशानमुपेत्य गीत्वा ज्ञानादिवृद्धिश्रियमाप्तुकामाः ! ।
तत्त्यागवर्जं सुपयस्समर्प्य धूपं च पुष्पैः पुनरर्हणीयः ॥ १.६.१॥
शीतामृतच्युत्तुलसीसुदाम्नः पुराणवेदादृतवैभवस्य ।
किं किं नु मे दास्यमिति त्वनीक्षा यदेष कैङ्कर्यविधाविवेकः ॥ १.६.२॥
त्यागग्रहत्यक्तहृदीश्वरस्यात्यजत्समीपं हृदयं ममास्ति ।
जिह्वा च मे गायति तस्य गाथा मङ्गं ममावेशि च नृत्यतीदम् ॥ १.६.३॥
नृत्यत्सुराविष्टवदस्मदङ्खं करोति कैङ्कर्यमतीव नम्रम् ।
विवादवत्सूर्यनुभाव्यदिव्यगुणर्धिवार्धेर्जगदीश्वरस्य ॥ १.६.४॥
परिग्रहत्यागभिदाविहीनः विरक्तिरक्त्योर्विषयेण हीनः ।
स्वत्यागमत्यागमवेक्ष्यमात्रं स्वानन्यभाजाममृतं तदेकम् ॥ १.६.५॥
ददत् सुरेभ्योमृतमुज्ज्वलश्रीचक्रायुधस्स्वाश्रितवत्सलस्सः ।
दिव्यामृतादप्यतिभोग्यरूपः तरङ्गितोत्तुङ्गमहाब्धिशायी ॥ १.६.६॥
महासमुद्रावृतदुर्गलङ्कानाथांसशीर्षाश्रमखण्डकस्य ।
पादारविन्दं शिरसा प्रणम्य तरन्तु संसारदिनार्णवौघम् ॥ १.६.७॥
त्यजन्तु भक्ताः ! विषयं विहाय भजन्तु तं तच्छ्रयणं यदि स्यात् ।
विनाश्य तत्प्राप्तिविरोधिपापान्यनश्वरीं सम्पदमेष दद्यात् ॥ १.६.८॥
दद्यात् पुमर्थान् सुलभेतरान् श्रीप्रियोऽद्वितीयः पृथुवैभवाढ्यः ।
समाश्रितानुग्रहणोपकारी विनाशयन्नस्मदघं द्विरूपम् ॥ १.६.९॥
निजारिसंसूदनसाक्षिकेतू रमाधवो मङ्गलविग्रहश्रीः ।
विनाशयेच्छोटनपूर्तिकाले समाश्रयत्पापतर्ति समग्राम् ॥ १.६.१०॥
(तात्पर्यरत्नावलीश्लोकः)
अक्रीतैश्वर्यभावात् अनियतविविधाभ्यर्चनादल्पतुष्टेः
प्रह्वावर्ज्येशभावात् स्वविषयनियतेष्वादरात् स्वादुभूम्ना ।
पादासक्तप्रसक्तेः सकृदपसदने मोक्षणात् धर्मसौस्थ्यात्
क्षिप्रक्षिप्ताहितत्वात् सुकरभजनतां माधवस्याभ्यधत्त ॥ १.६.११॥
(प्रतिबिम्बलहरी)
शठारिणाऽवद्ययुगोविहीनं रमाधवं प्रत्युदिते सहस्रे ।
अदीषमेतत् दशकं समर्थाः अध्येतुमत्रोद्भवनं न यान्ति ॥
॥ इति प्रथमशतके षष्ठं दशकम् ॥
॥ अथ प्रथमशतके सप्तमं दशकम् ॥
प्रतिबिम्बलहरीवृत्तं - वसन्ततिलका ।
एतद्दशकप्रतिपाद्यगुणविशेषः - स्वादुस्वोपासनत्वं
॥ सङ्गतिमणिमालाश्लोकः ॥
अहो परा धार्मिकता त्वनन्यप्रयोजनैः तुल्यमितोऽन्यकामैः ।
सहास्य संश्लिष्यत इत्यथापि स्वाराधतत्सेवनसौख्यमूचे ॥
संसारदुःखहतये स्वसमीक्षणस्थाः मुक्तोज्ज्वलात्मशुभरूपसुसिद्धिकामाः ।
धर्मिष्ठपावनतमं धृतचक्रहेतिं तं स्थापयन्ति गतविस्मृतयः स्वचित्ते ॥ १.७.१॥
निक्षेपति स्वभवभेषजति स्वयं नो दद्यान्महाघकरणेन्द्रियपीडने स्वान् ।
सर्वत्र सर्वपुरुषोन्नतसद्गुणोऽस्मत्गोपोत्तमो निखिलवाङ्मनसे अतीतः ॥ १.७.२॥
प्राप्तं व्रजान्यतमतां प्रहृतं च गोपैः आश्चर्यचेष्टमुपकारकमस्मदीयम् ।
शुद्धामृतं हरिमणिद्युतिमद्य पीत्वा पीत्वाहरं प्रकृतिजन्मजमज्ञभावम् ॥ १.७.३॥
अज्ञाननाशहृतये मम चित्तसंस्थं, सत्कर्मकारकमुदुज्ज्वलधामपुञ्जम् ।
त्यक्ष्यामि किं प्रथममस्मृतिशून्यसूरिनिर्वाहकं च मयि दत्तनिजेप्समुक्त्वा ? ॥ १.७.४॥
त्वक्ष्यामि किं हृदयजीवमदात्मभूतं निर्हेतुकाममपरिग्रहदत्तजीवम् ।
पश्यन्तमस्मदुपकर्तृपतिं च चौर्ये विस्तार्य धूर्तचरितं युवगोपिकाक्ष्णि ॥ १.७.५॥
कुर्वन महावनिसमुद्धरणं सुगन्धिफुल्लप्रबुद्धतुलसीवृतिदीप्तमौलिः ।
स्वामी विचित्रचरितो मयि विद्धसप्तसालो न तिष्ठति यदि प्रसहे कुतोऽहम् ॥ १.७.६॥
नाचिन्तयं हृदि ससम्मति धर्तुमेत्य स्वेनेच्छयैकहृदयं मम वञ्चयित्वा ।
सम्बद्धमांसमयदेहमदात्मनैको मत्त्यागमेष सहते किमु कौतुकी सन् ॥ १.७.७॥
मां मोचये यदि तथाप्यथ मे सुचित्तं स्वस्मात् स्वयं श्लथयितुं न समर्थ एषः ।
प्रत्नामराऽखिलगतिः जितदीर्धवंश नीलाभुजायुगलताप्तिजवैभवश्रीः ॥ १.७.८॥
सूरिस्वरूपमुखसर्वनिदानमादिं दत्तामृतं दिविषदां व्रजसत्प्रधानम् ।
आत्मावगह्य मम संयगदोषसिद्धयै संयक् श्रितः शिथिलयेत्तमितः परं किं ? ॥ १.७.९॥
यस्सन्त्यजेत्त्यजति तं भजते भजन्तं दौर्लभ्यवांश्च सुलभश्च भवेन्मदीशः ।
गीत्वा गुणान् श्रमयुजो न वयं हि तस्य नक्तन्दिवं समभिगम्य शुभान् विगाह्य ॥ १.७.१०॥
(तात्पर्यरत्नावलीश्लोकः)
सच्चित्ताकर्षहेतोरघशमननिधेर्नित्यभोग्यामृतस्य
त्यागे हेतूज्झितस्य प्रवहदुपकृतेर्दुस्त्यजस्वानुभूतेः ।
त्यागाकाङ्क्षानिरोद्धुः श्रितहृदयपृथक्कारनित्याक्षमस्य
स्वात्मश्लिष्टस्य गायछ्रमहरयशसः सेवनं स्वाद्ववोचत् ॥ १.७.११॥
(प्रतिबिम्बलहरीश्लोकः)
अन्तर्विशद्भ्रमरपीतलसत्तुलस्यापीडाङ्घ्रिसंश्रितकनत्कुरुकाशठारेः ।
सुश्लिष्टसूक्तिललिते दशकं सहस्रे विद्रावयेज्जननदुःखमिदं विमथ्य ॥
॥ इति प्रथमशतके सप्तमं दशकम् ॥
॥ अथ प्रथमशतके अष्टमं दशकम् ॥
प्रतिबिम्बलहरीवृत्तं - अनुष्टुप्
एतद्दशकप्रतिपाद्यगुणविशेषः - प्रकृतिऋजुता
॥ सङ्गतिमणिमाला ॥
ऐश्वर्यमस्यैव हि विस्ततार परं पुरा प्रस्तुतमाश्रितानाम् ।
जन्माद्यनालोच्य समं च सर्वैः संश्लेषणादार्जवमप्यवादीत् ॥
यात्यारुह्य खगं शीततुलसीं शिरसाऽञ्चति ।
स्वामी सुचिरसुस्थायिपदार्थानवगाहते ॥ १.८.१॥
सर्वेश्वरोऽथ सौन्दर्योपेतनानावतारवान् ।
विशालारुणफुल्लाक्षः क्रूरकेश्यास्यदारकः ॥ १.८.२॥
देवानामपि मर्त्यानां चक्षुर्भूतस्सदा समम् ।
शैत्यसम्पूर्णनित्याधिवासश्रीवेङ्कटेश्वरः ॥ १.८.३॥
आद्रिमुद्धृत्य सङ्कोचं विना गोवर्धनाभिधम् ।
स्वामिनस्तिष्ठमानस्य सदाभ्यस्यामि सद्गुणान् ॥ १.८.४॥
सव्यदक्षिणहस्ताभ्यामपि भक्षितवान् सदा ।
नवनीतं शरीरे में स्थितः सत्यमिदं द्वयम् ॥ १.८.५॥
सममात्मनि सम्बद्ध्य नाथः प्रीतिं समुद्वहन् ।
इन्द्रियाकर्षकब्रह्मचरी सन् क्रान्तवान् क्षितिम् ॥ १.८.६॥
महोक्षान् सप्त जितवान् सप्तलोकीञ्च भुक्तवान् ।
शीतं धाम मनः कृत्वा बभूवास्मन्मनोरथः ॥ १.८.७॥
गवां गोपो बभूवापि मीनः कोलादयः स्वयम् ।
बभूव मयि सङ्गोऽयं हेतुस्तत्र स्वयं कृतः ॥ १.८.८॥
सौन्दर्ययुक्तयोर्बिभ्रत् शङ्खं चक्रं च हस्तयोः ।
स्वयं सर्वत्र सर्वोऽपि भूत्वास्त्यस्माकमीश्वरः ॥ १.८.९॥
लोकविक्रान्त पादोऽस्मत्स्वामी शेषी समुद्रवत् ।
वर्धमानश्रुतिप्रोक्तमहार्जवगुणाश्रयः ॥ १.८.१०॥
(तात्पर्यरत्नावलिश्लोकः)
सूरीणां स्वैरसेव्ये स्वयमवतरति क्षुद्रदिव्यैकनेत्रे
गोपाद्यर्थं धृताद्रौ श्रिततनुरसिके वामनीभावदृश्ये ।
सच्चित्तानन्यवृत्तौ विभवसमतनौ स्वायुधारूढहस्ते
नीचोज्वग्राह्यपादे निरुपधिमृजुतां नीरवर्णे जगाद ॥ १.८.११॥
(प्रतिबिम्बलहरीश्लोकः)
जलोपमस्वभावस्य गुणासक्त्या शठारिणा ।
प्रोक्ते सहस्त्रे दशकं कृतमेतद्विचारितम् ॥
॥ इति प्रथमशतके अष्टमं दशकम् ॥
॥ अथ प्रथमशतके नवमं दशकम् ॥
प्रतिबिम्बलहरीवृत्तं - स्रग्धरा
एतद्दशकप्रतिपाद्यगुणविशेषः - सात्म्यभोगप्रदत्वं
॥ सङ्गतिमणिमालाश्लोकः ॥
प्रत्यङ्गसंश्लेषणमेत्य तस्य सात्म्यप्रदानन्दथुतां क्रमेण ।
अङ्गेषु संश्लेषणमप्यवादीत् शठारिरीशस्य निजेषु हृष्टः ॥
अत्कस्थं दूरगं चानुभयगमचितां जातमात्मस्थमेता-
दृक्षं जातं चितामप्यखिलमपि वहन् तच्च सृष्ट्वा च रक्षन् ।
अस्त्यन्तस्तत्प्रविष्टोप्यपगतसहकार्यन्तरं कारणं सत्-
स्वामी कृष्णोऽतिभोग्यो रसिक उपकृती श्रीपतिर्मे समन्तात् ॥ १.९.१॥
नानाकापट्यशक्तः श्रितसुजनवशीकारहेतोः पुरा तत्-
काले भूत्वाद्वितीयः किटिरवनिमिमामुद्धरन् केशवो मे ।
स्वामी भञ्जन् करीशो रदनमजमुखामर्त्त्यदुर्ज्ञेयरूपोऽ-
गाधे दीर्धे समुद्रे स हि सुखशयितो मत्समीपे सदास्ति ॥ १.९.२॥
अक्षय्याहेयगुण्यस्सकलसुमनसामादिरेषां च मुख्यः
श्यामश्लाघ्येन्द्रनीलोज्ज्वलतनुररुणोत्फुल्लदिव्याब्जनेत्रः ।
युद्ध्यत्पक्षाढ्यतार्क्ष्यं सकुतुकमधिरूढोऽद्वितीयः प्रियः श्री
पद्मायाः एकमार्गागतसुखरसदः सोऽविरामो मयास्ति ॥ १.९.३॥
श्रीभूमी मुग्धनीला इति सहवसतौ यस्य देव्यस्समुत्काः
तिस्रो रक्ष्याश्च लोकास्त्रय इदमखिलं चैकयत्नान्निगीर्य ।
सद्भूम्नो धाम कृष्णो युगपर्दिह स मे डिम्भवत्पार्श्वं लीनः
स्वामी न्यग्रोधपत्रे शयित उदधिवद्विस्तृताश्चर्यचेष्टः ॥ १.९.४॥
पार्श्वे संस्थाप्य दुग्धं स्तनजमिहपिबेयर्पितं स्तन्यमीशः
स्वीकृत्य क्रोधशान्त्या असुभिरपि तदा पीतवान् यः पिशाच्याः ।
नग्नस्वीयोपकारीश्वरविधिसुरराडादिकं यौगपद्यात्
विश्वं यस्सृष्टवान् मे स वसति हृदये चित्रचर्योऽखिलेशः ॥ १.९.५॥
अत्याश्चर्यस्वचर्यो मम हृदि वसतीत्येतदन्यस्यकस्याप्य-
यास्ते किं? कायजीवौ स्वयमनिलशुचो एष एवाति शुद्धः ।
दूरस्थस्स्वान्तिकस्थोप्यनतविनतयोस्सर्वचिन्तादिदूरो
यस्वस्स्यानाश्रितानां भ्रमविशयकरो वर्ततेमेऽस युग्मे ॥ १.९.६॥
अंसद्वन्द्वे सुवक्षस्यापि मणिविलसत्कान्तिदीप्ते किरीटे
पादद्वन्द्वे च शीताधिकसुभगतुलस्याञ्चितस्सर्वनेता ।
सौन्दर्ये साम्यभाजाविरहित उदितोत्कृष्टतेजः प्रभाव-
न्मूर्तिस्संश्लिष्य नित्यं त्वजहदपि कदा मद्रसज्ञाग्रवर्ती ॥ १.९.७॥
जिह्वामास्थाय सम्यग्विकसदखिल विज्ञानविस्तारिविद्या-
शब्दार्थाकारदेहासुवदुदयविनाशाधिकारी स्वयं सः ।
पुष्पश्रीयुक् चतुस्सत्पृथुलभुजशिरायुद्धहेत्यब्जचक्री
मध्ये नीलोत्पलादप्यधिकतनुरुचिस्सोऽस्मदक्ष्णोब्जनेत्रः ॥ १.९.८॥
अब्जाक्षोऽस्मद्दृशोऽध्वन्यहमपिकलये चक्षुषादोषशान्त्यै
चक्षुर्भ्यां सोऽपि पश्यत्यथ तदनुविधायीनि पञ्चेन्द्रियाणि ।
नाभीपद्मोत्तपूर्णाब्जजमलिकदृशा साकमुद्भाव्य देवैः
साकं शुद्धैश्च लोकं निखिलमपि सृजन् वर्तते मल्ललाटे ॥ १.९.९॥
धृत्वा मां मल्ललाटे स्थितमवदधिकः अपिर्तैः पुष्पजालैः
युक्तं मस्ते पदाब्जं मितविधुकलयालङ्कृतो दिङ्मुखेन्द्रौ ।
अन्ये देवाश्च सर्वे निभिडित तुलसी शेखरं सोपकारं
कृष्णाख्यं यं भजन्ते स हि शिरसि समागत्य चास्ति स्वयं मे ॥ १.९.१०॥
(तात्पर्यरत्नावलीश्लोकः)
पर्यन्तेऽत्के च दृष्टं स्वविरहविधुरं डिम्भवत्पार्श्वलीनं,
चित्ते क्लृप्तप्रवेशं भुजशिखरगतं तालुसिंहासनस्थम् ।
चक्षुर्मध्ये निविष्टं स्थितमलिकतटे मस्तके तस्थिवांसं
प्रत्याहारोक्तरीत्या विभुमनुबुभुजे सात्म्यभोगप्रदानात् ॥ १.९.११॥
(प्रतिबिम्बलहरीश्लोकः)
मूर्धन्येवास्मदीस्ये स्थितिसुखमयतो देवदेवस्य कृष्ण-
स्याप्तप्राप्तोपकर्तुर्हृदयपरिसरत्प्रीतिविज्ञापयित्रा ।
प्रोक्ते गाथासहस्रे त्विह शुभकुरुकाधीट् शठारातिनास्मिन्
विज्ञप्ते स्वोपकत्रे निरुपमदशके शेखरं तन्महाङ्घ्री ॥
॥ इति प्रथमशतके नवमं दशकम् ॥
॥ अथ प्रथमशतके दशमं दशकम् ॥
प्रतिबिम्बलहरीवृत्तं - वसन्ततिलका
एतद्दशकप्रतिपाद्यगुणविशेषः - अव्याजोदारभावः
॥ सङ्गतिमणिमालाश्लोकः ॥
इत्थं तदीयानुभवैकहेतुं निश्चित्य चित्तं तदपि प्रशस्य ।
तेनैव साकं कथयन् शठारिः मुमोद चादौ शतकेन्त्यपङ्क्तौ ॥
ऐश्वर्य सूचिरणधुर्य महायुधाब्ज चक्रादि लक्षणमहाचरणं नमत्सु ।
लोकेषु सप्तसु सुखर्ववटुर्विवृद्धं तन्नीलरत्नमयते मम दृष्टिमार्गम् ॥ १.१०.१॥
पृथ्वी जलानलवरानिलपुष्कराख्य भूताकृतिस्सविकसन् मम नाथ एषः ।
भक्त्यार्चने विरचितेऽस्ति समक्षमक्ष्णोरेत्युन्मनोरथ इतोऽपि किमर्थनीयम् ॥ १.१०.२॥
मत्ताततत्पितृतदीयपितृप्रमुख्यमुख्योपकारकमितोप्युपकारकं मे ।
शीताब्जनेत्रमहिवञ्जुलवल्लिकल्पमध्योरसं मम मनो! भज भव्यनाथम् ॥ १.१०.३॥
हे साधु साधु ममचित्त लभे यदि त्वां केनात्र पूर्तिरहिताः करवाम नो किम् ।
पद्मासनाप्रियतमं सततं युवानमद्धावसानसमयेप्यनुयाह्यमुञ्चत् ॥ १.१०.४॥
त्वञ्चावलोकितवदस्यधिचित्तभाग्येषूद्यत्फलेषु तदचिन्तितलेशमेव ।
स्वेनैत्य तत्फलनरीतिमवैषि लोकां स्त्रोधाक्रमन्तमपि सप्त च भुक्तवन्तम् ॥ १.१०.५॥
त्वञ्चाहमप्यथ यदीदमवस्थयैव तिष्ठाव चेत् कमपि नो घटयेत् स रोगम् ।
चित्रावदं स जननी जनिता च शेषीश्लिष्यन्निहेन्द्रमणिनीलरुचिर्मदीशः ॥ १.१०.६॥
तातेति नायक ममेतिनिवेशयामि चित्रे वदामिच तथाऽहमनन्तपापः ।
हेशेषिभूतजनकेति च सूरिबृन्दैश्चित्ते निवेश्यनुतमद्भुतसम्पदं तम् ॥ १.१०.७॥
नारायणेति वचनेतु निशम्यमाने श्रीपूर्वकेवहति नेत्रजलं; चिनोमि ।
विश्वस्य रात्रिषु सतीषु दिवाप्यजस्रं संस्न्निह्य न त्यजति माम्बत पूर्ण एषः ॥ १.१०.८॥
पूर्णं वसन्तमतिरम्यकुरङ्गपुर्यां रम्यातिपीतकनकोज्ज्वलदिव्यमूर्तिम् ।
ऊर्ध्वस्थसूरिपतिमुज्ज्वल धाम रम्यमुक्त्वा किमस्मदुपकारकमस्मृतिस्स्याम् ॥ १.१०.९॥
नाहं तु विस्मृतिमविस्मृतिमप्यवैमि मां विस्मरेदिति शुभारुणलोचनाभ्याम् ।
चित्ते प्रतिष्ठितमविस्मृतये ममैनं किं विस्मराम्यथ तु नीलमणिं ममाहम् ॥ १.१०.१०॥
(तात्पर्यरत्नावलीश्लोकः)
विष्वग्विक्रान्तिदृश्यं विगणनसुलभं व्यक्तपूर्वोपकारं
स्वान्तस्यैकाग्र्यहेतुं स्वयमुदयजुषं बन्धमात्रोपयातम् ।
चिन्तास्तुत्यादिलक्ष्यं नतजनसततश्लेषिणं दर्शितार्चं,
स्मृत्यै चित्ते मिषन्तं स्ववितरणमहौदार्यतुष्टोऽभ्यचष्ट ॥
आदावित्थं परत्वात् अखिलसमतया भक्तसौलभ्यभूम्ना
निश्शेषागस्सहत्वात् कृपणसुघटनाच्छक्यसंराधनत्वात् ।
स्वादुस्वोपासनत्वात् प्रकृतिऋजुतया सात्म्यभोगप्रदत्वात्
अव्याजोदारभावादमनुत शतके माधवं सेवनीयम् ॥ १.१०.११॥
(प्रतिबिम्बलहरी)
तन्नीलरत्नममरेक्षणमात्मनीनं किञ्चिद्विभूषणमदः कुरुकाधिनेतुः ।
कैङ्कर्यवाचिकसहस्र इमाः सुभक्त्या विद्याफलेद्दश सतृष्णमधीयते चेत् ॥
॥ इति प्रथमशतके दशमं दशकम् ॥
॥ प्रतिबिम्बलहर्यां प्रथमशतकं सम्पूर्णम् ॥
॥ श्रीमते वात्स्यवेङ्कटशेषार्यमहादेशिकाय नमः ॥
॥ श्रीमते वात्स्यसुन्दरार्यमहादेशिकाय नमः ॥
॥ श्रीमते साक्षात्स्वामिने नमः ॥
॥ श्रीमते निगमान्तमहादेशिकाय नमः ॥
॥ श्रीमते वात्स्यवरददेशिकाय नमः ॥
॥ श्रीमते कुरुकेश्वराय नमः ॥
॥ श्रीमते भगवते भाष्यकाराय नमः ॥
॥ श्रीमते वकुलभूषणमहागुरवे नमः ॥
॥ प्रतिबिम्बलहरी - द्वितीयशतकम् ॥
॥ श्रीः ॥
श्रीमद्वेङ्कटशेषार्यमहादेशिकविरचिता
प्रतिबिम्बलहरीवृत्तं - मन्दाक्रान्ता
॥ अथ द्वितीयशतके प्रथमं दशकम् ॥
एतद्दशकप्रतिपाद्यगुणविशेषः - क्षणविरहदशादुस्सहत्वम् । (असह्यक्षणविरहता)
॥ सङ्गतिमणिमाला ॥
(मालिनी)
इति हृदनुभवस्याधिक्यतो बाह्ययोग-
स्पृह इह तदलाभात् विह्वलो वस्तु तत्तत् ।
स्वसमविरहजान् तत्तद्गुणान् प्रेक्ष्य पृच्छन्
विलपति शठवैरी प्रेयसी गोपिकेव ॥
वीचीप्राप्तावुदधिनिलये ! किञ्चिदुड्डीयमाना
मात्रा सुप्तेऽप्यहह भवती देवलोकेऽप्यनिद्रा ।
वैवर्ण्योद्भवति विरहे नारदि ! त्वं यथाऽहं
श्रीकान्तेनापहृतहृदया खिद्यसे किं नु भव्ये! ॥ २.१.१॥
*क्रूरध्वाने! बत हतमनाः क्रौञ्चि ! किं दीर्धयामान्
त्यक्त्वा शय्यामसि शिथिलहृद्दासभूता यथाऽहम् ।
किं वा वाञ्छस्यतुलतुलसीमालिकां शीतलां त्वं
पादाम्भोजोपरि विनिहितां शेषतल्पेशयस्य ॥ २.१.२॥
(*दीनध्वाने - इति पाठः)
इष्टानाप्त्या मुखर जलधे ! सर्वनक्तन्दिवं त्वं
निद्रां नैषि द्रुतहृदययुक् हन्त! हे ! किं बिभेषि ? ।
सर्वां लङ्कां यमदिगयनां वह्निसात्कुर्वतः श्री-
पादाब्जोत्कैर्भजसि नु दशां भद्रमस्माभिराप्ताम् ॥ २.१.३॥
अब्धिं चाद्रिं गगनमपि चान्वेषयंस्त्वं यथाऽहं
निद्रां तेजोज्वलितमपि नो यासि नक्तन्दिवं च ।
हन्ताकल्पं वपुषि तु रुजं शीतवायो ! दिदृक्षुः
प्राप्तो नाथं दधतमरिहृद्धिंसकं हेतिचक्रम् ॥ २.१.४॥
कल्पे कल्पे सकलजगतस्त्वं वहन् मेघ! तोयं
सख्यो यद्वद्वयमिव च हा! तोयरूपो द्रुतोऽसि ।
भद्रं भूयाद्बलपरवशस्नेहपाशेन तस्मिन्
शैथिल्यं किं वपुषि वहसि श्रीमधुद्वेषिणस्त्वम् ॥ २.१.५॥
शैथिल्यं त्वं वयमिव गतस्तन्नवेन्दोऽञ्जनाभं
खस्थं विध्वंसयसि न तमस्त्वद्य मालिन्ययुक्तः ।
क्षीणः पञ्चाननभुजगराट्तल्पचक्रीश्वरस्य
श्रुत्वा सत्यां गिरमुत रुचा त्वं तनोस्त्याजितोऽसि ॥ २.१.६॥
भव्यं चेतोऽत्यजमथ च मन्नाथनारायणस्य
प्रोदीर्यास्मान् किमपि रुदतीरात्मशोकं विहिंसन् ।
मध्ये तिष्ठस्यरिवदपृकृद्द्विड्विधाभ्योऽतिघोरो
यावत्कल्पं त्वमिह सुसुखी चास्स्व गाढान्धकार ! ॥ २.१.७॥
प्राप्याज्ञानं निबिडिततमस्सारवर्णातिविस्ता-
रौघात्यन्तं जलनिधिपरीवाह ! रात्रीदिनेषु ।
निद्रासि त्वं न समुपरतेष्वप्यहो ! क्षीणरूपः
खिद्यस्यङ्घ्रिप्रहतशकटेशानुकम्पादुराशः ॥ २.१.८॥
अन्तश्शोषं नयति मृदुलं स्वं स्वभुक्त्याप्यनाश्ये
रागे रोगे त्वमपि सदये! दीपिके! छेदहीने! ।
शोणाब्जाल्पेतरनिजदृशश्शोणबिम्बाधरस्य
स्रक्शीतश्रीसुभगतुलसीवाञ्छया दह्यसे किं ? ॥ २.१.९॥
अन्तश्शोषं नयति मृदुलं स्वं प्रदग्ध्वाप्यनाश्ये
रागे रोगे सततमनिशं पातयित्वा त्वयीमाम् ।
प्राप्तोऽस्यश्वाननदलन ! भूक्रान्तिकृच्छार्जुनान्त-
र्यायिन् ! ऐक्यं प्रथमजयुवन् ! मामितो मा जहीहि ॥ २.१.१०॥
(तात्पर्यरत्नावलीश्लोकः)
निद्राविच्छेदकत्वात् अरतिजननतोऽजस्रसङ्क्षोभकत्वात्
अन्वेष्टुं प्रेरकत्वात् विलयवितरणात् कार्श्यदैन्यादिकृत्त्वात् ।
चित्ताक्षेपात् विसंज्ञीकरणत उपसंशोषणावर्जनाभ्यां
दृष्टास्वादस्य शौरेः क्षणविरहदशादुस्सहत्वं जगाद ॥ २.१.११॥
(प्रतिबिम्बलहरी)
नित्यानश्यत्सकलचिदचित्कारणज्योतिषस्तत्-
प्रेमातृप्तिज्वलितकुरुकाधीट्-शठारातिनोक्ते ।
*एतद्गाथादशकमवनावद्वितीये सहस्त्रे
श्रीवैकुण्ठं सुदृढमति नाविस्मरन्तस्त्यजन्ति ॥
(*तृतीयपादे ``पश्यन्त्वेद्दशकमवनावद्वितीये सहस्रे'' इति स्थिते गाथास्थ ``घण्ढीर्'' अपि विवृतं भवति ।
॥ इति द्वितीयशतके प्रथमं दशकम् ॥
॥ अथ द्वितीयशतके द्वितीयं दशकम् ॥
प्रतिबिम्बलहरीवृत्तं - भुजङ्गप्रयातं
एतद्दशकप्रतिपाद्यगुणविशेषः - विभवावतारेष्वपि परत्वम् ।
॥ सङ्गतिमणिमालाश्लोकः ॥
(मालिनी)
अथ हरिरददत् संश्लेषमस्मै ततस्तत्-
शुभगुणगणभोगस्तत्परत्वं जनेभ्यः ।
अपि विभवदशायामन्वयेनान्यथाऽपि
प्रथितमिह पुराणैः सेतिहासैः प्रवक्ति ॥
सदावर्तिमोक्षादिसर्वप्रदाता
स चिन्तापथात् दूरवर्ती प्रभुर्नः ।
पृथिव्यन्तरिक्षादि सर्वप्रभोक्ता
स कृष्णः प्रभुर्नः प्रभुर्नापरोऽस्मात् ॥ २.२.१॥
अपापान् विधायैष सप्तापि लोकान्
अवन् सन् दयावान् महापापमुक्त्यै ।
हरे दत्तभिक्षो वृषो गोपसिंहः
परो वास्ति चास्मात् ? ममायं भरो हा! ॥ २.२.२॥
ककुद्मत्समेतं पयोजप्रजातं
पयोजे वसन्तीं समं स्वे विधाय ।
स्तुतात् देवसङ्घैरभिव्याप्य भूमिं
प्रपन्नात् परादस्ति दैवं परं किं ? ॥ २.२.३॥
सदैवं च सर्वं जगत् संविधातुं
विधातुस्स्वनाभीपयोजे दिगास्यम् ।
परस्मात् किलास्मत्-प्रभोः पूरुषोद्धात्
न पुष्पार्पणं पूजनं वापि युक्तम् ॥ २.२.४॥
स्वकृत्यार्हशक्तेः स्वसङ्कल्पमात्रात्
स्वकृत्याप्तधातृप्रभृत्याप्तदेवान् ।
समं स्रष्टुमर्हाभिरामाब्जनेत्रात्
प्रभोरस्ति मे वित् परं को हि तेजः ? ॥ २.२.५॥
चितां चाचितां च स्वकुक्षौ विबाधं
निवासावकाशं प्रदाय स्थितो यः ।
विकासाढ्यधीमूर्तिरब्धौ शयानः
सदा मेऽनुभूतौ विभाति स्वयं सः ॥ २.२.६॥
शयानः पलाशे वटस्योदरे स्वे
विशाले वितन्वन् दृढे सप्तलोकान् ।
स्थितस्तस्य के वा विचित्रान्तरङ्गं
परं ज्ञातुमीशा मम स्वामिनस्स्युः ? ॥ २.२.७॥
स्वसङ्कल्पमात्रेण देवान् तदन्यत्
तदन्यच्च निर्माय वृद्धिं नयन्तम् ।
महाश्चर्यगोपं विना कोऽनु लोक-
त्रयं स्वान्तराधाय पातुं समर्थः ? ॥ २.२.८॥
अयं रक्षणैकव्रती कृष्णमूर्तिः
लये सर्वमेतद्विधायोदरे स्वे ।
दिगास्यं सुदक्षं तथेन्द्रं च देवान्
तदर्हांश्च लोकान् समस्तान् वितेने ॥ २.२.९॥
ककुद्मत्प्रयायी चतुर्वक्त्रशक्रौ
सुराश्चानमन्तस्सुपर्णेन यातुः ।
स्तुवन्त्येवमङ्घ्री ``भवान् सप्तलोकीं
निजान्तस्ससर्ज प्रभो! चोर ! चास्मान्'' ॥ २.२.१०॥
(तात्पर्यरत्नावलीश्लोकः)
पूर्णैश्वर्यावतारं भवदुरितहरं वामनत्वे महान्तं
नाभीपझोत्थविश्वं तदनुगुणदृशं कल्पतल्पीकृताब्धिय् ।
सुप्तं न्यग्रोधपत्रे जगदवनधियं रक्षणायावतीर्णं
रुद्रादिस्तुत्यलीलं व्यवृणत ललितोत्तुङ्गभावेन नाथय् ॥ २.२.११॥
(प्रतिबिम्बलहरी)
स्तुतं सप्तलोकीं समाक्रान्तवन्तं
महाचित्रनृत्तं समुद्दिश्य क्लृप्ताम् ।
शठारातिनेमां सहस्रेऽतिभोग्ये
पठन्तस्समादाय पङ्क्तिं ह्यनूनाः ॥
॥ इति द्वितीयशतके द्वितीयं दशकम् ॥
॥ अथ द्वितीयशतके तृतीयं दशकम् ॥
प्रतिबिम्बलहरीवृत्तं - शार्दूलविक्रीडितं
एतद्दशकप्रतिपाद्यगुणविशेषः - ``सर्वास्वादभूमत्वं''
॥ सङ्गतिमणिमालाश्लोकः ॥
(मालिनी)
अलभत हरियोगानन्दमन्यादृशं तद्-
गुणगणरतिरूचे तत्परत्वं प्रसङ्गात् ।
अथ निजमनुभोक्तुं मोदमिच्छन् सयुग्भिः
जगति तु तदलाभात् मुक्तयोगेच्छुरास्ते ॥
हे! मन्मानस! मांसले वपुषि सन्मान्यं परं हन्त भोः
त्वद्योगेन हि नित्यसूर्यधिपतिर्जेता मधोर्मत्प्रभुः ।
यत् सोऽहं *मधु-दुग्ध-गौडक-सुधा-स्वाज्यानुषङ्गान्वयौ
जातौ नाम परस्परं प्रियतमौ सर्वेद्धयोगान्वितौ ॥ २.३.१॥
(*मधगोरसैक्षवसुधास्वाज्यानुषङ्गान्वायौ -इति पाठान्तरम् ।)
अत्यन्ताद्भुतसद्गुणौघ! भगवन्! निस्तुल्य! नाधिक्य! भोः
सर्वेणैव समोऽवतीर्ण! सकलेष्वन्तर्गतो धारक ! ।
तादृक्षाम्ब! पितर्मयाऽह्यविदितानर्थान् गुरो ! बोधयन्
स्वामिन्! हे ! भवता कृतान् मयि बहून् दासो न जानाम्यहम् ॥ २.३.२॥
अज्ञानप्रकृतौ निमग्न इह ते दासे स्वदास्ये रतिं
प्राक् ज्ञानप्रसरात् प्रदाय विशदं संस्थापयामासिथ ।
मायाखर्ववपुर्बले! त्रिचरणा भूरित्यभिव्याहरन्
अज्ञातार्थपदेन वञ्चनपरो मेऽन्तः प्रविश्यात्मनः ॥ २.३.३॥
आत्माश्लेषमहोपकारविषये तुभ्यं चिकीर्षुः प्रति
प्रादां मे भवते तमेव तदिदं भूयात् पुनर्नान्यथा ।
आत्मात्मापि ममाऽसि सप्त जगतां त्वं भुक्तवन्! मत्प्रभो!
आत्मा कोऽहमुताऽपि कोऽनु भवता प्रत्तं स्वयं स्वीकृतम् ॥ २.३.४॥
ज्ञानस्यातिविलक्षणस्य निधिभिः भोक्तुं न शक्य! प्रभो !
ज्ञानेनातिसुपक्वमानसनृणां मुक्त्याख्यमोदाकृते! ।
अश्लिष्टाब्ध्यमृतास्य मूल सुकृत ! श्रीकोल ! दंष्ट्राग्रतः
सप्तारामनिवेशनं च कृतवन्! सक्तोऽस्मि ते पादयोः ॥ २.३.५॥
भक्तानामतिघोरपापविषये तीव्रं विषं सन्मतिं
स्वानन्यान्तरतीव लग्नमपि तत्प्राणं व तद्धारकम् ।
तेषां स्वेतरवस्तुरागगलनप्रीत्यातिमात्रोज्ज्वलं
*रक्षास्याः किल नासिकाहरमह प्रापं पुरैवादितः ॥ २.३.६॥
(*राक्षस्याः किल नासिकाहरमहं दासः पुरैवाप्तवान् ॥ इति पाठः ।)
वीणातन्त्रविधासुमुत्थितकनत्तन्त्रीस्वनास्वाद्य! भोः
भूयस्साधुसदानुभूत! परम! स्वामिन्! परं पावन! ।
इक्षुस्वादुतमामृतासिततटित्कान्तायि! मत्कृष्ण ! भोः
जीवेयं भवता विना प्रकृतिरित्येषावधेया मम ॥ २.३.७॥
साध्यो यश्चिरकालतो यममुखैः तं भक्तियोगं गतः
जन्मन्यल्पदिनैरिहास्मि करुणायन्त्रस्य साहाय्यतः ।
शिक्यस्थं नवनीतगोरसमुखं गूढं प्रभोरश्नतः
पश्चादेत्य सृतौ हृदा भवभवां निर्धूय सर्वां शुचम् ॥ २.३.८॥
गन्धापूरितशीतलाङ्गतुलसीरम्यस्य कृष्णस्य सत्-
सूरीणामवितुस्तुलाविरहिणः शुद्धस्य दिव्ये पदे ।
पुंसो भव्यगुणेषु पापमथनेष्वन्तः प्रविश्यात्मनः
वाचा सम्परिकीर्त्य सोऽहमभवं दासः परं निर्वृतः ॥ २.३.९॥
अल्पस्याप्तिजमोदतो विरहितः शोकात्तथाऽप्राप्तितः
जन्मव्याधिजरामृतीरपनयन् ज्योतिर्मयस्वात्मना ।
तेजस्सूज्ज्वलचक्रशङ्खविधृतेः आर्द्रां दिवं क्ष्मामिमां
रक्षत्विचित्रगुणप्रभोः परिजनैर्युक्तो भवेयं कदा? ॥ २.३.१०॥
(तात्पर्यरत्नावलीश्लोकः)
चित्रास्वादानुभूतिं प्रियमुपकृतिभिः दास्यसारस्यहेतुं
स्वात्मन्यासार्हकृत्यं भजदमृतरसं भक्तचित्तैकभोग्यम् ।
सर्वाज्ञप्रीणनार्हं सपदि बहुफलस्नेहमास्वाद्यशीलं
सभ्यैस्साध्यैस्समेतं निरविशदनघाश्लेषनिर्वेशमीशम् ॥ २.३.११॥
(प्रतिबिम्बलहरी)
सेनासङ्घयुताशरेन्द्रकुलहृत्कोपाश्रयायां कृतौ
श्रीमद्वैष्णवसङ्घरम्यकुरुकाशास्तुः शठद्वेषिणः ।
भोग्ये भक्तकुलस्य भक्तनिवहाः ! गाथासहस्रेऽमुके
स्पर्धापेतहृदः प्रकीर्त्य दशकं स्निग्धा मिथो नृत्यत ॥
॥ इति द्वितीयशतके तृतीयं दशकम् ॥
॥ अथ द्वितीयशतके चतुर्थं दशकम् ॥
प्रतिबिम्बलहरीवृत्तं - शार्दूलविक्रीडितं
एतद्दशकप्रतिपाद्यगुणविशेषः - व्यसनहरता
॥ सङ्गतिमणिमालाश्लोकः ॥
(मालिनी)
``परमपदजनानां सङ्गतृष्णोऽयमेतत्
भवति कृतिसहस्रे पूरिते काल'' इत्थं !
भगवति सविलम्बे सोढुमेतन्न शक्तः
विलपति शठवैरि प्रेयसीमातृवाचा ॥
नृत्यन्ती बहुशो द्रुतात्महृदया गानं कलं तन्वती
गीत्वा बाष्पजलेन पूर्णनयना साकाङ्क्षमीक्षां तथा ।
सर्वत्रापि पुनः पुनर्विदधती हा! हे नृसिंहेत्यहो !
सेयं खड्गसमानभासुरमुखी म्लानिं गता म्लायति ॥ २.४.१॥
सेयं खड्गसमानभासुरमुखी स्त्रीणां वरा दर्शने
साशा ते शिथिलाङ्गसन्ततिरहो म्लायत्यतीवाकुला ।
विद्वन्! बाहुसहस्रदारणविधौ बाणस्य शूरात्मनः
स्वं सदर्शयितुं मतिं न कुरुषे कारुण्यहीनो ध्रुवम् ॥ २.४.२॥
अत्यन्तं द्रुतमानसेन सहिता वह्न्यन्तिके यज्जतुः
उच्छिष्टं मधुनस्तयोरियमहो! साम्यं विधत्ते स्थितौ ।
अस्यां नास्ति दया पलाशनगरीं लङ्कां प्रदग्धुस्तव
स्वामिन्! किं करवाण्यहं स्थितिमिमां हर्तुं क्षमा नास्म्यहो! ॥ २.४.३॥
लङ्कामर्दन! हेति वक्ति च पुनः सत्त्वाढ्यपक्षिध्वजे-
त्येवं वक्ति च मानसेऽतिशिथिला सोष्णं श्वसन्ती मुहः ।
अक्ष्णोरश्रुझरप्रवाहमधिकं भूयो विधत्ते तथा
तिष्ठत्येव कृताञ्जलिः पुनरसो चिन्ताकुला सन्ततम् ॥ २.४.४॥
सेयं नक्तमथाह्नि जल्पतितरां; नीलोत्पलश्यामल-
स्वाक्ष्णोः बाष्पचयं बिभर्तिं नितरां; षट्पाद्गणौरञ्जिताम् ।
शीतां श्रीतुलसीं न यच्छसि परं शुद्धस्वभावो भवन्
तत्तादृक्करुणानिवास! करुणा कीदृश्यहो भाति ते ॥ २.४.५॥
कारुण्यान्वित हेति वक्ति नितरां धत्ते स्पृहां तादृशीं
ब्रूते हे परमोपकारक! तथा श्रीदिव्यपीयूष ! मे ।
स्वान्तस्येति समाह्वयत्यतितरां आवेदयत्याशयं
अन्तस्स्वान्तरहो द्रवत्तु हृदयं भूयो द्रवीभूयते ॥ २.४.६॥
अस्या मद्दुहितुस्स्म शुष्यतितमां आत्मा महोदार हे-
त्याचष्टेऽथ च कृष्ण ! दुग्धजलधेरन्तश्शयानेति च ।
वक्तीयं; मयि गूहनं च चरितुं प्रारब्धमासीदहो !
तच्चोरी स्वयमेव वञ्चनपदं प्राप्ताऽधुना तादृशम् ॥ २.४.७॥
ब्रूते वञ्चितवन्निति प्रबद्ध्य करयोः कुर्वन्त्यसावञ्जलिं
उष्णोष्णं श्वसितं दधाति हृदये दीर्घं प्रतप्ते स्वके ।
कंसे साधितवञ्चनाखिलजगत्प्रख्यातवीर्यान्विते
त्वामेकं खलु रक्षकं वृतवती बाधा इमाः संश्रिताः ॥ २.४.८॥
सूर्यस्यास्तमयं न वेत्त्युदयमप्येषा मधुस्यन्दिनीं
गन्धाढ्यां तुलसीस्रजं हि शिशिरां प्रस्तौति भूयोगिरा ।
ज्योतिर्युक्त-शिताग्र-हेत्यधिपवत्-पाणे! किमस्याः कृते
चापल्यैकनिरूपणीयसुदृशः कर्तुं भवान् वाञ्छति ? ॥ २.४.९॥
चापल्येन युता मुधा मम सुता सेयं परं बालिशा
नक्तं चापि दिवा स्वकीयमतुलं नेत्रद्वयं मञ्जुलम् ।
*बाष्पैः संस्थगित बिभर्ति भगवन्नुद्दामसम्पन्मतीं
लङ्कां नाशितवन् ! प्ररक्ष मधुरामम्लानमस्या दृशम् ॥ २.४.१०॥
(*बाष्पैस्सम्भरितं इति पाठान्तरं)
(तात्पर्यरत्नावलीश्लोकः)
प्रह्लादार्थे नृसिंहं क्षपितविपदुषावल्लभं क्षिप्तलङ्कं
क्ष्वेलप्रत्यर्थिकेतुं श्रमहरतुलसीमालिनं धैर्यहेतुम् ।
त्राणे दत्तावधानं स्वरिपुहतिकृताश्वासनं दीप्तहेतिं
सत्प्रेक्षारक्षितारं व्यसननिरसनं व्यक्तकीर्तिं जगाद ॥ २.४.११॥
(प्रतिबिम्बलहरी)
अम्लानात्मयशोभरं प्रति कृतं श्रीवामनं शोभनं
गीत्या युक्तमिदं वदान्यमणिना श्रीमच्छठारातिना ।
अस्मिन् नाम सहस्रगीतिसुभगे श्रीमत्पदाम्भोजयोः
सन्मालार्पणमेव हृद्यदशकादस्मात् फलेद्भक्तितः ॥
॥ इति द्वितीयशतके चतुर्थं दशकम् ॥
॥ अथ द्वितीयशतके पञ्चमं दशकम् ॥
प्रतिबिम्बलहरीवृत्तं-शार्दूलविक्रीडितम् ।
एतद्दशकप्रतिपाद्यगुणविशेषः - स्वाप्तिसम्प्रीतिमत्त्वम् ।
॥ सङ्गतिमणिमालाश्लोकः ॥
(मालिनी)
इति विलपनमस्याकर्ण्य तूर्णं स नाथः
करिवरपरिरक्षाकान्दिशीकः पुरस्तात् ।
निजवपुषि सुभूषाहेतिरूपैः बभासे
सह परिजनबृन्दैः तत्र तुष्टः प्रवक्ति ॥
दिव्ये धाम्नि व मच्छरीरसुषिरे प्रीत्या स्थितस्य प्रभोः
दाम्नात्युज्ज्वलधामरम्यमकुटः शङ्खश्च चक्रं तथा ।
हारस्सूत्रमथारविन्दसदृशे नेत्रे फलाभोऽधरः
पद्मो भाति; पदे च पद्मसदृशे रूपं च हेमोज्ज्वलम् ॥ २.५.१॥
अङ्गं सूर्यनिभं हि रक्तकमलं नेत्रे करः पङ्कजं
वक्षः श्रीनिलयो विरञ्चिनिलयो नाभिश्शिवस्यालयः ।
तस्याधो; मम दैवतस्य निखिलं रूपं स्वरूपं गुणान्
आविष्कृत्य मम प्रविश्य हृदयं सर्वाङ्गमाश्लिष्यतः ॥ २.५.२॥
मच्चेतः परिरम्भणं कृतवतो दिव्याधरो नीरजः
दीप्तश्रीगिरिसन्निभस्य नयने पादौ करौ नीरजौ ।
लोकास्सप्त यदन्तरङ्गवशगाः नित्याः प्रवाहादमी
धत्ते स्वेन विना स्थितं किमपि नो वस्त्वात्मना स प्रभुः ॥ २.५.३॥
सर्वोऽयं *हरिरत्नशैलसदृशः पाण्यक्षिनाम्ना दधत्
सद्यः प्राप्तविकासपङ्कजसुमं सर्वैः क्षणानां गणैः ।
अह्नां मासगणैश्च वर्षनिवहैः कल्पैश्च भुक्तो मया
पर्याप्त्या रहिता सुधा भवति मे है! तत्क्षणे तत्क्षणे ॥ २.५.४॥
(*गरुडाश्मशैलसदृशः - इति पाठान्तरम् ॥)
पर्याप्त्या रहितामृतं च भवतो वस्तुत्वरिक्तस्य मे
चित्तं संविशतोऽसिताब्दसदृशः कृष्णस्य मत्कप्रभोः ।
रक्तं विद्रुममोष्ठतस्सममिदं नाब्जं च दृक्-पत्-करैः
हारोत्तुङ्गकिरीटसूत्रमुखतत्भूषा असङ्ख्या अपि ॥ २.५.५॥
सर्पाधीशशयस्य मत्प्रभुमणेः भूषा असङ्ख्यास्तथा
दिव्या अप्यभिधा वपूंषि च गुणाः तेजोमयान्यासते ।
चिन्तायामथ दर्शनश्रवणयोः आघ्राणतस्तत्सुखं
सूच्चं ज्ञानमयो विभाति बहुशो नैपुण्यतश्चिन्तने ॥ २.५.६॥
दुग्धाब्धौ भुजगेश्वरे शयितवान् तादृक्षदोर्वल्लिका-
नीलार्थं हृतसप्तगोपतिमदः भेत्ता वनत्वश्रियः ।
सालानामपि सप्ततां गतवतां; युद्धे वृषा सुन्दरः
दिव्यश्रीतुलसीसुदामसुभगश्रीमत्किरीटोज्ज्वलः ॥ २.५.७॥
श्रीमद्धेमकिरीटमाहवधराश्रीपुङ्गवं मत्प्रभुं
युक्तं बाहुचतुष्टयेन महितश्रीमत्तुलस्याः स्रजा ।
मन्नीचत्वमपावधीर्य मयि संसक्तं वदेयं कथं
वक्तव्यं च किमस्ति वाग्मिमणयो! यूयं वदेतास्ति चेत् ॥ २.५.८॥
नीलश्रीमणिकान्तिकान्तममितैः आढ्यं गुणैश्शोभनैः
अम्भोजप्रसवातिसौरभयुतं मान्यामृतं स्वामिनम् ।
मत्कं मामकजीवजीवमनरं नारीं च नेमं परं
तादृग्दुर्लभमोक्षभूतमयि भोः! सङ्कीर्तयध्वं समे ॥ २.५.९॥
न स्त्री नैष पुमान् न चाथ भविता षण्डो न दृश्यो न सन्
नासन् भक्तजनेप्सितानुगुणतः सम्प्राप्तसद्विग्रहः ।
नैवं चैष भवत्यथो भगवतस्तस्यास्य शंसाविधौ
आयासोऽतिमहान् भवत्यतितरामस्माकमीशेशितुः ॥ २.५.१०॥
(तात्पर्यरत्नावलीश्लोकः)
स्वप्राप्त्या सिद्धकान्तिं सुघटितदयितं विस्फुरत्तुङ्गमूर्तिं
प्रीत्युन्मेषातिभोग्यं नवघनसरसं नैकभूषादिदृश्यम् ।
प्रख्यातप्रीतिलीलं दुरभिलपरसं सद्गुणामोदहृद्यं
विश्वव्यावृत्तचित्र व्रजयुवतिगणख्यातरीत्याऽन्वभुङ्क्त ॥ २.५.११॥
(प्रतिबिम्बलहरी)
वाचां गोचरतामतीत्य वसतः श्रीकुम्भनृत्तप्रभोः
वाचा स्तोतुमिहोद्यतस्य कुरुकापुर्याः शठद्वेषिणः ।
वाचान्तादिजुषा सहस्रमुदितं पङ्क्तिं च तस्मिन्निमां
वाचा वक्तुमिह प्रवृत्तिसहिताः भान्त्येव वैकुण्ठगाः ॥
॥ इति द्वितीयशतके पञ्चमं दशकम् ॥
॥ अथ द्वितीयशतके षष्ठं दशकम् ॥
प्रतिबिम्बलहरीवृत्तं -स्रग्धरा
एतद्दशकप्रतिपाद्यगुणविशेषः - वैमुख्यत्रासयोगः
॥ सङ्गतिमणिमाला ॥
(मालिनी)
शठरिपुपरिरम्भात् उज्ज्वलं प्रेक्ष्य वर्ष्म
स्वकमथमुदितेऽस्मिन् नैच्यवाक् सोऽप्यभूत् ।
चकितहृदि च देवे विप्रयोगप्रभीतौ
अभयवचनमस्मै स प्रदत्ते तदात्वे ॥
हे ! वैकुण्ठेन्द्रनीलाभिधमणिसम! मे कृत्रिमश्रीश खर्व !
प्राविश्यान्तर्मनो मे स्थित ! सुरवृष! तत्तत्क्षणे चामृतायन्! ।
तत्तते दासबृन्दे पतदधमखिलं संहरन् दैत्यबृन्देऽ-
निष्टाधायिन् ! पवित्र ! स्थित इह सुदृढं त्वां प्रगृह्यास्म्यवेहि ॥ २.६.१॥
अल्पाल्पं वस्तु कृत्वा सममुदरगतं नैव किञ्चिद्विहाय
क्षिप्रं मच्चित्तमागात् अथ च मतिमयस्सम्प्रवाहोऽतिवेलम् ।
भूत्वा भास्रप्रदीपोऽभवदपि च सुधा हेयहीना समन्तात्
कुत्रापीक्षां न धत्ते मम पृथुविकसत्-पद्मपत्रायतेक्षः ॥ २.६.२॥
पद्माक्षं सूरिसेव्यं प्रभुमथ तुलसीसौरभेणाञ्चितैः तैः
पुष्पैः बद्धाः स्रजश्च प्रदधतमपि मत् स्वामिनं हेमशैलम् ।
वाचा स्तोतुं च संयक् मनसि च नमसा मोदपूर्वं सनृत्तं
ध्यातुं जिह्वाप्रदेशे स्थिरविकचमदात् पद्यवर्गं वदान्यः ॥ २.६.३॥
अत्यन्तोदार ! हेऽस्मन्मरतकसुगिरे ! मध्वरे! चिन्तयन्तं
त्वां मां त्वय्येव लीनं कलयत इह ते सद्गुणाब्धौ निमग्नः ।
नृत्वान्तः कीर्तयंस्त्वां विगलदखिलहृत्ताप उज्जीवितोऽहं
जह्यां स्वामिन् कथं वा ? निरुपममहितानन्दमूर्ध्नि स्थितोऽहम् ॥ २.६.४॥
सम्प्राप्योज्जीवनं मे निरवधिकमहाघोरपापान्यपोह्य
प्राप्तोऽहं नित्यदास्यं तव मम भगवन् ! त्वां कथं वा विजह्याम् ।
दुग्धाब्धौ पञ्चमौलौ नटनकृति महाभोगिराजे शयानः
कुर्वन् हे ! योगनिद्रां जगदवनमते ! त्वां प्रचिन्त्य प्रचिन्त्य ॥ २.६.५॥
कृत्वा कृत्वा विचिन्तां तव विपुलयशोगायकोऽहं प्रनृत्या-
नादेः मत्पापराशेः लवनमकरवं मूलतोऽहं ततस्ते ।
धीपूर्वं द्वेषभाजः विपुलतरमुरो हे! हिरण्यस्य भेत्तः !
मत्स्वामिन्! नित्यसिद्धप्रथितनरहरे ! किन्नु मे स्यादशक्यम् ॥ २.६.६॥
किं वाऽशक्यं मम स्यात् समुदमुपगते सप्तलोकान् प्रपूर्णान्
भुक्त्वा दासस्य चेदं मम हृदयमितो विप्रयोगप्रभीरौ ।
निर्धूतामूलरोगाः मदवरपुरुषाः सप्त पूर्वे च सप्ता-
व्युच्छत्सन्तापदातुः नरकभुवनतः सङ्गतेस्सन्निवृत्ताः ॥ २.६.७॥
पौनः पुन्येन नानाजनिषु कृतजनिः प्राप्य ते पादपद्मं
प्रापं चेतः प्रसन्नं निरवधिकमुदामोघमग्नो बभूव ।
सङ्ख्यातीतासुराणां बहुतरनिवहान् भस्म कर्तुं पतन्तं
प्रारुह्यातस्थिवन् ! हे ! खगमतुलमिमं मास्म जह्याः प्रभो! मे ॥ २.६.८॥
शीतश्रीवेङ्गटाद्रौ स्थित ! मम सुविभो ! ध्वंसमाक्लृप्तवन् ! हे !
लङ्कायास्सप्तसालान् अतुलनिजधनुर्युक्तबाणप्रयोगात् ।
निष्पत्रान् क्लृप्तवन्! हे ! शिशिरसुतुलसीं गुच्छतस्संवहन् ! हे !
तारुण्ये तस्थिवन्! हे ! सुरऋषभ ! सुधे ! कुत्र गच्छेरितस्त्वम् ॥ २.६.९॥
भूते काले भविष्यत्समय उत तथा वर्तमाने पिता नः
प्राणो माता भवन् हे! अभिसमुपगतवान् किं त्यजेयं भवन्तम् ।
सर्वत्रापि प्रसृत्य स्थितमनवयशः सन्दधान! त्रिलोकेट् !
शीतश्रीवेङ्कटाद्रौ स्थित ! परम ! वहन् ! शीतवृन्दास्रजं हे ! ॥ २.६.१०॥
(तात्पर्यरत्नावलीश्लोकः)
स्वास्वादख्यापकत्वात् श्रितनियतदृशेः नैकभोगप्रदानात्
त्यागानर्हप्रकाशात् स्थिरपरिचरणस्नापनात् पापभङ्गात् ।
दुस्साधार्थस्य सिद्धेः विरहभयकृतेः दुर्विभेदात्मयोगात्
नित्यानेकोपकारात् स्वविरहचकितं प्रैक्षताम्भोरुहाक्षम् ॥ २.६.११॥
(प्रतिबिम्बलहरी)
शीतां रम्यां तुलयास्स्रजमधिमकुटं संविभर्तुः विशाला-
दभ्राम्भोजाभनेत्रे यशसि शठरिपुः प्राप्य गाढप्रवेशम् ।
मारः श्रीदक्षिणस्यां अधिकुरुकमिदं रस्यगाथासहस्रं
प्राहान्ताद्या सरागं कलमिह दशकं गायकाः केशवीयाः ॥
(इति द्वितीयशतके षष्ठं दशकम् ॥
॥ अथ द्वितीयशतके सप्तमं दशकम् ॥
प्रतिबिम्बलहरीवृत्तं - शार्दूलविक्रीडितम् ।
एतद्दशकप्रतिपाद्यगुणविशेषः - निजसुहृदवनत्वं
॥ सङ्गतिमणिमाला ॥
(मालिनी)
अभयवचनकाले प्रीतिरस्याभवद्या
शठरिपुविषया सा तज्जनेष्वप्यथाऽभूत् ।
इदमभिनिरीक्ष्य प्रीतिपूर्णो मुनीन्द्रः
स्विकजनरतिमेनं द्वादशाख्याभिरूचे ॥
पूर्वे केशवपूरुषा मदवरे सप्तापि सप्तेति चे-
त्येवं सङ्गणिता महाचतुरता मज्जीवितेऽभूदियम् ।
सर्वेशेन मदीयनीलमणिना मद्रक्तरम्याक्षतो
देवेशेन ममोकारविभुना नारायणस्वामिना ॥ २.७.१॥
सप्तानां जगतामखण्डमधिपो नाथश्च नारायणः
स्वामी वेदमयो हि मूलमपि मे हेतुः क्रियाः कर्म च ।
सद्देहैरमरैरथेतरजनैः सर्वैः प्रणम्य स्तुतः
दद्भङ्गेन कृतोपकार इह मे है ! दन्तिनो माधवः ॥ २.७.२॥
उक्तं माधव ! हेति केवलमिदं स्वालम्ब्य मेऽन्तस्थितिं
प्राप्तोऽवद्यसमागमं पुनरितस्संवारयन् सर्वदा ।
दुष्टावद्यविनाशकृत् सत् , अमृतं रक्ताब्जदृक्पर्वतः
इक्षोस्सारघनोऽनवद्य इव मे गोविन्द आ में प्रभुः ॥ २.७.३॥
गोविन्दो घटनृत्तकोविदवरो गोपाल इत्यालपन्
नृत्यन्नाश्रितपारतन्त्र्यमपि तत् पारम्यमासं तथा ।
गायन्; मे दुरितं व्यपोह्य मम ये सप्ताऽपि सप्ताऽपि तान्
मद्व्याजादनयत् स्वसङ्गमिति मद्विष्णुस्समर्थः प्रभुः ॥ २.७.४॥
पाणी दृक्चरणौ च दीप्तसुमहारक्ताम्बुजातं तथा
श्रीमन्मङ्गलविग्रहो धरणिभृद् दीप्तोसितज्योतिषा ।
विष्वग्व्याप्त्यतिदीप्तिवन्मकुटवन्मौलेः मम स्वामिनः
श्रीशङ्खो मधुसूदनस्य रजनीट् पूर्णो; रथाङ्गं रविः ॥ २.७.५॥
नान्यन्मेऽस्ति मधुद्विषः परमतो नापेक्ष्य किञ्चित्ततः
गाथास्स्तोत्रवृताः प्रगीय नटनं कुर्वन् यथा स्यामहम् ।
कल्पे कल्प इमं जनिष्वपि समास्वासाद्य तिष्ठन् पुरः
कर्तुं मे करुणां त्रिविक्रमविभुं चाक्रम्य साऽते दया ॥ २.७.६॥
रक्ताम्भोजविलोचनं मम; मम श्रीरक्तबिम्बाधरो-
दञ्चत्पाण्डरदर्पणाभरदनं मेऽन्तस्स्थितं त्रिक्रमम् ।
आध्यायेत्थमहं मनस्यभिनमन् स्यां कल्पकल्पं यथा
पादाब्जे लयवन्-नमन्-मन इदं मे वामनादाः पटो !॥ २.७.७॥
हे! मे वामन! तेजसा मरतक ! प्रद्युम्नमुत्पादयन् !
आलापन्नरविन्दचक्षुरिति ते पादौ प्रगायन्नमन्
शुद्धं प्राप्य मनो विधूय सकलं जन्मादिशोकं यथा
स्यां दुर्मानसहारिणः किमु तथा कुर्यां मम श्रीधर ! ॥ २.८.८॥
हे ! हे ! श्रीधर ! रक्तपद्मनयनेत्यालप्य नक्तन्दिवं
सन्तप्योष्णतमातिनिश्वसितवत्-बाष्पेक्षणं विह्वलम् ।
निर्धूताखिलघोरपापनिवहं वर्धिष्णुमोदं च मां
कुर्वन्नित्यमितो ममाऽसि हृदयं हे मद्धृषीकेश! भोः ॥ २.८.९॥
खानां नाथ! ममोपकार! हतवन्! लङ्कास्थरक्षःकुले
धूर्तं तेन कृतोपकारक! सुरस्वामिन् इति त्वं यदि ।
चित्ताथायि ! विवेकि चेत् प्रणम तं विश्वासवत् स्या दृढं
कालुष्यं गमितोऽपि पूर्णमथ तं मा पद्मनाभं त्यज ॥ २.८.१०॥
निस्तुल्यौदितदिव्यशक्तिमहितो मे पद्मनाभस्सदा
मय्येव प्रणवस्सृजन्निजकृते मां स्वं ददौ मे ततः ।
आस्ते कल्पक एव नीलघनवत् पीयूषभूतो मम
प्राप्तो वेङ्कटसद्गिरिं सुरपतिर्दामोदरो मे पिता ॥ २.८.११॥
तं दामोदरमेककारणमिदं सम्भुक्तवन्तं जगत्
कस्यात्रास्ति समर्थतेति विदितुं तं सन्नुतानामपि ।
किं दामोदरदेहतां गतवतां शक्यं शिवानां च दिग्-
वक्त्राणामपि वेदितुं मम विभुं वार्धिस्वभावं मम ॥ २.८.१२॥
(तात्पर्यरत्नावलीश्लोकः)
सर्वादिस्सर्वनाथः त्रिभुवनजननीवल्लभः स्वाश्रितार्थी
विष्वग्व्याप्त्यातिदीप्तः विमतनिरसनः स्वाङ्घ्रिसद्भक्तिदायी ।
विश्वाप्त्यै वामनाङ्गः स्वविभवरसदः स्वान्तनिर्वाहयोग्यः
स्वार्थेहो बन्धमोक्ता स्वजनहिततया द्वादशाख्याभिरूचे ॥ १३॥
(प्रतिबिम्बलहरी)
वर्णश्रीमणिभासुरं सुरपतिं दीर्घं विमुक्तं नते
कृष्णं प्रत्युदितेऽतिरम्यकुरुकाराजच्छठारातिना ।
दाम्न्यन्यस्मिन् द्रमिडे सहस्रकलिते गानेन च द्वादशा-
ख्यैता द्वादश सन्नयन्ति भगवत्पादौ दृढं ता इमाः ॥
(इति द्वितीयशतके सप्तमं दशकम् ॥
॥ अथ द्वितीयशतके अष्टमं दशकम् ॥
प्रतिबिम्बलहरीवृत्तं - मालिनी
एतद्दशकप्रतिपाद्यगुणविशेषः - मुक्तिसौख्यप्रदत्वं
॥ सङ्गतिमणिमाला ॥
(मालिनी)
निजजनकुलजेऽपि प्रेम तीव्रं दधानं
समकथयदथैनं द्वादशाख्याभिरेवम् ।
अमृतवितरणेनास्य मोक्षप्रदत्वं
निरुपधि च परत्वं तेन तुष्टः प्रवक्ति ॥
शयनमुरगतल्पे श्लेषणं पद्मजायाः
वपुषि चरति योऽसौ तत्-द्वयस्यादिभूतः ।
अखिलजनसजातिः मोक्षहेतुस्स इत्थं
भवजलधिमपारं सन्तितीर्षत्प्लवश्व ॥ २.८.१॥
अकजनिरिति सर्वं तारयेत् दुस्तरं तत्-
त्वकविरहितमोक्षं प्रापयेत् योग एव ।
शिशिरजलसरस्यां दन्तिराजार्तिहन्तुः
कुसुमशिशिरवृन्दायुक्-प्रभोर्मेऽतुलस्य ॥ २.८.२॥
विरचयति विधिस्सन् हन्ति शम्भुस्तथा सन्
उदरजकमलोत्थः स्वे शरीरे स्थितश्च ।
हृदि मिलितरमस्सन् स्वार्हकृत्योऽस्य कृत्यं
सकलमपि महत्तत् सर्वलोकप्रसिद्धम् ॥ २.८.३॥
विषयधरणिपञ्चव्यापृतस्वाक्षपञ्च-
व्यपगतिमधि शुभानामन्तहीनं विशन्तः ! ।
विषयं, असुरवर्गं भिन्नगात्रं विहन्तुः
फलजयिरुचिकीर्त्यां लीयमानास्सदा स्त ॥ २.८.४॥
अविरतजनिदुःखादन्यत्दन्यत्समस्या-
प्यविरतजनिमूलं निस्सहायस्त्रिलोक्याः ।
तुरगकमठरूपो रक्षिता मत्स्यमत्यौं
सुरपतिसुरनाथः तीर्थभूतो भवन्मे ॥ २.८.५॥
किमिति भुवनमाने पावनस्यार्जवाङ्घ्रौ
विनिहितसुमदाम प्रेक्ष्य मौलौ शिवस्य ।
अभिनवतुलसीयुग्वैभवं पार्थदृष्टं
सुविशदमथ वाचा वर्णनीयं परैश्च ? ॥ २.८.६॥
शयनमपि च वेशं विक्रमांश्चापि तन्वन्
किटिवपुरपि चान्तः संविशन्युद्घृतां ताम् ।
भुवमुदरनिविष्टामुद्गिरेत् स्वस्य वृत्ता-
यतभुजपरिरब्धुः वेत्ति मोहं नु कोऽस्याम् ॥ २.८.७॥
प्रभुमपि मम कृष्णं वीक्षकः कोऽस्य केक्षा-
सृतिः ? इहकवलं नो सर्वलोकोऽपि भुक्तौ ।
पदमपि परमं तत् धाम जीवास्तदन्यत्
सकलमपि विनाणुं व्याप्य सर्वान्तरास्ते ॥ २.८.८॥
सकलपदनिवासी कृष्ण इत्युक्तवन्तं
सुतमधि कृतकोपे स्तम्भघाते हिरण्ये ।
उदयमुपगतोऽयं तत्क्षणे तत्र तं घ्नन्
नरहरिरुपकारो मेऽस्य को वेद कीर्तिं ?॥ २.८.९॥
महितपरमधाम स्वर्गभूरर्च्यदेवाः
नरक इति समेषां मध्यतश्चान्त्यतश्च ।
करणमतुलमादिं बीजवत् व्याप्य सर्वं
स्थितमपि घनवर्णं कृष्णमद्राक्षमाः ! मे ॥ २.८.१०॥
(तात्पर्यरत्नावलीश्लोकः)
प्राप्याकारोपपत्त्या जनिपरिहरणात् विश्वसृष्ट्यादिशक्तेः
निस्सीमानन्तदेशान्वयत उपजगौ रक्षणार्थावतारात् ।
सुप्रख्यातानुभावात् विविधविहरणात् व्याप्तिवैचित्र्यवत्त्वात्
भक्तैः द्राग्दृश्यभावात् अखिलफलकृतेः मुक्तिसौख्यं मुकुन्दे ॥ २.८.११॥
(प्रतिबिम्बलहरी)
अरुणतलनिजाक्षं कृष्णदेहं प्रतीशं
चलदलिवनसच्छ्रीपाड्यभूमेः सहस्रे ।
द्रमिडगिरि सुरागे पङ्क्तिमेतां पठन्तोऽ-
धिखमनवधिमोक्षं शासतेऽस्माकमेव ॥
(इति द्वितीयशतके अष्टमं दशकं )
॥ अथ द्वितीयशतके नवमं दशकम् ॥
प्रतिबिम्बलहरीवृत्तं - शार्दूलविक्रीडितम् ।
एतद्दशकप्रतिपाद्यगुणविशेषः - कैङ्कर्योद्देश्यत्वम् ॥
॥ सङ्गतिमणिमाला ॥
(मालिनी)
अथ च सकुलमेनं मोक्षसौख्यं प्रणेतुं
कृतमतिमपि देवं ``मे मुदे नेयमर्थ्या ।
चरणकमलसेवा मोक्षवासो मुदे ते
भवतु म'' इति गोप्यं प्राह मोक्षस्वरूपम् ॥
वैकुण्ठस्य विधा किलातिमहती वक्तुं न सज्जोऽस्मितां
पादौ ते मम ताम्रनीलजलजौ मौलौ विधेयौ जवात् ।
अस्माकं परमोपकारक! करिश्रेष्ठार्तिसंहारक !
स्वामिन्! केवलमेतदेव मम ते दासस्य संवाञ्छितम् ॥ २.९.१॥
हे मत्काञ्चनसान्द्रधाममणिभ ! स्वामिन्निदं केवलं
यावत्कालमिहार्थये तव पदं भक्तिं विना दुर्लभम् ।
प्राप्तुं भक्तिकरं प्रयच्छ तमिमं कालस्य मा यापनं
कुर्या नान्यदितः कदाऽपि किमपि त्वत्तो मया प्रार्थ्यते ॥ २.९.२॥
क्रूरं मा कुरु कर्म हेति करुणां कुर्वन् करे क्लृप्तसद्-
धेतीट् ! कृष्णतयोपकारक ! गले रुद्धेऽपि मे श्लेष्मणा ।
अश्रान्तो नुतिकृत् तवाङ्घ्रियुगले स्यामेष सोऽहं यथा
तद्वन्मे करुणां विधेहि करुणा मय्येव सार्था तव ॥ २.९.३॥
कुर्या नाम ममैव सेवनमये! नित्यं त्वमित्यालपन्
चित्तं मे प्रविशन् विना किमपि तत्प्रत्यूहमाप्तस्थितिः ।
स्वस्यैवैनमुरीकुरुष्व भगवन् ! मां त्वत्कृते कृष्ण हे-
त्येवैवं हि मम प्रयोजनमितो नान्यन्मया प्रार्थ्यते ॥ २.९.४॥
मृत्वा श्लाघ्यमतीव मोक्षमथवा स्वर्गं तथा नारकं
यायां नैवमहं पुनर्विजननं जातं तथानेकधा ।
विस्मृत्या रहितस्सदा किल मुदा तं स्वामिनं चिन्तयन्
भूयासं तदिदं तु मेऽस्तु तदहं ह्यत्रैव निर्बन्धवान् ॥ २.९.५॥
आनन्दान्वितदेवतात्मनिवहो लोकश्च लोकेतरः
स्वानन्दप्रदचन्द्रसूर्यमुखसत्तेजश्च जाता यथा ।
स्वस्मिन् स्युर्हि तथा विभो ! विकसतः प्रेमान्वितं चिन्तनं
कृत्वा कीर्तनपूजने तव मुदा वन्दे यथेयाः तथा ॥ २.९.६॥
त्वत्श्रीपादसरोरुहस्य तु सदाऽधस्तात् स्थितिं शाश्वतीं
प्राप्य स्यां तु यथा समेत्य हि तथा मेऽनुग्रहं नो ददत् ! ।
त्वामन्तर्मम सर्वदाऽपि दधतः पर्याप्तिदूरस्थित !
स्वामिन्नेहि ममाग्रतस्तु सततं भूयाश्च कालान् समान् ॥ २.९.७॥
सर्वानेहसि मत्प्रभुत्वमहितः मन्मानसान्तर्दृढं
त्वं तिष्ठेर्यदि किञ्चिदन्यदपि वा कालान्तरेऽहं पुनः ।
नापेक्षेय भवत्प्रसाद इति वै; सङ्गीर्यमाण ! श्रुतेः
उत्कृष्टैः विमलैस्सदाऽपि मम हे ! गौडप्रपक्वत्फल ! ॥ २.९.८॥
नो जानन्नहमेव मामकरवं वृत्तिं कृताहङ्कृतिः
स्वं चेदं मम हेति नाम ममता सम्पूर्णचित्तस्सदा ।
सोऽहं त्वं किल मामकं च सकलं स्वं च त्वमेव प्रभो !
नाकेनेडित! दिव्यसूरिपरिषन्नाथेत्यजानामितः ॥ २.९.९॥
सौन्दर्येण परेण युक्तविभवां भस्मैव लङ्कां पुरीं
कुर्वन् ! सप्त ककुद्मतश्च विजयिन् ! हे ! दीर्घभासोज्ज्वल! ।
त्वत्स्वर्णस्पृहणीयपादयुगले लीनं विधाय द्रुतं
मामन्यत्र न जातु सन्त्यज भवेः विस्रम्भवान् मा मयि ॥ २.९.१०॥
(तात्पर्यरत्नावलीश्लोकः)
श्रद्धेयस्वाङ्घ्रियोगं शुभमतिकरदं स्तोत्रसामर्थ्यहेतुं
स्वार्थीकारोपकारं स्मृतिरसशमितान्यादरं प्रीतिवश्यम् ।
प्राप्तौ कालाक्षमत्वप्रदममृतरसध्यानमात्मार्पणार्हं
वैमुख्याद्वारयन्तं वृतपरिचरणं चक्रपाणिं जगाद ॥ २.९.११॥
(प्रतिबिम्बलहरी)
चक्रत्यागकथाविहीनमहतो विश्लेषवैदेशिकौ-
दार्यश्रीकुरुकाशठारिवचसा क्लृप्ते सहस्रात्मके ।
एतद्ये दशकं विनाशरहितं वक्तुं समुद्योगिनः
तेषां तत् परमं पदं वितनुते यन्नाशसंवर्जितम् ॥
(इति द्वितीयशतके नवमं दशकं )
॥ अथ द्वितीयशतके दशमं दशकम् ॥
प्रतिबिम्बलहरीवृत्तं - शार्दूलविक्रीडितम् ।
एतद्दशकप्रतिपाद्यगुणविशेषः- शुभसविधस्थानवत्त्वम् ॥
॥ सङ्गतिमणिमाला ॥
(मालिनी)
विवृतमिति तु मोक्षं सम्प्रदातुं वनाद्रौ
शुभसविधपदे तं प्रेक्ष्य तिष्ठन्तमीशम् ।
तमपि गिरिमथैतत्पार्श्वमार्गादि सर्वं
पठति वकुलमालः प्राप्यकोटिप्रविष्टम् ॥
अत्यन्तोज्ज्वलयौवनस्य विलयात् प्रागेव मायाविना
प्रोद्यद्धामवता निजास्पदतया प्रीत्या परं स्वीकृतम् ।
प्रोद्यद्बालमहीरुहावलिवृतं श्रीमुग्धभूमीधरं
सेवध्वं चतुरत्वमेतदखिलक्लेशप्रणाशाय यत् ॥ २.१०.१॥
चातुर्याकरविभ्रमाढ्ययुवतीनैच्येषु हित्वा रतिं
गम्भीरध्वनिशालिशङ्खमहितश्रीसुन्दरस्यास्पदम् ।
चन्द्रस्वीकृतजानुचङ्क्रमणवन्मौलिं वनक्ष्माधरं
तं देशं नवनैः प्रगीय सुतरामुत्तिष्ठतैतत् फलम् ॥ २.१०.२॥
हे ! चित्ताफलकर्मजातकरणात् नैवास्ति किञ्चित् फलं
धारावर्षुकमेघसन्निभतनोः प्रीत्यर्हनित्यास्पदम् ।
व्यामोहप्रदसद्वनावृतमपि त्यक्त्वा वनक्ष्माधरं
पार्श्वेप्यस्य तु यस्य कस्य च गिरेः संसेवनं कर्म सत् ॥ २.१०.३॥
कर्माख्यं दृढबन्धकं विगलयन् पाशं, समुज्जीवयन्
संवोढुर्महतोऽचलस्य महितं श्रीनित्यवासस्थलम् ।
आगच्छज्जलदस्य रिङ्खणपदं विस्तीर्णतुङ्गद्रुम-
श्रीशैलं भजतैनवमेव तदिदं नूनं बलिष्ठं हितम् ॥ २.१०.४॥
शारीरेण बलेन पाटववता हित्वांहसां वर्धनं
धर्मैकोद्यतहेतिपुङ्गववतो वासस्थलं तादृशम् ।
पङ्कास्पृष्टसुभोग्यतीर्थसरसीजुष्टं वनाद्रीश्वरं
दीव्यन्तं समया गिरिं कलयितुं वापि प्रयाणं वरम् ॥ २.१०.५॥
प्राप्यं स्यात् परमं तदेतदिति भोः ! मत्वाऽथ हित्वाधमं
शिक्यस्योपरि सन्निविष्टमदतो हैयङ्गवीनं पदम् ।
पोतैर्योगमुपेयुषामतितरां जुष्टं मृगाणां गणैः
आरामाचलनायकस्य तु पथः सञ्चिन्तनं स्यात् शुभम् ॥ २.१०.६॥
मन्यध्वं तदिदं हितं नरकतो हित्वा तु सम्मज्जनं
पूर्वानेहसि भूमिमृद्धृतवतो दीर्घाधिवासस्थलम् ।
मालिन्यान्यपहाय शुद्धमतिदं स्वारामभूमीधरं
तत्पक्षक्रमतः प्रसृप्य वसतिं कुर्वीत चेत् तत् बलम् ॥ २.१०.७॥
सम्प्राप्यतितरां तरः प्रतिदिनं हित्वा वृथा तद्व्ययं
सन्दातुस्तरसां निवासधरणिं गोपस्य मायाविनः ।
प्रादक्षिण्यरतेन सूरिनिवहेनेद्धं वनाद्रीश्वरं
प्रादक्षिण्यकृतो भजध्वमपि तत् न्याय्यं वसन्तस्सदा ॥ २.१०.८॥
पापे मज्जय मा दृढे मम वचो न्याय्यं मनुध्वं समा-
हन्तुः तस्य पिशाचिकावरतनोः स्थानं महत् सुस्थिरम् ।
मुग्धैर्वारणयूथपैः परिवृतं स्वारामभूमीधरं
नन्तुं गन्तुमथो विचिन्तनविधावुद्योग एवेष्टदः ॥ २.१०.९॥
सोऽयं नः परमः पुमर्थ इति मा चौर्यं तथा वञ्चनां
सेवध्वं श्रुतिविस्तृतो रचयितुः पूर्वं, पदं वाञ्छितम् ।
कान्तायुक्तकलापिभिर्वनगिरिम्फुल्लप्रसूनोदितैः
पुष्पैरञ्चितमाविशन्तु भवतामाद्यः पुमर्थोऽत्र सः ॥ २.१०.१०॥
(तात्पर्यरत्नावलीश्लोकौ)
दीप्ताश्चर्यस्वभावं मुखरितजलजं वर्षुकाम्भोदवर्णं
शैलच्छत्राभिगुप्ताश्रितमतिविलसद्धेतिमापीतगव्यम् ।
संरम्भोत्क्षिप्तभूमिं प्रणमदनुगुणं पूतनाचेतनान्तं
पूर्वाचार्यं श्रुतीनां शुभसविधगिरिस्थानतो निर्विवेश ॥
इत्यब्रूतासह्यक्षणविरहतया मानुषत्वे परत्वात्
सर्वास्वादत्वभूम्ना व्यसनहरतया स्वाप्तिसम्प्रीतिमत्त्वात् ।
वैमुख्यत्रासयोगात् निजसुहृदवनात् मुक्तिसारस्यदानात्
कैङ्कर्योद्देश्यभावात् शुभनिलयतया चातिभोग्यं द्वितीये ॥ २.१०.११॥
(प्रतिबिम्बलहरी)
एतद्विश्वमयं पुमर्थ इति संस्रष्टुर्गुणाज्ञानतो
दूरस्थातिबलाढ्य-दातृ-कुरुका-दीव्यत्-शठारातिना ।
ज्ञानाप्त्यै विशदं निरस्तसदृशे सूक्ते सहस्रे त्वियं
पङ्क्तिस्सर्वमपि प्रदाय सदयस्यास्याङ्घ्रियुग्मं नयेत् ॥
(इति द्वितीयशतके दशमं दशकम् ॥
॥ इति द्वितीयशतकं सम्पूर्णम् ॥
॥ श्रीमते वात्स्यवेङ्कटशेषार्यमहादेशिकाय नमः ॥
॥ श्रीमते वात्स्य सुन्दरार्यमहादेशिकाय नमः ॥
॥ श्रीमते ज्ञानवैराग्यानुष्ठानशेवधि-साक्षात्स्वामिने नमः ॥
॥ श्रीमते निगमान्तमहादेशिकाय नमः ॥
॥ श्रीमते वात्स्यवरददेशिकाय नमः ॥
॥ श्रीमते कुरुकेश्वराय नमः ॥
॥ श्रीमते रामानुजाय नमः ॥
॥ श्रीमते वकुलभूषणाय नमः ॥
॥ श्रीमते सुवर्णलक्ष्मीधरनवनीतनटस्वामिने नमः ॥
॥ प्रतिबिम्बलहरी - तृतीयशतकम् ॥
॥ श्रीः ॥
प्रतिबिम्बलहरीवृत्तं - शार्दूलविक्रीडितम् ।
॥ अथ तृतीयशतके प्रथमं दशकम् ॥
एतद्दशकप्रतिपाद्यगुणविशेषः - सौन्दर्यभूमवत्त्वम् ॥
॥ सङ्गतिमणिमाला ॥
(प्रभद्रकम्)
वनगिरिमूर्धनि स्थितमभीक्ष्य पुष्पित-
द्रुममिव सुन्दरं विकचधीदवीयसीम् ।
तनुसुषमामथास्य करुणाप्रभावतो
बहुतृणगोचरां वदति विस्मितो मुनिः ॥
लक्ष्मीमुग्ध ! मुखस्य धाम किमु ते फुल्लं किरीटात्मना ?
धामाथो नु पदस्य पीठकमलं जातं विकासोज्ज्वलं ? ।
किं वा तेऽथ निसर्गभाम्बरयुतानेकाङ्गभूषात्मना
ज्योतिर्हेममयं कटेर्विसृमरं ब्रूया निरूप्य स्वयम् ॥ ३.१.१॥
उक्ते ते हि निरूप्य पद्ममयते साम्यं न दृक्-पद्-करैः
तप्तं धृष्टमथानघं च कनकं श्रीवर्ष्म धाम्नस्तथा ।
लोकोऽयं तब साम्यकीर्तनरतः प्रायो निहीनोपमाः
वक्त्यत्रोत्तमधाम ! फल्गु निखिलं ते चाप्यवद्यावहम् ॥ ३.१.२॥
ज्योतिस्त्वं परमं त्वदत्र परमं ज्योतिर्न यद्विद्यते
ज्योतिर्निस्सम ! तुङ्ग ! हेऽति विपुलं लोकं स्वसङ्कल्पतः ।
स्रष्टर्नः परमातिधाम ! न खलु ते गोविन्द ! वक्तुं गुणान्
हन्ताहं प्रभवामि तुङ्गललितान् पारम्यसौशील्यतः ॥ ३.१.३॥
पद्माज्जातमिदं बृहत् जगदहो कर्तुं मनो न क्षमं
पद्मश्रीसुभगे तवायि ! वपुषि प्रारभ्य कालाद्बहोः ।
तच्चिन्ताविमुखान्यदाः पुनरलं नाना मतान्यप्यधाः
त्वं फुल्लत्तुलसीपरं निजमनः क्लिश्यन्न किं स्यात् जगत् ? ॥ ३.१.४॥
निर्यत्नं किल कृच्छ्रक्लृप्तसुतपोलभ्यं विकासोज्ज्वलं
भारूपं वपुराप्तवन् ! स्वयमतिज्ञानाकृते ! सर्वतः ।
निर्वेलं स्थित ! भावि-भूत-विभवत्कालोऽवसि त्वं जगत्
सर्वं ते गुणजातमस्मि किमहं कात्स्नर्येन वक्तुं क्षमः ? ॥ ३.१.५॥
तत्तल्लोकगतत्तदादृतविधाध्येतृप्रपञ्चोदितो
वेदस्ते सुगुणैकदेशविरतः साधुर्न चैवान्यथा ।
पुष्पैर्युक्तनिजक्षमागतुलसीमौले! पयोजासना-
वासस्थानभुजान्तरङ्ग ! तव किन्नूक्त्वा वदेयं गुणान् ? ॥ ३.१.६॥
स्तोतारो बहवो भवन्तु किमतः ? सङ्कल्पतस्सृष्टवन् !
नीरौघे ``सृज सर्वलोक''मिति तं काष्ठाननं पूर्वतः ।
उद्यत्सद्गुणशालिभर्गमुखसद्दैवीकशक्त्युज्ज्वलाः
देवा व्याप्य यदि स्तुवन्ति सहजा कीर्तिस्तु दुष्येत्तव ॥ ३.१.७॥
निर्मालिन्यमहश्शरीर ! विकचन्नैवाप्यहो सङ्कुचन् !
निर्मालिन्यमते ! समस्त ! निखिलं सन्निर्वहन् ! वेधसि ।
निर्मालिन्यविशालभूषणयुते कीर्त्यां सुरेशे रते
निर्मालिन्यपदाम्बुजस्य तव किं म्लानिं महो नाप्नुयात् ॥ ३.१.८॥
अक्षीणात्मशिताग्रचक्रसुभगश्रीदक्षिणप्रान्त ! हे !
व्रातुं सेवनकामुकं गजमितोऽभासीरुदञ्चन् खगम् ।
निर्मोधात्मधियाऽऽयुधेन कमलाज्जाते जगत्युद्यते
त्रातुं दास्यमयान् ज्वलत् किमु भवत्तेजो विलीयेत हा ! ॥ ३.१.९॥
नास्तिक्यच्छलकृत्-चतुश्श्रुतिहृदि द्योतत्-ज्वलद्धाम भोः !
स्वामित्वेन समस्तलोकमिममुत्पाद्यारचय्योद्धृतिम् ।
भुक्त्वोद्गीर्य च मानमप्यकुरुथाः अर्धेन्दुमौलेर्विधेः
शक्रस्येश्वरबुद्धिना स्तुतिपदे चासीति को विस्मयः ॥ ३.१.१०॥
(तात्पर्यरत्नावलीश्लोकः)
सुश्लिष्टाकल्पमङ्गैरनुपमसुषमं वक्ति निस्सीमदीप्तं
स्वान्तस्वादुस्वदेहं सुखभजनपदं मण्डिताङ्गं महिष्या ।
स्तोत्रातिक्रान्तकीर्तिं मलिनिमरहितौज्ज्वल्यमिष्टौपवाह्यं
वीताश्चर्यत्रिणेत्रप्रभृतिसुरनुतिं चित्रसौन्दर्यविद्धम् ॥ ३.१.११॥
(प्रतिबिम्बलहरी)
आश्चर्या अपि यद्गता न हि तथा सद्ज्ञानवेदोदिते
कैङ्कर्यान्वितनैकवासविपुलां शास्त्रा शठारातिना ।
नत्वोक्ते कुरुकामसंशयधिया पङ्क्तिस्सहस्रेऽमुका
नादाढ्यत्रिजले जगत्युदयदा छिन्नां विधत्ते जनिम् ॥
(इति तृतीयशतके प्रथमं दशकम्)
॥ अथ तृतीयशतके द्वितीयं दशकम् ॥
प्रतिबिम्बलहरीवृत्तं - शार्दूलविक्रीडितम् ।
एतद्दशकप्रतिपाद्यगुणविशेषः - तनुविहितजगत्कृत्यसौभाग्ययोगः ॥
॥ सङ्गतिमणिमाला ॥
(प्रभद्रकम्)
वनगिरिसुन्दराङ्गसुषमां यथेप्सितं
पिहितमुखस्सुधाब्धितटगः पिपासितः ।
इव निजभोगकुण्ठनकरेन्द्रियैर्हृतो
न भजति यत् च्युतोऽहमिति खिद्यते ततः ॥
तीर्थैर्नस्त्रिविधैर्वृतस्य जगतः स्रष्टः ! पयोदोपम-
स्वान्तादौ त्वदुपागताङ्गसरणौ भ्रान्तस्स्थितोऽहं गदम् ।
अत्युष्णं समयं विहत्य दुरितं छित्त्वा समूलं कदा
त्वामासाद्य भवेयमेष भवता योगं प्रपन्नः पुनः ॥ ३.२.१॥
काठिन्येतमहामहीतलमिते ! मद्वामन ! त्वन्महा-
नानाक्रीडनजन्मजातलुठनोऽनादीरहं शृङ्खलाः ।
घोराणां महतां समूलदलिताः कृत्वांहसामाप्य तेऽ-
दभ्रं पादमितः कदा नु भविता संयक् प्रतिष्ठामहो ! ॥ ३.२.२॥
निस्संहारतुरङ्गयष्टिनिहतां श्रीभारताजौ समां
सेनां क्षेत्रवरान्तरा निहतवन् ! स्वामिन् ! सुदुष्टात्मनः ।
देहस्य ग्रथनं न शक्यत इदं छेत्तुं कथं त्वामहं
प्राप्तस्स्यामिति तत्र निस्सममयि ! ब्रूया उपायं मम ॥ ३.२.३॥
सर्वावर्जनदक्षधीद्युतिमय ! स्वामिन् ! सदा सर्वतः
बुद्धिक्षत्ययुताभिपूर्ण ! भवतः प्रावण्यमन्यत्र मे ।
त्यक्त्वा ते समया पदे सुखमहं वर्तै यथा त्वं तथा
कृत्वा नूतनमात्मनोऽवतरणं भूयो दयेथा मयि ॥ ३.२.४॥
स्वागत्येव गजादिकं मम मनश्शैथिल्यसंवर्जितं
नापि त्वं कुरुषे समेत्य यदियं भूयादुपेक्षा दृढा ।
गुच्छस्फीततमातसीसुमसमश्लाघ्यात्मकान्तिं दधत्
मत्स्वामिन् ! अभिगम्य हा ! परिसरं पद्यै क्व वाऽहं तव ? ॥ ३.२.५॥
पूर्वं संविहितं चरेयमितरन्नैवेति सङ्कल्प्य तत्
कर्तुं शक्तियुतो न चाभवमहो स्वल्पं त्वसारं बहु ।
आस्वाद्य त्वदपागतो बहुसहस्रात्मौघकारिन् ! प्रभो !
श्रीसत्स्वर्णसुभाङ्घ्रिसङ्गतियुतस्स्यां हा ! कदाऽहं तव ॥ ३.२.६॥
भो ! भो ! मानस! मे यथार्थधिषणाहीनस्य कर्मोदिते
जन्मन्यत्र निरन्तरं च सततं मग्नस्य संसीदतः ।
पूर्णस्याविरतं यथार्थधिषणाज्योतिर्मयस्यात्मनः
सर्वत्राऽपि सदा स्थितस्य भविता लाभो नु कृष्णस्य सः ॥ ३.२.७॥
आविश्यामितदुःखदाघनिवहं त्यक्तुं समर्थो न वा
नैवाथाविरतं त्वदङ्घ्रिविनतिं कर्तुं समर्थोऽस्म्यहम् ।
नित्यव्याप्तनिसर्गसद्गुण ! पर ! ज्योतिर्मय ! त्वामहं
द्रष्टा कृष्ण ! समाह्वयामि च कुतो त्वाहूतिमाप्त्यै दधे ? ॥ ३.२.८॥
क्रन्दं क्रन्दमतीव घोरदुरितैः गर्ते स्थितः कल्पिते
पापिष्ठश्चिरतः पथस्खलनतस्सीदामि मोहं गतः ।
पूर्वं गोकुलरक्षणं कृतवता सासक्ति; लोकान् समान्
सङ्क्रान्तेन भजेय कुत्र हि पुनस्सङ्गं त्वहो स्वामिना ? ॥ ३.२.९॥
अन्ते काल उपागतैर्यमभटैर्मुक्तेऽथ पाशे शुचां
वैयाकुल्यकृतां यथा च गलनं तासां समासां भवेत् ।
विद्यानैकधियं समीक्ष्य मम हा ! कृष्णं गृहीत्वा तथा
नित्यत्वं मम जीव एष सुभगं प्राप्य स्थिरश्चेतसा ॥ ३.२.१०॥
(तात्पर्यरत्नावलीश्लोकः)
स्रष्टा क्रान्ता च लोकान् हृतधरणिभरोऽनन्यभोग्याङ्घ्रियुग्मः
चिन्तोद्यन्नीलरूपः निरवधिरसदस्वाङ्घ्रिरध्यक्षमूर्तिः ।
नित्योपास्यस्वपादो निखिलवसुमतीगोपनस्वाङ्घ्रिवृत्तिः
मुष्णन् मूर्तिप्रतीत्या यमपरवशतां प्रेक्षि लोकैकनाथः ॥ ३.२.११॥
(प्रतिबिम्बलहरीश्लोकः)
सर्वात्माखिललोकशेषिविषये व्याप्तैः परं कोकिलैः
आरामैर्निबिडां सुरम्यकुरुकां शास्त्रा शठारातिना ।
क्लृप्तेऽदुष्टपदाढ्यगानमहिते मालासहस्रे स्थिता
हन्यादात्मनि मांसलं वपुरियं पङ्क्तिः प्ररूढं दृढम् ॥
(इति तृतीयशतके द्वितीयं दशकं )
॥ अथ तृतीयशतके तृतीयं दशकम् ॥
प्रतिबिम्बलहरीवृत्तं - शार्दूलविक्रीडितं
एतद्दशकप्रतिपाद्यगुणविशेषः - ``स्वेच्छासेव्याकृतिमत्त्वम्''
॥ सङ्गतिमणिमाला ॥
(प्रभद्रकम्)
निरवधिता निजात्मगुणगा हि रोधिनी
विकचधियामपीप्सितसृतौ रतेरिति ।
वृषगिरिमुत्तरं भजति तेन सान्त्वितः
स्तनरतबालको व जननीस्तनान्तरम् ॥
सर्वानेहसि पार्श्वतस्स्थिरतरं स्थित्वा निमेषं विना
निर्धूतच्युति दास्यकर्म किल नः कार्यं भवेदीप्सितम् ।
गर्जन्निर्जरदिव्यवेङ्कटगिरौ सौन्दर्यतेजस्तनोः
अस्मत्स्वामिन आस्तथाऽस्य च तथा तस्याप्यपि स्वामिनः ॥ ३.३.१॥
स्वामी नश्च तु योऽस्ति तस्य च तथा तत्स्वामितत्स्वामिनां
पूर्वो यः किल नित्यसूरिपतिना नित्यैर्युतैस्सूरिभिः ।
आकीर्णैर्मुदितैस्सुमैरभिवृते श्रीवेङ्कटे सुन्दरः
स्वामी वारिमुचा समानसुषमोऽनन्तैर्यशोभिर्वृतः ॥ ३.३.२॥
स्वामी भूषणवान् सुरक्तकमलस्वाक्ष्णाऽतिमायी तथा
बिम्बाभेन निजाधरेण नितरां रक्तेन कृष्णो मणिः ।
पूर्णैः प्रस्रवणैः प्रसन्नसलिलैः श्रीवेङ्कटे संयुते
सङ्ख्यातीतपुराणकीर्तिनिवहः श्रीनित्यसूरीश्वरः ॥ ३.३.३॥
सूरीणामधिपोऽयमित्ययमहो वक्ताऽस्मि तत् किं भवेत्
श्रीमद्वेङ्कटभूधरे निवसतस्तेजस्करं किञ्चन ? ।
नीचोऽहं ननु पूर्तिलेशरहितो मय्यप्यतीवादरात्
स्नेहं दर्शयतस्समुज्वलपरञ्ज्योतिर्मयस्वात्मनः ॥ ३.३.४॥
ज्योतिस्सन्नवरैः परैश्च निखिलैस्संसेव्यमानो जनैः
आदिर्विग्रहवानितीरणमदश्श्रैष्ठ्याय कल्पेत किं ? ।
तादृक्-श्रोत्रिय-सर्ववेदकथितं दोषातिदूरैर्गुणैः
सौशील्यादिभिरेधते यदमृतं श्रीवेङ्कटाद्रीश्वरः ॥ ३.३.५॥
दह्यन्ते हि ऋणानि सत्यमखिलान्येवं च तेषां तथा
पापान्युत्तरकालजान्यपि हितं कैङ्कर्यमेव प्रभोः ! ।
स्वाभीष्टं दधते सुखेन सततं प्राप्तं स्वरूपोचितं
ये तं वेङ्कटवासिने नम इति प्रोक्तिं वहेयुर्भरम् ॥ ३.३.६॥
धृत्वादभ्रसुमं, पयश्च सुमहत्, दीपं च धूपं तथा
सेनेशेन सहान्यलाभविरताः स्थित्वा हि यं सूरयः ।
नत्वोज्जृम्भणमाप्नुवन्ति स हि नः श्रीवेङ्कटो दास्यते
साम्यापत्तिसमन्वितामिह परां मुक्तिं विशालो गिरिः ॥ ३.३.७॥
गोप्ता गोधरवाहनेन स गवां शीतात् पुरा वर्षतो
माता नाम तदा समस्तजगतामाप्तोपकारः परः ।
आगत्याश्रितवान् महागिरिमिमं श्रीवेङ्कटं यं हि तं
त्वेकं सन्नमतां समाप्तिमयते क्लेशस्समस्तोऽपि नः ॥ ३.३.८॥
हान्युत्पादकरी जरा जनिरथो मृत्युश्च रोगास्समे
सन्नष्टा हि यथा तथा कलयितुं श्रीवेङ्कटं संश्रितः ।
गोपो यस्य नवीनपुष्पसदृशं श्रीपादपाथोभवं
वागन्तहृदयान्तरप्यविरतं संयक् स्थितं कुर्वताम् ॥ ३.३.९॥
सङ्कल्पानुगुणस्वजीवितदिनस्योच्चावधेरन्तिक-
प्राप्तेः प्राक् स्वबलस्य हानिफलितात् चेतोवसादादपि ।
विस्तीर्णात्मफणाहिराजशयनश्रीवेङ्कटाद्रेर्घन-
श्रीमत्काननरम्यपुष्पपृथुलामासीदतोपत्यकाम् ॥ ३.३.१०॥
(तात्पर्यरत्नावलीश्लोकः)
स्थानोत्कर्षात् सुदीप्तं श्रमहरवपुषं स्वाङ्गपर्याप्तभूषं
तेजिष्ठं नीचयोगात् प्रणमितभुवनं पावनं सन्नतानाम् ।
प्राप्त्यर्हस्थानमंहः प्रशमनविषयं बन्धविच्छेदिपादं
भेजे शीघ्राभियानक्षमशुभवसतिं लम्भितार्चाभिमुख्यम् ॥ ३.३.११॥
(प्रतिबिम्बलहरी)
विस्तीर्याङ्घ्रियुगं समस्तभुवनं सङ्क्रान्तवन्तं प्रभुं
प्रोद्दिश्यायतवृक्षषण्डकुरुकाराजछठारीरिते ।
निस्तुल्यं दशकं सहस्रगणिते संयक् पठन्तो जगन्-
मान्याः प्राप्य सुरम्यसम्पदमथ स्युस्ते सुखस्यास्पदम् ॥
(इति तृतीयशतके तृतीयं दशकं )
॥ अथ तृतीयशतके चतुर्थं दशकम् ॥
प्रतिबिम्बलहरीवृत्तं - शार्दूलविक्रीडितं
एतद्दशकप्रतिपाद्यगुणविशेषः - अखिलतनुता
॥ सङ्गतिमणिमाला ॥
(प्रभद्रकम्)
समविधसेवया वृषगिरीशमर्चिता
स्थितियुतमत्र यत् पृथगयं हि नैक्षत ।
किमपि; विभूतिविग्रहगुणेषु तस्य तत्
बहुमुखविस्मयश्चरति वाङ्मयार्चनम् ॥
श्लाघ्यो दिव्यगुणोऽद्वितीय इति वाऽतुल्या गुणैः क्ष्मेति वा
भास्वच्छीतपयोधिरित्यनल इत्याहो नभस्वानिति ।
सर्वत्रस्थितखेति सर्वगमहस्तेजोद्वयं चेति वा
त्यागानर्हसमस्तमेतदिति वा कृष्णस्य हूतौ विधा ॥ ३.४.१॥
सर्वे क्ष्माभृत इत्यथादृतगुणावृष्टिर्वरेत्युज्वलत्-
तारा इत्यथवा वदानि रसनासम्भूतविद्या इति ।
शास्त्रज्ञानसदात्मभूत इति वा हुतेर्नजाने विद्यां
सर्वव्याप्तगुणस्य पङ्कजदृशः कृष्णस्य मत्स्वामिनः ॥ ३.४.२॥
पद्माक्षेति वदानि विद्रुमलतारक्ताधरेत्युज्ज्वल-
त्कान्त्या सुन्दरपाद इत्यथ वदान्यक्ताञ्जनश्रीरिति ।
कान्त्या रक्तकिरीट इत्यथ रमाश्रीवत्सवक्षा इति
प्रोद्यच्छङ्खरथाङ्ग इत्यथ वदान्युत्कृष्टमाणिक्यभम् ॥ ३.४.३॥
ब्रह्मेशादिमशून्यकालविलसन्मत्स्वामिनं चाच्युतं
निर्दोषं नु वदानि जातिविशदं माणिक्यमाभायुतम् ।
स्वर्णं मौक्तिकमाकरप्रभवसद्वज्रं ह्यनाशोज्ज्वलं
दीपं कारणसुन्दरं मह इति प्राक् सुन्दरात्मेति वा ॥ ३.४.४॥
निर्दोषाच्युत इत्यथाश्रितजनाघध्वंसकं रस्यता-
शास्यं वाथ महौषधं सदुदधेः प्राप्तं वदेयामृतम् ।
तत्तादृग्रसखण्ड इत्यथ रसैः षड्भिर्युतं वान्नमि-
युत्सर्पीरसमित्यथो मधुरसं क्षीरं फलं चेति वा ॥ ३.४.५॥
क्षीरं वेति वदानि किं किमु चतुर्वेदीफलं सामय-
न्यायं शास्त्रमिति ब्रुवाणि जनितश्रुत्याशगानेति वा ।
एतेषूत्तममुत्तमं न्विति फलं सत्कर्मजं श्लाघ्यमि-
त्याहो कृष्णमथाद्भुतं न्वथ नतव्यामुग्धदेवादिमम् ॥ ३.४.६॥
गीर्वाणादिरिति ब्रुवाणि किमु तं किं देवदेवं सुरा-
नन्दास्वाद इति ब्रुवाणि दिविषत्सर्वस्व भूतेति वा ।
पूर्णा सम्पदिति ब्रुवाणि सुमहास्वर्गेत्यसङ्कोचवि-
च्छेदो मोक्ष इति ब्रुवाणि मणिवत् जाज्वल्यमानश्रियम् ॥ ३.४.७॥
रक्षाप्रीतियुतं समस्तभुवनं सृष्ट्वा स्थितं तैस्तुतं
कृष्णं स्यन्दिमधुप्रफुल्लतुलसीयुक्तं पतिं मेऽद्भुतम् ।
देदीव्यन्मणिवर्ण इत्यखिलसंस्त्युत्यैक एवेति सं-
शीतेन्द्वाप्तजटेति वच्मि चतुरास्याभिख्यदेवेति वा ॥ ३.४.८॥
सर्वाचेतनसर्वचेतनतया स्वेनैव भूत्वा स्थितं
कृष्णं त्वद्भुतमम्बुधेर्मथनतः प्राप्तामृतं स्वामिनम् ।
निद्रावन्तमनन्तमच्युतमितानन्तं, सुखं तं जगत्
भुकत्वोद्गारकृतं न्ववैमि न विभुं ध्यातुं प्रकारानहम् ॥ ३.४.९॥
सर्वाचेतनसर्वचेतनवपुर्भूत्वा स तत्तन्महा-
मर्यादासमयेषु सङ्गरहितः पञ्चेन्द्रियागोचरः ।
*ज्ञानात्मा; ननु तद्गदोषरहितः प्राणाश्रयश्चेतनः
स्यादेवं यदि भावना सुखमियं तस्मिन् परे सङ्गता ॥ ३.४.१०॥
(* ``ज्ञानात्मा ननु तद्गदोषरहितो देहाश्रयश्चेतनः'' इति पाठान्तरम् ।)
(तात्पर्यरत्नावलीश्लोकः)
भूतैस्तत्कार्यभूतैः शुभनिजवपुषा दीप्तिमद्भिः पदार्थैः
पथ्यास्वोदोपपन्नैः श्रुतिमुखसुभगाशेषशब्दप्रपञ्चैः ।
नानाकारैः पुमर्थैः जगदधिपतिभिश्चेतनाचेतनौघैः
जुष्टं दोषैरदुष्टं निखिलतनुतया सम्प्रतुष्टाव तुष्टः ॥ ३.४.११॥
(प्रतिबिम्बलहरी)
सङ्घीभूतषडङ्घ्रिघोषविलसच्छीतस्रजं वारिद-
श्रीकं प्रान्तलसत्स्वरण्यकुरुकाभास्वच्छठारीरिते ।
गाथागीतिसहस्रके च दशकं त्वत्राद्वितीयेऽतुलं
शक्ता गातुमुपेत्य भोगमहतिं यूथानुभाव्यास्सुरैः ॥
(इति तृतीयशतके चतुर्थं दशकं )
॥ अथ तृतीयशतके पञ्चमं दशकम् ॥
प्रतिबिम्बलहरीवृत्तं - स्रग्धरा
एतद्दशकप्रतिपाद्यगुणविशेषः - उन्माददानार्हकान्तिमत्त्वं
॥ सङ्गतिमणिमाला ॥
(प्रभद्रकम्)
इति तु विभूतिविग्रहगुणान् हरेर्वदन्
मुदमतुलामवाप्य च जनान् हरौ तदा ।
अकृतरतीन् समीक्ष्य वसुधाभरान् ब्रुवन्
विकृतिमुपेयुषो हरिरतेः प्रशंसति ॥
पुञ्जीभूताधिकोद्यत्-सुमवनसरसि ग्राहबन्दीकृतस्य
व्यालेशस्यानुकम्पाकरमसिततटित्कान्तवर्णं तु कृष्णम् ।
स्तुत्वा गीत्वाऽस्मदीशं भुवि विगतपदस्पर्शमुत्थाय भूमेः
ये नो नृत्यन्ति तैः किं वदत फलमिताश्शीतचक्राब्धिमध्यम् ॥ ३.५.१॥
शीताम्भोध्यावृतक्ष्मागतजनमखिलं भक्ष्यभावेन हत्वा
भुञ्जानानां दृढोद्यत्-कटकपदसुरद्वेषिणां दत्तनाशम् ।
श्रीशं गीत्वा च रागैरधिकतरमथोत्प्लुत्य नृत्यं च कृत्वा
जायन्तेऽत्राऽभ्रमन्तो बहुमृदि दुरिताधिक्यबाधाय लोके ॥ ३.५.२॥
अद्रिं धृत्वोपहत्याप्युपलमयमहावर्षणं सौरभीनां
गोष्ठ्या नाशं निवार्योप्युपकरणपरं प्रोच्य चोक्त्वा सदैव ।
योगं मस्तेन भूम्या विविधविकृतिभिः संविधायापतन्तः
ये ते नोत्प्लुत्य सोर्मिं नरकमधि नराः क्लेशिनो गाढमग्नाः ॥ ३.५.३॥
आमोदाद्गारिमालां प्रति विहितवतस्सप्त कृत्तान् महोक्षान्
पुञ्जीभूत प्रवालारुण सदधरयुग्श्रीधरस्यादिकीर्तिम् ।
गीत्वा कृत्वाञ्जलिं चोन्नटनमटनमुन्मस्तकं चाश्नुवानाः
नो ये तेषां फलं कि सुजनसदसि सञ्जायते जन्मनात्र ॥ ३.५.४॥
कंसं साधुत्वयुक्तप्रथितसुजनतापीडकं निर्गृहीतुं
*रम्यं ज्योतिस्स्वरूपं प्रथममपि पदे तत्र विक्षिप्य भूमौ ।
गीत्वा क्लृप्तावतारं प्रतिविशिखममुं वेदमूलं नटन्तो
ये न प्राघीतवेदोत्तमबुधधुरि ते किं जपिष्यन्ति मर्त्याः ॥ ३.५.५॥
(*रम्बं ज्योत्याड्यरूपं प्रथममपि पदे तत्र यत्तेन भूमौ'' इति पाठान्तरम् ।)
मर्त्यो देवश्च मत्स्यप्रभृतिरपि भवन् प्राप्तचित्रावतारं
जातं चाप्यद्वितीयं पृथुजलधिशयं निर्जनिं चोपकारम् ।
रस्यं पक्वं फलं चैक्षवमधुररसं खण्डपीयूषमाध्वी-
भोग्यं स्तुत्वानसूयं कृतबहुनटनाः पूर्णसर्वज्ञभावाः ॥ ३.५.६॥
सन्तिष्ठत् निर्गुणानां शतमपि पतितं कारयत् सानुकम्पं
पञ्चस्वावृत्त्य सेनां अवनिमभिगतां नाशयत् ज्योतिरीशम् ।
ध्यात्वाऽऽनृत्याश्रुनेत्राः द्रुततरहृदया ये न शैथिल्यवन्तः
ते तुङ्गांसातिपीना भुवि किमुपकृतिं कुर्वते वोत्तमानाम् ॥ ३.५.७॥
स्थातुः श्रीवेङ्कटाद्रौ लघुशिशिरझरैरुत्तरे स्यन्ददद्भिः
नाना नाम प्रकीर्त्याऽक्रमवचनमुचः स्वामिनो मे परैस्तु ।
उक्ता उन्मत्तभूता इति बहुनगराण्याविशन्तोऽविशन्तो
नर्तित्वास्थाय लोके हसति परवशा नर्तिनस्सूरिसेव्याः ॥ ३.५.८॥
नित्यैस्संसेव्यमानं त्वगणितजगतां क्लृप्तनित्योपकारं
कृत्वा लब्धप्रतिष्ठं मनसि तमपि तत्साम्यसिद्ध्यर्थयोगम् ।
अभ्यस्य स्थैर्यलिप्सुं तमुत नरमृते साहसेद्धं ह्यनन्यैः
सर्वैर्ध्यात्वाऽक्रमेद्धस्तुतिनुतिनटनोज्जृम्भणं कार्यमन्यैः ॥ ३.५.९॥
कर्मैतत्कार्यभूतं फलमखिलजगत्कारणं श्रीमणिश्री-
वर्णं रक्ताब्जनेत्रं श्रितजनविवशं नित्यसूरीशितारम् ।
चित्ते चैक्यान्निवेश्य द्रुततरहृदयास्सोत्प्लवं नृत्ययुक्ताः
मोहात्मोत्कर्षबुद्धी ह्रियमपि जहतः ब्रूत हित्वा क्रमं च ॥ ३.५.१०॥
(तात्पर्यरत्नावलीश्लोकः)
ग्राहग्रस्तेभमोक्षे सुररिपुमदने गोकुलत्राणकार्ये
(गोदा)नीलार्थोक्षावमर्दे सदहितमथने सिन्धुपर्यङ्कयोगे ।
क्षोणीभारव्यपोहे क्षितिधरवसतौ निर्जराराध्यतायां
विश्वारम्भे च शौरेः शुभतनुसुषमोन्मादकत्वं जगाद ॥ ३.५.११॥
(प्रतिबिम्बलहरी)
प्राप्यत्वप्रापकत्वे भगवत इति दृढान् सम्परिष्कृत्य दासान्
शक्तं नेतुं स्वदास्यं प्रति सुरगणपं मेऽच्युतं सद्गुणाढ्यम् ।
नाथं शीतर्द्धसस्यक्षितिशुभकुरुकाधीट्शठारिप्रणीतेऽ-
द्वैतीयेके सहस्रे दशकमिदमघं भूरि भस्मीकरोति ॥
(इति तृतीयशतके पञ्चमं दशकं )
॥ अथ तृतीयशतके षष्ठं दशकम् ॥
प्रतिबिम्बलहरीवृत्तं - स्रग्धरा
एतद्दशकप्रतिपाद्यगुणविशेषः - लभ्यार्चावैभववत्त्वं
॥ सङ्गतिमणिमाला ॥
(प्रभद्रकम्)
पर इति दूरगास्सुलभतां न जानते
क्रुध इह नोऽवकाश इति तेष्वसौ घृणी ।
अतिसुलभार्चया प्रतिगृहं हरिं स्थितं
प्रपदनतुल्यतां गतिषु वक्ति सङ्गतम् ॥
रक्ताम्भोजायताक्षस्स हि सममखिलां भुक्तवान् सप्तलोकीं
भूराकाशो मनुष्या अमर उत समे भूततिर्यक्स्थिराश्च ।
भूत्वा नित्यार्जवोऽप्यतिविशदतमज्ञानमाविर्भवन् सन्
सृष्ट्वेदं सर्वमोधीभवदतिमहसाऽथैकमूर्तित्रयात्मा ॥ ३.६.१॥
त्रेधाभूतस्वमूर्तिं प्रथमजवपुषां कारणं च त्रयाणां
निश्शेषं ध्वस्तशापं विततजलनिधौ शायिनं देवदेवम् ।
लङ्कायां दक्षिणस्यां उपचितदहनं धन्विनं क्लृप्तनाशं
पापानां नाशकं चाम्बुजपृथुनयनं स्तोतुमर्हा भवन्तः ॥ ३.६.२॥
*सङ्घीभूयामरौघैः स्थितमपि परमं स्तूयमानं परं तत्
ज्योती रासाप्तगोपीग्रथितकरतया भव्यमिन्द्राश्मवर्णम् ।
कुम्भीनृत्तं सभङ्गेऽम्बुधिपयसि समारुह्य शेषं सुनिद्रं
नाथं नक्तं दिवञ्चाजहदपि सततं स्तोत्रचेतः कुरुध्वम् ॥ ३.६.३॥
(*``नाकौकस्स्तूयमानं परममविरतं संस्थितं तत् परं च'' इति पाठान्तरम् ।)
कुर्वीध्वं मानसे वस्तदिति तु यदहं वच्मि चित्रस्य शीलं
अस्मादृक्षा वदेयुः किमुत ? भवतु तत् ; सन्ततं नाकिनां सः ।
गोप्ता ब्रह्मा च मौलौ विदधदुरुजटामीश्वरश्चार्जवेन
ध्यात्वा स्तुत्वा तदीयं चरणसरसिजं छन्दतः पर्यटन्ति ॥ ३.६.४॥
वाता मे भाति वायुः ततखमपि धरा कर्कशाब्धिस्ससीमा
सज्वालोऽग्निश्च तेजोयुगममरनराः तिर्यगाद्यञ्च सर्वम् ।
कृष्णस्य श्याममूर्तेः अरुणकमलदृक्श्रीयुजो देवभर्तुः
*वक्रानेकातिनीलालकवृतिविलसन्मस्तकस्य प्रभोर्भा ॥ ३.६.५॥
(*``वक्रानेकातिनीलालकवृतिविलसन्मस्तकास्मत्प्रभोर्धीः'' इति पाठान्तरम् ।)
*आविर्भावं विनाशं न दधदथ दघत् सन् नृसिंहैकमूर्तिः
कोपेऽप्याप्तानुकम्पाश्रितनिजचरणः तादृशं रक्तनेत्रम् ।
आमुग्धं गन्धरूपौ रसरवसहितस्पर्शरूपश्च भूत्वा
मत्सूरीशं विनान्यं कमपि न शरणं प्रार्थयेऽहं कदापि ॥ ३.६.६॥
(*``आविभविं विनाशं न दघदपिदधत् सन्नथाद्वैतमूर्तिः'' इति पाठान्तरम् ।)
काले सर्वत्र भोग्यामृतमिव मनसो मे सुपूर्णात्मनो मे
युक्तं, ज्योतिर्मयं तं किरणचययुतं कुम्भनृत्तं मणेश्च ।
तुल्यं; चोत्कृष्टदेवैः मुनिभिरपि फलं स्वादनीयं सखण्डं
भूत्वा संशुद्धचित्ताः श्रयत न कियदप्यावसेयुर्ह्यघानि ॥ ३.६.७॥
दुःखैकोत्पादकान्यप्यसुखसुखकरानन्तकर्माणि भूत्वा
तच्छून्यं चोर्ध्वगैकं मह उत जगतां भक्षकोद्गारिणं च ।
मूर्च्छां दत्वा प्रमुष्णद्यमभटमधि तं तीव्रवेगं विषं हा !
नान्यं हित्वा शरण्यं दशरथतनुजं चाच्युतं कश्चिदेमि ॥ ३.६.८॥
मात्रा पित्रा च साकं स्वयमपि च सदा रक्षकोऽन्ये च भूत्वाऽ-
सङ्कोचज्ञानदेवप्रवरकुलपुरोहेतुमादिं त्रयाणाम् ।
भीत्वा यूयं न लोका ! अयमिह स परो वेति शङ्कध्वमेवं
ध्यातश्चित्ते यथाऽसौ भवति हि स तथा दीर्घपाथोधिवर्णः ॥ ३.६.९॥
कृष्णः पाथोधितुल्यः सुरकुलमधुरं कृष्णरत्नं मदात्मा
प्रेष्ठस्तल्पे शयानः ततफणिनि परं ज्योतिरादौ शतस्य ।
आगच्छन्तीं वधार्थं प्रबलयुधि चमूं हन्तुमीशोऽपि सूतः
पञ्चानां तत्र सिञ्जत् - चरणमथ कदा द्रक्ष्यतस्तस्य नेत्रे ॥ ३.६.१०॥
(तात्पर्यरत्नावलीश्लोकः)
पद्माक्षीं पापहन्त्रीं मणिरुचिममराधीशचिन्त्याङ्घ्रिपद्मां
तत्तादृक्कुन्तलश्रीसुघटितमकुटां भावुकप्राप्यपादाम् ।
शुद्धास्वाद्यस्वभावां यमभटमथनीं भक्तधीवृत्तिभव्यां
नीचोच्चाभीष्टवृत्तिं हरितनुमवदन्निर्मलार्चानुरक्तः ॥ ३.६.११॥
(प्रतिबिम्बलहरी)
चक्षुर्दृष्टेरशक्यं सुखममलमनस्सुग्रहं स्वर्गभाजां
ईशं मृत्प्रायलोकस्थितनिखिलजनानुग्रहेप्सां दधानम् ।
सद्गानाक्रीडपाण्ड्यक्षितिपतिकुरुकाधीट्शठारातिसूक्ते
सद्गानेऽस्मिन् सहस्रे प्रभवति दशभिर्भक्तिरेभिः पठन्तु ॥
(इति तृतीयशतके षष्ठं दशकम्)
॥ अथ तृतीयशतके सप्तमं दशकम् ॥
प्रतिबिम्बलहरीवृत्तं - कलहंसी
एतद्दशकप्रतिपाद्यगुणविशेषः - रूपगुणरसिकगुणोत्कर्षणप्रदत्वं
॥ सङ्गतिमणिमाला ॥
(प्रभद्रकम्)
अतिसुलभार्चया युतहरौ रतोऽथ तत्-
चरणगरेखया च समतां दधन्नृणाम् ।
व्यवहितमन्वयं च वहतः परं वदन्
निजपुरुषार्थपर्वसु शठारिरेधते ॥
वृद्ध्युज्ज्वलतेजोमयमूर्तिं कमलाक्षं
भोग्यानुभवं मेऽब्धिशयं तं परमं च ।
ये केऽप्युपभोक्तुं किल युक्ता श्रियया तेऽ-
शान्तोद्भवमध्येष्ववनोत्काः परमा नः ॥ ३.७.१॥
कृष्णं परमीशं मम चक्रोज्ज्वलनाथं
दीव्यच्चतुरम्सं शुचिरत्नश्रियमीशम् ।
पादौ ततहस्तौ च नमन्तस्सह कृत्वाऽ-
जस्रं जनिमध्येष्वपि मत्किङ्करनाथाः ॥ ३.७.२॥
नाथं क्षितिनाकस्तुतमुद्गन्धितुलस्याऽऽ-
कल्पं सुमहारिं मम नाथोपकृदीशम् ।
पादे नतिदक्षानपि तान् ये विनमन्तः
शास्त्रोदितजन्मस्वपि तेऽस्मत्कृतदास्याः ॥ ३.७.३॥
कट्युज्ज्वलवासाः गलहारः कटिसूत्री
सोऽम्से वसुसूत्रो वसुमौलिश्च निसर्गात् ।
नानाभरणश्रीयुतनारायण एतद्-
दासा निविडोद्भूतिषु तेऽस्माकमधीशाः ॥ ३.७.४॥
देवान्निजनाथस्य तु सूरित्वयुजां तत्-
काले सुखमैच्छामृतमापाययितुश्च ।
तातस्य महत्वस्तुतिशक्तस्तुतिशक्ताः
तत्रात्र च नो रक्षकसर्वोपकृतो हि ॥ ३.७.५॥
कृष्णः परमः पालक उच्चक्रधरेशो
नाथो मणिवर्णो मधुगन्धाढ्यतुलस्या ।
युक्तो द्युतिमज्ज्योतिरुदूढो हृदि यैस्ते
रक्षेयुरयुक्तस्पृहमस्मान् प्रतिजन्म ॥ ३.७.६॥
दासाननुपाल्याखिलजन्मस्वपि नीत्वा
दत्वा निजभावं निजपादद्वयदास्ये ।
कर्तुः पितुरोजस्तुतिशक्तस्तुतिशक्ताः
श्रेयोऽवनदा नश्च सदा विश्वसनीयाः ॥ ३.७.७॥
श्रीवक्षसमुत्सृष्टभुवं विश्वसनीयं
स्वर्लोकगसर्वैरपि विज्ञातुमशक्यम् ।
कुम्भीपचि मग्ना अपि नोतुं प्रसृता ये
तेऽस्मद्बहुजन्मस्वपि मन्नम्यकुलास्स्युः ॥ ३.७.८॥
उच्चैः कुलमानोद्वहसज्जातिचतुर्भ्योऽ-
धोभूय कियत्-सद्-गुणशून्यावचनीयाः ।
ये दक्षिणहस्तोद्धृतचक्रे मणिवर्णे
दासा इति भावाश्रितदासा मम नाथाः ॥ ३.७.९॥
भुक्त्वाङ्घ्रिमितां क्ष्मां च सनिद्रं वटपत्रे
निस्तुल्यशिशोरस्मदधीशोपकृतश्च ।
सत्किङ्कर-तत्किङ्कर-तत्किङ्कर-दासै-
तत्किङ्कर-तत्किङ्कर-दासा हि वयं स्मः ॥ ३.७.१०॥
(तात्पर्यरत्नावलीश्लोकः)
स्फीतालोकादिभूम्ना पृथुबहुभुजया दिव्यमाल्यास्त्रभाजा
सद्वस्त्राकल्पक्लृप्त्या त्रिदशरसकृता रक्षणौन्मुख्यवत्या ।
मुक्तैरुत्तंसिताङ्घ्र्या स्थिरधृतरमया श्यामया नित्यसत्या
शौरेः कान्त्या जितानां बहुमतजनस्वामितामन्वमंस्त ॥ ३.७.११॥
॥ प्रतिबिम्बलहरी श्लोकः ॥
हन्तुं शतमाप्तोद्धति पञ्चस्वनुकम्पा-
कार्युत्तममुद्यत्कुरुकेशश्शठहर्तुः ।
दास्येंऽघ्रिनिबद्धेऽत्र सहस्रे दशके तत्-
भक्तोपरि पूर्णेऽभ्यसनेऽत्राजनिसिद्धिः ॥
(इति तृतीयशतके सप्तमं दशकं )
॥ अथ तृतीयशतके अष्टमं दशकम् ॥
प्रतिबिम्बलहरीवृत्तं - इन्द्रवदना
एतद्दशकप्रतिपाद्यगुणविशेषः - नित्यदृश्याङ्गवत्त्वं
॥ सङ्गतिमणिमाला ॥
हरिपदसक्तसक्तरतिरप्यदर्शनात्
हृदयहरस्य तस्य नितरां प्ररोदिति ।
इतर-ख-भोगलिप्सुकरणैः क्षुधात्मजै-
रधन इवाविलोऽतिकलहैरवग्रहे ॥
श्रीमकुटवन् ! त्रिजगदानतनुताङ्घ्रि-
श्रीर्मथितनिम्नजलधे ! गरुडकेतो ! ।
तार्क्ष्यरथ ! मेघनिभवर्ण ! लसदण्ड-
स्थामरवरेति ननु तिष्ठति मनो मे ॥ ३.८.१॥
दीर्घपुरमेव मन आस्थित ! कुलङ्का-
नाथहतिकृत्-गरल ! चापदि सखे ! मे ।
सर्वजगदात्मवशमाक्रमितुमिद्ध-
वामन ! शठेति मम वाक् वदति नित्यम् ॥ ३.८.२॥
वाक्-करण एव किल नोतुमनुकम्पा-
दातरमरेश ! नवबालविधुकान्तिः ।
वेणुगृहमुष्टनवनीतपिब ! बाहू
*गोपदयितेति मम साधु मृगयेते ॥ ३.८.३॥
(*``गोपजननीति'' इति पाठान्तरम् ।)
हस्तयुगसाधुकृतसन्नतिशतैस्त्वां
सन्ततमपि क्षणमनारतमहीन्द्रे ।
विस्तृतफणे विहितनिद्र ! पर ! हे ! त्वां
द्रष्टुमपि सत्यमिह वाञ्छति ममाक्षि ॥ ३.८.४॥
दृग्विषयमेतुमयमैतु किमितीच्छू
क्रान्तधरवामनसमुद्वहनतुष्ट्या ।
*गन्तृधृतगीतखगपक्षरवबुद्ध्या
निश्चयकृदूहमित एत्य मम कर्णौ ॥ ३.८.५॥
(* ``गन्तृधृतसामखगपक्षरवबुद्ध्या'' इति पाठान्तरम् ।)
श्रोत्रयुगपूर्ति तव कीर्तिफलवाच्यं
कालमधुगानयुतपद्यमपि पीत्वा ।
त्वां भुवि मनोहर महोज्ज्वलितचक्रं
सादरमनारतमभीप्सति ममात्मा ॥ ३.८.६॥
प्राण ! कृतपूर्त्यमृत ! मद्विहितदास्य !
सुन्दरसुपक्षखगवाह ! शुभचक्र ।
व्याकुलितचित्तमुरुदुष्कृतधरो ना-
क्रुश्य चिरमेमि तव रूपमिह दृष्टम् ॥ ३.८.७॥
भूषण ! सरोजनयनाञ्जनसदृङ्मुङ्
नील ! हृदुपेत्य मम बाधकरशील ! ।
भूतभवदेष्यदुरुकालसुशरीर !
त्वां नु करवाणि धुरि चक्षुषि कदाऽहं ? ॥ ३.८.८॥
त्रिक्रमणदो भव महाबल ! इहाप्सेऽ-
हं त्विति वदन् शठक ! वञ्जितकुकंस ! ।
बाणहृदि वीर्यहतये भुजसहस्र-
*छेदक! कदा विहगदक्ष ! समयानि ॥ ३.८.९॥
(*``छेदक ! रवगातिबल ! कुत्र समियां त्वाम्'' इति पाठान्तरं)
श्लिष्टककुभागवरमध्यगतिमन् ! मे
नायक ! महाविभव ! ते चरणदृष्टौ ।
प्राप्तबृहदाशमहमाप्य च रुजं त्वां
वाक्स्रजमुदीर्य विरुवाणि कियताह्ना ॥ ३.८.१०॥
(तात्पर्यरत्नावलीश्लोकः)
चित्ताकृष्टिप्रवीणैः अभिलपनसुखैः स्पर्शवाञ्छां दुहानैः
आतन्वानैर्दिदृक्षां श्रुतिहितसहितैरात्मनित्यादरार्हैः ।
विश्लेषाक्रोशकृद्भिः स्मरदरतिकरैर्दत्तसायुज्यसङ्गैः
कुर्वाणैर्बाललौल्यं मिलितगुणगणैः नित्यदृश्याङ्गमाह ॥ ३.८.११॥
(प्रतिबिम्बलहरी)
श्लाघितगुणं प्रमितभूमिमिनमुद्यत्-
रम्यगुणसाधुकुरुकाशठजिदुक्ताम् ।
पङ्क्तिमसमां बलिनि वक्ति तु सहस्रे
*योऽपि स हि कोऽपि वियदेति लसदेताम् ॥
(*``योऽपि स हि कोऽपि पदमेति परमेताम्'' इति पाठान्तरम् ।)
(इति तृतीयशतके अष्टमं दशकं )
॥ अथ तृतीयशतके नवमं दशकम् ॥
प्रतिबिम्बलहरीवृत्तं - शार्दूलविक्रीडितम् ।
एतद्दशकप्रतिपाद्यगुणविशेषः - स्तुतिविषयतनुमत्त्वं
॥ सङ्गतिमणिमाला ॥
(प्रभद्रकम्)
इति करुणं रुदन् शुचि सभागिनो जनान्
अलभत नोऽथ तान् अवरवर्णने रतान् ।
अपि च विलोक्य तीव्रविपदो निजापदः
स्मरति च नोपदेशगिरि तद्रतो घृणी ॥
उक्तेऽस्मिंस्तु विरुद्धमेव तदपि ब्रूमस्समाकर्ण्यतां
जिह्वायां मधुरा विभाति कविता दास्ये न कस्याप्यहम् ।
तन्नातन्निति भृङ्गगानसहिते श्रीवेङ्कटाद्रौ मम
प्रेक्ष्ये मत्तगजे ममोपकृतिमत्स्वामिन्नुदारे सति ॥ ३.९.१॥
मत्वा सन्तमसन्तमेकमपि च स्वं स्वां श्रियं चाधमां
उत्कृष्टामभिमन्यमानमधमं स्तुत्वा नरं किं फलं ? ।
*विस्तारस्थलयुक् कुरङ्गनगरे कासारकेदारभू-
व्याप्ते सत्यतयास्थितं मम विभुं मद्गोत्रनाथं विना ॥ ३.९.२॥
(*``कृष्णस्याभिमते कुरङ्गनगरे कासारकेदारभू'' - इति पाठान्तरम् ।)
*अश्रान्तं बहुकल्पकल्पमपि तत् प्राप्तुं पदं सुस्थिरं
गन्तव्याध्वगतिप्रदेऽस्मदमरस्वामिन्यधीशे सति ।
गत्वान्यानखिलातिशायिगुणवत्साधुप्रबन्धैरधो
विद्वांसः ! पतनं विचिन्त्य कमपि स्तुत्वा नरं किं फलं ? ॥ ३.९.३॥
(*``अश्रान्तेषु बहुष्वनेकविषया कल्पेषु मोक्षाप्तये''- इति पाठान्तरम् ।)
सिद्ध्येत् किं कवयः ! फलं तु कियतां भूयाद्दिनानामलं !
मर्त्यानस्थिरसंस्थितीन् महदभिष्टूयापि लभ्यं धनम् ।
दीप्तिव्याप्तसुरत्नमौलिरमरस्वामी स्तुतश्चेत् स वः
*स्वात्मत्वेन च भावयन् गतजनीनङ्गीकरिष्यत्यपि ॥ ३.९.४॥
(*``स्वीयत्वेन च भावयन् गतजनीनङ्गीकरिष्यत्यपि'' इति च पाठान्तरम् ।)
ग्राह्यं नास्ति फलं पुरावकरसंशुद्ध्या सदृक् सम्पदं
स्तुत्वोदारतया विनाशितभवद्वाग्मित्ववन्तो बुधाः ! ।
स्वीकारेऽपि गतक्षयं कवयितुं स्वाभीष्टसर्वार्थदं
निर्दोषं मदुदारमुत्तममणिश्रीकं समागच्छत ॥ ३.९.५॥
आयात क्रियया बुधाः ! स्ववपुषः क्लेशेन चोज्जीवता-
ह्यद्यास्यां भुवि नैव सम्पदमिताः अद्राक्ष्म सर्वान् वयम् ।
भोग्यैर्वः कवनैः भवत्प्रियतमाः चेत् संस्तुता देवताः
रज्यत्कान्तिमहः किरीटमदिनश्रीवल्लभं प्राप्नुयुः ॥ ३.९.६॥
निस्सीमानुगुणात्युदारगुणभूकीर्तिं सहस्रातुला-
भिख्यं स्वोपकृतं विनाहमपरं शक्नोमि वक्तुं नरम् ।
अत्यौदार्यगुणाभ्रसोदरकर श्रीमन् महापर्वत-
प्राप्तौपम्यदृढांस इत्यतिमृषा भुव्येकतृण्या समम् ॥ ३.९.७॥
वंशश्रीकपरस्परोपमभुजद्वन्द्वश्रियो वल्लभ
नीलायास्सहजाधिकोत्तमगुणं गीत्वा च नीत्वा वयः ।
हित्वा कायमहं तदङ्घ्रियुगलीमूलप्रवेशो*त्सुकोऽ-
सत्कल्पं नरमत्र वक्तुमपि किं शक्तोऽस्मि मज्जिह्वया ॥ ३.९.८॥
(*``त्सुको मायाधीननरान् च वक्तुमपि किं शक्तोस्मि मज्जिह्वया'' इति पाठान्तरम् ।)
स्तोतुं मद्वदनेन मर्त्यमवनौ जातः कविर्नास्म्यहं
वेदान्तेड्यगुणोऽत्युदार उपकृच्चक्री ममैवास्ति सः ।
दत्वा दीप्तमिहत्यदास्यजसुखं त्व सूरिदेशं च त
वीक्षस्वेति परं पदं च नियतं कालक्रमात् दास्यति ॥ ३.९.९॥
स्थायंस्थायमनेककालमुदितस्वातन्त्र्यमेतद्वपुः
त्यक्त्वैत्यापि बहूनतीत्य दिवसान् ज्ञात्वाऽपि मोक्तुं जनिम् ।
वाञ्छित्वा जगदेकबुद्धि सृजतोऽजस्त्रं तदीयस्य मे
रोचेतेतरसंस्तुतिः किमु सदापीतः परं तत्कवेः ॥ ३.९.१०॥
(तात्पर्यरत्नावलीश्लोकः)
रम्यस्थानादियोगात् अमितविभवतः सत्पथप्रापकत्वात्
सम्यक्सायुज्यदानात् अनघवितरणात् सर्वशेषित्वचिह्नात् ।
प्रख्याताख्यासहस्रैः अवतरणरसैः भुक्तिमुक्त्याभिमुख्यात्
त्रैलोक्योत्पादनाच्च स्तुतिविषयतनुं व्याहरन्निन्दितान्यः ॥ ३.९.११॥
(प्रतिबिम्बलहरी)
श्लाघ्यस्वार्हमहागुणस्य विषये कृष्णस्य सूरीशितुः
श्लाघ्यस्वार्हमहागुणाढ्यकुरुकाधीशश्शठारेः कृतौ ।
श्लाघ्यस्वार्हमहागुणेऽत्र दशके चास्मिन् सहस्रेऽतुले
*श्लाघ्यस्वार्हमहागुणेऽभ्यसनतो दक्षस्य न स्याज्जनिः ॥
(*``श्लाघ्यस्वार्हमहागुणेऽभ्यसनतश्शक्तस्य न स्याज्जनिः'' इति च पाठान्तरम् ।
उभयत्राऽपि अभ्यसनतः इत्यत्र सार्वविभक्तिकस्तसिल् ॥ अभ्यसने इति यावत् ॥)
(इति तृतीयशतके नवमं दशकम्)
॥ अथ तृतीयशतके दशमं दशकम् ॥
प्रतिबिम्बलहरीवृत्तं - स्रग्धरा
एतद्दशकप्रतिपाद्यगुणविशेषः - अघशमनतनुमत्त्वं
॥ सङ्गतिमणिमाला ॥
(प्रभद्रकम्)
इतरकविर्वनो नरनुतिर्ममात्मनो
हतिरिह नो हि जन्मसुषमारतो हरेः ! ।
क्षतिरपि केति मे कुत इति स्वलाभतः
परममुदं प्रपद्य शठकोप एधते ॥
कृत्वा नानावतारान् बहिरुदितवपुः शङ्खचक्रे च शार्ङ्गं
दीप्त खड्गं च दीप्तं मुसलमपि गदामुद्वहन् रूढतार्क्ष्यम् ।
लोके सञ्चार्यं वीरासुरनिशिचरसन्नाशसङ्ग्रामकर्तुः
सत्कीर्तेः प्राप्य भाग्य शुभगुणविनुतावस्मि केनाप्यनूनः ॥ ३.१०.१॥
एत्यान्यूने ततेऽब्धौ बलिफणिनि निजाताम्ररम्याब्जदृग्भ्यां
कृष्णस्याप्त्वेव निद्रां कमपि कृतवतो योगमुद्रत्नकान्तेः ।
त्रोटिमालिन्यभूषं खगपतिमनुसञ्चार्यदैत्यान् प्रहर्तुः
नेतुर्गीत्वा सनृत्यस्तुति गुणमखिलं चास्मि केनाप्यकुण्ठः ॥ ३.१०.२॥
अच्छिन्नानेकभोगं त्रिजगदनुगुणैकाद्वितीयाधिनाथं
खण्डं माध्वीं सुधां सत्फलमपि सुपयश्चेक्षुखण्डं प्रणम्य ।
मौलौ पुष्यन्मधुस्रक् शिशिरशुभतुलस्यञ्चितं तस्य दास्यं
सम्प्राप्याथाल्पतोऽपि स्वमनसि न कदाप्यस्मि सम्प्राप्तदुःखः ॥ ३.१०.३॥
बाणं रक्षाण्यदुःखं त्विति समिति पुरा सायुधं चाभियुक्तं
सुब्रह्मण्याग्निमुख्यैः त्रिपुरहरहरं तं पराजेतुमाजौ ।
गोपं सञ्चाल्य युध्यत्-छदयुतविहगं मायिनं स्वर्णचक्रं
हर्यक्षं चाच्युतं संश्रित इह कियताप्यस्मि नायासयुक्तः ॥ ३.१०.४॥
अह्न्येकस्मिन् मुहूर्तेऽप्यखिलजगदतिक्रम्य दुःखं विनैव
पार्थे विस्तीर्णकीर्तौ सह सुदृढरयं वैदिकेनाधिरूढे ।
सञ्चार्योज्योतिरुद्यन्निजपरमपदे दत्तवन्तं सदेहान्
विप्रस्यानीय पुत्रान् तमहमुपगतस्सर्वदा दुःखशून्यः ॥ ३.१०.५॥
ज्योतिः पुञ्जेऽनवद्ये सति सुखिनि निजे शुद्धसत्त्वस्वरूपे
सम्भूयात्यन्तदुःखे नरजनुषि दृशो गोचरीभूय चैत्य ।
कृत्वा मोहं(खेदं) परत्वं स्थिरमिह दधतः स्वं सुकीर्तेर्ममेशः
कृष्णस्याश्चर्यकर्तुस्सुगुणमनुभवन् त्यक्तसर्वापदस्मि ॥ ३.१०.६॥
भूत्वा यो दुःखसौख्यात्मकफलकरणं कर्मलोकास्तथा च
ध्वस्तानन्दोग्रजाग्रन्नरकसुखदसद्दीर्घनाकौ च भूत्वा ।
नित्यानेकात्मवर्ष्मा जगति बहुविधैः प्राकृतैर्मोहनैर्म-
य्यानन्दोत्पादकेदृक्विहृतिमुपगते खेदलेशोऽपि नास्ति ॥ ३.१०.७॥
निर्दुःखानन्दभूम्ना निरवधिरखिलव्याप्ततेजोमयः श्री-
सौन्दर्येणापि भूत्वा सरसिजनिलयाभोगमुग्धस्य नेतुः ।
निस्सीमज्ञानिनस्तां निजमतिमवलम्ब्यैव सर्वस्य कर्तुः
कृष्णस्याश्चर्यभूम्नश्चरणमुपगतस्सर्वदुःखत्यगस्मि ॥ ३.१०.८॥
निर्दुःखज्ञानतेजोद्युतितनु*तुलसीमालिनं सर्वनाथं
सोत्कर्षानन्दमाया**विरचितविकृतं रूपमिष्टं दधानम् ।
नग्नेशब्रह्ममुख्यान् निखिलचिदचितोऽप्येकदात्मोदरान्तः
निक्षेप्तुं दक्षमीशं ग्रसितुमपि समाश्रित्य नास्म्येव सन्नः ॥ ३.१०.९॥
(* ``तुलसीस्रग्धरं सर्वनाथं'' - इति पाठान्तरम् ।
** ``विरचितविहृतिं'' - इति पाठान्तरम् ।)
व्याप्तं त्यक्तावसादं प्रथममिह सदा सर्वतो ज्ञानमेकं
शक्त्याल्पैरिन्द्रियैर्दुर्ग्रहमपि सुमितैः पञ्चभिस्सूक्ष्मरूपम् ।
ईशं दीप्त्यृद्धमूर्तिं विधु-रवि-वपुषं पञ्चभूतात्मकं *श्री-
वर्धिष्णुं कृष्णमेत्याद्भुतमपि पदयोस्सर्वथास्म्यस्तहानिः ॥ ३.१०.१०॥
(* ``भा''- इति पाठान्तरम् ।)
(तात्पर्यरत्नावलीश्लोकौ)
प्रादुर्भावानुभावात् परिजनविभवात् पावनालङ्क्रियत्वात्
जैत्रव्यापारयोगात् अघटितघटनात् देवभावप्रसिद्धेः ।
आश्चर्यक्रीडनत्वात् सरसिजनिलयानन्दनाच्छन्दवृत्तेः
ऐश्वर्यव्यक्तिमत्त्वात् अधशमनतनुं केशवं व्याजहार ॥
एवं सौन्दर्यभूम्ना तनुविहितजगत्-कृत्यसौभाग्ययोगात्
स्वेच्छासेव्याकृतित्वात् निखिलतनुतयोन्माददानार्हकान्त्या ।
लभ्यार्चावैभवत्त्वात् गुणरसिकगुणोत्कर्षणादक्षकृष्ट्या
स्तुत्यत्वात् पापभङ्गात् शुभसुभगतनुं प्राह नाथं तृतीये ॥ ३.१०.११॥
(प्रतिबिम्बलहरी)
निर्नाशोत्तुङ्गकीर्तिं प्रति शठरिपुणा केशवं प्रोक्त एषा-
तुल्ये गाथासहस्त्रेऽधिकुरुकमतुला पङ्क्तिरस्याः पटूनाम् ।
पाठे देश्यैश्च पौरैस्सबहुमति चरणं प्रेक्षितं शं च दत्वा
मोक्षं प्रापय्य लोकत्रयनिजसुमहैश्वर्यमप्येष दद्यात् ॥
(इति तृतीयशतके दशमं दशकम्)
॥ इति तृतीयशतकं सम्पूर्णम् ॥
॥ श्रीमते वात्स्यवेङ्कटशेषार्यमहादेशिकाय नमः ॥
॥ श्रीमते वात्स्यसुन्दरार्यमहादेशिकाय नमः ॥
॥ श्रीमते ज्ञानवैराग्यानुष्ठानशेवधि-साक्षात्स्वामिने नमः ॥
॥ श्रीमते निगमान्तमहादेशिकाय नमः ॥
॥ श्रीमते वात्स्यवरददेशिकाय नमः ॥
॥ श्रीमते कुरुकेश्वराय समः ॥
॥ श्रीमते रामानुजाय नमः ॥
॥ श्रीमते वकुलभूषणाय नमः ॥
॥ श्रीमते सुवर्णलक्ष्मीधरनवनीतनटस्वामिने नमः ॥
॥ प्रतिबिम्बलहरी - चतुर्थशतकम् ॥
प्रतिबिम्बलहरीवृत्तं - मन्दाक्रान्ता
॥ अथ चतुर्थशतके प्रथमं दशकम् ॥
एतद्दशकप्रतिपाद्यगुणविशेषः - सुस्थिरैश्वर्यसीमत्त्वं
॥ सङ्गतिमणिमाला ॥
(उपमालिनी)
इति निजरतितुष्टो जनेष्वथ नश्वरे
प्रकृतिपुरुषभोगे रतेषु घृणी मुनिः ।
हरिपदगुणसेवां स्थिरातिसुखाप्तये
वदति; यतिपभावे स्पृशन् यदुभूधरम् ॥
एकैश्वर्यादखिलभुवनं रक्षितारश्चिरेण
नीलैर्दष्टाश्वभिरधिपदं भग्नभिक्षार्थभाण्डाः ।
गृह्णन्त्यस्मिन् महति भुवने पश्यति स्वेन भिक्षां
*श्रीमन्नारायणपदयुगं जीवताध्याय शीघ्रम् ॥ ४.१.१॥
(*``ध्यात्वोज्जृम्भां भजत झटिति श्रीतनारायणाङ्घ्रि'' इति पाठे यतिभङ्गगन्धोऽपि न स्यात् ॥
पातारः क्ष्मातलमयि ! बलेरर्पणात् जीवतेति
त्यक्त्वा कृष्टाः स्वयमिह परैः भोग्यरस्यस्वकान्ताः ।
विद्युत्क्रूरातपवनगता भुञ्जते पीडनं द्राक्
रत्नज्योतिर्ज्वलितमकुटं श्रीशमङ्घ्रौ भजध्वम् ॥ ४.१.२॥
स्वाङ्घ्रिश्लिष्यन्मकुटमखिलेष्वानमत्सु क्षितीशे-
ष्वानद्धेऽब्दस्तनितमुखरे प्राङ्कणेऽधिष्ठिता ये ।
*ते भूरेणौ भसितवपुषो यान्ति तस्माज्जवेन
ध्यायास्त श्रीसुरभितुलसीमौलिकृष्णाङ्घ्रियुग्मम् ॥ ४.१.३॥
(*``रेणून्मिश्रा भसितवपुषो यान्ति तस्माज्जवेन'' इति पाठान्तरम् ।)
चिन्तेच्छायां जलधि*सिकताशर्करातीतसङ्ख्याः
एतां याताः प्रतिबहुयुगं मेदिनीं पालयित्वा ।
शून्यप्रान्तस्थितगृहमृते नाशमद्राक्ष्म नान्यत्
पादं तालोपमपदमदव्यालहन्तुर्भजध्वम् ॥ ४.१.४॥
(* ``तटभू'' इति पाठान्तरम्)
हृद्ये तल्पे ततहिमसुमे श्रीकृपां* वक्ष्यथेति
प्रोक्त्या प्रालङ्कृतमृदुकचानन्दभोगामृता ये ।
मुग्धस्त्रैणे हसति पुरतोलम्बकन्थाः प्रयान्ति
स्वाश्चर्यास्मन्मणिनिभतनोः नाम सञ्जीवतोक्त्वा ॥ ४.१.५॥
(* ``ब्रूत हेति'' इति पाठान्तरम् ॥)
सम्पत्सौख्यं तदनुभवतां वर्षभूबुद्बुदेभ्यो
नाशं नाशं पतनकृदृते तत्तदाद्येतदन्तम् ।
सम्पन्ना ये भुवि न हि तथैवेति ते; स्थैर्यलिप्सा
चेत गम्भीराततजलशयस्वामिदासा भवन्तु ॥ ४.१.६॥
अन्नं भुक्त्वा समधुररसैः षड्भिरेत्याऽपि तृप्तिं
भूयोऽदन्तश्शुचिमृदुवचोमुग्धकान्तार्थिता ये ।
आसन्नेकं कबलमिह नो यच्छतेति *स्खलन्ति
ब्रूतोत्तेजोमयसुतुलसीमौलिहृद्यादिकीर्तिम् ॥ ४.१.७॥
(* ``स्खलेयुः
बृन्दामौलिप्रथमसुमहसो ग्रन्थयध्वं गुणौघान्'' इति पाठः मूलस्यातीवानुगुणस्स्यात् ॥)
पूर्णाः कीर्त्या स्वशुभगुणयोदारताशीलभूपाः
स्थित्वा हृद्याश्श्रितजनवशीकारिणोऽतत्कृपाश्चेत् ।
तत्रैतस्मिन् शुभगुणयुते स्थायिनो राजभोगे
भ्रष्टा; भ्रष्टा न फणिशयनाख्योक्तिलब्धप्रतिष्ठाः ॥ ४.१.८॥
पारम्पर्य पणमखिलमुत्सृज्य निस्सङ्गमक्षान्
जित्वा पञ्चावृततरुवपुस्त्यागिनोऽतत्कृपाश्चेत् ।
प्राप्यापि स्वस्स्थिरसुरसुखोत्पादकं प्रच्यवेरन्
केतौ दीव्यत्-खगविभुपदं प्राप्नुतास्त्वच्युतिर्वः ॥ ४.१.९॥
ज्ञानासत्त्या सुभृशमखिलं वीक्ष्य हित्वा स्थितस्य
ह्रासो मोक्षस्त्विति कृतमतेर्ज्ञानिन*स्तत्फलं च ।
नो चेत् पाशोऽविशदमतिकृतः स्यान्न मोक्षस्ततस्यात्
**स्वान्ते नाथं त्यजति न हि चेत् प्राप्य; मोक्षस्स एव ॥ ४.१.१०॥
(* ``तद्रतिश्च'' इति पाठान्तरम् ।
** ``निर्दोषेशं त्यजति न हि चेत् प्राप्य मोक्षस्स एव'' इति च पाठः ।)
(तात्पर्यरत्नावलीश्लोकः)
श्रीमन्नारायणस्स्वाम्यनुगुणमकुटो वीरदामाङ्कमौलिः
दुर्दान्तारातिहन्ताद्भुतनियततनुः कल्पपाथोधितल्पः ।
विश्वाद्य ज्योतिरुर्वीधरफणिशयनो वेदरूपस्वकेतुः
निर्धूताशेषदोषः प्रभुरथ कथितस्सुस्थिरैश्वर्यसीमा ॥ ४.१.११॥
(प्रतिबिम्बलहरी)
कृष्णस्याङ्घ्र्योः सुपथमिदमुज्जीवनार्थं तदेवे-
त्युद्यत्पुष्पोपवनकुरुकाश्रीशठार्युक्तिदास्ये ।
सत्सन्दर्भ दशकमिदमाकल्पपूर्णे सहस्रे
त्वभ्यस्यास्तस्खलनमतिशुक्तारणोज्जीवनोत्काः ॥
(इति चतुर्थशतके प्रथमं दशकम्)
॥ अथ चतुर्थशतके द्वितीयं दशकम् ॥
प्रतिबिम्बलहरीवृत्तं - पृथ्वी
एतद्दशकप्रतिपाद्यगुणविशेषः - सम्पन्नानेकभोग्यविशिष्टत्वम् ।
॥ सङ्गतिमणिमाला ॥
(उपमालिनी)
इति परपरिरक्षावचोविकचात्मधीः
सकलकरणतृष्णां पुनर्गमितो हरौ ।
गलितसमयबृन्दास्पृहातुरनायिका-
शुचमधि जननीवाक् व्यनक्ति निजां दशाम् ॥
विहारशिशुकस्सुखं विनिगिरन् जगत्सप्तकं
शुभं शयनमेयुषो वटदलेऽखिलस्वामिनः ।
पदेऽर्पितहिमोल्लसत्तुलसि ! मञ्जुलत्येव हा
विमुह्यति लतोपमा मम महैनसो बालिका ॥ ४.२.१॥
लतासदृशमध्यसंवलितगोपिकाभिस्समं
त्वकार्यकृतिपूर्वकं सरसरासलीलाकृतः ।
सुचारुचरणार्पिते ! तुलसि ! गन्धिनीत्येव हा !
ब्रवीति जितपुत्रिका प्रसृतपापमत्पुत्रिका ॥ ४.२.२॥
सुवेदबहुमालिकास्तु परिगृह्य सच्छन्दसः
स्थितस्य दिविषन्महामुनिषु संस्तुवत्सु स्वयम् ।
सुरक्तचरणार्पिते ! तुलसि ! कान्तिरम्येत्यहो !
महाप्रबलपापमन्मृदुलमालिका क्रोशति ॥ ४.२.३॥
ऋजीषरहितोज्ज्वलद्गुणगणैस्तु सैद्धान्तिकैः
परस्य बहुधा भिदां अभिनुतस्य चोक्त्वेशितुः ।
पदोपरि समर्पिते ! तुलसि ! फुल्लरम्ये ! वरे-
त्यधीत उरुपापमत्पृथुलमांसलांसा सुता ॥ ४.२.४॥
महावृषभसप्तके सुभुजयोग्यनीलाकृते
बलोन्मथनशालिनो घटनटस्य गोपेशितुः ।
पदद्वयपरिष्कृते ! तुलसि ! शीतले ! मञ्जुले !
ममेति शिथिलीभवत्यनुदिनं सुता सुन्दरी ॥ ४.२.५॥
वधूजनगुणोत्तमक्षितिवधूकृते पोत्रिणः
*युगादिसमये तदोद्धृतवतो महामेदिनीम् ।
पदोपरि कृते ! शुभे ! तुलसि ! पुष्पिणेत्येव वाक्-
विमोहमयते सदा मम सुबालिशा बालिका ॥ ४.२.६॥
(*``शुभादिसमये समुद्धृतवतो महामेदिनीम्'' इति पाठः अन्यूनातिरिक्तरीत्या मूलानुगुणः स्यात् ॥)
सदा तरुणिमोज्ज्वलत्कमलजातदेवीं श्रियं
विशालवनमालिकोरसि विनोदुरङ्घ्रिद्वये ।
स्वसूत्रसुषमोल्लसत्तुलसिका सुमेभ्योऽनु सं-
कुचत्यसिललाटिकाः ! मम हि मुग्धवल्ली सुता ॥ ४.२.७॥
लतासदृशजानकीकृत उपेत्य लङ्कापुरे
शराग्निमुपयुञ्जतः *पदयुगीविभूषाश्रियाम् ।
सुगन्धिहिमचारुसत्तुलसिकासुमानामियं
किमस्य करवाणि विश्वसिति हे गुणाढ्याः स्त्रियः ! ॥ ४.२.८॥
(* ``॥। पदयुगीविभूषात्मने ।
सुगन्धिहिमचारुसत्तुलसिकासुमाय ह्यसौ
किमस्य करवै दृढं स्पृहयते गुणाढ्याः स्त्रियः !॥ ''
इति पाठे ``करधाणि विश्वसिति'' इति अत्र यतिभङ्गगन्धोऽपि न स्यात् ॥)
अवर्धयत यूयमप्युरुगुणाः ! सुतां कामपि
प्रसूय किमहं वदान्यतिविमुग्ध मत्सम्भवाम् ।
दरेति च सुदर्शनेत्यपि तुलस्ययीत्यन्वहं
सदैव तदिदं वचो वदति किं करिष्याम्यहम् ॥ ४.२.९॥
अहं तु करवाणि किं मम हि मौग्ध्यभाक्कोमला
न मेऽस्ति वचने वशे सुगुणपूर्णनारीजनाः ! ।
कृशोरसि सदोज्ज्वलाभरणकृष्णपद्या तुल-
स्यतः कनकभूषमन्मृदुकुचद्वयार्हेत्यसौ ॥ ४.२.१०॥
(तात्पर्यरत्नावलीश्लोकः)
शैत्यात् सौगन्ध्यभूम्ना रुचिरुचिरतया पोषणादाभिरूप्यात्
सन्दर्भात् पुष्पसङ्गात् महिततुलसिकामालया शङ्खतश्च ।
चक्राधीशस्य योगात् वटदलशयनीयाद्यर्हणीयापदानैः
सम्पन्नानेकभोग्यं निरविशदजितं कृष्णमूर्तिं शठारिः ॥ ४.२.११॥
(प्रतिबिम्बलहरी)
श्रितार्तिजनकामयक्षपणकृष्णपादद्वये
सुकीर्तिकुरुकालसच्छठविरोधिना कीर्तिते ।
इदं दशकमद्भुतोद्गुणसहस्रके*ऽभ्यासिनः
भवेयुरधिकौजसां दिविषदां सदस्याः प्रियाः ॥
(* ``शिक्षिताः'' इति पाठान्तरम् ।)
(इति चतुर्थशतके द्वितीयं दशकम्)
॥ अथ चतुर्थशतके तृतीयं दशकम् ॥
प्रतिबिम्बलहरीवृत्तं - शार्दूलविक्रीडितं
एतद्दशकप्रतिपाद्यगुणविशेषः - अन्योन्यसक्तता
॥ सङ्गतिमणिमाला ॥
(उपमालिनी)
गलितसमयलोलादशा इति वाञ्छिताः
समयवहनचक्रोऽनुभाव्य मुनिं स्थितः ।
प्रतिदशमुचितं तत् स्रगादि मुनिस्ततः
प्रवितरति मुदास्मै निजात्म-ख-कल्पितम् ॥
बिम्बोष्ठ्यै हृतवन्! महोक्षककुदं सत्साललङ्केशसं-
हृत्यै १ सज्यमधा धनुः २ कुलजसद्दन्तीट्-रदं चाच्छिनः ।
पुष्पैरप्युदकं समर्प्य ४ विहिते काले न नम्रोऽप्यहं
५ मच्चित्तं तव पुष्पयुक्तवपुषः ३ लेप्याङ्गरागायते ॥ ४.३.१॥ ६
(१. सज्यधनुर्धरोच्चकुलसद्दन्तीट्रदच्छेदक ! ।
२. कुलज सद्दन्तीन्द्रदन्तेऽच्छिनः ।
३. ``योग्याङ्गरागायते । '' - इति च पाठाः)
४. ``समये तस्मिन्न नम्रोऽप्यहं'' इति पाठः बहुव्याख्यानुगुणः स्यात् ।
अत्र उपरिनिर्दिष्टः पाठः द्वादशसहस्रानुसारी ।
५. ``मच्चित्तं तव पुष्पहासवपुषः'' - इति पाठश्च ।
६. समग्रे तुरीयपादे ``मच्चित्तं हि कलायतुल्यवपुषः लेप्याङ्गरागस्तव ॥ ``इति स्थिते
साक्षात्स्वाभ्यादृतार्थस्य मुक्तकण्ठोक्तिर्भवेत् ॥)
*नाथस्योद्गिरतो निगीर्य जगदीशस्यैकमूर्तेर्ममा-
लेपार्हो मन एव सत्परिमलो दिव्याङ्गरागोऽस्तु मे ।
धार्यं स्रक् मम सूक्तिगुम्भितवचोमालैव पट्टाम्बरं
तत्तेजिष्ठमलङ्क्रियाभरणमप्यास्माकहस्ताञ्जलिः ॥ ४.३.२॥
(* लेपार्हो मन एव चन्दनमथ स्रक् धार्यमप्यस्तु मे
माला सूक्तिमयी भवेत्तव वरं पट्टाम्बरं सैव ते ।
तेजिष्ठा मम ते कराञ्जलिकृतिर्भूषा ममेशः प्रभोः
लोकानुद्गिरतो निगीर्यं दधतोऽजस्रैकरूपां तनुम् ॥
इति पाठे प्रथमपादयतिभङ्गपरिहारः मूलपाठानुगुणविवर्तनं इत्यादि सिद्ध्येत् ॥)
एकां मूर्तिमयन् द्विमूर्तिभृदथ प्राप्य त्रिमूर्तीर्बहूः
मूर्तीरप्यथ पञ्चभूततनुकस्तेजोयुगात्मात्मनाम् ।
प्राप्यानन्तमुपेत्य मध्यजलधौ निद्राण ! नारायण !
त्वद्गात्रोचितसर्वमात्मनि विदन्नात्मेह दुःखं जहौ ॥ ४.३.३॥
मत्वा संहृतिमास्यदत्तसविषस्तन्याः पिशाच्या असून्
शाठ्यात् संहृतवन् ! मृषाव्रजशिशो ! हे वामन ! श्रीधव ! ।
काले शीतसुमस्रजा* तव तदा सेवामकृत्वा स्थितेऽ-
प्यात्मा शीतसुमस्रगुच्छमकुटे तेऽर्प्या हि माला मम ॥ ४.३.४॥
(* ``ह्यपिभवत्सेवामकृत्वा स्थितेऽ'' - इति पाठान्तरम् ।)
माला मे ह्यसवः; सुवर्णरुचिमत् भक्तिः किरीटादिकं
*नानासङ्ख्यविभूषणानि सदृशं पीतं च सैवाम्बरम् ।
त्रैलोक्येन समेत्य कीर्तिरनिशं स्तुत्या च सैवोपकृत्-
मत्कृष्णस्य महासुरान्तकमहाचक्रस्य मत्स्वामिनः ॥ ४.३.५॥
(*``सङ्ख्याशून्यविभूषणानि विविधानन्यर्हं च सैवाम्बरम् ।
त्रैलाक्येन समेत्य कीर्तिरनिशं संस्तूयमाना च
साकृष्णस्योपकृतस्तथा मम विभोर्मे कालचक्रप्रभोः ॥ ''-
इति पाठे मूलस्यानुगुणता महती; ``काल'' शब्दस्य
सकलव्याख्यादृतानां अर्थानां च सङ्कलनं भवति इति भाति ॥)
चक्रेणारिगणान्तकेन धृतवन् ! शङ्खं करे पाण्डरं
सर्वं चापि जगन्निगीर्य विसृजन् नारायणेतीत्यहम् ।
*आक्रुश्यापि समाह्वयामि यदि किं नायासि चेत्त्वं तदा
त्वत्पद्मोपमशिञ्चदङ्घ्रियुगमेवास्मच्छिरोभूषणम् ॥ ४.३.६॥
(* ``आक्रुश्याह्वयतो ममेषदपि वा नागास्तथाप्यस्ति है त्वत्पद्मोपमशिञ्जदङ्घ्रियुगमेवास्मच्छिरो
भूषणम्'' - इति पाठो मूलस्यानुगुणतरस्स्यात् ॥)
दीर्घौ सुन्दर ! ते प्रसार्य चरणौ आत्तक्षिते वामन !
प्रत्युच्छिञ्जितपादमञ्जलिकृतां मायिन् ! स्थित ! प्राप्तये ।
सामोदेः कुसुमैर्जलैरविरतं स्तोतुं न शक्तोऽप्यहं
त्वत्तेजोमयदिव्यमङ्गलवपुः *मत्प्राणनिघ्नं स्थितम् ॥ ४.३.७॥
(*मेऽध्यात्ममेव स्थितं इति पाठान्तरम् ।)
व्याप्तस्सुन्दरसप्तलोकमखिलं भूत्वा च तेजोमय-
ज्ञानाकार ! मदात्मनि स्थित ! तदायत्तास्मदाधारक ! ।
आत्मा मे तव ते स्वरूपमपि मेऽधीनं यथैवं स्थित !
त्वामेवं विधया स्थितस्त्वमिति वा वक्तुं न शक्नोम्यहम् ॥ ४.३.८॥
वक्तुं नाथ ! न शक्नुयां निरुपमत्वत्कीर्तिनद्यास्तटे
गच्छेयं तु कदाऽहमस्म्यधिगतः प्रेम्णातिमोहं पुनः ।
१भेदत्यक्त! परात्परानृत२मृते संश्लिष्ट ! तेजः पराऽ-
स्तौषं सूरिषु संस्तुवत्स्वहमपि प्रोद्घुष्टसामोक्तिषु ॥ ४.३.९॥
(१.अद्वैतं हि इति पाठे भेदत्यक्त इति स्थल इव समासचिन्ता न स्यात् ।
२.कथाव्यावृत्त तेजः पर ! इति पाठान्तरम् ॥)
यावच्छक्ति मयि स्तुवत्यपि तथा लोकेऽखिलेऽपि स्तुव-
त्यात्मानं स्तुवति स्वयं पुनरपि स्तोत्रे कृते क्वावधिः ? ।
माध्वीक्षीरगुडामृतोपममहामाधुर्यतः प्रेमतः
सोऽहं च स्तुतवान् ममोपकृतिनं ह्युज्जीवनेच्छायुतः ॥ ४.३.१०॥
(तात्पर्यरत्नावलीश्लोकः)
चेतोगन्धानुलेपः स्तुतिवचनकृतस्रक्पटोऽञ्जल्युपात्ता-
लङ्कारः प्राणवासी कलितवरशिरोभूषणश्चेतनेन ।
शीर्ष्णा सत्पादपीठः स्वतनुसदनतामात्मरूपे वितन्वन्
अन्योन्यात्मत्वयोगात् प्रभुरगणि मिथःश्लिष्टभावोऽथ तेन ॥ ४.३.११॥
(प्रतिबिम्बलहरीश्लोकः)
अन्योज्जीवनहेत्वभावनियतेः कृष्णस्य रम्ये पदे
रक्ताब्जोज्ज्वलशालिभूसुकुरुकानेतुश्शठद्वेषिणः ।
शक्ता वक्तुमपानृतेऽत्र दशकं गाथासहस्रे त्विदं
स्थित्वा स्थैर्ययुता *भुवीशत इदं भूम्योर्ध्वलोकानपि ॥
(* ``भुवा भुवि परं व्योऽमापि संशासते'' इति पाठे मूलस्यानुगुणतां
भूयसीं पश्यामः ॥)
(इति चतुर्थशतके तृतीयं दशकं )
॥ अथ चतुर्थशतके चतुर्थं दशकम् ॥
प्रतिबिम्बलहरीवृत्तं स्रग्धरा
एतद्दशकप्रतिपाद्यगुणविशेषः - क्लोशापादिस्वतुल्यता
॥ सङ्गतिमणिमाला ॥
(उपमालिनी)
अथ रतिमतिवेलं समीक्ष्य तु सात्म्यतां
ददति विरहतोऽस्मिन् तदन्वयितत्समैः ।
स्मरत इह दशां तं सखीजनकर्णयोः
वदति शठरिपुस्स्वां प्रियाजननीगिरा ॥
स्थित्वा सम्मार्ज्य भूमौ कथयति मृदियं वामनस्येति नत्वा
नाकं हस्ताग्रतो निर्दिशति तदधिकादर्यवैकुण्ठबुद्ध्या ।
*चक्षुर्द्वन्द्वे च बाष्पे प्रवहति कथयत्यब्धिवर्णेति कष्टं
पुत्र्या मे मोहकर्तुः कथमुपकरवाण्युज्ज्वलत्पारिहार्याः ! ॥ ४.४.१॥
(* ``अक्ष्णोरन्तश्च'' इति पाठे मूलस्यानुगुणतरत्वं स्यात् ।)
हस्तौ संयोज्य मस्ते वदति सुवलयौ तस्य शय्योपकर्तुः
पाथोधिश्चेति काल्यारुणरविमपि निर्दिश्य तां श्रीधरीयाम् ।
मूर्तिं स्थित्वावसन्ना प्रवहति नयने हन्त ! नारायणेति
ब्रूतेऽहं दिव्यतन्वा हरिणशिशुदृशः कृत्यमेकं न जाने ॥ ४.४.२॥
*जानात्येवाच्युतात्मेत्यरुणमनलमालिङ्ग्य वक्त्यप्यदग्धा
वान्तं शीतं च वातं मम वदति समालिङ्ग्य गोविन्द हेति ।
स्वामोदश्रीतुलस्याः परिमलमयते पापवन्मन्प्रसूत्या
मौग्ध्यात् बाल्यात् कराग्रे निबिडवलयया कृत्यमेकं किमक्ष्णः ? ॥ ४.४.३॥
(*पूर्वाचार्यादृतार्थानुगुणता ``ज्ञातं त्वेवाच्युतात्मेति । '' इति पाठे भवेत् ॥)
पूर्णं चन्द्रं प्रदर्श्य द्युतियुतवलभिन्नीलवर्णेति वक्ति
क्ष्माध्रं दृष्ट्वैव दीर्घेश्वर इति पुरतः स्थायिनं क्रोशतीयम् ।
*दृष्टे मेघेऽभिवर्षत्यभि नटति समेतीति नारायणोऽसौ
एतादृङ्मोहजालं क्व नु मम कृतवान् कोमलाया न जाने ॥ ४.४.४॥
(*आगान्नारायणोऽसाविति नटति महावृष्टिमेघऽभिदृष्टे'' इति यतिभङ्गगन्धरहितः पाठः स्यात् ॥)
गोविन्देनैष सञ्चारित इति वदति स्थूलमालिङ्ग्य वत्सं
माणिक्काङ्गं प्रयान्तं शिशुमहिमनुगम्यास्य शय्येति वक्ति ।
*क्रूरांहोमत्प्रसूत्याः मृदुतनुलतिकायास्समुत्पाद्य मोहं
नृत्यं तन्मायिक्लृप्तं किमवधि च कियद्वेति किञ्चिन्न जाने ॥ ४.४.५॥
(* ``क्रूरांहोमत्प्रसूतिं मृदुतनुलतिकां मोहमुन्नीय चैवं'' - इति पाठयोः यतिभङ्गगन्धो न स्यात् ।)
धृत्वा कुम्भं नटत्सु स्वकशिरसि नटेष्वेष गोविन्द एवे-
त्युद्धावत्याप्तवेणौ श्रुतसुखनिनदे कृष्ण इत्येति मोहम् ।
१गोपीनां दृष्टमात्रे कथयति नवनीते तु तद्भुक्तमेतत्
पैशाच्याः स्तन्यपायिन्युपमितलतिका २मत्सुतोन्मादरूढा ॥ ४.४.६॥
(१. गोपीहयङ्गवीने तदशितमिति वदेत् दृष्टमात्रे तथैवं -इति पाठयोः यतिभङ्गगन्धो न स्यात् ।
२. मत्सुता रुढमोहा इति पाठे समाससन्देहो न स्यात् ॥)
आरूढोन्मादयुक्ता जगदखिलमिदं वक्ति कृष्णेन सृष्टं
भस्मन्यप्यूर्ध्वक्लृप्ते नयनपथगत विष्णुभक्ता इतीयम् ।
धावत्यालोक्य पुष्यत्परिमलतुलसीं वक्ति नारायणीया
मालेति श्रीरिवाज्ञाप्यथ समतिरियं मायिनि न्यस्तचित्ता ॥ ४.४.७॥
दृष्टेष्वैश्वर्यभास्वन्नृपतिषु वदति श्रीशमद्राक्षमत्रे-
त्यानीलश्लाघ्यवर्णे नटति नयनगे लोकविक्रान्तबुद्ध्या ।
सर्वान् देवालयांश्च प्रतिकृतिसहितान् अब्धिवर्णालाया इ-
त्युक्तिर्भीतौ च मोहेऽप्यविरतमयते कृष्णपादाश्रयेच्छाम् ॥ ४.४.८॥
सन्यासिष्वीक्षितेष्वादरयुगखिलभूभुक्तिकर्तेति वक्ति
श्यामे दृष्टेऽभ्रबृन्दे सुमहति गगने कृष्ण इत्युत्पतिष्णुः ।
गोबृन्दे दर्शनीये महति तदुपकारीति बुद्ध्यानुयाता
मायीमां दुर्लभां मे तनुभुवमधिकालापमोहां करोति ॥ ४.४.९॥
मुह्यत्यालोक्य पार्श्वे परित उदितमुद्दूरमालोकते स्वं
चक्षुर्दिक्षु प्रसार्य प्रवहति नयने स्विद्यति श्वासमुष्णम् ।
प्रेत्य स्वस्थाऽथ कृष्णेत्यपि वदति ममायाहि नाथेति वक्ति
प्रेम्णा मोहाधिकायाः किमधिकदुरिता मुग्धपुत्र्याः करिष्ये ॥ ४.४.१०॥
(तात्पर्यरत्नावलीश्लोकः)
भूम्याद्यैस्सागराद्यैर्ज्वलनशशिमुखैर्वस्तुभिर्वत्सपूर्वैः
नृत्यद्भिस्स्वैश्च लोकादिभिरथ पृथिवीक्षिद्भिरात्मीयदासैः ।
सौलभ्यैश्वर्यवर्गैरपि च गुणगणैर्वासुदेवो वियोगे
स्वीयैस्तुल्यैश्च भक्तान् व्यथयति मधुहेत्यब्रवीत् कारिसूनुः ॥ ४.४.११॥
(प्रतिबिम्बलहरीश्लोकः)
कृष्णं क्रराधविध्वंसकमुरुकुरुकाधीशितुः श्रीशठारेः
*वाक्कैङ्कर्यप्रणीते दशकमिदमुदारेऽत्र गाथासहस्त्रे ।
अभ्यस्यन्तः स्वकृत्यं त्विदमिति नियतानन्दवैकुण्ठमेत्य
ध्वस्तानाद्यंहसस्सन्त्यतिशयिततमाः सूरिसेवाभिवृद्धाः ॥
(*वाक्कैङ्कर्यप्रणीते भणितिदशशते पङ्क्तिमेतामिहेथ्यम् । इति रीत्या पाठे यतिभङ्गो न स्यात् ।)
(इति चतुर्थशतके चतुर्थं दशकं )
॥ अथ चतुर्थशतके पञ्चमं दशकम् ॥
प्रतिबिम्बलहीवृत्तं - शार्दूलविक्रीडितं
एतद्दशकप्रतिपाद्यगुणविशेषः - स्वजनकृतकृतार्थीकृतित्वं
॥ सङ्गतिमणिमाला ॥
(उपमालिनी)
इति महितपिपासेः प्रदर्श्य निजां दिवि
स्थितिमथ कृपयाज्ञां प्रदाय च तालकम् ।
ददतमपि च गीत्यै प्रगीय सुनिर्वृतिं
भजति चरमपङ्क्तिस्थलार्हगिरा मुनिः ॥
उत्कर्षादुपविश्य सप्तभुवने स्वाज्ञावशे सद्गुणं
पातारं क्षमया विदारितहयक्रूराननं स्वामिनम् ।
उक्त्वा मङ्गलमित्युदञ्जलिकरं संसेव्य वाचा स्रजां
सद्भाग्यस्य समर्पणे किमपरं सप्तस्वितो जन्मसु ?॥ ४.५.१॥
नीलाक्ताञ्जनदृक्-सरोजनिलयावास्तव्यवक्षस्थलं
विस्तारारुणसुन्दराम्बुजदृशं स्वगौकसां स्वामिनम् ।
स्तुत्वा पूर्णगुणोक्तिभिः स्वरयुतस्रग्भि* विशालक्षितौ
उग्रानन्तमदीयपापहतये ध्यातुं सभाग्योऽस्म्यहम् ॥ ४.५.२॥
(*विचित्रक्षितौ - इति पाठः साक्षात्स्वामिव्याख्यानुगुणः स्यात् ।)
नित्यानन्दमहावधौ स्थितिजुषं मत्स्वामिनं चाच्युतं
नित्योत्द्यद्गुणभूतिकं कमलजिन्नेत्रं च सूरीश्वरम् ।
नित्यं संश्रयितुं सगीतिसुकृतिः सूक्तिस्त्रजामर्पणैः
नित्यानन्दपरावधौ स्थिति*मुपेतश्चास्मि तं संश्रयन् ॥ ४.५.३॥
(*स्थितिमितो वर्ते च तं संश्रयन् -इति पाठे यतिभङ्गगन्धो न स्यात् ।)
स्थित्वाश्रित्य च सेवमानदुरितच्छित्यै प्रभुं सादरं
नाथं सुन्दरपक्षिवाहनमितप्राबल्यचक्रोज्ज्वलम् ।
वाग्दास्येन समर्प्य गीतियुतवाङ्मालास्सभाग्योऽञ्चितुं
स्वात्मात्मनमहं मदीयमकरोत् जाने न कीदृग्विधं ? ॥ ४.५.४॥
स्वीयाश्वासनदिव्यचेष्टितगुणान् सन्दर्शयन्तं विभुं
सूरीणां वृषभं *समस्तचिदचित्-स्रष्टारमस्मत्प्रभुम् ।
निर्मायोक्तिसुमस्रजं कृतनुतिः प्राप्तस्सदा नन्दथुं
दुःखैर्मे दुरितान्यतीत्य मरुतं द्राक् स्युर्यथा भस्मसात् ॥ ४.५.५॥
(*``समस्तविषयान् वक्तारमस्मत्प्रभुम्'' इति पाठः षड्सहस्री - साक्षात्स्वाम्यादृतार्थदायौ स्यात् । वक्तेति तृन्नन्तत्वात् विषयान् इति अत्रद्वितीया ॥)
श्वेतं श्यामलविग्रहोपरि मनाक् कर्पूरलेपं दधत्
सौन्दर्याधिकविस्तृताम्बुजदृशं नित्यामरस्वामिनम् ।
ध्यातुं भाग्यवतो ममोचितगिरां सूक्तीस्समर्प्य स्वरैः
माला दुर्लभतामितोऽपि सततं चाद्यप्रभृत्येति किम् ॥ ४.५.६॥
एकत्वेन सदा स्थितं समधिकैश्शून्यं समैश्च स्वयं
सर्वेषां जगतामधीशमुचितं गोवर्धनेनाद्रिणा ।
एकेनोपकृतं च वर्षजभयध्वंसेन सूक्तीस्स्रजः
सम्यक् धारयितुं सुभाग्यमयतां का हानिरत्रास्ति नः ॥ ४.५.७॥
अस्माकं च सरोरुहाधिवसतेः देव्याश्च भोग्यं परं
भौमानां द्युसदां च नायकवरं चोद्दिश्य सर्वेश्वरम् ।
शीताम्भोरुहधार्यमाणचरणं सद्रीतिसूक्तिस्रजां
शक्तानां रचनास्वितस्सुसदृशाः के व्योम्रि नो विस्तृते ॥ ४.५.८॥
लोकेष्वूर्ध्वगतेषु तत्र निवसद्देवेषु भूमावधो
मेदिन्या भुवनेषु चाष्टसु दिशास्वच्छेदमेव स्थितम् ।
प्रह्वच्छङ्ख महाकरं घटनटं वैकुण्ठलोकेश्वरं
शक्तस्याद्भुतसद्गुणं कवयितुं तुल्योऽस्ति वेतो मम ॥ ४.५.९॥
भुक्तवोद्गीर्य च विक्रमन्नपि कृतोद्धारः शयित्वा स्थितः
स्वेनाङ्गीकृतदिव्यविग्रहयुतः प्राप्तेपवेशो भुवः ।
प्राप्याश्लेषमपीदृशैर्बहुविधैर्लोकस्स्व इत्यास्थितं
भक्तानन्ददवारिदद्रविडसद्ग्रन्थोक्तिभाग्योऽस्म्यहम् ॥ ४.५.१०॥
(तात्पर्यरत्नावलीश्लोकः)
आपन्नानन्यबन्धौ सरसिजनिलयावल्लभे सान्द्रमोदे
भक्ताघध्वंसशीले तदुचितसमयाश्वासदानप्रवीणे ।
कर्पूरालेपशोभे समधिकरहिते तोषके सर्वपूर्णे
कृष्णे स्तुत्यादिभाजां शठरिपुरवदत् धन्यतां निन्दितान्यः ॥ ४.५.११॥
(प्रतिबिम्बलहरीश्लोकः)
वर्षामुक्तसुशीतसुन्दरतटश्रीवेङ्कटाद्रीश्वरं
तोयामुक्तततोत्सुमैश्च १कुरुकायास्संवृताया वनैः ।
ईशः कारिसुतस्य मारशठजित्सूरेः सहस्रे गिरां
२श्रीरेतद्दशकेन पापमजहद्गन्धाब्जवासा हरेत् ॥
(१. ``कुरकापुर्या वृताया वनैः'' - इति पाठे मूलानुगुणतरता यतिभङ्गपरिहृतिश्च स्यात् ।
२. गाधाभिर्दशभिस्सुगन्धकमलावासाहंसां नार्शिनी इति च पाठः ॥)
(इति चतुर्थशतके पञ्चमं दशकं )
॥ अथ चतुर्थशतके षष्ठं दशकम् ॥
प्रतिबिम्बलहरीवृत्तं - शार्दूलविक्रीडितम् ।
एतद्दशकप्रतिपाद्यगुणविशेषः - स्नेहिवैद्यता
॥ सङ्गतिमणिमाला ॥
(उपमालिनी)
अथ विरहजमूर्च्छां गते शबरीगिरे-
तरविबुधनमस्यागदेप्सुषु बन्धुषु ।
इदमनुचितमस्मत्-भिषक् भगवानिति
प्रथयति निजनिष्ठां सखीवचसा मुनिः ॥
अस्या रोगहरान् क्व वा वयमितोऽन्विष्यामहे मातरः !
रोगोऽयं सुनिरूपणे स्वलिकया प्राप्तो महान् निश्चितः ।
पञ्चानां जयदस्य निर्वहणतो युद्धे तथा सारथेः
मायासंयति रागतः *क्षुभितमेतस्या मनो मुह्यति ॥ ४.६.१॥
(*भ्रममदश्चेतो गतं मुह्यति - इति पाठे यतिभङ्गगन्धो न स्यात् ॥)
रोगोऽस्याः परिमोहयत्यतिमहत् तद्दैवतं दैवता-
विष्टासङ्गतयुष्मदुन्नटनसंसाध्याल्पदैवं न हि ।
शङ्खश्चक्रमिति श्रुतौ यदि भवत्योऽस्या विहाय भ्रमं
शक्ता वक्तुमियं स्थितिं खलु भजेत् सम्यक् च पश्यन्त्विदम् ॥ ४.६.२॥
*एतत् पश्यत मातरोऽनुपदमेतच्छाकुनिवया गिरा
कृत्वा तत्र किमप्यसङ्गतसुरामांसादि नासिञ्चत ।
मध्वा पूर्णतुलस्युदञ्चितमहामायीशपादे स्तुते
भूयादेव महौषधं तदनया प्राप्तस्य रोगस्य च ॥ ४.६.३॥
(* एतच्छावुनीकीसमीरितगिरा प्रेक्षध्वं वा ! इदं - इतिरीत्या पाठतः यतिभङ्गगन्धो न स्यात् ॥)
स्यात्तत्रौषधमित्यपेक्ष्य कपटात् जल्पाकयोक्तं वचः
नीलान्नं च तथारुणान्नमखिलं दत्वा खले किं फलम् ।
लोकान् सप्त निगीर्य चापि युगपच्चोद्गीर्णवत्दैवतं
यच्छक्तिर्महतोऽस्य नाम गदितुं चेद्वो लभध्वं त्विमाम् ॥ ४.६.४॥
एनां प्राप्तुमिदं न दैवविवशं नाट्यं हयुपायो बत
नीलाम्भोजविशालनेत्रयुगले बिम्बाधरे चास्थिता ।
वैवर्ण्यं कबलप्रयुक्तमदवद्दन्तीन्द्रहन्तुर्विभोः
*नाम्ना धारयताच्छरेणुमयतां यूयं गृहीत्वा शमम् ॥ ४.६.५॥
(*नाम्ना धारयताच्छरेणुपुररीकृत्याऽथ शान्तं भवेत् - इति च पाठः ।)
यूयं नृत्यथ मातरः परवशाः कालो न शान्तेः रुजः
व्याधेः वृद्धिमृते न चास्ति शमनं प्राप्तेति वार्ताप्यहो ।
*रत्नादप्यतिसुन्दराद्भुतकृतेः दासाङ्घ्रिधूल्यैव चेत्
दिव्यायास्समलञ्चिकीर्षव इतो नास्याः परं भेषजम् ॥ ४.६.६॥
(*रत्नादप्यतिसुन्दराद्भुतप्तदासक्ताङ्घ्रिरेणच्चयैः - इति च पाठः ।)
अस्या दिव्यतनोर्महौषधमिति ह्येकाजयुक्तां सुरां
सम्प्रार्थ्योद्गतरोममंसचलनाद्याप्ता अहो मातरः ! ।
धान्ये नश्यति शोषिते सति खरस्योष्ठाञ्चलं चञ्चलं
दृष्ट्वा किं नु ?; भजध्वमागमविदो दासान् विभोर्मायिनः ॥ ४.६.७॥
कृत्वा वेदविदाश्रयं दिविषदां नाथस्य नत्वा पदे
श्रीमत्यामयमेतदीयमनिवर्त्यान्याः श्रिता देवताः ।
उक्त्वावद्यमकृत्यमेत्य ससुरं मध्ये विकीर्यामिषा-
द्युद्यन्मद्दलगीतिनृत्यमधिकावेशान्निकर्षो हि वः ॥ ४.६.८॥
नैच्यात्तत्र समेधिते तु मुरजे नीचेन केनाप्यधः
*स्तुत्वानेकनवैः अनर्थमवशात् नृत्यं न पश्यानि वः ।
क्षेमं सप्तसु जन्मसु ध्रुवमिदं रोगस्य चास्यौषधं
स्तुत्वौज्ज्वल्यवतः स्तुवीत चरणौ कृष्णस्य नस्स्वामिनः ॥ ४.६.९॥
(*``स्तुत्वानेकयैः'' - इति च पाठः)
स्मृत्वैषा हृदि तं विना न हि नमेत् काञ्चित् परां देवतां
उक्त्वाभीष्टमिहैत्य वोंऽसचलनैः नृत्योत्सुकाः ! मातरः !।
अभ्यस्तश्रुतिषु प्रधानमतुलश्रीद्वारकानायकं
यूयं संस्तुवत स्तुतिक्षण इयं नृत्येत् प्रणम्यैव तम् ॥ ४.६.१०॥
(तात्पर्यरत्नावलीश्लोकः)
इच्छासारथ्ययोगात् प्रहरणनवनात् श्रीतुलस्याढ्यमौलेः
स्तुत्याङ्घ्र्योः पादधूल्या स्वजनभजनतत्पादधूलीनमोभिः ।
तन्मूलस्वाङ्घ्रिनुत्या तदितरभजनत्यागपूर्वोपसत्त्या
देवं प्राचिख्यपत् स्वप्रणयिषु भिषजं केसरस्रग्विभूषः ॥ ४.६.११॥
(प्रतिबिम्बलहरीश्लोकः)
नत्वा नर्तनमेत्य निर्मलमणिश्रीकस्य दास्यक्रियां
कृत्वा ध्वस्तरुजाच्युतात्मगुणसद्धाम्ना शठद्वेषिणा ।
प्रोक्ते श्रीकुरुकाधिपेन गतवैकल्ये सहस्रे स्फुट-
*त्याज्येद्धं दशकं सनृत्यनतिकं गीत्वास्तदुःखात्भकाः ॥
(* त्याज्येद्धं दशकं सनृत्यनति निर्दुःखात्मका गायिनः - इति च पाठः ।
द्वितीयपादस्य
``कृत्वा ध्वस्तरुजाच्युतात्म गुणसत्कीर्त्या शठद्वेषिणा'' इति पाठे मूलानुगुणतरता स्यात् ॥
तृतीयपादः यतिभङ्गनिवारणाय
``प्रोक्ते श्रीकुरुकाधिपेन गुणतोऽस्कन्ने सहस्रे स्फुटं'' इति पाठवान् स्यात् ॥)
(इति चतुर्थशतके षष्ठं दशकम्)
॥ अथ चतुर्थशतके सप्तमं दशकम् ॥
प्रतिबिम्बलहरीवृत्तं - पृथ्वी
एतद्दशकप्रतिपाद्यगुणविशेषः - सद्गुणौघैः संयुक्तत्वं
॥ सङ्गतिमणिमाला ॥
(उपमालिनी)
तदिति गलितमूर्च्छः सखीरितनामभिः
भगवत इह सङ्गस्स्पृहो बहु कूजति ।
इव जलनिधिरिन्दोः स्ववीचिनदैर्मुनिः
जिगमिषति तदम्बा वनं रघुपुङ्गवे ॥
सुशीलरहितोऽल्पकोऽप्यति हि दुष्कृतं मे यतः
निगीर्णनिखिलक्षिते ! सुमतिरूपः ! नारायण !।
स्थितेत्यनिशमस्तकाहितकरं ममाक्रन्दने
न दर्शयितुमेषि सुस्वमपि नाह्वयस्येव माम् ॥ ४.७.१॥
सदाप्यनुभवेऽक्षयं च विमलं मुदौघं ददा-
स्युदार ! मम १भूकृतक्रमण वामनेतीति च ।
२ स्थिराह्नि च निशीथके सति मया कृते क्रन्दने
३ समेत्य धुरि चोर ! वञ्चक ! ददस्व मे त्वां दृशः ! ॥ ४.७.२॥
(१. भूवशीकरण - इति पाठान्तरम् ।
२. सदह्नि इति पाठः साक्षात्स्वामिव्याख्यानुगुणतरस्स्यात् ।
३. समेत्य धुरि तस्कराद्भुत! ददस्व मे त्वां दृशः - इति पाठे यतिभङ्गगन्धोऽपि न स्यात् ।)
अनाश्यमघसञ्चयं मुहुरहं कियन्तं व्यधां
*पदत्रयवशीकृतत्रिविधलोक! दामोदर ! ।
इति द्रुतहृदीक्षणप्रवहदश्रुके हूतिम-
यघी त्वमिति नो वदस्यघिन एकमेत्याक्ष्णि मे ॥ ४.७.३॥
(*पदत्रयवशीकृतक्षितिक! तात ! दामोदर इति पाठो मूलानुगुणतरः स्यात् ।)
सभक्तिसुरदुःशकेक्षणमहत्ववत्स्वामिनं
मदक्ष्णि धुरि वीक्षितः कमललोचने जाग्रति ।
प्रतप्तशुभहेमविग्रह विभो दयेथास्स्थितः
स्त्विति ह्वियमुदस्य किं प्रलपनादि हाल्पस्य मे ॥ ४.७.४॥
द्विषद्भयदचक्र ! हे ! पितरगाधवार्मन्थन-
प्रवीण ! तव किं चतुर्भुजविलोकनं मे भवेत् ।
इतीत्यनिशमश्रुमत्-दृगतिशुष्कपञ्चासुरे-
ह्यदःक्षण इहेत्यह चपलधीः प्रतीक्षे मुहुः ॥ ४.७.५॥
विलोक्य च दिदृक्षया तव मुहुर्मनस्येव मे
प्रसार्य रसनामहं विमतिरस्मि मेऽद्यान्वहम् ।
वपुष्यपि तथात्मनि स्थित ! बहिः पदार्थेष्वपि
छिदा रहित सर्वतो हृदि विदन् विदंस्त्वां मुहुः ॥ ४.७.६॥
सुगन्धतुलसीसराञ्चित ! मदीश्वर ! त्वामहं
विलोक्य च विदन् क्विदन् शरणमध्यवस्यात्मनि ।
*सुपूर्णमतिमूर्तिकं विमलताधिया निक्षिपन्
स्वयं जनिमृतिस्थितिस्खलनदाज्ञतामत्यजम् ॥ ४.७.७॥
(*प्रपूर्ण - इति पाठान्तरम् ।)
विलोक्य च यथा करद्वयबलं तव श्रीपदे
*समर्प्य रचितुं स्तवान् अखिलदिश्यपुष्पैर्वयम् ।
सवाधिम्भुवि हर्षतो नटनगीतिभिः किङ्कराः
समृद्धतुलसीसरेश्वर ! न शक्नुषेऽत्रागमे ॥ ४.७.८॥
(* समर्च्य इति पाठान्तरम् ।)
ददेऽन्नमुदकं किमप्यहमजय्यपञ्चेन्द्रियः
न नैव नियतः सदाप्य*पचितौ च शक्तस्सुमैः ।
चलद्दृढहृदेधिताशमतिपाप्यमत्या वृतः
धरासु मृगयेऽरिभृत्प्रभुमहं क्व पश्यान्यहो ॥ ४.७.९॥
(*अपचितैः इति पाठान्तरम् ।)
निपत्य धृतचक्रराडिति दृगश्रुपूरोद्गमं
विलोक्य सविधं स्थितो न सविषादमीक्षेऽप्यघी ।
प्रपूर्णमतिमूर्तिमप्यखिलवेददीपं ममो-
चितान्तरमतीक्षणात् समवलोक्य लिङ्गान्यहम् ॥ ४.७.१०॥
(तात्पर्यरत्नावलीश्लोकौ)
आपद्बन्धुत्वदीप्तं निरवधिकमहानन्ददं क्रान्तलोकं
दुर्दर्शं देवतानां पितरमनुपधिं सर्वभूतान्तरस्थम् ।
पूर्णज्ञानैकमूर्तिं धृतशुभतुलसिं चक्रनाथं श्रुतीनां
विश्रान्तिस्थानमीशं विशदबहुगुण प्राह खिन्नः शठारिः ॥
दुश्शीलो मांसचक्षुः निरवधिदुरितो वोतलज्जो विलोलः
प्रेक्षाहीनोऽन्यसङ्गात् कृतमपि लघयन् शीलमन्तर्दधानः ।
कर्मज्ञानादिशून्यो निरुपधि विहितं ज्ञानदृष्टिं विनिन्दन्
प्रख्याप्यैव स्वदोषान् पतिगुणरसिकस्तद्दिदृक्षां च चक्रे ॥ ४.७.११॥
(प्रतिबिम्बलहरी)
अमुक्तनिजभक्तिना कमलकोमलाक्षे शठ-
द्विषा निबिडधामवत्-सकुरुकेशमारश्रिया ।
कृते त्वनघसुन्दरद्रमिडवाक्सहस्रे दशा-
-प्यमून् नटनगानसादरमितास्तु वैकुण्ठगाः ॥
(इति चतुर्थशतके सप्तमं दशकं )
॥ अथ चतुर्थशतके अष्टमं दशकम् ॥
प्रतिबिम्बलहरीवृत्तं - विबुधप्रिया
एतद्दशकप्रतिपाद्यगुणविशेषः - स्वजन परिहृतोपेक्ष्यत्त्वं
॥ सङ्गतिमणिमाला ॥
(उपमालिनी)
अपि बह्रविधहूतावनागत ईश्वरे
स्वविषयसमुपेक्षं भ्रमात् कलयन् च तम् ।
विलपति दयितेव स्वजीवनभूषणे
विरहमधि निराशा विदेहसुतासृतौ ॥
भद्रवाहनशम्भुना चतुराननेन सह श्रिया
१भागशस्त्वनुभूयमानवपुष्मता गणशोऽसुरान् ।
२भस्मसात् खलु कर्तुमीहितकारिणाऽऽदृतहेतिना
वश्यवैरकृतात्वनादृतकान्तिभिर्विफला वयम् ॥ ४.८.१॥
(१. अत्र ``भागशस्त्वनुभूतयेऽतुलदेहतो गणाशोऽसुरान्'' इति पाठे मूलस्थ ``ध?इ'' शब्दार्थः, तथा
यतिभङ्गनिवारणं च लभ्येते । अतुलदेहतः इत्वस्य अतुलदेहेन इत्यर्थः । सार्वविभक्तिकः तसिल् ॥
२.``भस्मसात् खलु कुर्वतेहितसिद्धये धृतहेतिना'' इति पाठे यतिभङ्गो न स्यात् । कुर्वता-ईहितसिद्धये
इति पदच्छेदः ।)
नित्यदिव्यवपुश्श्रिया कमलस्थया श्रितवक्षसा
१भूषणायतपीनशैलमहांसहस्तमहारिणा ।
स्वीकृतास्खलितोचितास्मदुदारकिङ्करवृत्तिना
मायिना मणिभेन२नादृतभव्यहृच्युतिनच्युताः ॥ ४.८.२॥
(१. यतिभङ्गगन्धनिवारणाय अयं पादः ``भूषणायतपीवराद्रिमहांसहस्तमहारिणा''
इति पठनीयः स्यात् ।
२. अत्र मुद्रितरीत्यैव प्राचार्य(पितामह)पादैः स्वहस्तलिखितमातृकायां अक्षरविन्यासः
कृतः । ``नच्युताः'' इति एकं पदं इति गृह्यते । तथा च ``अमानीनाः प्रतिषेधे'' इति
सूत्रतः लब्धं इदं समस्तं पदम् । ``न लोपो नञ्च'' इति सूत्रस्य अविषयः अयं समासः ।
श्रीहर्षेण नैषधे द्वितीयसर्गे चत्वारिंशे
सरसीः परिशीलितुं मया गमिकर्मीकृतनैकनीवृता ।
अतिथित्वमनायि सा दृशोः सदसत्संशयगोचरोदरी ॥
इति श्लोके प्रयुक्त ``नैक'' शब्दवत् । एवमेव नादृतभव्यहृच्युतिशब्दश्च । नादृतभव्यहृच्च्युतयः
च, न च्युताश्च - ``नादृतभव्यहृच्च्युति - नच्युताः'' इति समस्तं पदमेकं सिद्धमिति अवगम्यते ।
एवं स्थितस्य गतिः चिन्तिता । एवमेव समनन्तरगाथाविवर्तनपद्येऽपि ``उज्झितपूर्तिहानि नहानयः''
इति पदस्य सिद्धिरिति भाति । आस्तामिदम् । अस्मिन् पद्ये एवंरूपक्लेशविमोक्षाय, मणिमाय? इत्यत्र साक्षात्स्वमिभिः ``इन्द्रनीलं भोले नील?आ? कृष्ण? ; मायम्?ऱु नीलवर्णध्धुघ्घु भेर्'' इति व्याख्यातस्य अनुसरणाय च तुरीयपादः ``रत्नमेचककान्तिनाऽहृतभव्यहृच्च्युतितोऽच्युताः''
इति वा पठनीयः स्यात् ॥)
१ स्नेहिहृच्च्युतिहीनमातृसमागतैकपिशाचिका-
मृत्यवे गरलस्तनन्धयदिव्यधीशिशुकश्रिया ।
सत्फणाहिशयोच्चशैलभुजोल्लसत्पुरुषेण२ सं-
यक् परेण सुमायिनोज्झितपूर्तिहानिनहानयः ॥ ४.८.३॥
(१. अस्य पादस्य ``स्नेहिहृज्जननीवधूवपुषागतैकपिशाचिका'' इति पाठे,
यतिभङ्गगन्धोऽपि न स्यात् । अत्र ``वधू'' शब्दः स्त्रीसामान्यवाची ॥
२.अत यतिभङ्गनिवारणाय ``संयक्'' इति स्थाने ``सत्त्यत्'' इति सङ्कल्पितं पदं
अक्षरविन्यासकाले प्राचार्यपादैः ``संयक्'' इति रीत्या लिखितं स्यात् इति उन्नीयते ।
``भरमभुरुढ'' इति गातास्थः शब्दः ``पुरुषोत्तमः'' इति षट्सहस्रिकायां व्याख्यातः ।
पुरुषोत्तमशब्दः ``सत्'' इति वाच्यात् चितः, ``त्यत्'' इति च वाच्यात् अचितः उत्कृष्टस्य
भगवतः वाचकः इति पूर्वे । सत् च त्यच्चाभवत् इति उपनिषदि सच्छब्दसहपठितः
त्यदचिद्वाचीति च । तथा च ``सत्त्यत्परेण'' इति परिपठतां यतिभङ्गगन्धो न स्यात् । इदं
सर्वं उल्लेखमात्रम् । यावच्छक्ति स्थितस्य गतिः अन्वेष्टव्या इति यत्नः परिपाल्यते ।
तृतीयतुरीयपादयोः
तुङ्गशैलभुजेन सत्फणसर्पशायिपरेण नो
पूरुषेण सुमायिनोज्झितपूर्णताच्युतितश्च्युताः ॥ इति पाठो वा भवतु ॥)
पूर्तिहानिमृते ज्वलत्पृथुवंशजिद्भुज भव्यनी१ -
लास्तनग्रहणेच्छुना बलतोऽस्तसप्त२गुना युधि ।
हृष्यता फलरक्तवस्त्र-सुवेणु-भाजनदण्डिना
किङ्किणी अपि बिभ्रतोज्झितपल्लवप्रभया च किं ? ॥ ४.८.४॥
(१. अत्र यतिभङ्गनिवारणाय श्लोकः समग्रोऽपि एवं पठनीयः स्यात्-
दीर्घवेणुभुजावधूगुणपूर्णकुम्भसुतास्तना-
लिङ्गनस्पृहया मुदा क्षमयास्त सप्त२गुना युधि ।
रञ्जितं वसनं करादृतवेणु-भाजन यष्टिना
किङ्किणी अपि बिभ्रतोज्जितपल्लवप्रभया च किं ? ॥
२. गवा इति पाठान्तरम् ॥)
त्यक्तपल्लवभाच्युतेः सदुपग्रहेति यशोभृतः१।
२ कीरमञ्जुगिरः कृतेऽक्षयरक्षसः पुरदाहिना ।
सन्मघूल्लसदुत्तुलस्यतिगन्धमौलिवृताब्धियुक्-
भुव्युदारदयेन नादृतसंविदापि च किं फलम् ॥ ४.८.५॥
(१. जुषः २. चारु -इति पाठान्तरे)
*ज्ञानहानिविनाकृतेन विशाललोकसदां धिया
प्रोक्तवैदिकवत्मर्ना बहिरन्तरेकचिदात्मना ।
वामनव्रतिमूर्तिनाऽधिकवञ्चनाधृतभूमिना
साधुशक्तिमतेश्वरेण किमुज्झितेधितया भया ॥
(*अत्र श्लोके यतिभङ्गनिवारणाय मूलानुगुणतरतायै च एवं वा स्यात् पाठः -
मत्यलाभशुचं विना पृथुलोकवासिनॄणां कृते वर्णिताखिलवर्त्मनाऽतुलपूर्णधीमयमूर्तिना ।
वामनव्रतिभूमिकाकटुयाञ्चनाधृतभूमिना मार्गवित्प्रभुणा भया किमु हानिरुज्झितयर्द्धया ॥
*त्यक्तवर्धितभाच्युतिर्नरसिंहमूर्तिरुदेत्य स-
क्रोध एधितरुक् -हिरण्यततोरसो दलनोन्मुदा ।
वृद्धभानलचक्रशङ्खभृता हरिन्मणिकान्तिना
वृद्धिभाक्स्ववपुश्श्रियोज्झितरेखिकङ्कणतश्च किं ? ॥ ४.८.७॥
(*ऋद्ध्यरिक्तभया युतां हरितामुदेत्य वहन् क्रुधा
ऋद्धभाढ्यहिरण्यसंविततोरसो दलनान्मुदा ।
वृद्धभाग्न्यरिवारिजे दधता हरिन्मणिकान्तिवत्
वर्धमानवपुश्श्रियाऽहृतरेखिकङ्कणतश्च किम् ॥ इति पाठः मूलानुगुणतरः
यतिभङ्गगन्धविधुरः च स्यात् ।)
१ न्यूनतास्तमहारेवण सुरेखशङ्खमरीन् पुराऽऽ-
ध्माय भीतिसमुज्ज्वलानलवेशनाय महाक्षितेः ।
पूर्वदुःखहृताप्तदुर्ज्ञशिवाजजिष्णुनतिस्तुताऽ-
नन्तसद्गुणशालिनोज्झितमेखलाभरणेन किम्२॥ ४.८.८॥
(१.ध्मायभीतिसमुज्ज्वलानलगान् विजित्य महाक्षितेः । इति पाठान्तरं प्राचार्यपादैरेव
प्रदर्शितम् ।
२.अपि च श्लोके प्रथमपादे यतिभङ्गगन्धनिवारणाय, मूलानुगुणतरतायै च समग्रस्य श्लोकस्य
न्यूनतास्तमहारवाढ्यसुरेखशङ्खमरीन् पुराऽऽ-
ध्माय तीव्रसमुज्ज्वलानलगान् विधाय महाक्षितेः ।
भारदुःखहृताप्तदुर्ज्ञशिवाजजिष्णुनतिस्तुताऽ-
नन्तसद्गुणशालिनोज्झितमेखलाभरणेन किम् । इति वा,
न्यूनतास्तमहारवाढ्यसुरेखशङ्खमनन्तृणां पुष्यतातिसमुज्ज्वलानलवेशनाय पृथुक्षितेः ।
पूर्वदुःखहृताप्तदुर्ज्ञशिवाजजिष्णुनतिस्तुतानन्तसद्यशसा समुज्झितमेखलाभरणेन किम् ॥
इति वा पाठः स्यात् ॥)
मेखलाच्युतिमुक्तनोर्जघनातनोः स्वतनूभुवो
भोगयोषित उद्गुणोल्बणतातबाणभुजच्छिदः ।
शेषभोगशयालुवत् सकलं जगत् शिवमेधितुं
योगमेकमुपेयुषोज्झितवर्ष्मणाऽविकला वयम् ॥ ४.८.९॥
वर्ष्मणातिमहत्तरान् असुहीनपातितभूभृतां
खण्डवत् दितिजान् बहून् बहुखण्डशोयुधि१ भिन्दता ।
हृष्यता ततगङ्गसज्जटमौलिनैकविभक्तिमत्-
२ देहसंस्थितविग्रहेण विवर्जितेन किमात्मना ॥ ४.८.१०॥
(१. छिन्दता - इति पाठान्तरम् ।
२. ``देहसंस्थितवर्ष्मणा परिवर्जितेन किमात्मना'' इति यतिभङ्गनिवारणाय पाठो भवेत् ।)
(तात्पर्यरत्नावलीश्लोकः)
सौन्दर्यादौ स्वकीये हृदि च खनिकरे पूर्णतायां च कान्तौ
संयग्ज्ञाने प्रकाशे वलयरशनयोः वर्ष्मणि स्वस्वरूपे ।
स्याद्विष्णोर्यद्युपेक्षा तदिदमखिलमुन्मूलनीयं तदीयैः
इत्यूचे कारिसूनुस्तदुपरि कथयन् तं शिवाद्याश्रिताङ्गम् ॥ ४.८.११॥
(प्रतिबिम्बलहरी)
१आत्मना परिपूर्णसप्तजगत्सुपूर्णनिजोदरं
२भुक्तदाधिकसर्पिषं कुरुकेशितुः शठवैरिणः ।
मालिकानघगीस्वरेतसहस्रगैर्दशभिध्रुवं
दाढर्ययुग्भवबन्धनच्छिद एव यान्ति परं पदम् ॥
(१. अत्र यतिभङ्गनिवारणाय मूलाभिप्रेततया पूर्वसूरिव्याख्यासु प्रदर्शितस्य अर्थजातस्य
सर्वस्यापि ग्रहणाय च ``लोकसप्तकमात्मनाऽविकलं विधाय निजात्मनि'' इति पाठान्तरं भवेत् ।
२. भुक्तदाधिनवोद्धृतं इति पाठान्तरं प्राचार्यपादैरेव प्रदर्शितम् ।)
(इति चतुर्थशतके अष्टमं दशकं )
॥ अथ चतुर्थशतके नवमं दशकम् ॥
प्रतिबिम्बलहरीवृत्तं - शार्दूलविक्रीडितं
एतद्दशकप्रतिपाद्यगुणविशेषः -भेजुषां अतुलफलत्वं
॥ सङ्गतिमणिमाला ॥
(उपमालिनी)
हरिविरहकृतायाः शुचोप्यतिखेददं
शठरिपुरथ पश्यन् अवैष्णवसङ्गमम् ।
तदगुणगणतप्तः द्रुतं परमं पदं
प्रवितर मम हेति श्रियःपतिमञ्चति ॥
१भ्रातृव्येषु हसत्सु विद्रुतहृदा बिभ्यत्सु सद्बन्धुषु
क्रूरासङ्ख्य सुदुःखवर्धक इदंलोकस्वभावस्सदा ।
कोऽसौ कारुणिकाम्बुधिं मथितवन् ! त्वत्पादपाद्मप्तये
सूपायं त्वरया वदाथ मरणप्राप्तिप्रकारं मम ॥ ४.९.१॥
(१. ``घण्णाळा``शब्दस्य समग्रार्थलाभाय, षट्सहस्रिकाप्रदर्शितरीत्या तुरीयपादे
विकल्पस्य स्फुटग्रहणाय च, मरणशब्दस्य कैवल्यं वास्तु इति अर्थलाभाय च समग्रस्य
अस्य श्लोकस्य पाठान्तरमित्थं भवितुमर्हति -
भ्रातृव्येषु हसत्सु विद्रुतहृदा बिभ्यत्सु सद्बन्धुषु
क्रूरासङ्ख्यविषाददायि किमिदं लोकस्य वृत्तं मम ।
चक्षुष्मन् ! उदकाशयं मथितवन् ! त्वत्पादपद्माप्तये
सूपायं त्वरया वदाथ वपुषो विश्लेषणं वा कुरु ॥)
दिष्टान्तैश्च धनक्षयैश्च विविधज्ञातेयवद्बन्धुता
पातोत्पातविलापमोहशयनैः कोऽसौ स्वाभावो भुवः ।
नो जाने कमपि प्रकारमुपरि स्वामिन् ! भुजङ्गेशया-
*ह्वाने स त्वरितं प्रकारमवयन् दासस्य मे चिन्तय ॥ ४.९.२॥
(*ह्वाने ते सविधे त्वरस्व सदृशोपायेन मां लक्षयन् इति पाठान्तरं)
श्लाघां १ श्लाघ्यकुलाभिमानमधिकं ज्ञात्याप्तवर्गं धनं
भृङ्गापूर्णसुमाढ्यकेशयुवतीः सद्धाम हित्वा मृतिम् ।
दृष्ट्वाहं न सहे प्रकारमसमं लोकस्य दासं च मां
२अब्धिश्याम ! पुरेव नैक्ष्य पदयोराहूय दास्ये कुरु ॥ ४.९.३॥
(१. ``सत्कुलजाभिमानं'' इति पाठान्तरम् ।
२.`वार्धेस्तुल्य! ``इति पाठे वण्ण शब्दस्य अर्थः षट्सहस्रिकादृतोऽपि लभ्येत् ॥)
आदेहीत्युदिताभिवृद्धिसुमहासम्पत्* स्थिता स्वग्निसात्
आदेहीति पुनस्तमोऽभिवृणुते का लोकयात्रा त्वियम् ।
श्लाघ्योदार ! मणिस्वभाव ! चरणप्राप्तेरुपायं तवा-
दृत्यौदार्यमिमं स्वदासमिह ते कारुण्यतस्स्वीकुरु ॥ ४.९.४॥
(*`स्थिता वह्निवत्'' इति पाठः मूलानुगुणस्स्यात् ।)
सर्वादायिजलोद्भवद्भुवि *चरत्सु स्थावरेषु स्थिता
जीवा जन्ममृतिं जरां रुजमिताः प्राश्नन्ति बाधां पराम् ।
अत्रेतोऽपि सुघोरनारकगतिः का लोकयात्रा त्वियं
त्वं तत्राह्वय मां हरिन्मणिरुचे ! दासं न मां मोहय ॥ ४.९.५॥
(*`चरा ये स्थावरा वा स्थिताः'' इति यतिभङ्गगन्धहीनः पाठः स्यात् ।)
मोहं जालनिपातनं विदधतो बाधां वधं भुञ्जते
धर्म्यार्थं न विचिन्वते*ऽशुभविदः कोऽसौ स्वभावो भुवः ।
गन्धिश्रीतुलसीलसन्मकुट ! मत्पूर्णामृतात्यन्तिकं
दासं ह्यङ्ग्यकरोः सपापमपि मां हूत्या दयेथा इतः ॥ ४.९.६॥
(* नयसृतेः इति वा पाठस्स्यात् ।)
लोकेऽस्मिन् स्थिरजङ्ग१ मात्मकतया भूत्वा२ त्वमेकं विनाऽ
प्यन्यं ते स्थितितः पदार्थमिह मे व्याधिर्जरा वा मृतिः ।
जन्याधी इति नाशयन्नखिलमप्येतत् समाहूय मां
दासं स्वीकुरु न प्रदर्शय महाघोरं स्वभावं भुवः ॥ ४.९.७॥
(१. कृतितया इति पाठः ।
२. श्लोकस्समग्रोऽपि साक्षात्स्वाम्यादृतार्थपरश्चेत् एवं भवेत् -
लोकेऽस्मिन् स्थिरजङ्गमात्मकतया भूत्वा त्वमेव स्थितः
सत्येवं न परः पदार्थ इह हा ! व्याधिं जरां वा मृतिम् ।
आधिर्जन्मविना न किञ्चिदपरं चास्ते समाहूय मां
दासं स्वीकुरु न प्रदर्शय महाघोरं स्वभावं भुवः ॥)
सृष्टवा स्वेन निगीर्णवान्तपृथिवीतोयाग्न्यनन्तानिलान्
संयोज्य त्वमिह प्रतिष्ठितसुरावासैककाण्डाभिधम् ।
प्राकारं *समतीत्य मां तव महातेजोयुतोच्चस्थले
दुष्प्रापौ तु कदा नु दिव्यचरणौ संयोजयिष्यस्यमुम् ॥ ४.९.८॥
(* त्वतिवाह्य -इति पाठः ॥)
हे ! नागेशय ! योजयस्यनरतान् संशिञ्जितौ ते पदौ
दुष्प्रापौ द्युसदां विधाय च भवे त्वं भ्रामयस्येव तत् ।
दासो वेद्वि निवार्य चेन्द्रियरतिं त्वच्छ्रीपदे एव मां
*धृत्वा सर्तुमयोजयोऽहमयमद्राक्षं त्विदं दुर्लभे ॥ ४.९.९॥
(*``धृत्वा सर्तुमयोजयस्तदहमाः! सन्दृष्टवान् दुर्लभे'' --इति यतिभङ्गनिवारणाय पाठः ॥)
स्पृष्ट्याकर्णनपानदर्शनसमाघ्राणैश्चलैः पञ्चभिः
ज्ञातं यत्सुखमिन्द्रियैः १ यदमिततावेद्यं सुखं चात्मनः ।
तत्त्व१ य्यग्रकरोज्वलद्वलयया देव्या श्रियोच्चस्थिते
२ पश्यद्भाग्यमवेक्ष्य सर्वमजहां प्राप्तोऽस्मि ते श्रीपदे ॥ ४.९.१०॥
(१. यदमितस्वल्पं सुखं चात्मनः - इति पाठो मूलानुगुणतरः ।
२. ``त्वच्चातुर्यमवेक्ष्य'' इति पाठः मूलानुगुणतरः साक्षात्स्वामिपरिगृहीतार्थानुगुणश्च
स्यात् ।)
(तात्पर्यरत्नावलीश्लोकौ)
कारुण्यादब्धिमाथी तदुपरिशयितस्तत्समानाङ्गवर्णः
ख्यातौदार्यस्स्वदाने रुचिरमणिरुचिः वेषतोऽतीव भोग्यः ।
आत्मत्वेनानुभाव्यो दुरधिगमपदो बन्धमोक्षस्वतन्त्रः
स्वान्यप्रेमोपरोधी स्वदत इह विभुस्तत्पदोत्कण्ठिताय ॥
तापैस्सम्बन्धिदुःखैस्स्वविभवमरणैः तापकृद्भोग्यसङ्गैः
दुर्गत्याज्ञातिवृत्तैः अनितरविधुतेरण्डकारानिरोधात् ।
प्रह्ववीभावोज्झितत्वात् प्रलघुसुखपरिष्वङ्गतश्चातिशोच्यं
विश्वं द्रष्टुं न शक्तो निजपदनयने नाथति स्म स्वनाथम् ॥ ४.९.११॥
(प्रतिबिम्बलहरी)
श्रीनारायणमीश्वरं चिदचितां ज्योतिः परं केशवं
तत्पादाप्तिकृताशयेन कुरुकानेत्रा१ शठद्वेषिणा ।
तत्पादोपरि भाषिते द्रविडगी२ र्गाधासहस्रे त्विदं
तत्पादौ दशकं नयेत् परपदप्राप्त्या समुज्जीवत३॥
(१. भास्वत्शठद्वेषिणा इति पाठान्तरम् ।
२. वाग्गाथा इति पाठान्तरम् ।
३. मातृकायां श्लोको मुद्रितरीत्या एव दृश्यते ।
परं तु सुखान्वयाय श्लोकः-
श्रीनारायण ईश्वरश्चिदचितां ज्योतिः परं केशवः
तत्पादाप्तिकृतेऽभिमान्यकुरुकानेत्रा शठारातिना ।
श्रीपादोपरि भाषिते द्रविडवाग्गाथा सहस्रे त्विदं
श्रीपादौ दशकं नयेत् परपदौ लीयध्वमाप्त्वा तयोः ॥
इति वा पाठ्यः ॥
(इति चतुर्थशतके नवमं दशकम्)
॥ अथ चतुर्थशतके दशकं दशकम् ॥
प्रतिबिम्बलहरीवृत्तं - शार्दूलविक्रीडितं
एतद्दशकप्रतिपाद्यगुणविशेषः - (अर्चायामपि)सर्वामरोच्चत्वम् ।
॥ सङ्गतिमणिमाला ॥
(उपमालिनी)
परमपदमभीप्सन्नलभ्य घृणी द्रुतं
तदपरिहरणीयान् अवैष्णवमानुषान् ।
सुपथमपि नयंस्तान् परत्वमथोचिवान्
अधिकुरुकमथार्चास्थितावपि नः प्रभोः ॥
देवस्वर्भुवनाद्यशेषचिदचिच्छून्यादिकाले तदा
लोकानां १सचतुर्मुखाखिलसुराणां प्राणिनां स्रष्टरि ।
शैलोत्तुङ्गसुरत्नसौधविततश्रीकेऽखिलादौ स्थिते
नाथे श्रीकुरुकापुरे सति परं दैवं २किमन्विष्यत ? ॥ ४.१०.१॥
(१. ``सचतुर्मुखादिदिविषत्-नृ-प्राणिनां स्रष्टरि'' इति पाठो यतिभङ्गवैदेशिकस्स्यात् ।
२. अन्वेषथ, अन्विष्यथ - इति च पाठान्तरे ।)
अन्विष्याश्रयणीयमत्र भवतां दैवं च वश्चादिना
पूर्वं सृष्टवताऽनवद्यगुणसत्कीर्तिश्रिया सादरम् ।
नाथेनाध्युषितां स्वधाम कुरुकां हर्म्यैर्गृहैरावृतां
स्तुत्वा नर्तनगानपूर्वमखिलान् व्याप्यैत नानाजनाः !॥ ४.१०.२॥
*सृष्टवा व्यापकदेवता बहुविधान् लोकांस्तदाऽदत् समं
तेष्वन्तस्स्थिरमुद्गिरन् क्रमणमुद्धारं च कृत्वा स्थितम् ।
दृष्टवापीथ न निश्चयं तु कुरुकायां वन्दितायां सुरैः
हे ! लोका ! वसतः परस्य वदतैश्वर्यं विनान्यं सुरम् ॥ ४.१०.३॥
(१. श्लोकोऽयं तृतीयपादे यतिभङ्गनिवारणाय स्फुटार्थतायै च एवं वा पाठवानस्तुः --
सृष्टवा व्यापकदेवता बहुविधान् लोकान् निगीर्याथ तान्
उद्गीर्यापि पुनस्तथा क्रमणमुद्धारं च कृत्वा स्थितम् ।
दृष्ट्वा देवशिरोभिवन्द्यकुरुकापुर्यां न चेन्निश्चयो
हे ! लोका ! वसतः परस्य वदतैश्वर्यं विनान्यं सुरम् ॥)
पारम्योक्तिमतश्शिवस्य च विधेः नाथः परेषामसौ
सत्यं ब्रह्मकपालमोक्षणकथां यूयं स्वयं पश्यत ।
तेजिष्ठैः वरणैः मनोज्ञकुरुकापुर्यां वृतायां स्थिते
नाथे किञ्चिदवद्ययुक्तिवचनात् किं हैतुकानां भवेत् ॥ ४.१०.४॥
यूयं लिङ्गपुराणवाचनपराः जैनाश्च बौद्धा वितण्*-
डायुग्वादकथाविदश्च बहवो यूयं च देवाः परे ।
भूत्वा श्रीकुरुकापुरेऽस्ति चमरीवालैरिवोद्वीजिते
नीवारैः स्तुवताधिकः स सकलैश्वर्योऽत्र नैकं मृषा ॥ ४.१०.५॥
(१. अत्र यतिभङ्गनिवारणाय श्लोकस्य एवं वा पाठः स्यात् -
यूयं लिङ्गपुराणवाचनपराः ! ताथागताः ! आर्हताः !
वैतण्ड्योद्धतशुष्कतर्कनिरताः ! सर्वे च वो देवताः ।
भूत्वा श्रीकुरुकापुरेस्ति चमरीवालैरिवोद्वीजिते
नीवारैः स्तुवतोपकृत् स परमः पूर्णोऽत्र नैकं मृषा ॥)
स्तुत्वादर्तुमितोन्यदैवमिह वो बाह्यान् विधायान्यधी-
योगात् स्थापनमस्ति मुक्तिरपि१ वो नैवेति लीलाजगत् ।
२ नीवारैः कमलैः समृद्धकुरुकायां कर्दमोत्थैस्सतो
मायाशक्तिमती ह्यतीव तदिदं ज्ञात्वास्य याताप्तये ॥ ४.१०.६॥
(१. अत्र विशदतया सर्वव्याख्यादृतार्थलाभाय ``चेत् नैवेति लोकस्थितिः'' इति पाठेन भवितव्यम् ।
उलघिल्लै इत्यस्य लोकमर्यादा = लोकस्थितिः इत्यर्थवर्णनं प्रायः बहुव्याख्यादृतम् ।
२. अस्मिन् पादे यतिभङ्गनिवारणाय
``पङ्कोत्थैः कमलैः समृद्धकुरुकापुर्यां सतश्शालिभिः'' इति पाठेन भवितव्यम् ।)
*धावं धावमनेकजन्मसु जनित्वाप्यन्यदेवं पुरा
गीत्वा नृत्यनमोभिरस्य बहुधा दृष्टं भवद्भिःफलम् ।
सङ्घीकृत्य सुरैस्स्तुतस्य कुरुकापुर्यां स्थितस्योच्चलत्
केतुश्रीगरुडस्य दास्यमुचितं सर्वादिमूर्तेस्तु वः ॥ ४.१०.७॥
(*अस्मिन् पादे यतिभङ्गनिवारणार्थं पाठः
``धावं धावमनेकजन्मजननेष्वप्यन्दैवं पुरा'' -इति भवितुमर्हति ।)
मार्कण्डेयमुपेत्य दास्यकरणात् स्वं दृष्टवन्तं तदाऽ
रक्षन्नग्नमहोपकार्यपि तु सा नारायणीया कृपा ।
पुष्पह्रीतबकैः परीतकुरुकापुर्यां स्थिते केतकैः
उत्कृष्टेऽखिलकारणोपकृति किं दैवं परं ब्रूत किम् ॥ ४.१०.८॥
शब्दाडम्बरमात्रवषट्समयतत्तुल्येतरैर्दुश्शक-
स्वस्य ज्ञातुमियत्तयाखिलजगद्धेतोः प्रियां स्वामिनः ।
सम्पन्नैश्च सुशीतलैश्च कुरुकां केदारजालैर्वृतां
रम्यां वासभुवं निवेशयत चेत् उज्जीवनेच्छा मतौ ॥ ४.१०.९॥
देवेष्वप्यखिलेषु सर्वभुवनेष्वन्येषु सर्वेष्वपि
स्वे रूपे निरद्यदिव्यवपुषा तुल्येषु सत्सूचितम् ।
केदारेषु समृद्धिमत्सु कुरुकापुर्यां सनीवारसाध्-
विक्षौ श्रीवदुबामनस्य सुघटीनृत्यस्य दास्यं वरम् ॥ ४.१०.१०॥
(तात्पर्यरत्नावलीश्लोकौ)
कल्पान्तेऽपि स्थितत्वात् सकलसुरगणस्रष्ट्टभावाज्जनानां
रक्षाद्यापादकत्वात् शिवविधिभरणात् सर्वदेवात्मभावात् ।
तत्तत्कर्मानुरूपं फलवितरणतो वैनतेयध्वजत्वात्
मार्कण्डेयावनादेः प्रभुमथ शठजित् प्राह सर्वामरोच्चम् ॥
नित्यैश्वर्यं तु तुर्ये सहजबहुलसद्भोग्यमन्योन्यसक्तं
क्लेशापादिस्वतुल्यं स्वजनकृतकृतार्थीकृतं स्नेहिवैद्यम् ।
संयुक्तं सद्गुणौघैः स्वजनपरिहृतोपेक्ष्यमिष्टार्थरूपं
श्रेष्ठं निश्शेषभोग्यात् अमनुत शतके देवतासार्वभौमम् ॥ ४.१०.११॥
(प्रतिबिम्बलहरी)
वाक्कैङ्कर्यमुदीर्य चक्रिणमिनं प्राप्तेन वक्षोज्ज्वलन्-
नव्यामोदसुकेसरेण कुरुकाधीट्सच्छठारातिना ।
मारेणाभिनिवेशिनात्र दशके गाथासहस्रे कृते
शक्तानां नगरं महत् च्युतिमृते वैकुण्ठमन्यत् करे ॥
(इति चतुर्थशतके दशमं दशकम्)
॥ इति चतुर्थशतकं समाप्तम् ॥
श्री सुन्दरार्यवरदार्यगुरूत्तमाप्त-
ज्ञानोद्भवाशुकविवेङ्कटशेषसूक्तौ ।
पूर्णं तुरीयशतकं जयतात् शठारि-
गाथानुबिम्बलहरीविलसत्सहस्रे ॥
॥ प्रतिबिम्बलहरी - पञ्चमशतकम् ॥
॥ अथ पञ्चमशतके प्रथमं दशकम् ॥
प्रतिबिम्बलहरीवृत्तं - पृथ्वी
एतद्दशकप्रतिपाद्यगुणविशेषः - कारुण्याधीनवृत्तित्वं
*हेषा घोषायते यस्य भाषाऽशेषा पुरातनी । हयवेषाक्षयं तेजो मनीषायां तवस्तु मे ॥
(*अयं अनुष्टुप् - श्लोकः प्राचार्यपादैः अत्र मातृकायां लिखितः विघ्ननिवारणायेति भाति ।)
॥ सङ्गतिमणिमाला ॥
(मालिनी)
अधिकुरुकमितीशे सर्वदेवाधिकत्वं
धनसुखलवलब्ध्या निर्वृतेभ्यो जनेभ्यः ।
परविमुखमतिभ्यो वर्णयन् तत्प्रसङ्गे
निजविषयकृपां तां संस्मरन् मोदतेऽस्य ॥
करोद्धृतसुदर्शनोज्ज्वलमदिन्द्रनीलेत्यहं
मृषोक्तिकृतवञ्चनो बत ! बहिश्चरित्वा बहिः ।
यथार्थम* लभं विधौ फलति को निषेद्धा त्वहो !
कृतोपकृतिकृष्ण तेऽनुचितमेव मद्यासि चेत् ॥ ५.१.१॥
(*लभतिः आत्मनेपदीति अभजं इति पाठो वा स्यात् ।)
महाककुभमध्यतो गत! विमोहकृन्मे मणे !
*मधो! सुमधुरामृतेत्यपि मृषोदितैः कैश्चन ।
स एव मदितोऽमवत् मदपृथक्स्थितिर्मद्वशो
नभो मयि महाधरा निखिलमन्यदन्तर्गतम् ॥ ५.१.२॥
(* ``मधूच्च मधुरामृतेत्यपि मृषोदितैः कैश्चन । '')
परत्र मनसि स्थिते बहिरुदीर्य १ काश्चिद्गिरः
मृषा परमुदार! हे ! मणिनिभेति ते वञ्चकम् ।
विहाय शठमानसं धुरि समीक्ष्य चोज्जीवितः
२ पयोधिशय ! सन्त्यजन् अहमयानि कं त्वामितः ॥ ५.१.३॥
(१. मायावचः
२. पयोधिशय कं वृणे परिहरन्नितस्त्वामहं)
लभेय किमहं त्यजन्निति वचो वदंस्त्वामपि
छले दृढ इदं१ मनो मम निरुद्ध्य २मुक्त्वाश्रु च ।
निवेश्य सुदृढं त्वयि प्रतिहृतौ न शक्तोऽस्म्यहं
मलं मयि निवार्य ते सदसि कृष्ण ! मामाह्वय ॥ ५.१.४॥
(१. ``त्वामहं शठो दृढं इदं'' ।
२. ``हित्वाश्रु च''। इति च पाठाः)
न कृष्णमुपकारकं त्रिदशनीलरत्नं सुधां
गतो दृशि मनोगतं किमपि वर्ष्म कृत्वान्तरा ।
१ ``दृढैर्विवशयन् परं'' विविधकर्मपाशैस्त्वचा
विधाय दृढया व्रणं बहिरनर्थकृत्येऽ२त्यजः ॥ ५.१.५॥
(१. ``दृढैनहनतो वशं''
२. ``जहाः''- इति च पाठाः)
अशेषकृतबन्धनं द्विविधकर्मभिर्बाधके
क्रमाप्तवपुरध्वनि व्युदसितुं गतिं दृष्टवान् ।
महोज्ज्वलचतुर्भुजं स्वरुणनेत्रबिम्बाधरं
*सुनीलवपुषं करोद्धृतवृषोत्कचक्रं प्रभुम् ॥ ५.१.६॥
(* ``स्वधर्मरतचक्रवत्करशितिश्रियं स्वामिनम्'' इति च पाठः ॥)
स चक्र्युपकृतिप्रभुः क्व भव एष चाहं क्व नु
प्रसिद्ध सुमहांहसामपि फलेत् फलोत्के विधौ ।
गजार्तिविनिवारकेत्यधिशिरःकरं क्रोशनात्
अभूवमृजुभक्तिमान् *मयि बभूव मत्स्वाम्यपि ॥ ५.१.७॥
(* ``मदुपरीव मत्स्वाम्यपि'' - इति पाठः ।)
महामहिमसूरिभिः क्षितिसुरैश्च संसेवितः
ममैत्य हृदि सुस्थितस्त्रिजगतामिदानीं प्रभुः ।
स्त्रियः शफरलोचनाः सुमहिता च सम्पत् वरा
सुताश्च पितरौ वरौ परमितस्स एवास्ति मे ॥ ५.१.८॥
महोर्मिमति को भवेत् शरणमित्यघो मज्जनं
गतेव पृथुनौः भवे जलनिधौ सकम्पे मयि ।
स दिव्यवपुषा स्वयं सुभगचक्रशङ्खौ वहन्
ह! हेति विदधत् कृपां अपि मया समेतोऽभवत् ॥ ५.१.९॥
मया भवति दासवान् इति वचोऽवलम्ब्यादरात्
उपेत्य सुकृपां दधत् सकलबन्धुरास स्वयम् ।
समीनकमठो भवन्नरहरिः पुरा वामनः
वनेचरकिटिः पयोधरनिभश्व *कल्कीत्वितः ॥ ५.१.१०॥
(* कल्क्यायतिः - इति पाठान्तरं)
(तात्पर्यरत्नावलीश्लोकः)
चक्रस्फायत्करत्वात् स्वजनवशतया रक्षणोद्युक्तभावात्
भव्यत्वात् स्वात्मदानात् अमलतनुतया श्रीगजेन्द्रावनाच्च ।
नानाबन्धुत्वयोगात् विपदि सखितया व्याजमात्राभिलाषात्
कारुण्याधीनवृत्तिं कमलदृशमवैत् कारिसूनुः कृतार्थः ॥ ५.१.११॥
(प्रतिबिम्बलहरी)
पयोदरुचिकृष्णमत्युपकृतिं महाब्जेक्षणं
वृषर्द्धिरुचिशालिभूसुकुरुकाशठारीरिते ।
इहोज्ज्वलगुणेऽद्भुतद्रमिडवाग्सहस्रे त्विमान्
*सुगीतिदश गायका श्रियमिता विशेयुः पदम् ॥
(*सुगीतिदश गायका इत्येव प्राचार्यपादहस्ताक्षरविन्यासः मातृकायां अस्ति । तथापि आर्वण्णध्धाल् इति मूलस्थर शब्दः ``अरुघै-पानं भण्णुघै, वण्णम् -
प्रकारम् पानं भण्णुमाभ्भोले अतिप्रीतियुक्तमाय्'' इति साक्षात्स्वामिभिः व्याख्यातः । इतरेऽपि व्याख्यातारः एवमेव व्याख्यातवन्तः । द्वादशसहस्रिकायां तु ``कवयो धयन्ति'' इतिवत् इत्यपि संवाद प्रमाणप्रदर्शनं कृतम् । ईडुव्याख्याने ध्ण्ढर्घ्घमुधुण्ण इतीदं संवादप्रमाणतया
दर्शितम् । तथा ``सुपीति'' इति पाठः एतेषां व्याख्यानानां अनुगुणतरः स्यात् इति भाति । सुपीतिः
यथा तथा गायकाः इति यावत् ॥ ``सुगीति'' इति पाठे द्वादशसहस्रिकायां दर्शितायाः द्वितीययोजनाया अनुगुणता ।)
(इति पञ्चमशतके प्रथमं दशकम्)
॥ अथ पञ्चमशतके द्वितीयं दशकम् ॥
प्रतिबिम्बलहरीवृत्तं - शार्दूलविक्रीडितं
एतद्दशकप्रतिपाद्यगुणविशेषः - स्वभक्तैः जगदघशमनत्वं
॥ सङ्गतिमणिमाला ॥
(मालिनी)
अचरवपुषि चादिः भाति सर्वाधिको नः
शरणमिति वचोभिः वैष्णवत्वं स्वकीयैः ।
श्रितभथ जनसन्धं प्रेक्ष्य सम्मोदमानः
विरचयति मुनिस्तन्मङ्गलाशासनानि ॥
भक्तश्रीरभिवर्धतामनुदिनं संवर्धतां वर्धतां;
नष्टं चेतनघोर पाप*मवसन्नो नारको बाधकः ।
नात्रैकोऽपि यमस्य; नश्यति कलिः; पश्यन्तु वार्धिश्रियः
दासा भुव्यभिवृद्धिमेत्य नटनोद्गानेश्चरा वीक्षिताः ॥ ५.२.१॥
(*मनशद्दुःखप्रदो नारकः -इति पाठो यतिभङ्गगन्धनिवारकः स्यात् ।
अनशदिति ``लुङ्'' प्रथमैकवचनं नश्यतेः ।)
दृष्टं दृष्टमिहाक्षिभोग्यममितं दृष्टं च दृष्टं पुनः
दासा ! यूयमिहाभियात सकलाः स्थित्वा स्तवामानताः ।
भृङ्गापूरितशीतसत्तुलसिकश्रीमाधवीयाः क्षितौ
गीत्वा रागमुपेत्य नर्तनमपि स्थित्वा चरास्सर्वतः ॥ ५.२.२॥
नष्टे च प्रचरत्कलौ भुवि सुरेशेषु प्रविटेष्वपि
प्राप्ते चापि कृते युगेऽत्र सुमहानन्दप्रवाहाप्तये ।
*नीलाभ्रोपमदानकस्य मदिनस्याब्धिश्रियः किङ्कराः
सत्कोलाहलतः प्रविश्य भुवि सद्गानाः स्थितास्सर्वतः ॥ ५.२.३॥
(* नीलाभ्रोपमदानकस्य इत्ययं शब्दः नीलाभ्रोपमं दानं यस्य स नीलभ्रोपमदानः,
इत्यस्य स्वार्थे क प्रत्व्ययवान् इति रीत्या प्रयुक्त इति भाति । दानशब्दः स्थितिविशेषपरश्च ।
ततश्च नीलमेघवत् स्थितिमान् इत्यर्थकः स्यात् । अथ एतादृशप्रयासनिवारणय
``नीलाभ्रोपमवर्ष्मणः इति पाठो ग्राह्यः ॥)
१ लोकव्यापकसर्वबाह्यसमयानामूलमुत्पाटने
बद्धाशा इव २ विस्तृताब्धिशयनाथस्याङ्घ्रिदासा इमे ।
सृत्वोत्थाय तथोपविश्य बहुधा गीत्वा शयित्वा नतिं
कृत्वोत्प्लुत्य चरन्ति नाटकममी कुर्वन्ति च क्ष्मातले ॥ ५.२.४॥
(१. सर्वत्रौद्यतवैदिकान्यसमयानामूलमुत्पाटने - इति पाठान्तरम् ।
२. ``विस्तृताब्धिशयनस्वाम्यङ्घ्रिदासा इमे'' । इति यतिभङ्गगन्धनिवारणाय पाठः ।)
व्यापारो मम नेत्रयोरतिशयं धत्तेऽयमेकस्त्विह
श्रीवैकुण्ठरतास्त एव भुवनं व्याप्याद्भुतैः कर्मभिः ।
हे! रक्षोसुरभावमेत्य चपलाः ! जाता! यदीदं ध्रुवं
हत्वा वश्च विभेदयन्ति च कलिं नोज्जीवनाध्वा च वः ॥ ५.२.५॥
हत्वादन्तमसून् च रोगमखिलान् द्वेषक्षुधादीन् कटून्
स्थित्वास्यां भुवि यान्ति हन्तुमनसः चक्रोपकृत्किङ्कराः ।
गीत्वा सुस्वरमुत्प्लवेन नटनैस्ते व्याप्तवन्तः क्षितिं
गत्वानम्य मनो निरुद्ध्य सुपथे दासास्समुज्जीवत ॥ ५.२.६॥
ध्याता वो हृदि देवतास्तु भवतामुज्जीवनं तं पुनः
आश्रित्यैव वितन्वतेऽत्र भवतां साक्षी मृकण्डोस्सुतः ।
कृष्णान्नैव परं तु दैवमिह मा मालिन्यमन्तर्भवेत्
कर्तव्यान्यखिलानि चार्पयत तन्मूर्त्यन्यदेवान् प्रति ॥ ५.२.७॥
कर्तव्यं तु विधाय कर्म विविधं तत्तत्फलप्राप्तये
सर्वेषां जगतां स्वमूर्तिपुरुषान् अस्थापयद्देवताः ।
देवेशस्तु स एव जीवत बहून् श्रीवत्सलक्ष्मीरसः
दासान् भुव्यविषादिनोऽस्य विनता गीतानि गीत्वादरात् ॥ ५.२.८॥
नत्वोज्जीवत सादरं श्रुतिषु संशुद्धा ऋचो जिह्वया-
प्युच्चार्याच्युतमस्तभक्तिविरहैः पुष्पैश्च धूपैर्युतम् ।
दीपं *गन्धजलैस्समृद्धमखिलं कृत्वाऽदरात् सेवकैः
कैङ्कर्यैकरतैर्गुणैकरसिकैः लोकस्समृद्धोऽभवत् ॥ ५.२.९॥
(*चन्दनवारिणाऽथ सकलं - इति पाठान्तरम्)
नग्नेशेन सहाजवासवमुखाः पुञ्जीभवद्देवता-
सङ्घाः कृष्णमनोज्ञविग्रहमुपाश्रित्याति सम्पत्तिषु ।
सर्वत्राप्यभवन् जगत्सु नितरां व्याप्तास्तदीयास्समं
तैर्यूयं यदि सेवितुं सशकनाः नैकोऽपि दोषः कलेः ॥ ५.२.१०॥
(तात्पर्यरत्नावलीश्लोकः)
पाथोधिप्रौढकान्तौ सरसतुलसिकालङकृतौ दातृभावे
वैकुण्ठत्वे च चक्रप्रहरणवशितादेवतास्थापनादौ ।
स्वानामच्यावनादौ सकलनियमने सर्वकर्मेज्यभावे
नित्यासक्तैः स्वभक्तैः जगदघशमनं प्राह कृष्णं शठारिः ॥ ५.२.११॥
(प्रतिबिम्बलहरी)
दासनां कलिदोषवर्जमनघां कुर्वन्तमीशं कृपां
पूर्णं भास्वरतेजसा स्ववपुषा कृष्णं चरित्राद्भुतम् ।
*श्रीकेदारकदक्षिणस्थकुरुकाकारेयमारस्य सा-
हस्त्रे द्योतिगुणे दशान्तरमलं छिन्द्युश्शठारेरिमे ॥
(*उत्तरार्धः यतिभङ्गगन्धदूरीकरणाय ॥ श्रीकेदारकदक्षिणस्यकृरुकाकारेयमारस्य
सत्साहस्रेऽतिगुणे दशान्तरमलं छिन्द्युश्शठारेरिमे ॥ इति पठनीयः ॥)
(इति पञ्चमशतके द्वितीयं दशकम्)
॥ अथ पञ्चमशतके तृतीयं दशकम् ॥
प्रतिबिम्बलहरीवृत्तं -पृथ्वी
एतद्दशकप्रतिपाद्यगुणविशेषः - स्वानां तीव्रं प्रेम दुहानत्वं
॥ सङ्गतिमणिमाला ॥
(मालिनी)
श्रितजनकुल एतद्वत्सलत्वं तदा तत्-
शुभवपुरपि सूरिः चिन्तयन् प्रेमसीम्नि ।
झटिति च सहयोगं तेन काङ्क्षन् अलब्ध्वा
विशदयति निजाशां त्यक्तलज्जेव कान्ता ॥
ममामलमहोनिधिं मणिगिरिं च रक्ताधरं
विचित्य निजशीलतोऽप्यनघमादिमूर्ति सखि ! ।
*प्रभाक्षयमतिक्षये बहुदिनैर्गतायास्तु मे
परापवदनोत्कहृत्पुरजनापवादेन किं ? ॥ ५.३.१॥
(*प्राचार्यपादहस्ताक्षरमातृकायां - ``प्रभाक्षयमतिक्षये'' इत्येव दृश्यते ।
परं तु ``प्रभाक्षयमतिक्षयौ'' इति पाठः एव तदभिप्रेतः स्यादिति)
करिष्यति सखीह किं पुरजनापवादस्तु नः
ममारुणपयोजदृक् त्वपजहार मत्प्रज्ञताम् ।
मनोहरवपुश्श्रिया स्वतनुकाश्यमेत्य स्थिता
गताहमरुणाधरेऽप्यसितलोचते म्लानताम् ॥ ५.३.२॥
उपेतशकटासुरप्रहरदङ्घ्रिकः पूतना-
स्तनादरपिबारुणाधरदलस्तु मत्पूर्णताम् ।
जहार सगतागता *गतवचोत्तरा तं विना
मदेकृतिनिश्वये ! सखि ! जनापवादेन किम् ॥ ५.३.३॥
(*गतवचोत्तरा - इत्येव मातृकायां दृश्यते । गतवचा अहं तं विना इति पाठः
समीचीन इति भाति ॥)
विकीर्यजनगर्हणप्रचुर१ गोमयं मातृवाक्-
जलं बहु निषिच्य सङ्गमन२ कामबीजं वपन् ।
प्ररूढहृदयक्षितौ दृढमहानुरागार्णव-
३प्रवर्धकघनाकृतिः कठिन एष कृष्णस्सखि ! ॥ ५.३.४॥
(१. दोहदं इति पाठो मूलानुगुणस्स्यात्
२. बीजोप्तिः -इति पाठान्तरं
३. यद्यपि काकुर्गभत्वेन श्लोकोऽयं मूलभावव्यञ्जक एव, तथाऽपि कोमलमतिसुखग्रहणाय
``प्रवर्धकघनासितः कथमसौ च लुब्धः सखि!'' इति पाठः अङ्गीकार्यः इति भाति ॥)
वशीकृतजगत्पदः कठिननिर्घृणो दूरगः
परो मतिविवेचनातिगविचित्रसद्विग्रहः ।
तथाऽपि कठिनं स्थितं मम मनस्स एवेत्यहो
करिष्यति किमु प्रसूः *डमरुमध्यमुग्धे ! सखि ! ॥ ५.३.५॥
(*पटहमध्यमुग्धे -इति पाठान्तरम् ।)
करोतु किमपि प्रसूः किमपि वक्तु सख्यः ! पुरी
न मां प्रति दुराशया किमपि वस्त्वितोऽहं पुनः ।
वितंसमविशं पुरा त्रिदशकारणद्वारका-
पतीन्द्रमणिवर्णभाक् शुभगवासुदेवास्तृतम् ॥ ५.३.६॥
विधाय निजवागुरानिपतितां च मां मे मनो
विकृष्य सदपान्निधौ शयितमीश्वरं चक्रिणम् ।
सुवस्त्रकटिविस्तरे ! सखि ! समीक्ष्य दृग्भ्यां च नः
शिरः प्रणमनं भवेत् अपि किमङ्गनानां पुरः ? ॥ ५.३.७॥
निपीय पृथुपूतनास्तनमुदस्य चानोऽर्जुनौ
१ प्रविश्य च निपात्य पाटितबकास्यमस्तद्विपम् ।
२ शुचिस्मितमहं श्रयै सखि ! कदा नु बिम्बाधरं
महोपकृतमद्य मातृषु च लज्जमानासु मे ॥ ५.३.८॥
(१.`प्रविश्य च निपात्य तो दलितपक्षिवक्त्रद्विपम् । '' इति पाठे यतिभङ्गगन्धो
न स्यात् ।
२. उत्तरार्धः तुरीयपादे यतिभङ्गगन्धपरिहृत्यै इत्थं वा पाठवान् भवेत् -
शुचिस्मितमहं प्रसूष्वयि ! कदा नु बिम्बाधरं
महोपकृतमाश्रयै सखि ! विलज्जमानासु मे ॥)
कृपां मम सुपूर्तिमप्यपहरन् मनश्च क्षिपन्
समुन्नतनभस्स्थलस्थितमपेक्ष्य सूरीश्वरम् ।
शपे मम सखि ! त्वया प्रतिजनं *च वर्णोक्तिका
मदर्हकुटिलक्रिया धृतपटा चराण्यत्रपा ॥ ५.३.९॥
(*ह्यवर्णोक्तिका, ह्युपक्रोशिनी इति पाठान्तरे ।)
वयं ह्रियमपास्य तत्प्रतिकृतिं दधानाः पटे
सुचक्रकरसुन्दरोपकृतिकर्तुरादाय के ।
विशुद्धदलशीतसत्तुलसिकासुमं दद्महे
पुरोपगृहगेहिनीभृशविनिन्दिता वीथिषु ॥ ५.३.१०॥
(तात्पर्यरत्नावलीश्लोकः)
ज्योतीरूपाङ्गकत्वात् सरसिजनयनानिष्टविध्वंसकत्वात्
मेघौघश्यामलत्वात् श्रितसरसतयोत्कृष्टसौलभ्ययोगात् ।
रक्षायां सावधानात् सुभगतनुतया सोपकारास्त्रवत्त्वात्
स्वानां प्रेमातिमात्रं जनयति भगवानित्यवादीत् शठारिः ॥ ५.३.११॥
(प्रतिबिम्बलहरी)
सघोषशितिवारिधिश्रियमुदारकृष्णं विभुं
सुगन्धपवनोज्ज्वलत्सुकुरुकाशठद्विट्कृते ।
इदं दशकमुद्गुणे समसहस्रमन्तादिके
प्रवक्तृमनसां निजावसतयोऽपि वैकुण्ठवत् ॥
(इति पञ्चमशतके तृतीयं दशकम्)
॥ अथ पञ्चमशतके चतुर्थं दशकम् ॥
प्रतिबिम्बलहरीवृत्तं - शार्दूलविक्रीडितं
एतद्दशकप्रतिपाद्यगुणविशेषः - जगदवनमहादीक्षितत्वं
॥ सङ्गतिमणिमाला ॥
(मालिनी)
``प्रतिकृतिमपि साहं धूर्जपत्रेऽस्य कृत्वा
प्रकटितमिह कुर्यां निर्घृणत्वं च गोप्तुः''।
कृतमतिरपि चेत्थं न क्षमानुष्ठितुं तत्
विरहपृथुलरात्रिः तत्प्रियेवाऽथ रौति ॥
सुप्ते पौरजनेऽखिले च* भुवने गाढान्धकारावृते
विष्टब्धेष्वखिलोदकेषु रजनी त्वत्यन्तदीर्घा ह्यभूत् ।
कृत्स्नां क्ष्मामुदरे निधाय शयितश्शेषे मदीशो बता-
यास्यस्त्वेव न घोरपापमदसोः को रक्षकस्स्यादितः ? ॥ ५.४.१॥
(*निखिले लोकेऽन्धकारावृते इति पाठान्तरम् ।)
प्राणानामिह रक्षकः परमितः कस्स्यात् गभीराब्धिभू-
खान्यावृत्य महाविकारमतुलाऽभूत् कालरात्री निशा ।
हा ! नीलोत्पलतुल्यकान्तिरपि मे नायाति कृष्णोऽन्तिकं
पापाया मम हे मनस्त्वमपि वा किं नानुकूलं ह्यसि ॥ ५.४.२॥
त्वं चाभव्यतयासि खल्वयि ! मनः ! विश्रान्तिकालं विना
दीर्घा रात्रिरनल्पकल्पकलया हन्तातिदीर्घाऽभवत् ।
काकुत्स्थोऽपि विरोधिदाहकमहाकोदण्डहस्तोऽन्तिकं
नायात्युत्कटदुष्कृता स्वमरणोपायं न जानेऽबला ॥ ५.४.३॥
स्त्रीजात्यात्वनुभूयमानसुमहादुःखं न *द्रष्टुं त्वहं
शक्नोमीति रविः प्रकाशकिरणो नागत्य चान्तर्हितः ।
एनां क्ष्मामितवान् विशालनयनो रक्ताधरः पुङ्गवः
नीलो मे यदि नैति को मम महाचित्ताधिमुच्छेत्स्यति ? ॥ ५.४.४॥
(* अत्र छन्दोभङ्गो नास्तीत्येव सिद्धान्तः ।
``यदा तीव्रप्रयत्नेन संयोगादेरगौरवम् ।
न छन्दोभङ्ग इत्याहुः तदा दोषाय सूरयः''॥ इत्याहुः ।
उदाहरणं ः माघे - प्राप्य नाभिहृदमज्जनमाशु प्रस्थितं निवसनग्रहणाय(१० -६१)इत्यादि)
को वा मां नु परामृशेत् स्वजननी यूयं च सख्यो दशा
ते कोदृक्त्विति नानुपृच्छ्य रजनीं निद्रास्थ दीर्घां सुखम् ।
कालाभ्रोपमदिव्यविग्रहकमत्कृष्णोऽपि नायाति हा !
नामात्युत्कटपापिनीमनुसरन्नो मां मृतां नश्यति ॥ ५.४.५॥
प्रेमव्याधिरयं स्थितस्त्वनुसरन् हृद्येधितो बाधते
रात्रिः कल्पसमा दृशौ पिदधती स्थित्वा पुरश्चावृणोत् ।
नित्यं सन्निदधत्-सुचक्रधरमन्मायश्च नायाति चेत्
को रक्षेदहहात्र दीर्घसुचिरान् प्राणान् मदीयानिमान् ॥ ५.४.६॥
को रक्षेत् समयेऽत्र गाढतमसा सूक्ष्मैर्हिमांशैर्वृते
सम्प्राप्ते त्वतिदीर्घतायुतमहाकल्पाभरात्रीमुखे ।
नायात्येव निसर्गशुद्धधवलं शङ्खं सचक्रं वहन्
हे ! देवास्सुमहाग्निकल्पदुरिता किं वा करिष्याम्यहं ? ॥ ५.४.७॥
* देवाः! किं करवाणि रात्रिरियमेका सप्तकल्पाधिका
स्थित्वा सत्यतया समेत्य पुरतः प्राणान् वितक्ष्णोति मे ।
हस्तप्राप्तसुदर्शनो मम पुरः कृष्णोऽपि नायाति चेत्
शीतस्तैषमरुत् स्वयं मलयजो घोराग्नितो बाधते ॥ ५.४.८॥
(* प्रथमपादः -
``देवाः किं करवा इयं तु रजनी हा ! सप्तकल्पाधिका'' (करवै + इयं = करवा इयं)
इति पठितश्चेत् यतिभङ्गगन्धो न स्यात् ॥)
घोराग्नेः हिमसूक्ष्मबिन्दुसहिता गाढान्धकारा निशा
मां हन्ति स्वयमुग्ररम्यमहसो मञ्जुर्महान् स्यन्दनः ।
नैवोदेत्यरुणप्रभाब्जनयनः श्रीमांश्च नायाति चेत्
को वेतस्तु निवर्तयिष्यति मनोदुःखं द्रवामि स्थिता ॥ ५.४.९॥
स्थित्वा रात्रिमुखे द्रवन्त्यहमिव क्षीणे महाखे द्रुते
सूक्ष्माकारतुषारता*मुपगते पूर्वं कदाचित् क्षितिम् ।
आक्रम्योपकृतिं जनाय कृतवान् नायाति सर्वेशितेति-
एवं कोऽपि कदापि नो वदति हा निद्राति लोकस्सुखम् ॥ ५.४.१०॥
(*परिणते इति पाठान्तरम् ।)
(तात्पर्यरत्नावलीश्लोकः)
आपद्बन्धुत्वकीर्त्या यदुकुलजननात् धीरवीरत्वकीर्त्या
लोकानां विक्रमाच्चाश्रितदुरितहृतेरद्भुतैश्चेष्टितैश्च ।
चक्राद्यस्त्रान्वितत्वात् कमलनयनतासम्पदा वामनत्वात्
क्षीराब्धौ शेषशायी जगदवनमहादीक्षितोऽज्ञायि तेन ॥ ५.४.११॥
(प्रतिबिम्बलहरी)
नाथं सुप्तमिवाखिलावनधिया योगं चरन्तं प्रति
श्रीपूर्णोपवनावृतीड्यकुरुकाभास्वत्शठारीरिते ।
गीत्या पूर्ण इहैभिरेत्य दशभिः साहस्रकेऽन्तादिके
वैकुण्ठं न समाप्नुवन्ति वपुषो विश्लेषकाले कथं ? ॥
(इति पञ्चमशतके चतुर्थं दशकं )
॥ अथ पञ्चमशतके पञ्चमं दशकम् ॥
प्रतिबिम्बलहरीवृत्तं - शार्दूलविक्रीडितं
एतद्दशकप्रतिपाद्यगुणविशेषः - ``स्मृतिविषयता''
॥ सङ्गतिमणिमाला ॥
(मालिनी)
प्रियतनुगुणचिन्ताश्चेति कर्तुं न शक्तां
निशिपरमवसन्नां प्रातरस्याथ बाह्यम् ।
स्मृतिविषयजुषश्चाऽप्राप्य योगं विषण्णां
अनुचरति मुनिस्तां आलिलक्ष्यैर्वचोभिः ॥
यूयं कुप्यथ मातरः ! किमिति मां अस्मत्प्रभौ सुन्दर-
श्रीके श्रोतकुरङ्गपुर्यधिपतौ पूर्णे मयाऽऽलोकिते ।
शङ्खेनापि सुदर्शनेन च सह स्वब्जेक्षणाभ्यां समं
यात्येकेन सहारुणेन च मनो बिम्बाधरेणाऽपि मे ॥ ५.५.१॥
कोय मय्यविधाय पश्यत समं मच्चेतसा दक्षिण-
श्लाघ्योद्यानकुरङ्गपर्यधिपतौ पूर्णे मयाऽऽलोकिते ।
भास्वत्सूत्रमुदारकुण्डलमुरस्स्था श्रीश्च वत्सो भुजाः
चत्वारोऽपि पुरः स्थिराभरणकान्यागत्य तिष्ठन्ति मे ॥ ५.५.२॥
स्तब्धा तिष्ठति मुह्यतीति शिथिलेत्यम्बाश्च कुप्यन्ति मां
भूभृत्सौधकुरङ्गपुर्यधिपतौ पूर्णे मयाऽऽलोकिते ।
खड्गं जैत्रधनुर्गदा च विलसत् चक्रं च शङ्खं चिरं
दृष्टिं नाप्यतिवर्तते त्यजति मे चित्तं च नैव स्थिरम् ॥ ५.५.३॥
(नित्यं)रुद्धा बाष्पसरित् दृशोरविरतेत्यम्बाश्च कुप्यन्ति मां
मध्वा श्रीद्धकुरङ्गपुर्यधिपतौ पूर्णे मयाऽऽलोकिते ।
शीतस्रक्स्पृहणीयशीततुलसी हैमं किरीटं वपुः
कट्यामम्बरयुक्तसूत्रमपि मे पापात्मनः पार्श्वतः ॥ ५.५.४॥
पार्श्वं वीक्ष्य हि तिष्ठतीति शिथिलेत्यम्बाजनाः कुप्यथ
स्वार्हत्कीर्तिकुरङ्गपुर्यधिपतौ पूर्णे मयाऽऽलोकिते ।
दीर्घभ्रूयुगमप्यतीवनिबिडज्योतिश्च बिम्बाधरः
तस्यार्हाब्जदृशौ च जाग्रति हरेः पापात्मनश्चेतसि ॥ ५.५.५॥
एषोपर्यतिमत्कुलाङ्क इति नो माता ददातीक्षणं
पूर्णोद्यानकुरङ्गपुर्यधिपतौ पूर्णे मयाऽऽलोकिते ।
दीर्घा सुन्दरनासिका सुलतिका पद्माक्षि बिम्बाधरः
*चित्ते श्यामलविग्रहश्च चतुरंसा नित्यपूर्णा मम ॥ ५.५.६॥
(*``चत्वारश्च भुजाः सितेतरतनुश्चित्तेऽतिपूर्णा मम''॥ इति पाठे यतिभङ्गगन्धोऽपि
न स्यात् )
वंशे मे वचनीयर्पूतिरयमित्यंवेक्षण नो ददाति
उच्चैःकीर्तिकुरङ्गपुर्यधिपतौ पूर्णे मयाऽऽलोकिते ।
तेजःपूर्तिमहानदीवृतमहारम्यप्रतीकेन मे
स्वस्थोऽभूद्धृदि पूर्ण एव सुभगं चक्रं च तद्धस्तगम् ॥ ५.५.७॥
अम्बाः कुप्यथ हस्तक्लृप्तसुमुखा सन्नेति मामञ्जन-
श्रीसद्वेश्मकुरङ्गपुर्यधिपतौ पूर्णे मयाऽऽलोकिते ।
रक्ताम्भोजदृशौ विशालजघनं सूक्ष्मं वलग्नं वपुः
श्लिष्यद्दीर्घकचाः विलम्बिसुभुजाः पापाकृतेर्मे पुरः ॥ ५.५.८॥
सख्यश्चापि पुरस्स्थितेति जननीलोकाश्च मां कुप्यथ
स्वस्थागारकुरङ्गपुर्यधिपतौ पूर्णे मयाऽऽलोकिते ।
चूडादीर्घकिरीटमुख्यविलसद्भूषागणैर्भूषितः
खण्डक्षीरसुधात्मनाप्युपगतश्चेतो न मे मुञ्चति ॥ ५.५.९॥
अम्बोपर्युपरीयमेधितमहाप्रेमेति नेक्षां ददाति-
उद्यत्कीर्तिकुरङ्गपुर्यधिपतौ पूर्णे मयाऽऽलोकिते ।
हस्ताभ्यां नमदोघसूरिनिवहे ज्योतिःप्रवाहे पदे
भास्वान् कश्चन विग्रहोस्ति हृदि मे ज्ञातुं परैर्दुश्शकम् ॥ ५.५.१०॥
(तात्पर्यरत्नावलीश्लोकः)
शङ्खाद्यैः यज्ञसूत्रादिभिरपि च तथा शार्ङ्गमुख्यैस्तुलस्या
बिम्बोष्ठाद्यैस्सुनासाव्रततिनिरवधिज्योतिरूर्जस्विमूर्त्या ।
नेत्राब्जाद्यैरशेषाभरणसुषमया स्वैश्च भक्तैर्मनोज्ञो
देवस्स्वानामजस्रं स्मृतिविषयतया भाति चेत्यभ्यधायि ॥ ५.५.११॥
(प्रतिबिम्बलहरी)
दुर्ज्ञानं शुभचक्रसुन्दरकरं नाथं समाक्रुश्य सत्-
गन्धाढ्यान् प्रसवान् विविच्य कुरुकाभास्वच्छठरीरितः ।
एते लक्ष्मलसत्सहस्रगदश प्रौढाः कुरङ्गाख्यपु-
र्युद्देशान् मतये त्वधीत्य भुवनेऽगाधाब्धिगे वैष्णवाः ॥
(इति पञ्चमशतके पञ्चमं दशकम्)
॥ अथ पञ्चमशतके षष्ठं दशकम् ॥
प्रतिबिम्बलहरीवृत्तं - मणिमाला
एतद्दशकप्रतिपाद्यगुणविशेषः - ``अहं भावनागोचरता'' ।
॥ सङ्गतिमणिमाला ॥
(मालिनी)
हरिविरहशुचोस्याः शान्तये गोपकन्याः
इव ललितगिरं तां प्रेक्ष्य ``सोहं'' मतीद्धाम् ।
अनुचरति मुनिस्तन्मातरं तर्कयन्तीं
निजतनुभुवि तस्यावेशवाचो गिरस्ताः ॥
ब्रूतेऽब्धिवृतक्ष्मा स्रष्टाहमितीयं
ब्रूतेऽब्धियुतक्ष्मारूपोऽहमितीयम् ।
ब्रूतेऽब्धियुतक्ष्मादाताहमितीयं
ब्रूतेऽब्धियुतक्ष्माधर्ताहमितीयम् ।
ब्रूतेब्धियुतक्ष्मा भोक्ताहमितीयं
ब्रूतेब्धिवृतक्ष्मानाथोऽन्वधिरूढः ।
वचम्यब्धिवृतक्ष्माभाजां किमिदं वो
हा ! ऽब्धिवृतक्ष्मं पुत्र्याभ्यसितं मे ॥ ५.६.१॥
वक्तीप्सितविद्यासीमारहितोऽहमितीयं
वक्त्यभ्यसनार्हा विद्याहमितीयम् ।
वक्तीप्सितविद्यास्रष्टाहमितीयं
वक्तीप्सितविद्याचार्योऽहमितीयम् ।
वक्तीप्सितविद्यासारोऽहमितीयं
वक्तीप्सितर्विद्यानाथोन्वधिरूढः ।
वक्तीप्सितविद्याभाजां किमिदं वोऽ
भ्यस्तेप्सितविद्यास्मज्जाविदितानि ॥ ५.६.२॥
वक्तीक्षितभूस्सर्वाऽहमितीयं
वक्तीक्षि नाकस्सर्वोऽहमितीयम् ।
वक्तीक्ष्यवराग्निस्सर्वोऽहमितीयं
वक्तीक्षितवायुस्सर्वोऽहमितीयम् ॥
वक्तीक्षितवार्धिस्सर्वोऽहमितीयं
वक्तीक्ष्य उदन्वद्वर्णोन्वधिरूढः ।
वच्मीक्षितपृथिवीभाजां किमिदं वो
भक्तोक्षितमस्मत्पुत्रीविहितानि ॥ ५.६.३॥
वक्ति क्रियमाणं कर्माहमितीयं
वक्तीह भविष्यत्कर्माहमितीयम् ।
वक्तीह च भूतं कर्माहमितीयं
कृत्ये फलभोक्ता ब्रूतेऽहमितीयम् ।
वक्तीहितकर्तुः कर्ताहमितीयं
ब्रूतेऽरुणनेत्राम्भोजोऽन्वधिरूढः ।
वच्म्यार्जवयुग्भूभाजां किमिदं वो
कृत्यानि मृगाक्ष्याः किं वारुणसोष्ठ्याः ॥ ५.६.४॥
वक्त्यादृतसीमं भूपोऽहमितीयं
वक्त्यादरतोऽद्र्युद्धर्ताहमितीयम् ।
ब्रूतेऽखिल शत्रूद्धर्ताहमितीयं
ब्रूतऽहमरक्षं पञ्चाहितदाक्ष्यः ॥
वक्त्याहितसिन्धून्माथोऽहमितीयं
वक्ति स्थिरधीरब्ध्याभोऽन्वधिरूढः ।
वच्म्यादृतसीम्नां लोकाः ! किमिदं
वो मच्छ्रीतनुजाप्तान् भावान् स्खलितोनान् ॥ ५.६.५॥
वक्त्युत्कटवंशं धर्तास्म्यहमद्रिं
वक्त्यौघवृषाणां हन्ताहमितीयम् ।
वक्त्योघमहावत्सेनोहमितीयं
वक्त्योघगवालीपाताहमितीयम् ।
वक्ति स्वसमाभीरेशोऽहमितीयं
वक्त्योघसुरेशारूढा किमु वच्मि ।
स्वान्योन्यसदृक् खड्गाक्ष्यः ! किमिदं नो
स्वान्योन्यसदृक् खड्गाक्ष्यात्मसुताप्तम् ॥ ५.६.६॥
ब्रूतेस्ति न बन्धुः कोऽप्यत्र ममेति
ब्रूतेऽत्र हि बन्धुस्सर्वोऽपि ममेति ।
ब्रूतेऽत्र हि बन्धोः कर्ताहमितीयं
ब्रूतेऽत्र हि बन्धोः हन्ताहमितीयम् ।
ब्रूतेऽस्मि च बन्धुर्बन्धोरिति चेयं
ब्रूते गतबन्धुर्मायी किन्वधिरूढः ।
युष्मान् प्रति बन्धून् वच्मीह किमुक्त्वा
ब्रूतेऽभिनिवेशात् मुग्धात्मसुता यत् ॥ ५.६.७॥
ब्रूते त्रिदृगीशः ख्यातोऽहमितीयं
ब्रूते चतुरास्यः ख्यातोऽहमितीयम् ।
ब्रूते सुरसङ्घः ख्यातोऽहमितीयं
ब्रूते सुरनाथः ख्यातोऽहमितीयम् ।
ब्रूते मुनिसङ्घः ख्यातोऽहमितीयं
ब्रूतेऽम्बुदवर्णः ख्यातोऽन्वधिरूढः ।
*किं वच्म्यनुयुञ्जानानां भविनां वो
मत्कोमलभास्वद्वल्ल्याश्शुभवाचः ॥ ५.६.८॥
(* ``पृच्छापरलोकाः ! ब्रूयां किमहं वो'' इति पठे यतिभङ्गगन्धो न स्यात् ॥)
ब्रूते न ममोग्रं स्वल्पाघमपीति ब्रूते खलु पापाकारोऽहमितीयम् ।
ब्रूते खलु पाप्मस्रष्टाऽहमितीयं ब्रूत खलु पाप्मध्वसोऽहमितीयम् ॥
ब्रूते खललङ्काहन्ताहमितीयं वक्त्युग्रगरुत्मद्वाहोन्वधिरूढः ।
वच्म्युग्रजनानां चेष्टाः किमधिज्यं क्रूराघयुजो मे वल्ल्यात्मसुतायाः ॥ ५.६.९॥
ब्रूतेऽतिमनोज्ञस्स्वर्गोऽहमितीयं ब्रूते निरयश्चारम्योऽहमितीयम् ।
ब्रूतेऽद्भुतरूपो मोक्षोऽहमितीयं ब्रूते शुभरूपा जीवा अहमस्मि ॥
ब्रूतेऽद्भुतरूपं मूलं जगतोऽहं ब्रूतेऽद्भुतमेघश्रीकोऽन्वधिरूढः ।
वच्म्युज्ज्वलभासां कि लोकजुषां वः केशोज्ज्वलमालाचारोर्मम पुत्र्याः ॥ ५.६.१०॥
(तात्पर्यरत्नावलीश्लोकः)
स्रष्टृत्वाद्यैर्जगत्याः सकलविधकलावर्तकत्वेन भूता-
न्तर्यामित्वेन कृत्युद्धरणपरतया भूभरापाकृतेश्च ।
शैलेन्द्रोद्धारणाद्यैः स्वजनहिततया ब्रह्मरुद्रेन्द्रभावात्
दुष्कर्मोन्मूलनाद्यैः प्रभुरनिशमहम्बुद्धिभोग्योऽन्वभावि ॥ ५.६.११॥
(प्रतिबिम्बलहरी)
सत्कुन्तलपद्मादेव्याः क्षितिदेव्याः सद्वंशजनीलादेव्याश्च पतिं तम् ।
प्राप्ता प्रतिवल्दि ख्यातिं कुरुकेशा सद्दास्यकृतोक्ते स्रग्द्राविडरूपे ॥
शक्तास्तु सहस्रेऽध्येतुं दशकं चेत् एतत् शिरसोच्चैर्धायोत्तमलक्ष्म्या ।
युक्ता भुवि लक्ष्मीभर्तुः पदभक्तान् आराधयितुं ते नित्यं कृतभाग्याः ॥
(इति पञ्चमशतके षष्ठं दशकं )
॥ अथ पञ्चमशतके सप्तमं दशकम् ॥
प्रतिबिम्बलहरीवृत्तं - स्रग्धरा
एतद्दशकप्रतिपाद्यगुणविशेषः - दीनानां शरण्यता ।
॥ सङ्गतिमणिमाला ॥
(मालिनी)
अनुकृतिभिरपीत्थं निर्वृतिं नाप्त आस्ते
``कृति-मति-रति-रिक्ते'' न प्रसीदेस्तथाऽपि ।
न निरवधिकभोग्यं त्वां विनान्यन्ममागाः
मदवनकरणायेत्याह्वयन् खे महाद्रिम् ॥
नाहं चीर्णव्रतोऽस्मि स्वपरविषयकज्ञानशून्यस्तथापि
त्यक्त्वैवं त्वां न जाने किमपि निजधृतौ श्रीभुजङ्गेशयेश ! ।
पङ्के नीवारमध्ये विकसितकमले श्रीवरे मङ्गलाख्ये
स्वामिन्नुत्कृष्ट दिव्यासिक ! शुभनगरे नाधिकस्त्वत्कृतेऽहम् ॥ ५.७.१॥
नाहं मोक्षार्हकृत्यः न पुनरिह भवद्भोगसम्पत्त्युपायः
त्वद्वीक्षाशानिमग्नोस्म्युभयविरहितो नाथ ! विध्वस्तलङ्क ! ।
श्लिष्टेन्दूद्रत्नरम्यैस्सुमहति नगरे श्रीवरे मङ्गलाख्ये
स्वासीन ! त्वं दयेथाः करधृतदरयुक्चक्र ! मेऽकिञ्चनस्य ॥ ५.७.२॥
वैकुण्ठस्थान ! चक्रायुध ! मम गरुडव्यङ्क ! कालाभ्रकान्ते !
१ कृत्वाज्ञं मा पदार्थं स्वमसि च कृतवन् किङ्करत्वेन युक्तम् ।
२ ज्ञानोत्कृष्टैश्चतुर्वेद्यकुलबहुबुधैः श्रीवरे मङ्गलाख्ये
कृत्वा तत्रानुकम्पां प्रति लससि पुरे नोपकारं तु जाने ॥ ५.७.३॥
(१. अयं पादः ``कृत्वासन्तं पदार्यं त्वमर्थं च कृतवन् किङ्करं मां त्वदीयम्'' इति
पठितश्चेत् मूलानुगुणतरत्वं स्यार्दित भाति ।
२. अयं पादः ``वेदेषु ज्ञानभाजां चतृषु च वसतौ श्रीवरे मङ्गलाख्ये'' इति पठितश्चेत्
यतिभङ्गगन्धोऽपि न स्यात् ॥)
*कृत्वाजिं शात्रवोद्यत्-प्रहरणशतहत्यै तदा निर्गतिभ्यः
पञ्चभ्यो माययारीन् युधि धुरि कृतवन् ! भस्मसादस्मदीश ! ।
उत्क्षिप्तक्ष्मेश ! वेदामलमतियजनं श्रीवरं मङ्गलाख्यं
प्राप्तोत्कृष्टासिक ! त्वां कथमिव नगरं प्राप्तुमाकारयामि ॥ ५.७.४॥
(*अयं पादः ``कृत्वाजिं शात्रवोद्यत् प्रहरणशतकध्वं सनार्थं तदानीं'' इति पठितश्चेत्
यतिभङ्गप्रत्यपि न स्यात् ॥)
आक्रोशः प्रप्तये ते किमु मम भविता सर्वतश्शात्रवान्त-
र्भूतस्स्थित्वाऽत्र कुर्वन् कपटमतिपथं श्यामलाकार ! नाथ !
क्लृप्तानेकाध्वरक्ष्मासुरयुजि नगरे श्रीवरे मङ्गलाख्ये
सेव्यत्वेनाखिलानां स्थितिमपि कुरुषे तत्तवानन्वपश्यम् ॥ ५.७.५॥
पोत्रीभूत्वोद्धृतक्ष्माधिकमुपकृतवन् ! कृष्ण ! मे सर्वदा मां
दासीकुर्वन् ! परव्योम्न्यधिप ! मणिवरप्रौढकान्ते ! दयेथाः ।
मध्वा पूर्णान्नवण्या जड उरुनगरे श्रीवरे मङ्गलाख्ये
*वास्तव्यैस्सेवितुं श्रीपरमपदमहाद्रे ! स्थितैत्याहमाप्तुम् ॥ ५.७.६॥
(*अयं पादः - ``वास्तव्यैस्सेवितैयाः परमपदमहाशैल ! दासस्य नुत्यै'' इति पठितश्चेत्
यतिभङ्गप्रत्यपि न स्यात् ॥)
कृत्वागत्यानुकम्पां मम मनसि कृतावास ! सूरीशमौले !
लोकस्यैकादिमातापितृसम ! सकलान् भुक्तवन् ! सप्तलोकान् ।
सत्कर्मण्यागमोक्ताध्वरयुजि नगरे श्रीवरे मङ्गलाख्ये
निस्सीमानन्दशालिन् ! शुभगुण ! न हि मां नाथ ! दूरीकुरुत्वम् ॥ ५.७.७॥
तेजोजाज्वल्यमानोन्नतमणिसदने श्रीवरे मङ्गलाख्ये
*स्थाने निर्वाहकान्यैः बकवदनविभेदिन्! सदा दृष्प्रवेश ! ।
दूरीकर्तुं त्वनाप्तान् बत ! बलयुतपञ्चेन्द्रियाण्यस्मि जानन्
दूरीकृत्यापि मां त्वं गमयसि विषये दुस्तरे कर्दमौघे ॥ ५.७.८॥
(*इत आरभ्य पादत्रयमयि यतिभङ्गापहतये इत्थं वा पाठवत् स्यात् --
स्थाने निर्वाहकारिन् ! दलितबकमुखान्यैस्सदा दुष्प्रवेश !
दूरीकर्तुं द्विषोऽदा बत ! बलयुतखान्यस्मि पञ्चेति जानन्
दूरीकृत्यापि मां त्वं क्षिपसि च विषये दुस्तरे कर्दमे हा ! ॥)
बाकास्यस्य प्रभेदिन् ! हतवृष ! गतवन् ! अर्जुन द्वन्द्वमध्ये
*मत्स्वामिन्! वञ्चकात्यद्भुतचरित ! महानीलमाणिक्यकान्ते ! ।
सद्ज्ञानश्रीचतुर्वेद्यतिचतुरभृते शीतले श्रीवरे श्री
मङ्गाख्ये स्वालयेऽन्तः स्थित ! मम हि विधां जीवने त्वं दयेथाः ॥ ५.७.९॥
(*अस्मिन् पादे यतिभङ्गनिवारणाय -
मत्स्वामिन् ! अगाधाद्भुतचरित ! महानीलमाणिक्यकान्ते ! ॥)
त्वत्पादौ दत्तवान् मे शरणमसि ममात्मापि सत्यं त्वदीयं
ध्वस्तप्रत्यर्पणोस्म्युज्ज्वलशुभनगरे श्रीवर मङ्गलाख्ये ।
पङ्कोत्पन्नेक्षुकाण्डैस्सममरुणमहाव्रीहिभिः पूर्णशीतो-
पान्ते सामोदपुष्यच्छिशिरिततुलसीशेखरामर्त्यनाथ ! ॥ ५.७.१०॥
(तात्पर्यरत्नावलीश्लोकः)
सर्पाधीशेशयत्वात् अरिदरभरणात् सानुकम्पत्वयोगात्
सत्साहायाद्यशेषान्तरनिलयतया भूसमुद्धृत्युदन्तैः ।
सर्वेषां तातभावात् इतरजनदुराधर्षतादेश्शरण्यं
दीनानां प्राह विष्णुं शठजनमथनो देवतासार्वभौमम् ॥ ५.७.११॥
(प्रतिबिम्बलहरी)
उद्दिश्य त्रिक्रमस्याङ्घ्रिकयुगममरेशस्य नारायणस्य
प्राप्यश्रीपुष्पसम्पद्वनवृतकुरुकाभात्-शठारिप्रणीते ।
एतद्गाथासहस्रे दशकमधिजडश्रीवरं मङ्गलाख्यं
*सार्थं गातुं समर्थाः सदसि दिविषदां तेत्वतृप्तामृतं स्युः ॥
(*गाथायां ``सदा'' इति वाचकश्शब्दः श्लोके नायातः । तदर्थं चतुर्थपादः एवं वा
पाठ्यः स्यात् ।
``सार्थं गातुं समर्थास्सततमपिसुधा ते सुराणां न तृप्त्यै'' (अतृप्ता)॥)
(इति पञ्चमशतके सप्तमं दशकम्)
॥ अथ पञ्चमशतके अष्टमं दशकम् ॥
प्रतिबिम्बलहरीवृत्तं - शार्दूलविक्रीडितं
एतद्दशकप्रतिपाद्यगुणविशेषः - स्वरसकृतनिजप्रेष्यदास्यता
॥ सङ्गतिमणिमाला ॥
(मालिनी)
अथ च मुनिरनाप्त्या स्वहितस्यातिरम्यं
घटनसि पुरि शेषे शार्ङ्गपाणिं शयानम् ।
भजति सुभगपङ्क्त्या या तु सौहित्यदूरं
विभुममृतमितीमं चाह्वयन्ती स्वयं तत् ॥
भोग्यातृप्तिकरामृत ! त्वयि वयुः दासस्य मे प्रेमवत्
तोयीभूय चलच्चलद्युततरीकुर्वाण ! सर्वेश्वर ! ।
श्रीपूर्णारुणशालिचामरयुते श्री कुम्भघोणे जलैः
ऋद्धे भास्वरचारुभूषणगणश्शेषे ह्यपश्यं विभो ! ॥ ५.८.१॥
मत्स्वामिन् ! मम शुद्धविग्रह ! मम श्रीमद्गुणैरीशितः
यद्यादृक् च महद्वपुश्शुभवृष ! स्वेच्छाप्रकारं वहन् !
ऋद्धाम्भस्सु विकस्वरारुणमहाब्जे कुम्भघोणे महा-
रम्याम्भोजसदृक्दृशोरनुभवन् ! निद्रां करिष्यामि किं ? ॥ ५.८.२॥
किं कुर्वे ? मम रक्षकश्च कतरः ? कीदृग्विधं मां करोषि-
अन्यस्मात् त्वदहं किमप्यभिमतं काङ्क्षे न कस्मादपि ।
सत्सालावृतकुम्भघोणनगरीशायिन् ! मदात्मस्थितेः
यावान् काल उपेत्य ते चरणयोस्तं नेतुमीक्षस्व माम् ॥ ५.८.३॥
दूरज्ञानसमर्थबुद्धिविभवातीतात्मकीर्त्युञ्ज्ज्वला -
नन्तैश्वर्यगुणाद्वितीय ! चिदचिच्छेष्युज्ज्वलद्विग्रह !
भूयस्सद्गुणकुम्भघोणनगरीशायिन् ! त्वदीक्षात्वरो
भूत्वा ह्याकुलहृद्विलोक्य गगनं क्रन्दानि वन्देऽप्यहम् ॥ ५.८.४॥
*वन्दे रोदिमि नर्तनेन च दिदृक्षे गानकृत् क्रन्दकृत्
मच्छ्लिष्टप्रबलाघतः परिसरे दृष्ट्वा ह्रियाऽधोमुखः ।
रक्ताब्जेक्षण ! कुम्भघोणनगरे शायिन् ! समृद्धोज्ज्वलत्-
केदारे कृपणस्य चिन्तय ममोपायं त्वदङ्घ्र्याप्तये ॥ ५.८.५॥
(*`वन्दे रोदिमि नौमि गाननटने कुर्वे दिदृक्षुस्तथा'' इति पाठे यतिभङ्गप्रत्यपि न स्यात् ॥)
सूरीन्द्रोज्ज्वलकीर्तिसम्पदधिकश्रीकुम्भघोणेशय !
श्रीवीणानिनदामृतोत्तम ! फल ! ज्ञानस्य सिंहोत्तम !
मां क्रोडीकुरु मत्पुराघनिवहं हित्वा त्वदङ्घ्र्याप्तये
ज्ञात्वोपायमपीन्द्रियर्द्धिनिरतः स्यां कान्यहान्यश्रयन् ? ॥ ५.८.६॥
सिंहश्रेष्ठ ! मदीयमञ्जुवसुभारक्ताक्षनीलाभ्रवत्-
स्वामिन् ! अग्निभ ! विद्रुमाद्रिभ ! चतुर्बाहो ! स्वकारुण्यतः ।
दासत्वेन गृहीतवन् ! च्युतिमृते मां कुम्भघोणेश्वरा-
शक्तो धर्तुमितस्तु मे तव पदं दत्वा भवं वारय ॥ ५.८.७॥
मद्दुःखानि निवर्तयाथ न तु वा नान्योऽस्ति मे रक्षकः
सर्वाशास्यसुदर्शनाद्भुतकृते ! श्रीकुम्भघोणेशय ! ।
देहे मे शिथिले बहिर्जिगमिषौ प्राणे तदैकाग्र्यतः
धैर्येणाप्यवलम्ब्य तावकपदौ गन्तुं कृपां त्वं कुरु ॥ ५.८.८॥
कृत्वा सम्मतदास्यमङ्घ्रियुगले ते स्थापयन् मां विभो !
स्थानाचञ्चलनित्यनेत्रधिपते ! सर्वादिमूर्त्या महन् ।
आशाव्यापिरुगुच्चमञ्जुमणिभिः श्रीकुम्भघोणे श्रिते
निर्यत्नाखिलसेवनाय शयितागच्छाहमुद्वीक्षितुम् ॥ ५.८.९॥
नागच्छन्नपि चित्रचेष्टित ! ममागच्छन्नरूपोऽद्भुता-
कारातृप्तिकरामृतास्य मम हृन्मध्येऽतिमाधुर्यवन् ! ।
नष्टानाश्यमहाघसन्ततिमवन् ! मां कुम्भघोणस्थिते !
दासोऽहं नु परिभ्रमामि किमितो दासत्वमेत्यापि ते ॥ ५.८.१०॥
(तात्पर्यरत्नावलीश्लोकः)
निस्सौहित्यामृतत्वात् स्ववशजनितयाऽनन्यभावप्रदानात्
मर्यादातीतकीर्त्या नलिननयनतो नायकत्वात् सुराणाम् ।
सर्वश्रैष्ठ्यादियोगात् अनितरगतिताद्यावहासन्नभावात्
दास्ये स्वे स्थापयेत् स्वान् हरिरिति शठजित् स्थापयामास कृष्णम् ॥ ५.८.११॥
(प्रतिबिम्बलहरी)
घोरास्थ्यर्गलपूतनास्तनपथात् तत्प्राणसम्पायिनः
तौ पादौ शरणं गतेन कुरुकानेत्रा शठारातिना ।
वेणूद्गीत्यतिशायिनीह दशकं त्वेतत् सहस्रेऽतुले
शक्ता अप्सरसां स्मरा मृगदृशां मौग्ध्यं विनाभ्यासने ॥
॥ श्रीमदपर्याप्तपरब्रह्मणे नमः ॥
(इति पञ्चमशतके अष्टमं दशकम्)
॥ अथ पञ्चमशतके नवमं दशकम् ॥
प्रतिबिम्बलहरीवृत्तं - मन्दाक्रान्ता
एतद्दशकप्रतिपाद्यगुणविशेषः - श्रितानां आसन्नत्वं
॥ सङ्गतिमणिमाला ॥
(मालिनी)
धटनसि नगरे चानाप्तवाञ्छो मुनीन्द्रः
भजति विरहखिन्नप्रेयसीत्वं पुनश्च ।
भवति किमु लभो मे ``वल्लवाळ्'' नाम पुर्यां
इति च वचनमस्या आलिलक्ष्यं दधानः ॥
एणाक्ष्यो ! ऽहं सततदुरिता सद्गुणा! मेऽवसत्त्यै
प्राप्ताकाशक्रमुक-मधुमुङ्-मल्लिकामोदरम्ये ।
मध्वापूर्णोपविपिनवृते ``वल्लवाळ्'' दिव्यदेशे
नाथाङ्घ्र्याप्तिः मम हि भविता किङ्करायाः कदा नु ? ॥ ५.९.१॥
साधित्वा मां कुरुथ किमहं हे ! वयस्या ! वसुश्री-
पुन्नागान् श्रीवकुलमुकुलौघान् नवान् माधवींश्च ।
स्पृष्ट्वोद्गन्धे मलयपवनैः ``वल्लवाळ्'' दिव्यदेशे
स्थायीशाङ्घ्रेः शिरसि कलये किङ्करी प्राप्य रेणून् ॥ ५.९.२॥
प्राप्तुं बाधां धृतसुमकचाः ! भूयसा दुःखिताहं
गीतिश्लाघ्यश्रुतिषु मुखरास्वब्धिवीचीसमासु ।
*शीते कोच्चाध्वरसुरभिधूमे सतो ``वल्लवाळ्'' श्री
देशे नित्यं किमु पदयुगं स्वामिनो नित्यमीक्ष ॥ ५.९.३॥
(*अस्मिन् यतिभङ्गगन्धपरिहाराय उत्तरार्धं एव एवं पाठ्यः -
पार्श्वे गन्धिन्यनिशवसतेः वल्लवाळ् दिव्यदेशे
होम्यैर्धूमैः किमु पदयुगं स्वामिनो नित्यमीक्षे ॥)
मां बाधित्वा कुरुत सततं किन्नु यूयं वयस्याः !
हर्म्योघालङ्कृतमणिगृहाग्रेष्वभिव्याप्तियुक्ते ।
दीर्घैः श्यामैः क्रमुकपनसैः नालिकेरैस्सरम्भैः
आत्मा शय्याविषधर-फणीट् वल्लवाळीशितुर्मे ॥ ५.९.४॥
साध्व्यस्सख्यः ! वृतनभसि सद्ब्रह्मविद्यागधूमैः
ऊर्ध्वं शीतेऽञ्जनचयनिभैः वल्लवाळ्दिव्यदेशे ।
गौडं खण्डं रुचिरममृतं भोग्यभूतं फलं तत्
मृष्टानन्दप्रभृति नु कदा ज्योतिरीक्षेत चक्षुः ? ॥ ५.९.५॥
मुग्धाः ! द्रक्ष्याम्यमितदुरिताऽहं तु बिम्बाधरास्सं-
गीतध्वानभ्रमरसहितैः सर्वतो मन्दवातैः ।
*नूत्नैः व्याप्तोन्नतविटपिवेलावने वल्लवाळ् श्री-
क्षेत्रे खर्वप्रतिशुभतनुस्वामिफुल्लाब्जपादौ ॥ ५.९.६॥
(*यतिभङ्गनिवारणाय पादस्य अस्य एवं पाठो भवति-
``नूत्नैः व्याप्तोन्नतविटपियुग्वेल-सद्वल्लवाळ् श्री'')
अब्ध्याकारे सरसिर्विकसद्पद्मकल्हारपुष्पैः
नारीभास्वन्मुखनयनजित्-वल्लवाळ् क्षेत्रनेतुः ।
सम्भुक्तैतत्सकलजगतः किन्नु पाञ्चालिकाभाः !
नाथस्याङ्घ्र्योः अनुदिनमलङ्कारपुष्पैर्नतिस्स्यात् ॥ ५.९.७॥
केदार श्रीयुजि सुमसरश्शीतले वल्लवाळ्श्री-
क्षेत्रे यत्रोचितसुमधुरैरिक्षुभिः पक्वधान्यैः ।
नित्यं नेतुर्मम निवसतः क्रान्तभूदीर्घपादे
नित्यं नन्तुं सततमपि मे सल्ललाटा ! घटेत ? ॥ ५.९.८॥
वेणुं वीणामपि हिमवने साधु पीत्वा मरन्दं
मुग्धै रेखाभ्रमरनिवहैर्गीतियुक्तैः विजित्य ।
भ्राम्यत्तेजोर्यधिपमधिपं वल्लवाळ् क्षेत्र ईशं
दृष्ट्वाहं तं गलितवलयस्फूर्ति नन्तुं घटेत ॥ ५.९.९॥
सख्यस्स्तोतुं दिवि भुवि जनैः स्वां कृपां क्लृप्तवासे
सत्कारुण्यायुतनुतगुणे ``वल्लवाळ्'' दिव्य देशे ।
*सत्कारुण्यज्वलितमदिनश्रीशनारायणाख्याः
तत्कारुण्यात् सहजसुकृतात् शक्नुयां किन्नु वक्तुम् ॥ ५.९.१०॥
(*सत्कारुण्यास्मदखिलविधस्वामिनारायणाख्याः इति पाठः
मूलोक्तेः अनुगुणतरः स्यात् ।)
(तात्पर्यरत्नावलीश्लोकः)
स्वामित्वात् संश्रितानां उपकरणरसात् स्वेष्टसंश्लेषकत्वात्
सर्वास्वादत्वभूम्ना कपटवटुतया दारुणापत्सखत्वात् ।
दिव्यस्थानोपसत्त्या भ्रमदरिमरणाच्चापि नारायणत्वात्
अत्यासन्नः श्रितानां भवति हरिरिति प्राह कारेस्तनूजः ॥ ५.९.११॥
(प्रतिबिम्बलहरी)
उद्दिश्याख्यादशशतयुजस्स्वामिनोऽस्माकमङ्घ्री
ज्ञात्वा क्षेमोज्ज्वलसुकुरुकाधीट्-शठारिप्रणीते ।
*एतां पङ्क्तिं दशशततदाख्याकृतौ वल्लवाळ् श्री
क्षेमाढ्य श्रीनगरविषयां जन्मनोच्चैः पठन्तः ॥
(*अयं पादः यतिभङ्गगन्धनिवारणाय ``एतां पङ्क्तिं दशशतगुणाख्याकृतौ वल्लवाळ्श्री''
इति पाठवान् भवितुमर्हति ।)
(इति पञ्चमशतके नवमं दशकम्)
॥ अथ पञ्चमशतके दशमं दशकम् ॥
प्रतिबिम्बलहरीवृत्तं - स्रग्धरा
एतद्दशकप्रतिपाद्यगुणविशेषः - शक्तिप्रदत्वं
॥ सङ्गतिमणिमाला ॥
(मालिनी)
अथ च मुनिरनाप्त्या स्वेहितस्यास्य तास्ताः
विभवललितवार्ताः चिन्तयन् सङ्गमाय ।
स्पृहयति बहुधाऽसौ तत्र षण्मासमूर्च्छा -
शिथिलमधुरगाथापङ्क्तिरन्यादृशीन्धे ॥
रीतिर्जन्माभिवृद्धयोः अथ च विरचयन् तन्महाभारताजिं
पञ्चानां दर्शयित्वा सहजचतुरतां कल्पिताश्चार्यचेष्टाः ।
मर्मण्यन्तः प्रविश्य स्थिरतरनिलयाः द्रावयित्वा ममासून्
जक्षत्येतादृगत्यद्भुतमहिमहरे ! त्वां कदाऽहं भजिष्ये ॥ ५.१०.१॥
उद्वाहस्य प्रसक्तौ वृषभनिरसनं चापि केश्यास्यभेदः
मध्वासिञ्चत्सुकेशव्रज युवतिगणैः रासहस्तग्रहश्च ।
तादृक् चेदृक्षमन्यादृगिति शिथिलयेत् दुर्वचं मां त्वदीयं
कृत्यं सर्वादिभूत! त्रिभुवनकरण ! त्वां कदाऽहं भजिष्ये ॥ ५.१०.२॥
पुष्पौघोद्वर्षिकेश्याः स्तनजपिबशिशोः धीरता पूतनायाः
नाशायैकानसोऽथारुणपदकमले त्वत्कृतं बाल्यशौर्यम् ।
मातर्यादत्तयष्ट्यां त्वयि तब नवनीतादनस्य प्रसङ्गे
नेत्राब्जे अश्रुपूर्णे अपि भयलयनं चैव हृद्द्रावयन्ति ॥ ५.१०.३॥
मायावेषं गृहीत्वा त्रिपुरविहतये तत्प्रवेशप्रकारः
कृत्वा भेदं रिपूणां हृदि तदसुहृतेः क्लृप्तसिद्धोऽप्युपायः ।
गङ्गाभृत् - श्रीजटायुक् त्वदपृथगिति सन्दर्शनस्य प्रकारोऽ-
प्यात्मानं मे विलोण्ढयान्तरमधिहुदयं जक्षति द्रावयित्वा ॥ ५.१०.४॥
देवेन्द्राराघनार्थं व्रजगणविहितस्योदनस्यापि जग्धिः
*नानावर्णोच्चगोवर्धनविधरणतो रक्षणं वर्षभीतेः ।
सृष्टिर्जग्धिर्विसृष्ट्युत्क्रमणमपि पुरोद्धार इत्थं क्षमायाः
संश्लेषे चित्रचेष्टाः स्मरदनलमधूच्छिष्टतुल्यं मनो मे ॥ ५.१०.५॥
(* अयं पादः यतिभङ्गगन्धनिवृत्तये
``नानावर्णोच्चतादृग्क्षितिधरविधृतेः रक्षण वर्षभीतेः । '' इति वा पठ्यः ॥)
तिष्ठद्रूपं सुखासीनमपि शयनगं दुर्ग्रहं चाप्यसङ्ख्या-
कारं चारूपमित्थं त्वमिह विदधतः तत्प्रकारान् विचित्रान् ।
स्थित्वा स्थित्वा स्मरत् त्वां कथमशिथिलधीः शक्नुयां स्मर्तुमेकं
पापस्योपायवश्यं वद मम भुवनं भुक्तवन्नुज्ज्वलश्रीः ! ॥ ५.१०.६॥
भास्वतेजस्वरूपं स्थितिमपि तमसावस्थितं चैत्य मां त्वं
सत्यासत्यात्मनाऽस्मत्दृगविषयतया गूहितस्य क्रियाणाम् ।
ध्याने सक्तस्वचितोऽस्म्यहमथ शिथिलो नाथ ! मन्नीलरत्ना !
स्थाप्यप्यैकं दिनं मे दृशि तव सुभगं विग्रहं त्वं दयेथाः ॥ ५.१०.७॥
श्रीमूर्तेरब्धिशय्याकरणमपि महानाभिरक्ताम्बुजोपरि-
आशावक्त्रस्य चित्ते सुखतरमुपविश्यापि सृष्टिप्रकारः ।
अन्यादृक्षत्वदैकेश्वरमिदमखिलं श्रोतृमात्रं मनो मे
धत्ते शैथिल्यमश्रु प्रवहति नयने किङ्करोत्वेष दासः ॥ ५.१०.८॥
(*किङ्करः किं करिष्ये इति पाठो मूलानुगुणतरस्स्यात् ॥)
याञ्चारीतिस्त्रिपद्याः स्थित इह महताऽगाधवाधिं क्षितिं खं
व्याप्तः पादद्वयेनाप्यखिलमपि वशीकृत्य भातन्नुदाक्ष (कार्यातिदक्ष)! ।
तेषामुक्तिप्रकारश्रुतिषु शिथिलितं मन्मनो विद्रुतं त्वयि
आसक्त घोररूपप्रबलदुरितवान् त्वां कदाहं भजिष्ये ? ॥ ५.१०.९॥
संयुज्यादित्यदैत्यैः जलधिमथनसद्रीतिमत्रामृतं चा-
मर्त्याः पातुं सुरद्विट्त्यजनकृतमहोपायचातुर्ययानम् ।
आत्मानं मे प्रविश्यान्तरमपि सहसा द्रावयित्वोपभुञ्जन्
ब्रूहि त्वत्प्राप्त्युपायं विषधरभुजगेशानशय्याशयान ! ॥ ५.१०.१०॥
(तात्पर्यरत्नावलीश्लोकौ)
प्रादुर्भावादिवृत्तैः वृषगणदमनात् पूतनाशातनाद्यैः
मोहार्थं बुद्धकृत्यैः गिरिवरभजनस्वीकृतेस्स्थानभेदः ।
तेजोध्वान्तादिद् भावात् जलनिधिशयनात् भिक्षणाद्यैस्त्रिपद्याः
पीयूषस्पर्शनाद्यैः शिथिलयति हरिः स्वीयहृच्चेत्यथोचे ॥
इत्थं कारुण्यनिघ्नं दुरितहरजनं प्रेम तीव्रं दुहानं
लोकानां रक्षितारं स्मृतिविषयमहम्भावनागोचरं च ।
दीनानां सच्छरण्यं स्वरसकृतनिजप्रेष्यतावाञ्छमूचे
प्राप्तं शक्तिप्रदं श्रीपतिमिह शतके श्रेयसामेकहेतुम् ॥ ५.१०.११॥
(प्रतिबिम्बलहरी)
नागेशय्यास्थमत्स्वाम्यनुपमचरणावेव नो रक्षकावि-
त्येकां चिन्तां सदायच्छठरिपुकुरुकामारनाम्ना स्वलब्ध्यै ।
बद्धेऽन्तादौ सहस्रे दशकमिदमिहाध्येतुमेकन्नु शक्ताः
वैकुण्ठे ते महाखै सततमनुभवन्त्यद्भुतानन्दलक्ष्मीम् ॥
(इति पञ्चमदशके दशमं दशकम्)
॥ इति पञ्चमशतकं समाप्तम् ॥
श्री सुन्दरार्यवरदार्यगुरूत्तमाप्तज्ञानोद्भवाशुकविवेङ्कटशेषसूक्तौ ।
पूर्णं विभातु शतकं भुवि पञ्चम श्रीगाधानुबिम्बलहरी विलसत्सहस्रे ॥
सुधावर्णं सुधावाचं सुधामानं सुधाकरे ।
दरारि ``ज्ञत्'' करं वाजिकन्दरं श्रीधरं भजे ॥
॥ श्रीलक्ष्मीहयवदनपरब्रह्मणे नमः ॥
॥ श्रीसुवर्णलक्ष्मीधरनवनीतनटपरब्रह्मणे नमः ॥
॥ श्रियै नमः ॥
॥ श्रीवकुलभूषणमहागुरवे नमः ॥
॥ श्रीमन्नाथमुनये नमः ॥
॥ श्रीवात्स्यवरदकृष्णदेशिकाभ्यां नमः ॥
॥ श्रीमते भाष्यकाराय नमः ॥
॥ श्रीशठमर्षणकुरुकाधीश्वराय नमः ॥
॥ श्रीमते वात्स्यवरददेशिकाय नमः ॥
॥ श्रीमते निगमान्तमहादेशिकाय नमः ॥
॥ श्रीमते श्रीरङ्गरामानुजयतिसार्वभौमाय नमः ॥
॥ श्रीमते वेदान्तरामानुजसंयमिसार्वभौमाय नमः ॥
॥ श्रीमते वात्स्यवरदार्यमहागुरवे नमः ॥
॥ श्रीमते श्रीवात्स्यसुन्दरार्यमहादेशिकाय नमः ॥
तं दयानिधिधौरेयं वन्दे सुन्दरवाङ्गमयम् ।
इन्दिरेशदयापात्रं सुन्दरार्यमहागुरुम् ॥
॥ श्रीमते श्रीवात्स्यवेङ्कटशेषार्यमहादेशिकाय नमः ॥
श्रीमद्वेङ्कटशेषार्यमहादेशिकानुग्रहादविच्छिन्ना
॥ प्रतिबिम्बलहरी - षष्ठं शतकम् ॥
प्रतिबिम्बलहरीवृत्तं - शार्दूलविक्रीडितं
॥ अथ षष्ठशतके प्रथमं दशकम् ॥
एतद्दशकप्रतिपाद्यगुणविशेषः - देशिकद्वारगम्यत्वं
॥ सङ्गतिमणिमाला ॥
(मालावृत्तम्)
शठरिपुरथ विभवत उपसदनं
फलति न खलु ; तदिह नयनविषये ।
भ्रमरपुरमधि कथयत ! मम दशां
इति वदति खगकुलमिव विरहिणी ॥
न्यस्तपुस्तकहस्तं तत् निस्तुलं हयमस्तकम् ।
स्वस्तिकृत् स्वस्स्तुतं चेतोवास्तु वस्तु सदास्तु नः ॥
नित्यं पुष्पमनोहरोदधिपरीवाहाम्बुतीरागताः !
पापायाश्चरकाः! सुसारसगणाः ! तुङ्गे स्वभूव्यापकैः ।
नीवारैस्स्थितमृद्धषट्पदपुरे वीक्ष्यात्तचक्रं करे
मद्बिम्बाधरनाथमञ्जलिकराः ब्रूतानुरागं मम ॥ ६.१.१॥
प्रेमाकार -मृदु -प्रियासहचराहारं चरन्नारद!
*श्यामाम्नाय-मखोत्थ-घोष-मुखर-श्रीभृङ्गपुर्याः पतिम् ।
शीतायाः प्रसमीक्ष्य लोकमखिलं तं भुक्तवन्तं पुरा
मन्नाथं पदयोर्विनम्य करतो दास्याः कृते ब्रूत मे ॥ २॥
(**श्यामाम्नाय - श्याम ! आम्नाय ॥। इति पदच्छेदः)
सङ्घीभूय च सर्वतो द्विजगणाः ! केदारमध्येचराः !
पूर्णैश्वर्य-समृद्ध-षट्पदपुरे शुद्धे वसन्तं सदा ।
भ्राम्यच्चक्रमवेक्ष्य दक्षिणकरे बिम्बाधरं स्वामिनं
यूयं नैच्ययुताः प्रणम्य वदत प्रेम्णैव मद्दुर्दशाम् ॥ ६.१.३॥
हंसा! दुःखमृते युतास्सुखचराः ! भव्याश्च भोगाम्बुधौ
मग्नास्सन्ततवेदघोषमुखर -श्रीभृङ्गपुर्यां स्थितम् ।
शीतायामुपकर्तृ - कृष्णमुदधिश्रीदेहमेत्याश्रित-
व्यामुग्धं द्रवति प्रतीक - शिथिलाप्येकेति विज्ञाप्यताम् ॥ ६.१.४॥
हंसाः ! प्रेमरुषं प्रसादनमपि ज्ञात्वा प्रियाभिस्समं
भुञ्जाना निबिढे सकर्दमसरित्तीरोप्तशङ्खाकुले ।
भव्या ! भृङ्गपुरे सुशीततुलसीस्त्रक्-शेखरं मत्प्रभुं
दृष्ट्वा साञ्जलयो ममाऽपि कुरुत स्तोत्राणि दास्याः कृते ॥ ६.१.५॥
पुन्नागाग्रनिवासिसुन्दरपिकाः ! युष्मान् प्रशस्यार्थये
नृत्यद्रोहितपङ्कभृङ्गनगरे नित्यं वसन्तं प्रभुम् ।
देवानां श्रमहारिचक्रविलसद्धस्तं विलोक्योत्तरं
ह्येकं मोहनिवर्तनोचितमुपानीयानुगृह्णीत माम् ॥ ६.१.६॥
गत्वा ब्रूहि शुभैकमेत्य शुक! मे कञ्चित् प्रकारं श्रयन्
स्पर्धावृद्धसपुष्पनिष्कुटवृते रक्ताब्धितीरे श्रितम् ।
श्यामां भृङ्गपुरेऽरुणाधरकरश्रीपादनेत्रं विभोः
चिह्नान्याजिमुखोज्ज्वलं च कलयन् चक्रं सशङ्खं स्फुटम् ॥ ६.१.७॥
सम्यग्वीक्ष्य ममैकमुज्ज्वलतनो ! त्वं शारिके ! बालिके !
ब्रूहीशं वकुलैश्च वेतसघनैः पुन्नागपूगैर्वृते ।
शीते भृङ्गपुरे सुशीतलमहापद्मेक्षणं दीर्घसन्-
मौलिं पीनचतुर्भुजं घनमहानीलाब्ददिव्याकृतिम् ॥ ६.१.८॥
हस्ताभ्यां प्रणिपत्य पादयुगले पद्माग्रसञ्चारिणो
हंसाः! प्रातरुदारशङ्खमुखरश्रीभृङ्गपुर्यां स्थितम् ।
कृष्णं क्रूरमवेक्ष्य संश्रितजने व्यामुग्धमत्यद्भुतं
ब्रूताग्रे प्रबलांहसो मम कृते दृष्ट्वा विविक्ताश्रयम् ॥ ६.१.९॥
व्यावृत्ताऽहमतीव सौरभभृतो भृङ्गालयः ! प्रार्थये
दृष्ट्वाच्छोदकभाज उत्तरतटे पम्पातटिन्यास्स्थिते ।
श्रीमद्भृङ्गपुरे सतोऽसमरणश्रीरावणस्यालयं
दग्ध्वा भस्म मुदङ्गतस्य वदताऽस्तीत्येकवीरस्य माम् ॥ ६.१.१०॥
(तात्पर्यरत्नावलीश्लोकः)
चक्रित्वात् स्वामिभावात् विपदि सखितया बिम्बदृश्याधरत्वात्
अब्धिश्यामात्मकान्त्या धृततुलसितया निर्जराधीशभावात् ।
रक्ताभास्याङ्घ्रिभावात् पृथुमकुटतयाऽऽश्चर्यचर्याविशेषैः
लङ्काध्वंसाच्च कृष्णं शठजिदकथयत् देशिकद्वारगम्यम् ॥ ६.१.११॥
(प्रतिबिम्बलहरीश्लोकः)
शम्पाजित्-क्षम-सूत्र-वामनवटोर्लोकानुरून् क्रान्तवत्-
पादस्योत्तमवञ्चकस्य कुरुका-श्रीमत्-शठद्विट्-कृते ।
अंङ्घ्र्यो गीतिलसत्सहस्रग इह श्रीभृङ्गपुर्यास्स्फुरन्-
माधुर्ये दशके स्वधीतिचतुरा विद्युद्वलग्ना-स्मराः ॥
(इति षष्ठशतके प्रथमं दशकम्)
॥ अथ षष्ठशतके द्वितीयं दशकम् ॥
प्रतिबिम्बलहरीवृत्तं - स्रग्धरा
एतद्दशकप्रतिपाद्यगुणविशेषः - स्वयमभिसर्तृत्वं
॥ सङ्गतिमणिमाला ॥
(मालावृत्तम्)
स बधिरति घटकगिरि हरिरिति साऽ-
लिकुलशुकमुखमथ भवति कुपिता ।
``मम धृतिरचिति घटन'' इति नटति
प्रणयकलहवचनमपि पठति सा ॥
विद्युन्मध्याङ्गनानां धुरि शिरसि धृतत्वद्दयानां बिभेमि
त्वत्सल्लापादिकेऽहं शठचरित! दृढारक्षलङ्काप्रतापिन् ! ।
त्वत्कापट्यं च जाने किमिह कपटताविष्कृतेस्सिद्व्यतीतो
दत्वा मत्क्रीडनं कन्दुकमपि सकुबेराक्षिकं गच्छ पूर्ण ! ॥ ६.२.१॥
गच्छेतः पूर्ण ! तेऽब्जोपमनयनयुगं मन्दहासोऽधरस्ते
चित्तस्य व्याकुलत्वं जनयति सुकृतान्यात्महानेरकार्ष्म ।
मोदन्तां बर्हिबर्हीश्वरसदृश इतत्वत्कृपाः क्वाणकृष्टाः
नीत्वा गाः दूरतस्तन्निकटमधिवसन् वेणुमापूरय त्वम् ॥ ६.२.२॥
गत्वा तत्रोपविश्य त्वदधिककपटाज्ञानिनीनां वदेदृक्-
पूर्ण! त्वद्रक्तदिव्याधरफलनयनं चाद्य नूत्नप्रभाढ्यम् ।
वंशोत्तुङ्गातिपीनस्वभुजविलसिताः का न्विदं श्रीकृपायाः
भागिन्योऽगाध-दीर्घाम्बुधि-मथन-चण-श्रीभुजस्वामिनाऽद्य ॥ ६.२.३॥
त्वं भुक्त्वा सप्तलोकीं विततवटदले तत्र कालेऽशयिष्ठाः
जानन्त्याश्चर्यचेष्टास्तव न हि विबुधास्ते वयं के न विद्मः ।
शक्तिश्रीदीर्घचक्षुर्युवतिविहृतिभूसैकतं चाभितस्सन्
गोसञ्चारे समर्थ ! त्वदनृतवचसैवाभिभूर्नोऽद्य माऽभूत् ॥ ६.२.४॥
मा पूर्ण ! त्वं कटूक्त्या ह्यभिभव कपटं ते तु भूस्स्वश्च संयक्
जानाति स्थाणुचक्रद्युतिजनकनिजस्वायुधैकं वदामि ।
*तेऽहं वाग्गद्गदत्वाज्जितमधुषु धृतत्वद्दयास्वात्तत्तापास्-
वन्तर्नोऽव्यक्तवाग्भिर्न कुरु परिचयं शारिकाभिश्शुकैर्वा ॥ ६.२.५॥
(*तेऽहं - ते इति इदं न षष्ठ्यन्तम् । विभक्तिप्रतिरूपकमव्ययम् ।)
कृत्वा नो मुग्धचेष्टाः भृतकरविलसत्पुत्रिको जेतृतां स्वां
मत्वा कश्चिन्न तेऽर्थः परिचितचरितास्त्वद्दयानां किमर्हाः ।
सुन्दर्यस्सन्ति बह्व्यस्त्रिजगत उचिता अस्य देवीपदार्हाः
पूर्ण! त्वं मा विशास्मत्सदसि तदुचितं नैव कार्यं तवापि ॥ ६.२.६॥
युक्तं नास्मत्करस्थप्रतिकृतिहरणं सागरेणावृतां क्ष्मां
कुक्षौ निक्षिप्य रक्षाकृदमल ! सुगुणानन्त ! तेऽप्येन एनः ।
मर्मोक्त्या नर्म नस्त्वाचरसि सति तदाकर्णने भ्रातरो नः
पुण्यं पापं च नार्हा गणयितुमहनि क्वापि *युद्धं गदाभिः ॥ ६.२.७॥
(*दण्डै रणस्स्यात् इति पाठो मूलानुगुणतरस्स्यात् ।)
संयोज्याचेतनैश्चेतनचयमथ तत्कर्म साङ्कर्यहीनं
भित्वाऽभिन्नैकसङ्ख्यारहितपृथुयशःपूरभाज्ञानमूर्ते ! ।
अस्मान् सम्मेल्य यामो द्रुतमिति तु वयस्याभिराकेलिमाप्ताः
बाधित्वा चेद्गुणत्सि त्वमसहनजनाः किन्न वक्ष्यन्त्यवद्यम् ॥ ६.२.८॥
प्रीत्यान्तर्हृद्द्रवन्तीस्तव कमलविशालाक्षिसस्नेहवीक्षा-
जालान्तः पातयन् श्रीपदहतिमृदितं ते कुलीलागृहं नः ।
नाकार्षीस्सत्कृपां नो विहतिमितगृहं पक्वमस्मन्मितान्नं
वीक्ष्य त्वद्वक्त्रकान्तिस्स्फुरणमभिकिरन् सस्मितं न स्थितोऽभूः ॥ ६.२.९॥
स्थास्नुप्रोद्दीप्तमौले! नृपयवससमुद्धर्तृजैत्रोच्चपर्शो !
वारान् विंशत्यतीतान् ततनिखिलजगत्सृष्टवन्! पूर्वकाले ।
अद्यैतद्गोपवंशं गमयितुमखिलं मोक्षमुद्भूतनील-
श्रीकाजस्त्रं त्वयैवं कदनमिह वयं प्राप्नुमो गोपकन्याः ॥ ६.२.१०॥
(तात्पर्यरत्नावलीश्लोकः)
पूर्णत्वाद्गोपनारीजनसुलभतया लोडनादम्बुराशेः
न्यग्रोधाग्रेशयत्वादरिसुभगतया श्रीमहीवल्लभत्वात् ।
निर्दोषोत्तुङ्गभावान्निरवधिकयशस्त्वात् वशीकारिदृग्त्वात्
मोक्षस्पर्शेच्छया च स्वयमभिसरतीत्याह कृष्णं शठारिः ॥
(प्रतिबिम्बलहरीश्लोकः)
*गोप्या मात्रा तदा रोषितमति नवनीतस्य चौर्यप्रसङ्गे
नाथं नृत्यद्रुदन्तं प्रति वरकुरुकाधीट्-शठारिप्रयुक्ते ।
**एतान् मालासहस्रे द्रमिडगिरि सुगीत्या दशाधीत्य गाथाः
श्लाघ्या जिह्वाग्रतस्सादरमपि पठतां नैव दारिद्र्यवार्ता ॥ ६.२.११॥
(* ``गोप्या क्रोधं जनन्योपगतमति तदा गव्यचौर्यप्रसङ्गे'' इतिरीत्या पाठे
यतिभङ्गप्रसङ्गो न स्यात् ॥
** ``एतान् मालासहस्रे द्रमिडगिरि दशाधीत्य गाथास्सुगीत्या'' इतिरीत्या पाठे
यतिभङ्गप्रसङ्गो न स्यात् ॥)
(इति षष्ठशतके द्वितीयं दशकं )
॥ श्रीमते रामानुजाय नमः ॥
श्रीमद्वेङ्कटशेषार्यमहादेशिकानुग्रहादविच्छिन्ना
॥ अथ षष्ठशतके तृतीयं दशकम् ॥
प्रतिबिम्बलहरीवृत्तं -स्रग्धरा
एतद्दशकप्रतिपाद्यगुणविशेषः - अघटितघटकत्वं
॥ सङ्गतिमणिमाला ॥
(मालावृत्तम्)
इति विमुख उपगतशुचि भगवति
गगननगरमधिवसति निजकृते ।
अघटितघटनमुखविमलसुगुणा-
नुभवजनितमुदथ कथयति च तान् ॥
(॥ अत्र मुक्तकश्लोकः एकः ॥)
श्रीमान् कल्पककल्पपीवरचतुर्बाहुः कृपार्द्रेक्षणः
शङ्खं चक्रमुदारहस्तयुगले बिभ्रत्किरीटोज्ज्वलः ।
*स्यादूरुद्वयसो भवाम्बुधिरिति स्वाङ्घ्र्याश्रयं भावयन्
श्रीमद्व्योमपुरीश्वरो विजयते **दत्ताखिलाभीप्सितः ॥
(* यद्यपि ``स्वादूरुद्वयसो भवाब्धिदुरितात् अङ्घ्रयाश्रयं भावयन्'' इत्येवम्प्राय एव श्रीपितामह -
पादहस्ताक्षरक्लृप्तमातृकायां अयं पादो दृश्यते, तथाऽपि तत्र दासस्य अन्वयास्फुरणादुपरि दृश्यमानरीत्या
मुद्रापणमस्ति कृतम् । दृष्ट्वा महान्तः प्रमाणम् ॥
** एतद्दशकप्रतिपाद्यदिव्यक्षेत्रे विराजमानश्रीमूर्तिपरोऽयं मुक्तकश्लोकः । एतद्भगवद्विषय एव केवलं
दशकारम्भे ईदृशः श्लोकश्श्रीपितामहपादैरुपकल्पितः । तत्र च निदानं तेषां कृते एष, भगवान् अत्र वर्णितरीत्या ``दत्ताखिलाभीप्सित'' एव विरेजे इत्येतदिति भाति । यतस्तदभीप्सितरीत्या एतत्-क्षेत्रं
समया कृतनिवासानां कैङ्कर्यश्रीसमृद्धानां वदान्यवरिष्ठानां भागवतदास्यैकनिष्ठानां श्रीवेङ्कटार्यस्वामिनां
(येषां ज्येष्ठपुत्राः श्रीमदहोबिलमठास्थाने त्रिचत्वारिंशत्तमे पट्टे मूर्धाभिषिक्ता व्यलसन्)कनिष्ठां कुमारीं स्नुषात्वेन घटितवानेतत्-क्षेत्रे विराजमानः प्रभुः । तत्र च घटकता अस्मन्मातामहपादानां अर्थात् उपरि वर्णित श्रीवेङ्कटार्यस्वामिनां तथाऽस्मत्पितामहपादानां च सुहृद्भूतैः विश्वप्रसिद्धविद्वत्तल्लजैः महाभारतभाव-प्रकाशिकादिग्रन्थरत्नानां मुद्रापण-प्रकाशनाभ्यां विश्वोपकारमाचरितवद्भिः द्रमिडवेदनिष्णातैः श्रीनवनीतं कृष्णमाचार्यस्वामिभिः अवाहि । ``ऋषीणां पुनराद्यानां वाचमर्थोऽनुधावति'' इति रीत्या अभीप्सितान्तरमपि दत्तवान् पितामहपादेभ्योऽयं प्रभुः । पूर्वं कञ्चित्कालं श्रीकृष्णमङ्गल (तिरुक्कण्णमङ्गै)क्षेत्रे उषितवन्तः श्रीपितामहपादाः, तत्रैव चरमं स्वं श्रीशरीरं व्युयूषन्, यतस्तत्र चिताशायितानभिवीक्षमाण इव तत्क्षेत्रवासिनो भगवतो भक्तवत्सलस्य राजगोपुरं भासते । परं तु तेषां चरमश्रीशरीरत्यागः स्वसम्बन्धिस्वामिनां गृहे एतत् -क्षेत्रं समया बभूव । एतदभीप्सितमेकमेतदेव किमिति नाऽदात्
प्रभुरिति चिन्तयन्तस्तत्पुत्रा अर्थादस्मत्तातपादाः यावदेतान् चिताशायितान् नमन्तश्चरमकैङ्कर्यं कुर्वन्ति स्म,
तावद्दर्शनमदात् तत्र एतत्-क्षेत्रनिवासिभगवतो राजगोपुरं चिताशायितानभिवीक्षमाणं इव, यतः
श्रीकृष्णमङ्गल (तिरुक्कण्णमङ्गै)क्षेत्र इव अस्मिंश्च क्षेत्रे सन्निवेशः । तथा च तदप्यभीप्सितं तस्मै दत्तवानयं प्रभुरिति तमिमं वृत्तान्तं साश्रु सभक्ति वर्णयन्ति स्म बहुवारमस्मत्तातपादाः । तथा च स्थाने एवं वर्णनम्, यत् ``दत्ताखिलाभीप्सित'' एव एभ्य एष भगवान् । अधुना अस्य शतकस्य मुद्रणाय रूप्यकाणामयुतं दत्वा
श्रीनवनीतं कृष्णमाचार्यस्वामिनां पौत्रैः श्रीमद्भिः श्रीवेङ्कटनाथमिश्रैः कृष्णाद्रिधर्मस्थापनद्वारा महानुपकारोऽपि कृतः ॥)
दारिद्र्यं चाऽपि सम्पत् नरक उरुसुखो नाकलोकश्च जैत्र-
द्वेषस्स्नेहो विषं चामृतमपि च भवन् नैकधा स्वप्रकारैः ।
व्याप्तं मत्स्वामिनं मां विमुखमभिमुखीकृत्य रक्षन्तमीशं
कैङ्कर्यश्रीसमृद्धस्वजनपरिवृतव्योमपुर्यामपश्यम् ॥ ६.३.१॥
प्रत्यक्षं लोकसौख्यं परिमितमसुखं स्वास्थ्यमस्वास्थ्यमन्तः
कोपश्चानुग्रहश्चातप इतसुखदानातपश्चापि भूत्वा ।
दुर्दर्शेस्येश्वरस्य स्ववशमभिमुखीकृत्य मां रक्षतः पूः
श्लाघ्या पूः स्वच्छभङ्गावृतगगनपुरी श्रीपरव्योमपुर्याः ॥ ६.३.२॥
पुर्यो देशाश्च भूत्वा जनपदनिलया ज्ञानमज्ञानमन्या-
दृक्षान्तर्व्याप्ततेजस्तम उरुधरणी व्योमरूपश्च भूत्वा ।
भूभृच्छ्रीभृत्सुहर्म्यावृतगगनपुरीमाश्रितस्योपकर्तुः
कीर्तिं हित्वाऽतिदीप्तां नहि निखिलजनोज्जीवनार्होऽभ्युपायः ॥ ६.३.३॥
पुण्यं पापं च संश्लेषणमभिमतविश्लेषणं चेह भूत्वा
स्मृत्यात्मा विस्मृतिश्चाप्यखिलविसदृशोऽभावभावौ च भूत्वा ।
दार्ढ्योपेतोच्चहर्म्यावृतगगनपुरीमाश्रितस्योपकर्तुः
कृष्णस्यैवातिभोग्यानुपमकरुणयेदं तु जानीथ सत्यम् ॥ ६.३.४॥
कापट्यं चार्जवं चासितमपि च सितं श्लाघ्यसत्यं त्वसत्यं
बाल्यं वार्धक्यमित्थं नवमपि च *पुराणं च भूत्वा प्रक्लृप्तैः ।
रक्तैस्सालैर्दृढैस्संवृतगगनपुरीमाश्रितेनोपकर्त्रा
पश्यन्तूद्यानमुच्चैस्त्रिजगदपि महादैवताढ्यं प्रक्लृप्तम् ॥ ६.३.५॥
(*अत्र यतिभङ्गनिवारणाय पादोऽयमेव ``भूत्वा वार्धक्यबाल्ये नवमपि च तथाऽनूतनं च प्रक्लृप्तैः''
इति वा पाठ्यः ।)
त्रैलोक्यं चापि भूत्वा १ परमपदमपि प्रीतिरप्रीतिरूपः
लक्ष्मीर्भूत्वाप्यलक्ष्मीः विमल इह भवन् कीर्तिरूपोऽप्यकीर्तिः ।
नित्यैरादृत्य सेव्यं गगनपुरमधिष्ठाय रन्तोपकर्ता
पापिष्ठस्यापि मे २ ते मनसि च निवसन् सूज्ज्वलज्ज्योतिरेव ॥ ६.३.६॥
(१.`त्रैलोक्यं चापि भूत्वाऽथ तदपदमपि प्रीतिरप्रीतिरूपः'' इति पाठे परमपदशब्दस्य अर्थान्तरस्फूर्तिर्वारिता भवेत् ॥
२. ते'' इति अस्य आधारभूतं पदं मूले नास्ति । पितामहपादानां मातृकायां तु ते इति पदमस्ति । ``मेऽस्मिन् मनसि'' इति वा पाठोऽस्तु ।)
भूत्वा निस्सीमतेजोमयशुभतरसद्विग्रहो हेयरूपी
दृश्योऽदृश्यश्च तिष्ठन्नरिषु कृतवतः कैतवं स्वोत्तमाङ्गैः ।
द्योसद्भिर्वन्द्यमानं गगनपुरमुपागम्य सर्वोपकर्तुः
दार्ढ्याढ्यश्रैष्ठ्ययुक्-श्रीपदयुगलमृते नास्ति कस्याप्युपायः ॥ ६.३.७॥
देवानां नित्यरक्षाकृदपि दितिभुवामुग्रमृत्युश्च भूत्वा
स्वाङ्घ्रिच्छायामधस्स्वाश्रितभुवनमधिष्ठाय नास्थाप्य चान्यान् ।
आशाया दक्षिणस्याश्शरणखनगरं प्राप्य रन्तोपकर्ता
मत्प्राप्यो मत्ककृष्णो मम दृगपि च मया किङ्करी चोपकारी ॥ ६.३.८॥
मत्स्वामी मे स भूत्वा मम दयितसखी मत्प्रसूश्चोपकर्ता
मत्तातस्स्वर्णतुल्यः सुमणिवदुपकृत् मौक्तिकाभोपकारी ।
प्राकारैस्स्वर्णदीप्तैः वृतगगनपुरंसंश्रितस्स्वोपकर्ता
स्वाङ्घ्रिच्छायामदान्मे स्वसमविरहितस्सर्वलोकोपकर्ता ॥ ६.३.९॥
छायाऽछाया तथाऽणुर्महदपि च तथा ह्रस्वदीर्घे च भूत्वा
भ्राम्यत्स्थाय्यात्मकान्यपि तदधिगतैस्स्पर्शहीनश्च दोषैः ।
मुग्धव्याहारचुञ्चुभ्रमरनिवसतौ व्योमपुर्यां स्थिरस्य
त्यक्त्वाङ्घ्री स्वोपकर्तुर्नहि वयमितरैकाश्रया लोकयध्वम् ॥ ६.३.१०॥
(तात्पर्यरत्नावलीश्लोकः)
सम्पद्दारिद्र्यभावात् असुखसुखकृतेः पत्तनग्रामभावात्
पुण्यापुण्यादिभावात् कपटऋजुतया सर्वलोकादिभावात् ।
दिव्यादिव्याङ्गवत्त्वात् सुरदितिजगणस्निग्धशत्रुत्वकीर्त्या
छायाऽछायादिभावात् अघटितघटनं प्राह कृष्णं शठारिः ॥ ६.३.११॥
(प्रतिबिम्बलहरीश्लोकः)
हे! लोकाः ! पश्यतेति त्रिजगति च तथा पश्यति प्रोच्चवृद्ध-
स्वाङ्घ्रिद्वन्द्वं खपुर्याः पतिमभि कुरुकाश्रीशठारातिनोक्ते ।
आज्ञालक्ष्ये सहस्त्रे खपुरदशकमध्येतुमत्यन्तशक्ताः
सत्यं ह्यत्राविवादं परमपदजुषां नित्यपूज्या भवन्ति ॥
(इति षष्ठशतके तृतीयं दशकम्)
श्रीमद्वेङ्कटशेषार्यमहादेशिकानुग्रहादविच्छिन्ना
॥ अथ षष्ठशतके चतुर्थं दशकम् ॥
प्रतिबिम्बलहरीवृत्तं - स्रग्धरा
एतद्दशकप्रतिपाद्यगुणविशेषः - निखिलजगदाकर्षकत्वं
॥ सङ्गतिमणिमाला ॥
(मालावृत्तम्)
स्वनयनगतविभवललितजसुखीः
तदलभरुषित इति स तदपि ददौ ।
अचरमकविरिव दशरथतनये
रत उशति निजमुदमथ यदुपतौ ॥
रासक्रीडासु गोपीजनकरकलनं चैकशैलोद्धृतिस्सा
दुर्धर्षाम्भोह्रदान्तः फणिदमनमपीत्येवमादीन् अनेकान् ।
व्यापारान् सम्प्रलल्प्योरगपतिशयनस्याद्भुतान् स्वोपकर्तुः
*रात्र्यां सत्यां दिने नो विरतिमुपगतोऽहं मम न्यूनता का ? ॥ ६.४.१॥
(*रात्र्यां वा सद्दिने नो - इति पाठे समुच्चयार्थे ``वा'' इति पदम् ।
गानं गेयेन वेणोर्मधुरमपि गवां चारणं मीनदृष्टेः
नीलायाः पुष्पगन्धप्रचुरकचयुजस्स्कन्धसंश्लेषणं च ।
स्मृत्वेत्थं स्वोपकर्तुर्बहुविधचरितान्यद्भुतालङ्कृतेर्मे
कालो नीतस्सरागं द्रुतहृदयमहो! मत्समः को नु लोकः ? ॥ ६.४.२॥
मल्लानां निस्समानां मथनमपि गवां चारणं दीर्घहस्त-
क्ष्माध्राकारोच्चहस्तिक्षपणमपि तथाऽन्यानि चैवंविधानि ।
स्मृत्वा कर्माण्यजस्रं द्युतियुतवपुषः सम्प्रलप्योपकर्तुः
नेतुं भोगेन कालं सुचरितमलभे का ममेतो व्यथा स्यात् ? ॥ ६.३.३॥
भीतिं चोलूखलेन व्यथयितृजननीबन्धने वञ्चकस्त्री-
हत्यै स्तन्यस्य पानं चलशकटहतौ पादयोस्ताडनं च ।
स्मृत्वा दिव्यात्ममूर्तेरिति चरितमहं विद्रुतात्मोपकर्तुः
कालं प्राप्तोऽस्मि भोक्तुं मम न परमितोऽपेक्षितं किञ्चिदस्ति ॥ ६.३.४॥
आदृत्यागत्य गाढे जनिममरगणे याचमानेऽन्धकारे
मातर्याश्लिष्य सद्यः प्रलपनजुषि तदैत्यैकगोष्ठप्रवेशम् ।
वृद्धिं चादृश्यभावात् बहुकपटकृतिं कंसहत्या इदानीं
भाग्यं प्राप्तोऽस्मि सर्वं प्रलपितुमिह मे किं नु वैकल्यमस्ति ? ॥ ६.४.५॥
युद्धायोद्यत्-बकास्योद्दलनमपि ककुद्मत्-वृषोन्मर्दनं चा-
प्युच्चैश्शाखाप्तकुन्दक्षपणमपि पराण्येवमादीनि तानि ।
विक्रान्तस्फीतभूमेर्मदुपकृतिकृतश्चाद्भुतान्यद्भुतस्या-
होरात्रं स्तोतुमाप्तोस्म्यहमिह मम किं चेतसो दुःखमस्ति ? ॥ ६.४.६॥
चेतोदुःखेन साकं स्वयमतिमलवन्मर्त्यजातौ जनित्वा
स्वाभीष्टं देहमेत्य स्वहृदि कृतरुषं स्वेन संहृत्य, मूर्ध्नि ।
सुक्षेत्रोद्यत्तुलस्याः स्त्रजमुरसि सदा बिभ्रतस्स्वोपकर्तुः
स्वाश्चर्याणां स्मरद्धृद्वहत इह समः को ममानन्तभूमौ ? ॥ ६.४.७॥
पूर्णान् कृत्वा महाजीन् वियति विपुलया विस्मिते बाणबाहा -
साहस्रच्छेदनादीनि अपरबहुविधानि ईदृशान्यद्भुतानि ।
भिक्षूभूयात्तभूमेः मदुपकृतिकरस्याद्भुतस्यावगन्तुं
शक्तं चित्तं प्रपन्नोऽस्म्यहह ! परमितः कोऽस्ति मे क्षोभलेशः ? ॥ ६.४.८॥
क्षुब्धेष्वम्भोधिषूच्चैः गिरिषु च भुवनेष्वेषु सप्तस्वतीत्य
प्रापय्य स्यन्दनेनाखिलमपि गमनाश्चर्यमुख्यैरनेकैः ।
हस्तौ सव्यापसव्यौ अरिदरभरितौ बिभ्रतं नीलकान्तिं
जिह्वां दक्षां विधातुं विवशमुपयतोऽस्त्यत्र भूमौ समं किम् ॥ ६.४.९॥
हर्तुं भारं महान्तं भुवि कमपि महाभारताजिं विधाया-
श्चर्याणि प्रदर्श्याप्यखिलनृपचमूसङ्क्षयं चानुचिन्त्य ।
गत्वाऽऽकाशे परस्मिन् स्वपदमुपगतस्योज्ज्वलज्योतिषोऽङ्घ्री
प्राप्याहं शेषवृत्ती रचयितुमभवं नायकः को ममान्यः ? ॥ ६.४.१०॥
(तात्पर्यरत्नावलीश्लोकः)
रासक्रीडादिकृत्यैः विविधमुरलिकावादनैर्मल्लभङ्गैः
गोपीबन्धार्हभावात् व्रजजननमुखैः कंसदैत्यादिभङ्गैः ।
प्रादुर्भावैः निहीनेष्वसुरभुजवनच्छेदमुख्यैः चरित्रैः
आकर्षेत् सर्वचित्तं हरिरिति कथयामास कारेरपत्यम् ॥ ६.४.११॥
(प्रतिबिम्बलहरीश्लोकः)
सर्वस्यास्सप्तलोक्याः प्रभुरपि निखिलां सप्तलोकीं निजास्ये
योऽन्तः कृत्वा निगीर्योद्गिरति तदखिलीभूय तद्भिन्नरूपः ।
तस्याङ्घ्र्योः केशवस्य द्वयमधि कुरुकाराट् - शठारिप्रणीते
त्वेतत् शुद्धे सहस्त्रे दशकमधिगताश्शुद्धभक्ता भवन्ति ॥
(इति षष्ठशतके चतुर्थं दशकम्)
श्रीमद्वेङ्कटशेषार्यमहादेशिकानुग्रहादविच्छिन्ना
॥ अथ षष्ठशतके पञ्चमं दशकम् ॥
प्रतिबिम्बलहरीवृत्तं - शार्दूलविक्रीडितं
एतद्दशकप्रतिपाद्यगुणविशेषः - विजनविघटकत्वं
॥ सङ्गतिमणिमाला ॥
``अनुभव इह मनसि न पुरत'' इति
शुचमभजत मुनिरथ व विरहिणी ।
``शुच उपरतिरपि कथ''मिति जननी-
वचसि रतिमुशति विशदमथ सखी ॥
निर्दोषैस्तुलविल्लिमङ्गलपुरीं रत्नालयैरुन्नतां
एनां यूयमितो नतां त्यजत वो नाऽऽशाऽत्र वो मातरः ! ।
``सौम्यश्शुभ्रदरस्सुदर्शन'' इति ``स्वब्जायते लोचने''
इत्याहोत्पलदृक् स्रुतास्रमधिहृत् सन्दह्यमाना शनैः ॥ ६.५.१॥
नीत्वैनां तुलविल्लिमङ्गलमितध्वानं प्रविश्योत्सवोद्-
घुष्टं स्वादुसुधागिरं व्यघटयन् स्वत्वात् भवत्योऽस्पृहम् ।
स्तब्धायास्सममेव तिष्ठति; न चेत् सा ``देवदेवोपकृत्''
चेत्योष्ठस्स्फुरणं स्फुटाश्रुनयनं सन्नाऽन्यतन्त्रा द्रुता ॥ ६.५.२॥
नीत्वैनां तुलविल्लिमङ्गलमुपानीलागशीताप्स्थलं
श्राव्यस्वादुगिरं प्रवेश्य विजहुः स्वत्वात् भवत्यः ! स्पृहाम् ।
सोर्म्यब्धौ शयनं, दिशावृतधरामुत्प्लुत्य मानं पदा,
गोसञ्चारणमप्युदीर्य विपुलाक्ष्णोस्तिष्ठते साश्रुका ॥ ६.५.३॥
दृष्टे श्रीतुलविल्लिमङ्गल अधिष्ठाने चतुर्वेदिनां
किञ्चिन्नैति विधेयतामयति च स्वातन्त्र्यमम्बाजनाः ! ।
स्वाभ्यस्ताखिलवाग्भि ``रस्मदुपकृत्कृष्णोऽसिताब्धिद्युदि'-
त्युक्त्या श्रीश्रममुक् प्रहृष्टहृदयाऽऽनन्दान्तराऽभिद्रुता ॥ ६.५.४॥
कान्त्यास्यां तुलविल्लिमङ्गलमितो मुग्धां प्रवेश्य द्रुतां
भूषायुक्-द्युति-रक्तपद्मनयनोद्धूतिं यदा दर्शयन् ।
मोहं प्राप्य तदादि वृष्टिसदृशस्वास्रेयमन्तर्भवत्-
तच्चिन्तादृढदृक् च तां प्रति दिशं धत्तेऽञ्जलिं मातरः ॥ ६.५.५॥
रक्ताब्जर्द्धियुक् ईक्ष्यमाण-निखिलोपान्तेक्षु-नीवारवत्
शीतश्रीतुलविल्लिमङ्गलपुरं श्रीताम्रपर्ण्युत्तरम् ।
दृष्ट्वेयं त्वथ तामृते दिशमितो नान्येक्षणा प्रत्यहं
वाच्यं वाचकमप्यहो ! मणिरुचेर्नामैव हे ! मातरः!॥ ६.५.६॥
अम्बाः ! सुन्दरबर्हिणी शिशुमृगी ह्यस्मानतिक्रम्य नो
शुश्रूषुः तुलविल्लिमङ्गलगिरं हित्वाऽन्यदेषा वचः ।
भाग्यं किं नु पुरा कृतं ? जलधर श्रीचित्रशक्तिर्नु ? तत्-
श्रीचिह्नान्यभिधाश्च शिक्षिततराः अस्या मुखस्था अहो ! ॥ ६.५.७॥
शिक्षायुक्-श्रुति-याग-पद्मनिलया-तद्वासजाद्वैभवात्
*ऋद्धश्रीतुलविल्लिमङ्गलमुदीच्यं ताम्रपर्ण्याश्शुभम् ।
आनीलायतदृक् यदाऽञ्जलिकराऽनंसीत् तदाद्यय चा-
श्वास्य स्वामरविन्दलोचनगिरैवास्तेऽवसन्ना द्रुतम् ॥ ६.५.८॥
(*`ऋद्धश्रीतुलविल्लिमङ्गलपुरं श्रीताम्रपर्ण्युत्तरम् । '' इति पाठे
यतिभङ्गगन्धो न स्यात् ॥
नित्यं विद्रुतहृत् स्रवत्सु च विलप्याऽस्रेषु दृष्ट्योरियं
कारुण्यं दधती नगेष्वपि ``मणिश्रीके !''ति चाऽक्रन्दति ।
``आवासः तुलविल्लिमङ्गलपुरी'' त्युक्त्वा ``ऽश्ववाग्दारिणः''
बद्ध्वा स्वीयकरौ नमत्यथ यदा तत् -क्षेत्र -नामाऽध्यगात् ॥ ६.५.९॥
नीला किं ? क्षितिदेविका किमथवा ? श्रीरेव वाऽवातरत् ?
किं वाऽऽश्चर्यमियं सदा ``ऽऽश्रितमहामोहे !''ति चाऽऽक्रन्दति ।
एत्य प्राक् तुलविल्लिमङ्गलमथ स्थित्वा च तेनाऽऽस्थितं
मूर्ध्ना सम्प्रणमत्यदः पुरशुभाऽभिख्यासु चिन्ता श्रुतौ ॥ ६.५.१०॥
(तात्पर्यरत्नावलीश्लोकः)
शङ्खाच्चक्रादितश्च त्रिदशसुरतया सिन्धुशायित्वभूम्ना
तद्वच्चोदारभावात् अरुणसरसिजाक्षत्वचिह्नेन देवः ।
देवीभिस्सेव्यभावात् अतिसुलभतया स्वेष्वतिस्निग्धभावात्
बन्धुभ्यः स्वान् मुरारिः विघटयति हठादित्यवोचत् शठारिः ॥ ६.५.११॥
(प्रतिबिम्बलहरीश्लोकः)
वाचाऽथ क्रियया धिया च सकलैः तं देवदेवं पिता
मातेति-श्रितवत्-सुरम्य-कुरुकासद्राट्-शठद्विट्-कृते ।
प्रत्रे श्रीतुलविल्लिमङ्गलपुरीलक्ष्यं सहस्त्रे १ रताः
गातुं सत्-द्रविड-द्विपञ्चकमिदं दास्ये २ रताः श्रीपतेः ॥
(१. ``क्षमाः'' इति पाठस्तु मूलानुगुणतरः स्यात् ।
उत्तरपादेऽपि २रताः इति शब्दः श्रूयते । ततो व्यावृत्तिरपि लभ्येत ।)
(इति षष्ठशतके पञ्चमं दशकम्)
श्रीमद्वेङ्कटशेषार्यमहादेशिकानुग्रहादविच्छिन्ना ॥
॥ अथ षष्ठशतके षष्ठं दशकम् ॥
प्रतिबिम्बलहरीवृत्तं - उपजातिवृत्तं
एतद्दशकप्रतिपाद्यगुणविशेषः - स्वस्मिन् सक्तानां चातुर्यादिहरत्वं
॥ सङ्गतिमणिमाला ॥
(मालावृत्तम्)
दुहितुरथ निरवधिकशुचि जननी
स्वयमपि वदति समशुगथ च दशाम् ।
प्रणयपरवशकमितृगुणगणसं-
स्मरणगलितवलयधृतिमतिमुखैः ॥
व्यामुग्ध-भू-मातृक-नायकाय नीलाभ-मेघोपम-नीतिभाजे ।
रम्यारुणाम्भोजदृशे मधुच्युत्-पुष्पालका मे वलयान्यहासीत् ॥ ६.६.१॥
सशङ्ख-चापा-ऽसि-गदाऽरि-हस्त-बिम्बाधरा-ऽब्जा-ऽरुण-वीक्षणाय ।
पुष्पन्-मधु-श्रीतुलसीक-मूर्ध्ने रम्या जहौ मे तनयाऽत्मकान्तिम् ॥ ६.६.२॥
श्यामश्रिये विस्तृतलोकभुक्ति-पदाधरायाऽल्पक-वञ्चकाय ।
मम भ्रमत्-चक्र-कराय दीर्घ-सान्द्रा*त्म-केशी प्रजहौ महत्त्वम् ॥ ६.६.३॥
(* ``लकेयं विजहौ महत्त्वम्'' इति पाठ्यं इति केचत् ।)
महत्त्वयुक्-पद्मज-सृष्टिकर्त्रे विक्रान्तलोकाय च नायकाय ।
पूर्णाय दूताय सभू-नृपाणां बृहन्नितम्बा प्रजहौ स्वभावम् ॥ ६.६.४॥
यथार्थवेदान् सृजते परस्मै मृत्स्नामय-क्ष्मोद्धृतिकृत्-किटीशे ।
स्वच्छाम्बु-शय्याय सुरोपकर्त्रे मन्नेत्रहृत्-स्रक् प्रजहौ सुबुद्धिम् ॥ ६.६.५॥
कल्पद्रु-जित्-सद्-बहु-बाहु-भाजे स्वर्णाद्रि-तुल्योज्ज्वल-मौलये मे ।
स्वब्जौघ-सूनोपम-हस्त-भूम्नेऽदान्मे धनुर्भ्रूलतिका शरीरम् ॥ ६.६.६॥
निजार्ह-नाना-ऽऽभरणान्विताय फणीश-शय्या-शयिताय पाणौ ।
पादे च रक्ताय ममोपकर्त्रे कृष्णाय पुत्री विजहौ स्वशोभाम् ॥ ६.६.७॥
वीराय पातं प्रति भग्न-कुन्द-वृक्षाय माया-शकट-च्छिदे मे ।
पत्यै पिशाची-स्तन-पाय-हत्यै सुगन्धि-कैश्याऽदित सुन्दरत्वम् ॥ ६.६.८॥
मत्-सुन्दराङ्गानृजु-वामनाय तुङ्गोज्ज्वलाद्रीडरुणाङ्गभाय ।
काकुत्स्थ-पूर्णोत्तम-जन्मनो मे भूषाप्त-सुस्तन्यदिताऽभिरूप्यम् ॥ ६.६.९॥
सुदीर्घमौलौ तुलसीधराय चित्राय मल्लाजिद-बाहवे मे ।
नाथाय नानाचरमूर्ति-माया-भृते जहौ ज्ञानवतीह सर्वम् ॥ ६.६.१०॥
(तात्पर्यरत्नावलीश्लोकः)
पारम्याद्यैश्च पञ्चायुधविहृतिमुखैः ब्रह्मणस्स्रष्टृभावात्
देवानां स्वामिभावादपि सुभगतयाऽलङ्कृतेः कुन्दभङ्गात् ।
प्रादुर्भावैश्च सर्वान्तरनिलयतयाऽहम्ममत्वेऽतिधैर्यं
चातुर्यादीनि नृणामपहरति हरिश्चेत्यभाणीत् शठारिः ॥
(प्रतिबिम्बलहरी श्लोकः)
पूर्णोज्ज्वलारण्य-सुवेङ्कटेश-पूर्णोज्ज्वलत् श्रीकुरुकेट्-शठारेः ।
पूर्णोज्जवलेदन्दशके सहस्रे *पूर्णोज्ज्वलत्सूरिसुखाप्तिशक्ताः ॥
(* ``शक्तास्तु पूर्णोज्जवलसूरिसौख्याः''॥ इति पाठान्तरमपि मातृकायामस्ति ।)
(इति षष्ठशतके षष्ठं दशकम्)
श्रीमद्वेङ्कटशेषार्यमहादेशिकानुग्रहादविच्छिन्ना
॥ अथ षष्ठशतके सप्तमं दशकम् ॥
प्रतिबिम्बलहरीवृत्तं - स्रग्धरावृत्तं
एतद्दशकप्रतिपाद्यगुणविशेषः - स्वस्मिन् सक्तानां धृत्यादीनां निदानत्वं
॥ सङ्गतिमणिमाला ॥
(मालावृत्तम्)
व्यलपदिति चिरमथ वदति हतमतिः
अवगतपरिहृतनिजगृहतनया ।
मधुरकविनगरमथ समुपगता
किमुत भवति जनवचनमिति सभीः ॥
भोज्यान्नं पेयतोयं निखिलमपि तथा चर्व्यताम्बूलमेतत्
कृष्णोऽस्मन्नाथ एवेत्यधिनयनयुगं च्योतदश्रुप्रवाहम् ।
भूमध्ये तत्पुरं तद्गुणगणमहितं पान्थलोकेषु पृष्ट्वा
*श्री ``कोलूर्'' ग्राममेव प्रविशति नगरं मुग्धमृग्या ! ध्रुवं मे ॥ ६.७.१॥
(*श्रीमत्पितामहहस्तलिखितमातृकायां एवमेव दृश्यते । परन्तु
``श्रीकोलूराख्यमेव प्रविशति नगरं मुग्धमृग्या ! ध्रुवं मे ॥ '' इति पाठ
उपपन्न इति भाति ॥ मुग्धमृग्या ध्रुवं इत्यत्र मुग्धमृगी, आः, ध्रुवं इति
पदच्छेदः ।)
ग्रामा देशाश्च लोकाः प्रलपितुमखिलान्यात्मवत्तस्य नाम
स्रक्चिह्नान्येव हित्वा तृणवदपि निजां दुस्त्यजां स्त्रीत्वपूर्तिम् ।
श्रीकोल्लूर्दिव्यदेशं मम कठिनहृदः श्लाघ्यकेदारसम्पत्-
पूर्णं वल्ली प्रविष्टा वदत पुनरिहाऽऽयाति हे शारिकाः ! किं ? ॥ ६.७.२॥
लीलार्थाश्शारिका वा हरितशुकततिः कन्तुकं दूतभाण्डं
पुष्पाणां पेटिका वा निखिलमपि गणं श्रीपतेरेव नाम्नाम् ।
हृष्यत्याक्रुश्य कोल्लूर्नगरमुपगता पुत्रिका मेऽतिशीत-
क्षेत्रं किं वाऽद्य कुर्यात् चलदधरफला वर्षधाराभदृष्टिः ॥ ६.७.३॥
उन्मर्यादेति किं वा किमु गुणमहती वेति वक्ष्यन्ति वध्वः
जल्पाकाः प्रान्तपौर्योऽप्यहह ! शिशुमृगी गन्तुमेव प्रवृत्ता ।
मन्दं मन्दं सभङ्गं मृदुलमतितरां मध्यमाबिभ्रतीयं
सम्पन्नायास्समृद्ध्या तदधिशयितभूदिव्यकोलूर्नगर्याः ॥ ६.७.४॥
प्राप्ता तत्प्राप्तिचिन्तां मतिशिथिलतरा ध्वस्तलीलारसेतः
गत्वा मद्वालदेवी स्वजलजनिलयेट्-वासकोलूर्नगर्याम् ।
पुष्पोद्यानानि पद्माकरततिमपि तद्धाम च प्रेक्ष्य हृष्टा
शीतीभूतान्तरङ्गा ह्यतिकथनपथं त्वद्य हृष्यत्यतीव ॥ ६.७.५॥
हित्वा मे स्वोपयोगं मम शिशुहरिणी दूरगेतोऽद्य गत्वाऽ-
गस्त्याऽऽशा -फाल-भूषायित-शुभगुणवद्दिव्यकोलूर्नगर्याः ।
प्राप्य स्वश्रीपति श्रीनयनमपि तथा रक्तबिम्बाधरञ्चा-
वेक्ष्याऽश्रूद्गारि-दीर्घस्वदृगतिशिथिला मन्दमन्दा भवित्री ॥ ६.७.६॥
बाष्पाऽऽपूर्णाक्षियुग्मा भगवति च महामोहयुक्तात्मचित्ता
रात्र्यां श्लाघ्ये दिने चाश्रितकृतसुमहामोह ! हे ! इत्युदीर्य ।
गत्वेतस्सम्पदृद्धां तदधिशयनभूदिव्यकोलूर्-नगर्यां
गच्छन्ती नम्रनम्रा कथमिव शिथिलाङ्गी प्रवेक्ष्यत्यतीव ॥ ६.७.७॥
खिन्ने सूक्ष्मे वलग्ने कृतकरयुगला खिन्नखिन्नाऽतिनम्रा
शोकार्द्रीभूतचित्ता सृतनयनजला किन्नु शक्नोति गन्तुं ? ।
क्लान्तश्रीकान्त-पद्मापति-निवसति-भू-दिव्य-कोलूर्नगर्यां
प्रेमार्द्रीभूतहृन्मत्त्यजनपरमनाः मेऽभिरूपा कुमारी ॥ ६.७.८॥
दृष्टेष्वर्थेषु रम्येष्वियमधिकतरं तेषु तेष्वार्द्रहृन्मे
कृष्णस्यैवेति चास्ते तृणमिव निखिलं चाऽत्र सन्त्यज्य गत्वा ।
रथ्यास्थेषु प्रघुष्यत्स्वधिकमपवचः प्रोच्य कोलूर्नगर्यां
सूक्ष्मस्वात्मार्हभूषा नहि गणितवती किञ्चिदस्मान् गतैव ॥ ६.७.९॥
स्मर्तुं शक्ष्ये न देवाः ! पृथुदृगियमितोऽभ्येत्य बाला कुरङ्गी
शेषित्वं सर्वलोकेष्वपि दधतमुषस्स्थारविन्दायताक्षम् ।
नेच्छन्ती त्यक्तुमेव क्षणमपि तदधिष्ठानकोलूर्नगर्यां
धिक्कृत्यैवापवादं विततमपि कुले गन्तुमेव प्रवृत्ता ॥ ६.७.१०॥
(तात्पर्यरत्नावलीश्लोकः)
पारम्यात् भव्यभावात् स्रगभिहितिमुखैः श्रीशतैश्वर्यभूम्ना
स्नेहित्वादाभिरूप्यात् श्रितपरवशतासर्वलोकेशताद्यैः ।
धृत्यादेरादिहेतुं मुरमथनमथ व्याहरत् संश्रितानां
वेदानागस्त्यभाषावपुष उदधरत् श्रेयसे देहिनां यः ॥ ६.७.११॥
(प्रतिबिम्बलहरीश्लोकः)
निक्षिप्तं तं महान्तं निधिमिव मधुहन्तारमाक्रुश्य मञ्जर्युत्-
फुल्लोद्यत्-सुमश्री-वनवृत-कुरुकाधीट् शठारि-प्रणीते ।
एतत् गाथासहस्त्रे दशकमिह तदावास्यकोलूर्-नगर्यां
चित्तं कृत्वा पठन्तो ज्वलति विभुपदं यान्ति वैकुण्ठलोके ॥
(इति षष्ठशतके सप्तमं दशकम्)
श्रीमद्वेङ्कटशेषार्यमहादेशिकानुग्रहादविच्छिन्ना
॥ अथ षष्ठशतके अष्टमं दशकम् ॥
प्रतिबिम्बलहरीवृत्तं - शार्दूलविक्रीडितं
एतद्दशकप्रतिपाद्यगुणविशेषः- घटकवशकृतविभूतियुग्मत्वं
॥ सङ्गतिमणिमाला ॥
(मालावृत्तम्)
उपवनमधि मधुरकविपुरपथे
प्रियविरहशुगुपगतधरणितला ।
खगकुलमथ निजदयितपरिसरे
कथयति कथयत ! मम करुणमिति ॥
हे! सद्भव्यगुणाः! गणास्सुगरुतां सम्प्रार्थये पापिनी
पूर्वं सृष्टवतोऽखिलं जगदिदं कृष्णस्य मेघश्रियः ।
मत्शोभादिगुणापहार्युपकृतो विज्ञाप्य मे दुर्दशां
लोकं तं स्पृहणीयमप्यखिलमप्यण्डं स्वयं भुञ्जथ ॥ ६.८.१॥
अर्च्यक्ताञ्जनदीर्घनेत्रसुदृशां हस्तस्थिता मे पुरः
क्षीरेणाज्यसमाप्लुतं मधुरमप्यन्नं सदा भुञ्जथ ।
वीक्ष्य भ्रान्तसुदर्शनोज्ज्वलकरं बिम्बाधरं स्वामिनं
विज्ञाप्येह ममानुरागमृजुमागत्येह शीघ्रं शुकाः ! ॥ ६.८.२॥
श्लिष्टाः ! भृङ्गगणाः ! कुरुक्षितियुजे राट्-पञ्चकायोन्नटत्-
रथ्यात्युच्चरथस्थितेरुपकृतः कृत्वा चमूं भस्मसात् ।
भूषाशीततुलस्युपात्तमधुमत्-स्वास्यैर्जवादेत्य मां
मत्कैश्योपरि कान्तकान्तिकुसुमं स्फीतं रुवीतादरात् ॥ ६.८.३॥
हे ! भृङ्गा ! मम यूथिकासु निरताः पुष्पेषु पातुं रसं
याताश्चेदनृतं विधाय मयि मां विश्लिष्य पापां गतम् ।
दृष्ट्वा शीतमधुप्रवाहितुलसीमौलिं सुरेशं तु नः
योग्यैषा हि विधेति शुद्धमधुवाक्-तोषेण वाच्यं हि वः ॥ ६.८.४॥
वाच्यं वच्म्यहमेतदत्र भवतां मद्वर्धिता हे ! शुकाः !
सञ्चार्यैत्य खगं खराक्षमिह मे हर्तुं हृदस्सांहसः ।
रक्ताक्षं शितिमेघकान्तिमधरे रक्तं महाकल्पकं
यत्र क्वाऽपि गतास्समीक्ष्य वदत स्वार्हा विधैषा त्विति ॥ ६.८.५॥
मद्भोग्योज्ज्वलयज्ञसूत्रसदुराः मत्श्यामलेट् मामकः
कृष्णस्स्वोच्चपदस्थशीततुलसीं दद्यादृतेऽन्यत्र नः ।
अभ्यस्यन्त्विति शिक्षयैव भवतीरुक्त्वोक्तमुक्त्वा सुखं
गच्छन्त्वत्र मयोग्रपापधरया संवर्धिताश्शारिकाः !॥ ६.८.६॥
हे ! लीलाप्रतिमाः ! उमासुमरुचेः श्रीपुण्डरीकोपम-
स्वक्षस्याखिलचेतनाचित इमे भूत्वाऽद्भुतं तिष्ठतः ।
मत्-चक्रीशितुरस्तकेशिकठिनास्यस्यापि हन्तुर्मधोः
मद्वार्तां विनिवेद्य शक्रुथ ममाऽकं हर्तुमुच्चांहसः ॥ ६.८.७॥
निर्दोषच्छद ! शुद्धसारसपते ! विश्लेषमेत्येदृशी
पापिष्ठाऽहमनेककल्पनिचयं शोचामि कृत्वा दयाम् ।
ब्रूह्येकत्र दिनेऽमलासितरुचिश्रीकैश्यसूरीश्वरं
दृष्ट्वाऽस्ताघमृते न भवन्तमपरत्रैकाऽत्र नावेक्षते ॥ ६.८.८॥
तं हित्वैकसुरक्षकान्तरविनाभूताऽतिपापिन्यहं
पाथोवीचिचरास्समाहृतनिजाहारा! बृहन्नारदाः ! ।
कृष्णं नैल्यसमुच्चयोञ्चजलदाभं वीक्ष्य सूरीश्वरं
प्रत्युक्तीः प्रतिगृह्य चैत्य सदयं स्थित्वा वदन्त्वन्वहम् ॥ ६.८.९॥
अप्यन्ये भवदीयभव्यदयिता यूयं समेत्य स्थिताः
विच्छेदं तु विना विहाररसिका ! हंस्यस्सदाऽब्जोपरि ।
मां लक्ष्मीगृहवक्षसो मम गता त्वेतामवस्थामिमां
पश्येत्येकवच *रहस्युदीर्य वदत प्रव्याहृतास्तद्गिरः ॥ ६.८.१०॥
(* ``निबोध्य रहसि प्रत्युत्तरं ब्रूत मे''॥ इति च पाठान्तरम् ॥)
(तात्पर्यरत्नावलीश्लोकः)
लोकस्रष्टृत्वशक्त्याऽऽयुधसुभगतया जिष्णुसारथ्ययोगात्
स्रग्भ्राड्देवेशभावात् गरुडरथतया स्वाश्रिते पक्षपातात् ।
कान्त्या साम्राज्ययोगात् अवतरणदशास्पष्टपारम्यतश्च
स्वीयायत्तस्वभूतिद्वयमथ कथयामास देवं शठारिः ॥ ६.८.११॥
(प्रतिबिम्बलहरी श्लोकः)
सम्पाद्य स्ववचांसि साधु मधुभिद्स्वाम्यङ्घ्रिपद्मोपरि
प्राप्तोद्गन्धिसुमाटवीड्यकुरुकाराजत्शठद्विट्कृते ।
आविर्भूतसहस्रके दशकमप्यध्येतुमेकं त्विदं
शक्ताः प्रस्रवणस्थसूक्ष्मसिकतातुल्यं द्रवन्त्यम्बुवत् ॥
(इति षष्ठशतके अष्टमं दशकं )
श्रीमद्वेङ्कटशेषार्यमहादेशिकानुग्रहादविच्छिन्ना
॥ अथ षष्ठशतके नवमं दशकम् ॥
प्रतिबिम्बलहरीवृत्तं - शार्दूलविक्रीडितं
एतद्दशकप्रतिपाद्यगुणविशेषः - वैघट्यस्यानर्हत्वं
॥ सङ्गतिमणिमाला ॥
(मालावृत्तम्)
इति खगकुलमधि निजशुचमखिलां
कथयति विलपति विभुरवद``दहम् ।
सममथ किमशुच ?'' इति ``तव सुषमा
न पुर'' इति रुदति परपदगरवे ॥
आपो भूरनलोऽनिलश्च सुमहाऽऽकाशश्च भूत्वा श्रिया
सम्पूर्णे अपि तेजसी शिवचतुर्वक्त्रौ च भूत्वा स्थितम् ।
तैक्ष्ण्यापूर्णसुदर्शनञ्च धवलं शङ्खञ्च धृत्वा महा-
पापस्यैहि पुरो ममैकदिवसे तुष्ट्ये विभूत्योर्द्वयोः ॥ ६.९.१॥
आत्ताश्चर्य! मुदो द्वयोरपि विभूत्योर्वामनीभूय सं-
दर्श्यात्मीयबलं वशीकृतधरित्र्याकाश! नाथाऽद्भुत! ।
वीक्ष्य त्वामभिगम्य नर्तितुमहं प्रीत्या समीपं दिन-
एकस्मिन् समुपेत्य सञ्चरतु भो ! भूलोकमध्ये भवान् ॥ ६.९.२॥
भूमध्ये विचरन् शयान उपविश्याऽपि स्थितः कुत्रचित्
नानाऽनेकदिनेषु च प्रतियुगं जीवात्मरक्षाकरम् ।
त्वामप्राप्य महोतिसुन्दरमहालक्ष्म्या सहेतोऽप्यहं
दासोऽनेकबहुप्रकारदिवसेष्वार्तिं गमिष्यामि किं ? ॥ ६.९.३॥
शैथिल्यादपि भङ्गतश्च शकटामर्त्यद्विषो वक्षसः
द्वेधा प्राप्य विदारणं विनशितुं श्रीमत्पदप्रेरक ! ।
स्वामिन्! जृम्भितधातृरुद्रसुरराट्देवैर्वृतस्सेवकैः
लोके भात्यधिखं दिने क्वचन वा सेवार्थमागच्छ मे ॥ ६.९.४॥
सौख्यासीन ! परे पदे फणिगिरौ तिष्ठन् ! शयानाम्बुधौ
भूपृष्ठे विचरन् ! अदृश्यमहिमाऽप्येतेषु नित्यं वसन् ! ।
सङ्ख्यातीतबहिर्भवाण्डवसते ! मेऽन्तर्बहिर्व्याप्य च
स्वात्मानं स्थित ! मेऽप्रदर्श्य परमं रूपं किमन्तर्हितः ? ॥ ६.९.५॥
एकं पादमुदस्य विस्तृतमधस्तत्स्थाखिलाब्धिक्षमां
आक्रम्यैकपदेन लोकमखिलं विक्रम्य विक्रान्तवन् ! ।
त्वामाश्चर्य! दिदृक्षुरेषु दिवसेष्वाप्तप्रयासो बहु-
ष्वेवं किम्भुवि सञ्चराम्यनलसंसर्गे मधूच्छिष्टवत् ? ॥ ६.९.६॥
लोके सञ्चरमाणकर्मगतिकृत् भूत्वा च लोकस्तथा
लोकैकात्मतया व्यवस्थित ! बहिश्चाण्डादसङ्ख्यत्वतः ।
संवृद्धास्तु दिशो दश स्वमतिभिर्व्याप्यस्थितारूपका-
ऽसङ्ख्याज्ञानविवर्धितस्य मम हा ! हन्तानुकम्पां कुरु ॥ ६.९.७॥
मह्यं ज्ञानविनाकृताय विदुषामात्मन्! दयेथा महन् !
दासस्याऽप्यतिदूर! मे सुरभितज्योतिस्स्फुरद्विग्रह ! ।
कृत्वा कञ्चिदुपायमज्ञमपरस्यैकस्य बाह्येषु मां
कृत्वेतोऽप्यति बाधसे नु ? हृदये दासस्य मे व्याकुले ॥ ६.९.८॥
मुग्धे चेतसि पञ्चकर्तृकमहाबाधं सुखं लौकिकं
नानाऽल्पं खलु मां प्रदर्श्य जलधिं किं क्लेशयस्यंहसां ? ।
आक्रम्यावनिमात्मसात्कृतवतोः विस्तारपादाब्जयोः
प्राप्त्यै सन्निहितो न हा! कथमितोऽप्याह्वानकालस्तव ? ॥ ६.९.९॥
ह्रस्वत्वेन विनाकृते विरहिते दैर्घ्येण चानाशके
कल्पेष्वस्य बहुष्वसङ्कुचदनुल्लासे त्वनन्ते सुखे ।
प्राप्तेऽप्यद्भुत! पैनरुक्त्यरहितस्यापि त्वदैकान्त्यतो
दासस्य क्षणिकस्य हन्त ! सदृशं किं स्याद्विचारे कृते ? ॥ ६.९.१०॥
(तात्पर्यरत्नावलीश्लोकः)
सर्वात्मत्वात् जगत्याः क्रमणत उत संरक्षणाद्विष्टपानां
शत्रुध्वंसात् परत्वाद्यभिमतदशया पञ्चधाऽवस्थितत्वात् ।
निर्वाहादण्डकोट्या बुधदयिततया सर्वशीर्ष्यङ्घ्रिदानात्
मोक्षेच्छोत्पादकत्वात् हरिमथ शठजिद्वक्त्यनर्हद्वियोगम् ॥ ६.९.११॥
(प्रतिबिम्बलहरीश्लोकः)
*श्रुत्वा मत्वा विचिन्त्याऽपि वशयितुमशक्यस्य मामोहभाजो-
-ऽनन्यार्हद्दासदासप्रवणशठजिता तत्त्वविज्ञानमत्यै ।
प्रोक्तेऽस्मिन्नद्वितीये दशकमिदमतिप्रौढगाथासहस्त्रे
कुर्यात्तस्यैकदासं जगदिदमखिलं भुक्तवत्स्वामिपार्श्वे ॥ ११॥
(*अस्मिन् दशके पूर्वं गता श्लोका दशाऽपि शार्दूलविक्रीडितवृत्ते वर्तन्ते ।
अयमेकादशस्तावत् स्रग्धरावृत्ते इति वैलक्षण्यमिदमसहमानानां कृते
पितामहपादानुग्रहेण दासजनः श्लोकमिममपि शार्दूलविक्रीडितवृत्तेऽरचयत् ।
तस्य पाठः-
ध्यानेनाऽऽमननेन वा श्रवणतो दुर्ज्ञान(र्ज्ञेय)लक्ष्मीरतेः
दासद्दास्यवतां तु दास्यरतिना प्रोक्ते शठद्वेषिणा ।
स्पष्टीकृत्य सहस्र एवमतुले पङ्क्तिस्स्त्वियं स्यादलं
लोकं भुक्तवतः प्रभोस्समुचितान् कर्तुं प्रियान् किङ्करान् ॥
दृष्ट्वेमं तादृशाः तृप्यन्तु ॥)
(इति षष्ठशतके नवमं दशकम्)
श्रीमद्वेङ्कटशेषार्यमहादेशिकानुग्रहादविच्छिन्ना
॥ अथ षष्ठशतके दशमं दशकम् ॥
प्रतिबिम्बलहरीवृत्तं - शार्दूलविक्रीडितं
एतद्दशकप्रतिपाद्यगुणविशेषः- प्रपदनसुलभत्वं
॥ सङ्गतिमणिमाला ॥
(मालावृत्तम्)
अपि च विलपन उरु ददति न फलं
प्रपदनमिह सुदृढममितफलदम् ।
इति निजमनसि दधदुरसिकृतमं
व्रजति वृषगिरिनिलयमथ शरणम् ॥
लोकग्रासिविशालवक्त्र ! यशसाऽनन्तेन युक्तेश्वर !
स्थाय्याभावृतदिव्यरूप ! *वरपूर्ण ! प्राण ! दासस्य मे ।
लोकानां तिलकायिते सति वसन् ! श्रीवेङ्कटास्मत्प्रभो !
दासोऽहं कुलतश्चिरात्तवपदप्राप्त्या उपायं वद ॥ ६.१०.१॥
(* ``महितश्रीः ! प्राण ! दासस्य मे'' इति पाठो यतिभङ्गदवीयान् स्यात् ।)
कृत्वा क्रूरबलिष्ठसर्वदितिजान् खण्डानि भस्म क्षितिं
सूरीशाऽतिरुषा क्षिपत्-ज्वलनमुक्-श्रीचक्रदक्षाङ्गक! ।
पङ्काऽऽपूर्णसरोऽम्बुजाग्निविलसत् - श्रीवेङ्कटाद्रिस्थिते !
दासस्याऽस्य तवाङ्घ्रिमाप्तुमधिकप्रेम्णः प्रकारं वद ॥ ६.१०.२॥
सूरीश! स्वनिसर्गसत्कृपमनोहृन्मेघवर्णाद्भुता-
कारात्मेश ! मनः प्रविश्य महतामास्वाद्यदिव्यामृत ! ।
सत्-स्वच्छोत्सगहेममौक्तिकमणि श्रीवेङ्कटाद्रिस्थिते !
स्वामिन् ! त्वच्चरणाप्तये कुरु कृपां हा ! हेति दासस्य मे ॥ ६.१०.३॥
हा! हेत्युक्तिमृते जगद्व्यथयतां कृत्वाऽसुराणामसून्
वेध्यान् वह्निमुखेषुवर्षदधनुष्कश्रीमहाश्रीपते ! ।
देवा ! ऽमर्त्य-मुनि-व्रजादरपद-श्री-वेङ्कटाद्रि-स्थिते !
पुष्पापूर्ण-भवत्पदाप्तिकरणं मेंऽहोनिधेः कल्पय ॥ ६.१०.४॥
आश्लिष्टस्थितसप्तसालतरुभित्-चापैकवीरैकदा
हाश्लिष्टस्थितयोर्द्वयोश्च गतवन्! मध्येऽगयोः कारण ! ।
दार्ढ्यापूर्णपयोदतुल्यगजवत्-श्रीवेङ्कटाद्रिस्थिते !
दार्ढ्यापूर्णसुशार्ङ्गिणस्तव पदे दासः कदा वाऽऽप्नुयां ? ॥ ६.१०.५॥
किङ्काला ? वयमीक्षितुं मितधरं पादाम्बुजद्वन्द्वमि
त्येवाऽजस्रमुपेत्य सूरिभिरितैः प्रह्वैस्स्तवैस्सङ्घशः ।
कायेनाऽपि गिरा हृदोपचरित श्रीवेङ्कटाद्रिस्थिते !
सत्येनैत्य पदाब्जयोस्तव कदा दासस्य मे संश्रयः ? ॥ ६.१०.६॥
सूरीशादरतोऽनुभाव्य ! मम हे ! दासस्य दिव्यामृत !
स्वामिन् ! दावसमाघहौषध ! पर ! श्रीवेङ्कटस्थेश्वर ! ।
केतौ क्लृप्तनिजारितापिगरुड ! श्रीपक्वबिम्बाधर !
त्वत्पादं श्रयितुं विना व्रतमपि त्रुट्यप्यहं नोत्सहे ॥ ६.१०.७॥
दृष्टुं त्वच्चरणं विना व्रतमपि स्थातुं कथं वोत्सहे ?
इत्थं सूक्ष्ममतीश्वरासितगलापूर्णाब्जजेन्द्रादिभिः ।
मीनाक्षीसहितैः परैर्द्रुतवृतश्रीवेङ्कटाद्रिस्थिते !
मां व्यामोह्य तथैतवानिव कृते दासस्य चायाहि मे ॥ ६.१०.८॥
आगच्छन्निव नाऽऽगत ! स्वपरयोर्दूरस्थवच्चागत !
रक्ताब्जाक्ष ! फलारुणाधर ! चतुर्बाहाऽमृत ! प्राण ! मे ।
चिन्तारत्नरुचा दिनीकृतनिशश्रीवेङ्कटाद्रिस्थिते !
हन्ताऽहं तव पादमीषदपि वा दासो न हातुं क्षमे ॥ ६.१०.९॥
हातुं नेषदपि क्षमे त्विति सरोजस्थश्रिया* वीक्षित-
स्वोरो ! निस्तुलसद्गुण ! त्रिजगतामीशान ! मत्पालक !।
निस्तुल्य-त्रिदशर्षिसङ्ग-महित-श्री-वेङ्कटाद्रिस्थिते !
दासोऽनन्यगतिस्त्वदीयपदयोर्मूले परं सुस्थिरः ॥ ६.१०.१०॥
(*श्रीपितामहपादानां मातृकायां ``श्रिया वीक्षित''- इत्येव लिखितमस्ति ।
परन्तु ``श्रियाऽध्यासित-'' इति पाठो युक्तस्स्यादिति भाति ।)
(तात्पर्यरत्नावलीश्लोकौ)
आपत्संरक्षणादर्युपकरणतया मेघसाम्यादिभूम्ना
स्वानां विश्वासदानात् सुरगणभजनात् दिव्यदेशोपसत्त्या ।
प्राप्याप्राप्यत्वयोगात् स्वजनविजनयोः सत्प्रपत्तव्यभावात्
ऊचे नाथं शरण्यं श्रुतिशतविदितं वेङ्कटेशं शठारिः ॥
इत्थं सद्वारगम्यं स्वयमितमसहस्स्थायिनां योजनार्हम् ।
कर्षन्तं स्वैश्चरित्रैः विघटितविजनं स्वान्वितस्थेयदक्षं
वैघट्यस्याप्यनर्हं प्रपदनसुलभं प्राह षष्ठे शरण्यम् ॥ ६.१०.११॥
(प्रतिबिम्बलहरीश्लोकः)
दासाः! जीवत पादमूलमचलाः प्राप्येति वर्षत्कृपं
श्रेष्ठं श्रेष्ठविधं सुभूमिकुरुकाधीशा शठारातिना ।
पूर्त्यै प्रोक्तसहस्रकाधि दशकं श्रीवेङ्कटाद्रेरिदं
प्राप्योत्कर्षमुपाश्रिताश्श्रितवतस्सुस्थाः परे व्योमनि ॥
(इति षष्ठशतके दशमं दशकम्)
॥ इति षष्ठं शतकं समाप्तम् ॥
॥ श्रीमते रामानुजाय नमः ॥
श्रीमद्वेङ्कटशेषार्यमहादेशिकानुग्रहादविच्छिन्ना
॥ प्रतिबिम्बलहरी - सप्तमं शतकम् ॥
प्रतिबिम्बलहरीवृत्तं - शार्दूलविक्रीडितं
॥ अथ सप्तमशतके प्रथमं दशकम् ॥
एतद्दशकप्रतिपाद्यगुणविशेषः - शाठ्याशङ्कासहत्वं
॥ सङ्गतिमणिमाला ॥
(मालिनी)
``शरणमुपगतोऽहं श्रीपुरो वेङ्कटेशं
परमपदनिवासस्सद्य एवे''ति तुष्टः ।
पुनरपि खविहारस्थानवासाप्तभीतिः
कपटधिषणयेतं तं विशङ्क्याऽथ रौति ॥
अन्तस्सञ्चरदक्षपञ्चककृतां पीडामवापय्य मां
हित्वा त्वत्पदपङ्कजाश्रयमितोप्याध्यायसे पीडितुम् ।
सङ्ख्यातीतमहाद्भुतात्मचरितामर्त्येड्यलोकत्रयी-
नाथाधीश्वर! नित्यभोग्य ! पितृवत्क्लृप्तेष्ट ! मद्रक्षक ! ॥ ७.१.१॥
मां स्वीकृद्भिरमीभिरुद्बलविभूभूतासमैः पञ्चभिः
त्वत्सृष्टैः त्वदनाश्रयाय गतवान् नक्तं दिवं पीडया ।
हे! गौडामृत ! नीलमेघनिभ ! साम्बोधिक्षमापालक !
ज्वालोल्लासिसुदर्शनाघनिधिमत्शेषिन् ! सुवेद्य! श्रुतौ ॥ ७.१.२॥
पञ्चाक्षैरतिबाधकैरघयुतं मां पीडयित्वा तव
श्रीपादाश्रयसिद्धिनष्टमिह मां रुन्धन् बताप्नोषि किं ? ।
हेतूभूय भुवं सृजन् ! पृथुमदन्नुद्गीर्य विक्रम्य चो-
द्धर्तुः! तुङ्गमहः किरीटचपलायास्मै मधोस्सूदन ! ॥ ७.१.३॥
कांश्चित् पञ्च हि दर्शयन् अविदितत्वद्वञ्चनं भ्रामयन्
मां कृत्वा तव पादपद्मभजनात् दूरेऽसि यातः किल ।
निश्शेषं चिदचिद्गणं त्वदुदरे पूर्वं प्रवेश्योच्चकैः
कस्मिन् वाटदले शयान! शिशुकाघाब्धेर्ममाघौषध ! ॥ ७.१.४॥
कृत्वा मामनिवर्तकौषधि तुदत् पञ्चामये तैलकृद् -
यन्त्रे पीडकपञ्चकञ्च पुरतः पार्श्वे च बध्वान्यथा ।
यासीवेह भवेत् क औषधमरिक्रूरारिधारी सुरा-
रातीनां बलमूलवत्कुलमहो छिन्दान! सूरीश्वर ! ॥ ७.१.५॥
सूरीशस्य तवापि किङ्करजनान् किं पीडयन्तो हामी
पञ्चाक्षा भुवि मां श्रयन्ति यदि नो कुर्युस्त्वयाप्युज्झितम् ।
गीतिस्थास्थितकाव्य! भक्तिवशगाऽगच्छन् परेशेह मत्-
चक्षुष्यान्तरचित्तमध्यग! वचोवर्तिन् ! वदैकं हितम् ॥ ७.१.६॥
उक्त्वैकं बलिनोऽस्थितान् अनुपमान् पञ्चैकरीतौ खलान्
त्वत्कारुण्यमृते कदा कथमहं जेतुं पुनश्शक्नुयां ? ।
गीर्वाणेषु तदासुरेषु विमुखेष्वब्धौ तरङ्गिण्यहिं
संवेष्ट्यैकगिरिं मदीश ! हितवन् मत्पेयभोग्यामृत ! ॥ ७.१.७॥
भूत्वा भोग्यसुधासमानमसमान् पञ्चाखिलोन्मोहने
त्वत्क्लृप्तामखिलां पुराभवमहामायां समूलं हरन् ।
मां त्वच्चिह्नसुविग्रहस्तुतिनतिध्यानैः दयेथा युतं
कर्तुं हे! मम कृष्ण! मातरयि! मे सूरीट्कुलादीश्वर ! ॥ ७.१.८॥
आमूलात् कुलहृत्खराघदमहागर्ते क्षिपत् पञ्चक-
स्थैर्यध्वंसमभीष्टमेव नियतं दत्वा दयेथा इतः ।
भूलोकादिजगत्स्थिताचरचराकाराखिलार्थान् पुरा
नानाकारण! सृष्टवन्! मम परज्योतिश्च मत्कृष्ण ! भोः ! ॥ ७.१.९॥
त्वामाक्रुश्य सदा मदीयपरमज्योतिस्स्वरूपेति ते
पादाब्जद्वयरागतो द्रवति मय्यन्यं भरं चाप्यदाः ।
आरोप्य प्रबलं भरं दिशि दिशि त्वाकृष्य पञ्चापि मां
बाधन्तेऽमृतहारिशोभनतनो ! पूर्वं मथित्वाम्बुधिम् ॥ ७.१.१०॥
(तात्पर्यरत्नावलीश्लोकः)
निस्सङ्ख्याश्चर्ययोगादतिमधुरतयाऽथो जगत्कारणत्वात्
न्यग्रोधार्हत्वभूम्ना त्रिदशपतितया वाङ्मनस्सन्निधानात् ।
पीयूषस्पर्शनाद्यैरखिलपतितया लोकसंरक्षणाद्यैः
शाठ्याशङ्कां सहेत त्रितनुरसुरहेत्याह चिञ्चान्तिकस्थः ॥ ७.१.११॥
(प्रतिबिम्बलहरी श्लोकः)
निस्तुल्यास्त्रिगुणावहाकृतिधरा भूत्वा त्रयस्ते जगत्
सृष्ट्वाऽऽरक्ष्य च हिंसतः *कमलनाभेः तोयशायीशितुः ।
दासाङ्घ्र्याश्रितदासदासशठजित्प्रोक्ते सहस्रे दशा-
येता वीक्ष्य तु गायतामघततिः नश्येन्निशा चाप्यहः ॥
(*अत्र यतिभङ्गनिवारणाय ``कमलनाभ्यम्बोधिशायीशितुः । '' इति पाठो वा स्यात् ।)
(इति सप्तमशतके प्रथमं दशकं )
॥ श्रीमते वेङ्कटशेषार्यमहादेशिकाय नमः ।
॥ अथ सप्तमशतके द्वितीयं दशकम् ॥
प्रतिबिम्बलहरीवृत्तं - स्रग्धरा ।
एतद्दशकप्रतिपाद्यगुणविशेषः - प्रशमितजनतागर्हणत्वं
॥ सङ्गतिमणिमाला ॥
(मालिनी)
इति विलपति सूरौ तत्प्रबन्धप्रपूर्त्या
जगदुपकृतिदृष्ट्या जोषमासीद्धरिश्च ।
पुनरपि खविहारस्थानवासाप्तभीतिः
कपटधिषणयेतं गर्हते मातृवाचा ॥
निद्रां नक्तं दिवं नैत्यपि नयनजलं सिञ्चतीयं कराभ्यां
हस्ताब्जे शङ्खचक्रे इति कुचयति पद्माक्षिणीत्येति चार्तिम् ।
वक्ति त्वां किं विना स्यामिति विपुलधरां मार्जयन्ती कराभ्यां
आस्ते स्यां किं चिकीर्षुः विहरदरुणमीनाम्बुमद्रङ्गशायिन् ! ॥ ७.२.१॥
वक्तीयं किं चिकीर्षस्ययि मम कमलाक्षेति बाष्पाविलाऽस्ते
कुर्यामुच्चाम्बुरङ्गेशय! किमिति गता हृद्द्रवं श्वासमुष्णम् ।
आहैह्याद्याघ! मे दृक्पथमिति किमिदं युक्तमभ्राभ! चेति
प्राक् सृष्ट्वादन्! किरंस्तत् जगदथ मितवन् ! किन्नु निष्पन्नमस्याः ? ॥ ७.२.२॥
नाल्पापि ह्रीरमुष्या वदति मणिनिभेतीक्षते खञ्च मुह्यत्य
द्वैतीयीकशूरामरभिदसुहरेत्येव वक्ति द्रुतान्तः ।
नेत्राग्राह्य! त्वदीक्षोपधिमुपदिश *काकुत्स्थ ! कृष्णेति वक्ति
प्रोच्चप्राकारबद्धध्वजपरिवृतरङ्गेट् ! किमस्याश्चकर्थ ? ॥ ७.२.३॥
(* अत्र यतिभङ्गनिवारणाय पाठः - ``हे! कृष्ण! काकुत्स्थ! चेति'' ।)
आस्ते न्यस्ताङ्घ्रिहस्तोत्थितियुगितगतिर्मुह्यति प्राञ्जलिर्हा !
कष्टं प्रेमेति मूर्छत्युदधिसमरुचे! निर्घृणोऽसीति वक्ति ।
उक्त्वोक्त्वेहीति मुह्यत्यभित इत मुखार्युल्लसत् दक्षहस्ते
त्याहोच्चैश्शिष्ट किं ते व्यवसितमुदकापूर्णरङ्गेशयास्याम् ॥ ७.२.४॥
ध्यात्वा मुह्यत्यमोहा नमतिरचयति; स्वञ्जलिं; रङ्गनाथेत्या-
हात्रास्राविलाक्षं; वदति निकटमेहीति तूक्त्वैति मोहम्; ।
सायं हैरण्यदेहोद्दलन ! मथितसद्वीचिवार्धेति भोग्य !
प्राप्य ! त्वत्पादयुग्माश्रयदृढसुतनुं प्राप्तमोहां विधायिन् !॥ ७.२.५॥
कृत्वा व्यामुग्धकृत्यं मम हृदयहराहो ! महाश्चर्यचेष्टेत्-
याहाताम्राधरश्रीमणिनिभ! हिमतोयाढ्यरङ्गेशयेति ।
ब्रूते; चोग्रासिदण्डाम्बुजलसदरिराट्शार्ङ्गभृत्सूरिमूलेत्-
याह स्फायत्फणाहीट्शयन ! वद महाम्होमदाचर्यमस्याम् ॥ ७.२.६॥
आहानालम्बगत्यै स्थितियुत ! नियमात् सृष्टवन् दुःखसौख्ये
हे ! कृष्ण ! स्थानमब्धिं श्रित ! जलधिरुचे ! कालचक्रावहेति ।
वक्त्यन्तर्मत्स्यशीतामृतवृतशुभरङ्गेडिति स्वीयतीर्थे-
त्याहास्ते मेऽम्बुवर्षत्शुभपृथुदृगियं साश्रुरत्यन्तऽमृद्वी ॥ ७.२.७॥
सूरिश्रेष्ठेति वक्ति; क्षितिधरधरणात् गोगणत्रेति वक्त्-
यारोदित्यानम्य सोष्णं श्वसिति; दवसमात्माञ्जनाभेति वक्ति; ।
उत्थायालोक्य खञ्चास्त्यनिमिषनयना लोकयिष्यामि किं वेत्-
याह श्रीमत्कुमार्या मम किमु करवै श्रीमहाम्ब्वाप्तरङ्गेट्! ॥ ७.२.८॥
मच्छ्रीदेव्याप्तवक्षस्त्विति वदति; मम प्राणभूतेति वक्तिः-
त्वच्छ्रीमद्दंष्ट्रया प्रोद्धृतविधृतमहीप्राणनाथेति वक्ति; ।
तत्काले क्लृप्तसप्तोद्द्रवभटवृषमथन त्वद्गनीलाप्रियेति
ब्रूते श्रीरङ्गमाप्तस्वपदमिति न *पश्यामि शोकान्तमस्याः ॥ ७.२.९॥
(* चावेमि - इति पाठे यतिभङ्गो न स्यात् ।)
स्वस्या दुःखान्तमेषा कमपि न गणये त्रातलोकत्रयेति
ब्रूते; ``गन्धाधिकारग्वधजट ! चतुर्वक्त्रदेवे ``ति चाह; ।
ब्रूते सद्रूपसूरीश्वर ! कृतशुभसद्रङ्गवासेति चोक्त्वा
तत्पादाप्त्याशयास्तान्वयमगमदुपागत्य मेघाभपादौ ॥ ७.२.१०॥
(तात्पर्यरत्नावलीश्लोकः)
श्रीरङ्गे सन्निधानात् निखिलजगदनुस्रष्ट्रताद्यैश्शुचित्वात्
विध्वस्तानिष्ठभावादुरगशयनतः पुंसु कर्मानुरूपम् ।
शर्माशर्मप्रदानात् जलदतनुतयोपक्रियातत्परत्वात्
स्वामी स्वानां विगर्हामुपशमर्यात चेत्याह धीमान् शठारिः ॥ ७.२.११॥
(प्रतिबिम्बलहरी श्लोकः)
मेघाभाङ्घ्रयाश्रयोत्तंसितकृपमुदितोज्जीविना ताम्रपर्ण्याः
पूर्णायाः स्वच्छकाढ्योपवनसुकुरुकाश्रीशठारातिनोक्ते ।
मेघाभाङ्घ्रिप्रतिस्रक्समदशशतवत्सूक्तिमध्ये दशेमाः
अध्येतारोऽभ्रभाभ्रे त्रिदशपरिवृतास्स्युर्महानन्दसिन्धौ ॥
(इति सप्तमशतके द्वितीयं दशकं )
॥ श्रीमते वेङ्कटशेषार्यमहादेशिकाय नमः ।
॥ अथ सप्तमशतके तृतीयं दशकम् ॥
प्रतिबिम्बलहरीवृत्तं - स्रग्धरा ।
एतद्दशकप्रतिपाद्यगुणविशेषः - स्पष्टरक्षत्वं
॥ सङ्गतिमणिमाला ॥
(मालिनी)
अथ भगवति तत्संश्लेषमस्यै प्रदाय
श्रितरिपुमृगयायै याति सम्प्रेष्य बाला ।
विरहफलविषादाज्ञानतः खेद आप्तेऽ-
नुजिगमिषति कान्तं वार्यमाणाऽम्बयाऽऽल्या ॥
धृत्वा चक्रं ममान्तर्हृदि सुषिरवता शुभ्रशङ्खेन चाम्बाः !
नेक्षध्वे पद्मदृष्टेः खगनयनविधां तां किमुक्त्वा वदिष्ये? ।
सानन्दौघस्य तस्योत्तमभवनगृहं नित्यवेदोत्सवोद्यत्-
क्रीडत्बालौघघोषां स्वयमिह नगरीं सम्प्रवेक्ष्येऽद्य बेराम् ॥ ७.३.१॥
हे! सख्यो! गन्धयुक्तासितकचनिचया मातरोन्याश्च पौर्यः !
नाहं रक्षेयमेकं मन इदमवशं मेऽद्य नक्तं दिवञ्च ।
कृष्णस्याल्याढ्यपुष्पोपवनशिशिरभूयुत्सुबेरासिकस्य
श्रीवैकुण्ठस्य रक्ताधरफलविवशं रत्नशीलस्य गत्वा ॥ ७.३.२॥
चेतः श्रीरक्तबिम्बाधरवशमरुण श्रीमहामौल्यधीनं
चक्रं शङ्खेन दृष्ट्वा सखि ! समुदयदृक्पद्मयोरेव शेषम् ।
मासे घस्रे च नित्योत्सवयुतशुभ *बेरापुरे स्वासिकस्य
स्वेनास्मत्स्वामिनः स्वां ह्रियमपि सहजां पूर्तिमप्यत्यजन्मे ॥ ७.३.३॥
(* ``शुभसत्बेरिकास्वासिकस्य'' इति व पाठो यतिभङ्गभीतानाम् ।)
मत्त्यक्तश्रीनिमित्तं मम तमुपगतान्येव तत्रैव लग्नानि
उच्चैश्चेतांस्थितः कं शरणमुपगताकस्य वक्ष्यामि किं वा ? ।
सर्वत्राप्यूर्मिमालिध्वनिशुभनिगमोद्घोषबेरासिकस्य
क्रोधात् किं मातरो मे ? मुखरदरकरस्याद्य मायास्वमज्जम् ॥ ७.३.४॥
हन्तुः कोपादनोन्तःककुभमभियतः पूतनास्तन्यपातुः
क्षेप्तुर्वत्सान् कपित्थे फलिनि निहितवत्यस्मि कृष्णोपकर्तुः ।
स्त्रीत्वं मे किं क्रुधेतः कुरुत गुरुजनाः पूर्वमेवैत्य तेनाऽ-
ध्यस्ते बेरापुरे फल्यगमवनवृते मङ्क्षु मां दर्शयध्वम् ॥ ७.३.५॥
शीघ्रं सन्दर्शयध्वं पृथुरिह जलधेरप्यतीवानुरागः
नीलाभ्रश्रीर्मदीशो धुरि भवति ममागत्य नो हस्तगृह्यः ।
भूमावागत्य तस्याश्रयणभुवि चतुर्वेदविद्यागपूर्णे
नीवारैर्वीज्यमानव्यजनवति शुभैस्त्यापबेरापुरे माम् ॥ ७.३.६॥
ध्वस्तोच्चैस्सालरत्नाकरवृतिमदवाचीनलङ्कास्मदीशः
प्राप्य प्राप्ताश्रये मे हृदनुविशदिहान्विष्य बेरापुरेऽथ ।
आगच्छन्नैव वीक्षे सखि ! तदिह वयं किं सहाया न तस्या-
हूतौदक्षाश्च नान्यैः किमपि मम गतीः मन्मनोमार्ग एव ॥ ७.३.७॥
बाह्यं दृष्ट्वैव सर्वे सखि! मम मिलिताः नीलसिन्धुस्वभावे
नास्मत् प्रेमावलम्ब्यात्यपवदनकृतः तत्प्रभृत्युत्थरागे ।
वक्तव्येऽतीत्य मृत्स्नादृढभुवमुदधीन् सप्त भूयान् परं खं
स्वच्छाम्भस्ताम्रपर्णीवृततदधिगतां प्राप्य बेरां श्रयिष्ये ॥ ७.३.८॥
गत्वा प्राप्स्यामि सख्यो ! मम सगुरुजना ! मां तु माश्वासयेत
युष्माभिर्वाच्यमत्रास्त्यपि किमिह; न मे स्त्रीत्वपूर्तिर्मनश्च; ।
नीलश्रीकस्य नीलाम्बुधिवृतवसुधाभोजिनः कृष्णनेतुः
प्राप्यावासे वृषाढ्योज्वलधरणिजलक्ष्माप्तबेरोच्चपुर्याम् ॥ ७.३.९॥
मत्सख्यो! मे न लज्जा नगरजनपदेष्न्यतोऽन्वेषयामि
*श्रीरत्नप्रोच्चसाग्रस्थिरगृहशुभबेरापुरीमास्थितोऽरीन् ।
हन्तुं प्राक् क्लृप्तबुद्धिश्शतमपि मकरीदीर्घभूषाढ्यकर्णः
मायी चक्री स्थितोऽभ्रद्युदसदृगधिकं हृन्ममादाय कालम् ॥ ७.३.१०॥
(*``मधुरां बेरिकामास्थितोऽरीन्'' । इति पाठे यतिभङ्गभीर्न स्यात् ।)
(तात्पर्यरत्नावलीश्लोकः)
पद्माक्षत्वेन हृत्स्थः परमखनिलयः स्वोपकारी विगर्जत्-
शङ्खोऽनिष्टप्रहर्ताऽऽदरविलसनकृद्रक्षकोऽम्भोधिदृश्यः ।
आपत्संरक्षकश्श्रीमकरवरलसत्कुण्डलस्स्वाङ्गकान्त्या
स्वेषु स्वं गोप्तृभावं प्रकटयति हरिश्चेत्यशंसत् शठारिः ॥ ७.३.११॥
(प्रतिबिम्बलहरीश्लोकः)
कल्पे कल्पे विभिन्नं दधतमपि वपुर्नामकर्माच्युतं क्ष्मां
रक्षन्तं वार्द्धिकाभं प्रति शुभकुरुकेट् श्रीशठारिप्रणीते ।
निस्तुल्येऽन्तादिगाथा दश च दशशतेऽमूरतुल्येधिबेरं
प्राप्य स्तोतुं समर्थाः अरिरुचिरकरं दास्यवर्गेऽस्य मग्नाः ॥
(इति सप्तमशतके तृतीयं दशकम्)
॥ श्रीमते वेङ्कटशेषार्यमहादेशिकाय नमः ।
॥ अथ सप्तमशतके चतुर्थं दशकम् ॥
प्रतिबिम्बलहरीवृत्तं - स्रग्धरा ।
एतद्दशकप्रतिपाद्यगुणविशेषः -स्वरक्षाक्रमव्याकर्तृत्वं
॥ सङ्गतिमणिमाला ॥
(मालिनी)
विजयिनि मृगयातस्तावताऽस्मिन् निवृत्ते
मकरसदृशकर्णाभूषणश्रीपुरात्तम् ।
प्रियमुपसरतीयं सम्परीरब्धुकामा
समरविजयगानं कुर्वती मोदमाना ॥
चक्रे शङ्खे च शार्ङ्गे दिशिदिशि नुतिभिः वर्धमानेषु वृद्धिं
कौमोदक्या च खड्गे भजति शिरसि संवर्धमाने च पादे ।
अण्डोद्भेदोत्थतोये प्रवहति सुतरां वर्धमाने सुसत्त्वे
काले नाथीयलोकाक्रमचणचरणद्वन्द्वचारप्रकारः ॥ ७.४.१॥
यान्तीनां स्वस्वजन्मक्षितिसधरमुखमावृत्त्य घोषो नदीनां
मन्थानाद्रेर्निघर्षध्वनिरुरगपतेर्भोगसंवेष्टनेन ।
अब्धेस्सव्यापसव्यभ्रमजनितसमाक्रोशघोषश्च जातस्-
सारोद्धारं सुधास्वीकृतिमहसमये स्वामिनो देवतुष्ट्यै ॥ ७.४.२॥
शैलास्सप्ताप्यभूवन् विगतविचलनास्स्थानतो हन्त ! किञ्च
द्वीपास्सप्ताप्यभूवन् विगतविचलनास्स्थानतो हन्त ! किञ्च ।
पारावाराश्च सप्तानधिगतचलनास्स्थानतो हन्त ! नेतुः
दंष्ट्राग्रेणाण्डभित्तेः भुवमतिरभसोत्पाट्य चोद्धारकाले ॥ ७.४.३॥
अह्नां नाशे भुवोऽपामपि भवति लये खग्रहाणाञ्च नाशे
प्रध्वंऽसेऽग्नेश्च वायोस्सति धरणिभृतां मूलनाशे च जाते ।
जाते नक्षत्रनाशे लयसमयमहापत्सखस्योपकर्तुः
घोषे सर्वादनस्याप्यहह! निखिलभूभक्षणं भक्षितं तत् ॥ ७.४.४॥
सम्पुष्टाहारमल्लोच्चलनमथनसङ्घर्षजातध्वनिर्मा-
पालानां पौरुषाढ्यप्रतिबलपृतनाकम्पजातध्वनिश्च ।
युद्धस्याभ्रे दिदृक्षागतगणितपुरोदृश्यदेवध्वनिश्च
प्रेक्ष्येऽस्मत्स्वामिहस्तप्रचलनसमये भारते चित्रमासीत् ॥ ७.४.५॥
क्षीणे घस्रे *च सन्ध्यासमय अरुणिते दिक्षु सर्वासु चाभ्रे
व्याप्तोद्यद्रक्ततोयं त्वधरितमहितक्षोणिभृद्दारणेन ।
सिम्हेनाप्तोपमासीत् खलु मम नृहरेः स्वामिनोऽगाधदुःखा-
न्युत्पाद्योच्चैर्हिरण्यासुरकरिवरसंहाररीतिर्विचित्रा ॥ ७.४.६॥
(* यद्येप्येवमेव श्रीपितामहानां हस्तलिखितायां मातृकायं पाठोऽस्ति तथाऽपि
सन्धिमर्यादायै ``ऽधिसन्ध्यासमयमरुणिते'' इति पाठस्स्यात् । अथवा ``च
सन्ध्यासमयदरुणिते'' इति पाठः स्मात् ।)
अन्योन्यस्याऽभिमुख्यादपतदपि समाहत्य शब्दायमानो
बाणौघः शैलकल्पेष्वहह ! शवगणेष्वप्यसङ्ख्यं लुठत्सु; ।
रक्ताम्भः पूर्णतोये सरिदभिमुखतां याति चाब्धौ समस्ते;
भस्मीभावेन लङ्काविनशनसमये सर्वलोकोपकर्त्रा ॥ ७.४.७॥
आयातः कान्दिशीकोऽभवदभिमुखतो नीलकण्ठध्वजोऽथ
प्रभ्रष्टोऽभूत् ज्वलन्नप्यभिमुखमनलोऽभ्येत्य पश्चात् पुनश्च ।
चक्रे स्वामी त्रिणेत्रस्तदभिमुखमवस्थित्यशक्तः पलायां
पश्चात्; प्रभ्रष्टबाणासुरदृढभुजविच्छेदकाले पितुर्मे ॥ ७.४.८॥
पृथ्व्यप्तेजोमरुत्खप्रबलगिरिमुखास्तत्क्षणादेव सृष्टाः
सूर्यश्चन्द्रश्च तेजोप्यपरमपि तदैवास सृष्टं पुनश्च ।
मेघा जीवाश्च देवाः पुनरपरपदार्थाश्च सृष्टास्तदादि-
स्रष्टुर्लोकस्य सृष्टिः पुनरियमखिलस्वामिनोऽत्यन्तचित्रम् ॥ ७.४.९॥
गोसङ्घेऽधोमुखीते भवति तृणचरे वेष्टमाने मृगौघे
कीलालौघे सघोषं प्रवहति परितः पूरिते निर्झराणाम् ।
गोबृन्दोपेतसर्वव्रजसुखवसतिप्राप्तयेऽधः प्रभुर्मे
घोरां गोवर्द्धनाद्रिं समुदवहदहो ! वर्षभीतिं निवार्य ॥ ७.४.१०॥
(तात्पर्यरत्नावलीश्लोकः)
विक्रान्त्या विष्टपानाममृतमथनतश्चोद्धृतेर्भूतधात्र्याः
कल्पे लोकादनाच्च क्षितिभरहरणाद्दैत्यराजप्रहारात् ।
लङ्कासङ्कोचकत्वादसुरभुजवनछच्छेदनाल्लोकसृष्टे-
र्धृत्या गोवर्धनाद्रेस्स्फुटजगदवनप्रक्रियं श्रीशमाह ॥ ७.४.११॥
(प्रतिबिम्बलहरीश्लोकः )
अद्र्युद्धर्तुः प्रभाश्श्रीचरणयुगरतैस्साकमैक्येन नित्यं
दास्यं प्राप्य स्थितस्य प्रथितशठजितो वाक्प्रवृत्तिस्वरूपे ।
सत्सन्दर्भेण युक्ते निरुपमरसवत्य गाथासहस्रे-
त्वादृत्याभ्यस्यतां सत् दशकमरिजयं त्वेतदत्र प्रयच्छेत् ॥
(इति सप्तमशतके चतुर्थं दशकम्)
॥ श्रीमते वेङ्कटशेषार्यमहादेशिकाय नमः ।
॥ अथ सप्तमशतके पञ्चमं दशकम् ॥
प्रतिबिम्बलहरीवृत्तं - शार्दूलविक्रीडितं
एतद्दशकप्रतिपाद्यगुणविशेषः - सर्वस्नेहित्वम् ।
॥ सङ्गतिमणिमाला ॥
(मालिनी)
प्रियविजयकथायामेतदर्थे स्वमेवं
कृतवति भुवनेऽस्मिन् तं विहायैष लोकः ।
अटति विषयवर्गानित्यसौ विस्मयोक्तीः
अपवरकहिरण्याज्ञातृतां चास्य वक्ति ॥
अभ्यस्यन्ति किमन्यमभ्यसिनिनो रामं विना स्वामिनं ?
सर्वं क्षुद्रपिपीलिकादि विसरद्दूर्वादि निर्हेतुकम् ।
नन्दत्सर्व चराचरं शुभधरायोध्यापुरेऽवेशयत्
यस्सृष्टेषु चतुर्मुखेन भुवनेष्वुच्चस्वभावं पदम् ॥ ७.५.१॥
लोके किं जनिता भवन्ति परतो नारायणात् किङ्कराः ?
लोकेऽत्राप्यवतीर्य मानुषकृते सोढ्वा दशां दुस्सहाम् ।
लोके बाधकराक्षसानभिसरन् हत्वाऽभिरक्ष्याखिलं
लोकं स्वाननुरञ्जयन् निजगुणैश्श्रुत्वापि धामोद्गतिम् ॥ ७.५.२॥
श्रोतारः किमु केशवस्य तु परं शृण्वन्ति कीर्तिं विना ?
श्रोतृश्रोत्रविदाहिनीः प्रलपतो नीचास्तु निन्दा गिरः ।
प्रत्नानादिविरोधिभूत *शिशुपालस्येश्वरस्यात्मनः
सायुज्यं पदपङ्कजस्य ददतो ज्ञात्वापि तत्त्वं विदः ॥ ७.५.३॥
(* ``शिशुसम्पालस्य च स्वामिनः'' इति पाठे यतिभङ्गवारणं स्यात् ।)
किं तस्मात् स्वयमन्यदास्यमयते ज्ञातस्वभावो जनः
नानाव्याप्तचराचराखिललयस्थाने महानेहसि ।
सृष्ट्वा श्लाघ्यजलं चतुर्मुखमथो सृष्ट्वाऽण्डमध्ये पुरा
स्वस्मिन् मोहितसर्वसृष्टिचतुरां सञ्चिन्त्य शक्तिञ्च ताम् ॥ ७.५.४॥
श्लाघ्योपायविचिन्तनेऽद्भुतगुणस्याङ्घ्रि विना यान्ति किं ?
श्रुत्वाऽगाधमहाजले वसुमतीं मग्नां विलम्बं विना ।
ध्वस्ताधःपतनं स्वयं धृतवतस्स्वीयैकशृङ्गाग्रतः
श्रीमत्कोलवपुष्मतोऽवतरणं सम्यग्विचार्याऽपि ताम् ॥ ७.५.५॥
श्रुत्वा किन्नु भवन्ति चिन्तनपराः किं किङ्कराः केशवात् ?
अन्येषां स्थिरदातृताञ्चितकरे स्वान् बाधमाने बलौ ।
बाधां प्राप्य च सङ्घशो दिविषदां आगत्य रक्षार्थिनां
दुःखच्छित्कुचिहस्तवामनतया क्लृप्ताद्भुतान् वीक्ष्य च ॥ ७.५.६॥
द्रष्टारश्च विवेकिनश्च विबुधाः कृष्णान्यदासाः कथं
स्युर्माध्वीलिहलेह्यपुष्पसर *मार्कण्डेयदीर्घायुषे ।
तेनानल्पजटाकमूर्धनि शिवे साकं लपत्यागते
तं स्वीकृत्य तदा स्वमध्यकरणं ज्ञात्वापि संस्थापनम् ॥ ७.५.७॥
(*अत्र यतिभङ्गनिवारणाय पाठः युक्-शैवर्षि-दीधोदुषे इति अङ्गीकार्यस्स्यात् ।)
प्राज्ञाः किन्नु पठन्ति शोभनगुणान् हित्वान्यदुच्चैश्श्रियः ?
वेलातीतमहत्तरेण तपसा लोकेषु पीडाकृतः ।
देवानामपि दुःखदस्य कठिने काये हिरण्यस्य तत्
येनाश्चर्यमहानृसिम्हवपुषा ज्ञात्वापि क्लृप्ताद्भुतम् ॥ ७.५.८॥
आश्चर्याचरितात् स्युरद्भुतविदो दासास्ततोन्यस्य किं ?
हन्तुं दायहृदेकभूपतिशतं पातुं सुहृत्पञ्चकम् ।
एकं लोकसमक्षमेत्य च भवन् आश्चर्यसूतश्चमूं
हत्वा धाम निजं गतस्य परमं ज्ञात्वापि दिव्याः कथाः ॥ ७.५.९॥
दासाः किन्नु भवेयुरद्भुतगुणादन्यत्र वार्ताविदः ?
तस्याच्छादकजन्मसामयजरामृत्युञ्च सर्वं हरन् ।
उन्मूल्याखिलदुःखहेतुमथ संयोज्यात्मपादद्वये
सुक्षेमाणि विचिन्त्य तेन विहितान्येत्यापि शुद्धां धियम् ॥ ७.५.१०॥
(तात्पर्यरत्नावलीश्लोकः)
साकेते मुक्तिदानात् स्थिरचरजनुषां सर्वशो रक्षकत्वात्
चैद्ये सायुज्यदानाज्जगदुदयकृतेरुद्धृतेर्भूमिदेव्याः ।
याञ्चार्थं वामनत्वात् शिवभजकमुनेर्मोक्षदानाद्युदन्तैः
स्नेहं सर्वाश्रयं स्वं प्रकटयति हरिशचेत्यथाज्ञायि तेन ॥ ७.५.११॥
(प्रतिबिम्बलहरी श्लोकः)
सम्यग्ज्ञानमवाप्य सुस्थिरहृदां भोग्यां गतिं कुर्वता
ज्ञानेनाञ्चितकृष्णमीड्य कुरुकाधीशः शठारेः कृतौ ।
तत्त्वज्ञानलसत्सहस्र इदमध्येतुं समर्थास्तु ते
शुद्धज्ञानसमेधिता विपुलतायुक्तत्रिलोक्यामपि ॥
(इति सप्तमशतके पञ्चमं दशकम्)
॥ श्रीमते वेङ्कटशेषार्यमहादेशिकाय नमः ।
॥ अथ सप्तमशतके षष्ठं दशकम् ॥
प्रतिबिम्बलहरीवृत्तं - मन्दाक्रान्ता
एतद्दशकप्रतिपाद्यगुणविशेषः - स्वीयाक्रन्दापहारित्वम् ।
॥ सङ्गतिमणिमाला ॥
(मालिनी)
विशदमतिरसौ सन् रक्षणाबद्धदीक्षो
हरिरिति विमुखं संवीक्ष्य लोकञ्च तस्मिन् ।
ह्वयति नय हरे ! तन्मां समीपं तवेति
प्रकृतिकृतविकारान् प्रेक्ष्य भीतिं प्रपन्नः ॥
अर्थैः पूर्णं त्रिजगदखिलं सृष्टवत्पद्मनाभ!
पूर्णार्थं हा ! त्रिजगदखिलं क्रान्तवत्पादपद्म! ।
पद्माक्षाहो ! *विगतशरणानां तु नो रक्षकाहो !
पद्मश्रीभृत्करतल! भवेत् त्वत्पदाप्तिः कदा वा? ॥ ७.६.१॥
(अत्र ``विगतशरणे मय्यहो ! रक्षकाहो । '' इति पाठे यतिभङ्गभीतिर्न स्यात् ॥
पृथ्व्यप्तेजःपवनखजनेत्यादिसर्वोऽपि भूत्वा
तिष्ठन्! स्वामिन्! सुरभिनिचयं चारयन्नुद्धृताद्रिः ।
तस्य त्रातर्ममम हृदयहृद्दिव्यचेष्टाऽहमाप्स्ये
त्वत्श्रीपादं हरविधिनुतं पद्मशोणं कदा भोः ? ॥ ७.६.२॥
उद्धृत्याद्रिं मम हदपहृत्चेष्ट हन्ताश्मवर्षात्
स्वाबद्धारग्वधजट हिमोत्पुष्पतौलस्य मौले ।
लब्धास्मद्दिग्वदनकवनानर्हकीर्ते! समेत्य
त्वं चेत् पूर्णासुरसि मम ते *सन्निकर्षः कथं मे ? ॥ ७.६.३॥
(*`सन्निकर्षस्तु कुत्र ? ``इति पाठो मूलानुगुणतरस्स्यात् ।)
मौलौ माध्वीसुहिमतुलसीभूष! मद्गोपमूर्ते!
दीप्यल्लोकत्रयमपि भवान् तत्र मुख्यस्त्रिणेत्रः ।
स्वामी नाथो विधिरपि भवान् त्वत्समीपे कथं स्यां?
अत्युग्रौजःपविकरमहेन्द्रादिदेवास्त्वमेव ॥ ७.६.४॥
मद्गोपालाक्षतमदनघानीलमाणिक्करत्न !
त्वन्नाभीभूकमलजजगत् तत्रयं व्याप्य तिष्ठन् ।
त्वत्कान्त्योघोज्वलपरपदस्थायिनं त्वामुपेत्य
मत्पूर्णात्मा कथमिव विलोक्यापि लब्धा भवन्तम्? ॥ ७.६.५॥
जाने नैत्यप्रपदनविधां व्याप्तिमन्नीलतेजो-
वृद्धौ रक्तद्युतिकुसुमिताद्वैतमाणिक्कतुल्याम् ।
कट्यापीताम्बरपदयुगीनाभिभिर्हहस्तवक्षो-
नेत्रोष्ठे चारुणरुचिमुचि श्रीसखं* मे शयानम् ॥ ७.६.६॥
(*श्रीसखमित्यत्र श्रीहृदमिति पाठश्चेत् मूलानुगुणातरता स्यात् ॥)
श्रीवक्षस्कं मम गिरिसुताभागिनं मे सदा वाक्-
देवीराजद्वदनचतुरास्यान्तरं मे सुराणाम् ।
श्रेष्ठं शच्याः पतिमवनिमुत्क्रम्य दग्धत्रिसालं
जित्वाक्षौघद्रविणकरमालोकये किं स्वरीशं ? ॥ ७.६.७॥
दृष्टव्यालाश्वदिव शिवा दृष्टसिंहास्तदवऽथो
क्रन्दिव्त्वाप्तेष्वतलविषयं त्यक्तलङ्काशरेषु ।
मृत्युं रम्यं खगमपि नयन् मालिनं चाथ शूरं
हत्वा कृत्वाऽऽशरपृथुगिरीन् योऽवधीत् किं स वीक्ष्यः ? ॥ ७.६.८॥
द्रश्यन्तः किं हृदय! कठिने कार्य एवोद्यतस्य
प्राप्तुः पुंस्त्वं धृतियमबले रक्षसोऽपास्य वंशम् ।
तत्सोदर्येऽमितजलवृतां न्यस्य लङ्कां पुनश्चा-
गत्यापाल्याश्रितनिजपदं सूरिपञ्चाननेन्द्रम् ॥ ७.६.९॥
वैकुण्ठं नस्स्वमपि ददते दुर्लभं गोपवंशे
सद्यो जातश्शिशुरिव विशन् सम्प्रवृत्त्याद्भुतानि ।
हत्वा कंसं प्रकृतिशमनं पाण्डवार्थेऽस्तसैन्यः
क्षान्त्या श्रेष्ठो हरिरथ परं ज्योतिरुच्चैः प्रविष्टः ॥ ७.६.१०॥
(तात्पर्यरत्नावली श्लोकः)
नाभीपद्मोज्जवलत्वाद्विधिशिवभजनीयाङ्घ्रिभावाद्गवाञ्च
त्राणाद्यैस्स्सर्वभूतान्तरनियमनतस्संश्रिते भव्यभावात् ।
ब्रह्माद्यापद्विमोक्षादसुरनिरसनात्त्रातरक्षोनुजत्वात्
स्वीयाक्रन्दापहारी भवति च भगवानित्यवादीच्छठारिः ॥ ७.६.११॥
(प्रतिबिम्बलहरीश्लोकः)
तादृक् सिंहाकृतिमुपगते भिन्नहैरण्यकाये
हृष्टे चक्रश्रियि तु कुरुकाधीट्शठद्वेषिणोक्ते ।
श्रेष्ठं शक्तान् दशकमिदमध्येतुमेकं सहस्रे
दिव्यस्त्रैणान्युदितभवुकं चामरैर्वीजयेयुः ॥
॥ इति सप्तमशतके षष्ठं दशकम् ॥
॥ श्रीमते वेङ्कटशेषार्यमहादेशिकाय नमः ॥
॥ अथ सप्तमशतके सप्तमं दशकम् ॥
प्रतिबिम्बलहरीवृत्तं - स्रग्धरा
एतद्दशकप्रतिपाद्यगुणविशेषः - स्मृतिविशदतनुत्वम् ।
॥ सङ्गतिमणिमाला ॥
(मालिनी)
भगवति निजयाञ्चावाङ्मयेऽत्र प्रसङ्गात्
वपुषि च सुषमां तामुक्तवान् तत्प्रविद्धः ।
अभजदथ च तस्मिन् प्रेयसीभावमाल्यै
स्मृतिविशदतनोस्ता अङ्गशोभाः प्रवक्ति ॥
मुग्धस्त्रीप्राणहारिण्ययि! महियुगली किन्नु मृत्य्वोर्न जाने
किं वा दुग्धाब्धिरम्येक्षणमदुपकृतः श्रीक्षणे के न जाने ।
प्राप्याम्भोजाभिनव्यप्रसववदभितः शोभते पश्यतेतः
सख्यो! हे! मातरोऽहं कथयत करवै किन्नु दुःखैकशीला ? ॥ ७.७.१॥
सञ्चाल्यापोद्य यूयं प्रथयत सुचिरं मां फलं मातरः किं ?
नेत्रारात् कल्पवल्ली किमयि तदुदितः पल्लवो वा न जाने ।
*श्रीनासा भुक्तराशीकृतबहुनवनीतस्य मे स्वात्मनोऽन्तः
ज्वालावत् तिष्ठतीयं बलवदुपहितप्रौढदीपस्य दीप्ता ॥ ७.७.२॥
पक्कं ह्येकं फलं किं? पृथु मम दुरिताम्भोनिधेर्दुष्कृतं किं ?
सौन्दर्यौघप्रवालद्युतियुतशकलः किन्नु दीप्रो न जाने ।
आनील प्रौढमेघोपमितनिजवपुस्वादुबिम्बाधरोष्ठं
सर्वास्वागत्य काष्ठास्वपि मम तु विभात्येव भोग्यासुहत्यै ॥ ७.७.३॥
(* ``श्रीनासा स्वात्मनोन्त स्वशितबहुळसद्गव्यराशेम्ममान्तः'' इति पाठः
यतिभङ्गदूरगस्स्यात् ।)
किं भोग्यप्राणहृत्यै सुदृगुपरिनमन्नीलकोदण्डयुग्मं ?
सौन्दर्यस्थैर्यभूमाधिकमदनधनुर्वैक्षवं मन्मथस्य ।
आत्मीभूतस्य कृष्णेशितुरपि* जनकस्य भ्रुवावेव ते ये
बाधेते प्राणसङ्घं स्वमभिमुखतया स्थैर्यमास्थाय नित्यम् ॥ ७.७.४॥
(* ``किमु ते श्रीपितुस्सद्भुवौ ये'' इति पाठे यतिभङ्गो न स्यात् ।)
नित्यं स्थित्वैव दीप्तारुणरुचिजननी कापि किं श्वेतविद्युत् ?
*किं वा मे प्राणबाधाकर ऋजुमदलङ्कारमुक्ता न जाने ।
मत्प्राणानेकशैलोद्धृत उपकृतो बाधते मन्दहासः
देशं हे! मातरोऽहं कमपि बत ममोज्जीवनार्थं न जाने ॥ ७.७.५॥
(*(किं पङ्क्तिर्मामकासुव्यथयितृरुचिमत् मौक्तिकानां न जाने)
इति च पाठान्तरम् ।)
मुग्धानाञ्चासुराणामपि पिशितभुजां देश उज्जीवनार्थः
को वेत्याक्षिप्य दीव्यन् मकरसमपरीणामयुक्पल्लवो वा ।
कर्णौ श्रीकुण्डलाढ्यौ सफणविषमहाभोगिभोगेशयस्य
स्वं बाधेते विनैवोपरतिमियतीं हन्त ! पश्येत यूयम् ॥ ७.७.६॥
पश्यन्त्वम्बा! भवत्यस्त्विदमिति न हि वो दर्शनस्य प्रकारं
जाने किं सर्वदोद्यत्धवलविधुरयं प्रेमवत्कालपत्रम् ।
*दीर्घोच्चश्रीचतुष्पीनसुभुजमहापूरुषश्रीललाटः
पापिष्ठाया ममासून् ग्रसतुमतिबलात् बाधते मामकासून् ॥ ७.७.७॥
(*यतिभङ्गनिवारणाय - ``दीर्घोच्चश्रीचतुस्सत्पृथुलभुजमहापूरुषश्रीललाटः''-
इतिवा पाठोऽस्तु ।
स्वश्रीभूषं सरोजद्वयमपि च लता विद्रुमं चापयुग्मं
स्वश्रीभूषाश्च मुक्ताः किसलययुगली शीतलो वाऽर्धचन्द्रः ।
स्वश्रीभूषाभिवृद्धं किमु किमपि महो मण्डलं कृष्णमूर्तेः
स्वश्रीभूषातिरम्याननमपहरति प्राणमुग्रांहसो मे ॥ ७.७.८॥
लोकव्यापिन्युदूढे तमसि परिहतासारमुत्घृष्टवत्याः
मध्योत्था नीलतन्तुप्रवरचय इमे नो कचा अद्भुतस्य ।
शीतोद्यत्-श्रीतुलस्यस्स्वरतिपरिमलैः पार्श्वमेत्यात्मनो मे
चोरङ्कारप्रकारं न भवत विदितं मातरोधिक्षिपन्त्यः ॥ ७.७.९॥
यूयं मां पीडयन्त्यः करतलयुगलं प्राङ्गणे तिष्ठसीति
प्रक्रम्यावार्य निन्दां कुरुथ मणिमहो ज्योतिराकल्पकस्य ।
कृत्स्नं त्रैलोक्यमेतत् मणिमयमकुटे ज्योतिषा व्याप्नुवाने
प्रापैकाग्र्यं मनो मे परमिह किमहो मातरो! वः प्रयोजः ॥ ७.७.१०॥
(तात्पर्यरत्नावली श्लोकः)
दृग्भ्यां पद्माकृतिभ्याममरतरुलतानासिकातोऽधरेण
भ्रूचापेन स्मितेनाप्यथ मकरलसत्कुण्डलाभ्यां विशिष्टः ।
फालेनार्धेन्दुभासाऽमलमुखशशिना नेत्रशोभादिभाजा
श्रीमान् देवः किरीटी स्मृतिविशदतनुर्भाति चेत्यभ्यधायि ॥ ७.७.११॥
(प्रतिबिम्बलहरीश्लोकः)
दुर्दर्शानां विधीशामरपतय इति ख्यातनाम्नाममीषां
दुर्दर्शाकारकृष्णं प्रति शुभकुरुकाधीट्शठद्वेषिणोक्ते ।
शक्त्या युक्ते सहस्रे दशकमिदमिहाध्येतुमेकं समर्थाः
शक्त्या युक्तैस्तु नित्यैः सह सदृशरसा नैव नश्यन्त्यजस्रम् ॥
(इति सप्तमशतके सप्तमं दशकम् ॥)
॥ श्रीमते वेङ्कटशेषार्यमहादेशिकाय नमः ।
॥ अथ सप्तमशतके अष्टमं दशकम् ॥
प्रतिबिम्बलहरीवृत्तं - मन्दाक्रान्ता
एतद्दशकप्रतिपाद्यगुणविशेषः - आश्चर्यनानाविभवत्त्वम् ।
॥ सङ्गतिमणिमाला ॥
(मालिनी)
भगवत इति बाह्याश्लेषमप्राप्य खिन्नः
भवति समय एतच्चेति धर्तुं न शक्तः ।
किमिदमिति महाश्चार्यमाहाथ दृष्टवा
तदुपरि विभुविभूतीर्दर्शितास्ताः प्रवक्ति ॥
अत्याश्चर्याकर मधुरिपो ! वामन! त्वं दयेथाः
वह्निस्तोयं क्षितिरपि मरुत् खञ्च माता पिता च ।
*पुत्राश्चान्येऽप्यखिलमपि भूत्वा त्वमेवं स्थितोऽसि
कोऽयं न्यायः कथयितुमहो दुस्स्थितस्ते प्रकारः ॥ ७.८.१॥
(*अत्र यतिभङ्गनिवारणायायं पादः ।
पुत्राश्चान्येऽप्यखिलमपि सम्भूय च त्वं त्वमेव ॥ इति वा पठ्यः ॥
तुरीययपादे पाठान्तरञ्च
कोऽयं न्यायः कथयितुमहो दुश्शकस्ते प्रकारः ॥)
सुक्षौद्रस्यत्कुसुमतुलसीकाच्युत! त्वं दयेथाः
चन्द्रस्सूर्यो विविधविलसत्तेज उच्चैस्तमश्च ।
वृष्टिर्वर्षन्त्यधिकमयशश्चापि भूत्वा यशोऽपि
क्रूरो मृत्युर्दहननयनस्त्वं विचित्रं किलैतत् ॥ ७.८.२॥
वैचित्र्यश्रीरथनयपटो ! श्रीतचक्रिन् ! दयेथाः
भूत्वाऽसङ्ख्यं युगकुलमथैतेषु सर्वेष्वपीहा ।
तुल्यास्सङ्ख्यारहितबहवो भ्राजमानाः पदार्थाः
भूत्वाऽऽश्चर्यस्थितियुगसि भोः ! किन्नु वैषम्यमेतत् ? ॥ ७.८.३॥
हे! कृष्णोद्यन्मधु-कमलदृङ्! मह्यमेकं दयेथाः
नित्यानित्यं गणनरहितं वस्तु भूत्वा तदन्यत् ।
मध्येऽनल्पाम्बुनिधिसविषे शेषतल्पे शयित्वा
चित्ते योगं सुखमभिदधत् भासि केऽत्राभ्युपायाः ? ॥ ७.८.४॥
शीतामोदिप्रसवतुलसीकाद्भुत! त्वं दयेथाः
छित्वा पाशान् त्वमिह तव मां नान्यशेषं विधाय ।
कायो जीवो मृतिरथ जनिः त्वं हि भूत्वा पुनश्च
नानाश्चर्याण्यधिकमकृथाः किन्विदं मोहनं ते ? ॥ ७.८.५॥
रुपान्मोहप्रद! सुमतये वामनैकं दयेथाः
शीतोष्णे च स्मृतितदितरे विस्मयोऽस्माच्च भिन्नः ।
भूत्वा कर्माण्यपि विजयिता त्वं फलं चान्यथा त्वं
ज्ञानं भूत्वा त्वमसि क इमे दुःखरूपाः प्रकाराः ? ॥ ७.७.६॥
कृष्णोत्तुङ्गद्युतिमकुटवन्! दुःखदैकं दयेथाः
दुःखक्षेत्राभिजनजमदप्रीतयो दुःखहेतुः ।
कामो भूत्वा गुरुलघुतया स्थेमगत्यात्मना च
सृष्ट्वा दुःखान्यपि च क इमे स्वार्थकामप्रवृत्तिः ? ॥ ७.८.७॥
किं लीलाभिःस्थितिमयसि भोः ! कृष्ण ! मद्रक्षणाय
कीदृग्वा किंविध इति महाज्ञानिनामप्यवेद्य ! ।
भूत्वा पूर्वं त्रिजगदपि तत् तच्च सृष्ट्वाऽथ चान्तः
व्यापिन्! व्यापिन्! बहिरपि च का वृत्तयस्ते निसर्गाः ? ॥ ७.८.८॥
हे! मत्कृष्ण! स्थितिमयसि भोः ! किं प्रकारैः स्वभावैः
भूत्वा गात्रे निबिडकरपादादिसर्वेन्द्रियाणि ।
काम्यं रूपं ह्यसि रसरवस्पर्शगन्धं च कृत्स्नं
जिज्ञास्ये त्वय्यनवधिगुणा एव सूक्ष्मस्वभावाः ॥ ७.८.९॥
सूक्ष्माण्यस्मात् नहि परमिति पुनः सद्वेदशास्त्रे
प्रोक्तं रूपं त्वमसि तमसोप्यात्मनोऽरूपिणोऽपि ।
*पुष्पिण्यालङ्कृतमपि तुलस्याः स्रजा मेऽच्युतोरो-
बिभ्रत् शक्त्या यदपि कथितं स प्रकारः त्वदीयः ॥ १०॥
(*अयं पादः यतिभङ्गनिवारणाय ``पुष्पाद्यालङ्करणतुलसीदाम! मेऽच्युतोरो-''
इति वा पठ्यः ।)
(तात्पर्यरत्नावलीश्लोकः)
भूतैश्चन्द्रार्यमाद्यैस्सकलयुगगतैर्वस्तुभिश्चेतनाद्यैस्-
स्वैर्लोकानां नियत्या स्मरणतदितरोत्पादनान्माननाद्यैः ।
दुर्ज्ञेयत्वात् स्वभाजां बहुशुभकरणाद्वेदसंवेद्यभावाच्-
छ्रीमानाश्चर्यननाविभव इति ततश्श्रीधरः प्रत्यपादि ॥ ७.८.११॥
(प्रतिबिम्बलहरी श्लोकः)
स स्यादेवं विध इति सुनिश्चित्य दुर्ज्ञं हरिं तं
ज्ञात्वा तत् तादृगिति कुरुकाधीट्शठद्विट्प्रणीते ।
युक्तं श्राव्यद्रविडदशकं त्वत्र गाथासहस्रे
यावच्छक्त्यभ्यसनचतुराः सर्वदा स्वार्हभोगाः ॥
(इति सप्तमशतके अष्टमं दशकं )
॥ श्रीमते वेङ्कटशेषार्यमहादेशिकाय नमः ।
॥ अथ सप्तमशतके नवमं दशकम् ॥
प्रतिबिम्बलहरीवृत्तं - पृथ्वी
एतद्दशकप्रतिपाद्यगुणविशेषः - स्वकीयस्तुतौ योजयितृत्वम् ।
॥ सङ्गतिमणिमाला ॥
(मालिनी)
भवरुचिरहितं मां चारयेस्त्वं विधाय
भव इह तु कुतस्त्वं किञ्चिदन्यत्प्रदर्श्य ।
अनुभवसि मुदं त्वं चेति पृष्टो नदीजे
शरशयनमिवेदं चेति वाग्विद्ध आह ॥
सदोपरि दिने दिने स्वसदृशं समुज्जीव्य मां
विधाय निजमेव मां स्वसवितारमित्थं स्वकम् ।
मया द्रविडगाथया स्तवमिमं विरच्य स्थितं
तमादिममहो मणिं कथमहं ब्रुवन् स्यां स्थितः? ॥ ७.९.१॥
विधाय मम चात्मवस्त्वहह ! किञ्चिदद्योक्तिभिः
मया मम गिरा कृतौ कृतिरितीरयित्वा प्रथाम् ।
स्तुवन्तममुमद्भुतं निजगिरा स्वमध्यापकं
पुरस्त्रितनुकारणं किमुपवर्ण्य लब्धा स्थितिं ? ॥ ७.९.२॥
भवेदखिलकारणं ह्ययमिति स्वविस्रम्भकृत्
पुरैत्य रसनां विशन् मम सुभोग्यगाथा मुदे ।
अनादिशुचिनाकिनां स्वविषयं स्तुवन्तं स्वयं
मदुक्तिकरणं कृतोपकृति विस्मरिष्यामि किं ? ॥ ७.९.३॥
अहं त्वमिदमेत्य च स्वविषयं प्रपञ्चं स्वयं
ह्युदीर्य निरवद्यमप्यनुपमोग्रपापञ्च माम् ।
अवेक्ष्य तु शिवं करं समुपजीव्य पित्रा समं
चरन्तमुरुसद्गुणं किमिति विस्मरिष्यामि तं ? ॥ ७.९.४॥
समीक्ष्य सुगुणान् सतीः सुभगशिक्षिताः सत्कृतीः
स्वयोग्यपरिकल्पने ह्यसमशक्तिहीनञ्च माम् ।
स्वमेव रचयन् मया स्वविषये धरेड्याः कृतीः
विरच्य मधुराः परं किमिति विस्मरीष्यामि तम् ॥ ७.९.५॥
स्वभोग्यकृतिकृन्महाकविभिरात्मयोग्याः परं
स्वलक्ष्यककृतीस्सतीः स्वयमकारयित्वाऽद्य हि ।
कृतास्स्वमविनाभवत्करणमाकलय्याऽपि मां
मया दृढकृतीः स्वकाः मम तनोति वैकुण्ठपः ॥ ७.९.६॥
मम प्रबलपाप्मनां निहतये तु वैकुण्ठपः
कृतोद्यममतिं शुचिं मदविनाभवं तं मया ।
उदारमधुराः कृतीः स्वमभिनुत्य वैकुण्ठपं
दुहानममलं कदा ननु विचिन्त्य तृप्स्याम्यहं ? ॥ ७.९.७॥
अयोग्यमपि मां सृजन् स्वसदृशं मया स्वं गुणा-
प्तये मधुरकाव्यकृत् गुणनिधे प्रकारं प्रति ।
सुचक्ररुचिमत्करास्मदुपकृद्गुणान् भूविय-
ज्जलाखिलसखः कृतस्वनुभवोऽपि तृप्स्यामि किम्? ॥ ७.९.८॥
अविस्मरणतोचितं स्वसदृशं विधायैव मां
मया स्वविषये दृढं सुबहुकाव्यवक्त्रा कृतम् ।
कृतं प्रति चिकीर्षितोद्वहनशक्तलक्ष्मीट्गुणान्
त्रिकालकृतपीतिवत्स्वनुभवोऽपि तृप्स्यामि किं ? ॥ ७.९.९॥
कृतप्रतिकृतं ममासव इति स्थिरालोचने
तदन्यदपि तत्र तद्वशगमेव तत् स्वं मया ।
मृदूक्तिमधुराः कृतीः कृतवतः पितुस्स्वं प्रति
प्रदेयपदमेकमप्यहह! नात्र तत्राऽपि यत् ॥ ७.९.१०॥
(तात्पर्यरत्नावलीश्लोकः)
स्वामित्वाश्चर्यभावादपि च करुणया दत्तवाग्जृम्भणत्वा-
दुज्जीवापादकत्वादघटितघटनाशक्तिवैकुण्ठयोगात् ।
शुद्धस्वान्तत्वचक्रायुधजलधिसुतावल्लभत्वात् पितृत्वात्
स्वे स्तोत्रे विष्णुरप्रत्युपकृतिविषये स्वान् युनक्तीत्यगायत् ॥ ७.९.११॥
(प्रतिबिम्बलहरीश्लोकः)
विनऽत्र च परत्र चाप्यशरणास्तितां श्रीपतिं
विलोक्य शठवैरिणा सुकुरुकासता तादृशम् ।
इदंविधमुदीरितं दशकमेकसाहस्रगं
यथायथमपीरितं मुदमिदं समुत्पादयेत् ॥
(इति सप्तमशतके नवमं दशकम्)
॥ श्रीमते वेङ्कटशेषार्यमहादेशिकाय नमः ।
॥ अथ सप्तमशतके दशमं दशकम् ॥
प्रतिबिम्बलहरीवृत्तं - स्रग्धरा
एतद्दशकप्रतिपाद्यगुणविशेषः - स्वकीयस्तुतिकृदघहरत्वम् ।
॥ सङ्गतिमणिमाला ॥
(मालिनी)
प्रति भगवति कर्तुं स्तोतृतायाः प्रदाने
इह किमपि न मेऽस्तीत्याप्तवैशद्यबुद्धिः ।
अथ च पुनरसौ तत्क्षेत्र आरन्विलाख्ये
स्तुतिमुखपरिचर्याः कर्तुमुद्युक्त आस्ते ॥
अन्योन्यानन्दसिद्ध्यै रुचिरकमलया सार्धमानन्दवृद्ध्या
एतान् सप्तापि लोकान् स्वयमधिकमुदा रक्षतः स्वामिनो नः ।
आदर्यं धामभूषोपवनपरिवृतं श्रीमदारन्विलाख्यं
भक्त्या स्थित्वा परीत्य प्रणमनदिवसाः अप्यहो किं भवेयुः ? ॥ ७.१०.१॥
शक्यं किन्त्वेतदित्थं विशयलवमृते कृत्स्नविस्तीर्णभूमिं
मातुं पादद्वयेनैधितवपुरुपकृद्वामनादर्यधाम ।
उच्चैः खोद्यत् ध्वजौको विततवरणवत्श्रीमदारन्विलाख्यं
संसिच्य श्रीमहाम्भस्सुरभि विनमनं सम्भवेत् सम्परीत्य ? ॥ ७.१०.२॥
नित्यं किं नो घटेतोन्नटगरुड इतो वीक्ष्य गोविन्दमुच्चैः
नत्वा सिंहं बलिष्ठं मधुभिदमथतन्नित्यसान्निध्यदेशम् ।
उद्घुष्टश्लाघितश्रीपतिसुगुणचतुःपञ्चषड्वेदयागा-
ङ्गाढ्याराममारन्विलनगरवरं सेवितुं भाग्यमेकम् ॥ ७.१०.३॥
सिद्ध्येत् किं नित्यमन्तःकरण इह सदा ध्यानसम्पत्तिलाभः
जृम्भत्-स्विक्षूच्चशालि-क्षिति-महति पदे श्रीमदारन्विलाख्ये ।
स्फीतोद्यत्-सद्गुणाढ्योत्तरपुरमधुराजन्मभाजस्त्रिलोक्याः
पातुः कृष्णस्यभूषायितनिजसुरुचेः फुल्लपादाब्जयोर्मे ॥ ७.१०.४॥
फुल्लश्रीपादपद्मे मम मनसि सदा सेवितुं सन्निवेश्या-
नेकाप्ताग्रे कृपालोः प्रियतमवसतेः शेषतल्पोपकर्तुः ।
पुष्पाढ्योद्रत्नधाम्नोऽप्यतिततवरणश्रीमदारन्विलायां
गीतायां क्ष्माढ्यभूम्यां स्युरिह तु निहतान्यस्मदंहान्यशेषम् ॥ ७.१०.५॥
नश्येन्निश्शेषमुग्राखिलदुरितततिः प्रेक्ष्य भक्ताः ! भजध्वं
तत्काले तत्र जित्वा रुचिरपृथुळदोरुक्मिणीश्लेषमेत्य ।
नित्यं चाजस्रमस्मथृदयकृतनवं चित्रधामोपकर्त्रा -
धिष्ठेयां श्रीमदारन्विल इति महतीं तां पुरीं भूमिभूषाम् ॥ ७.१०.६॥
मत्वा नित्यां पुरीं तां ससुमवनवृतश्रीमदारन्विलाख्यां
श्रेष्ठश्रीपुर्युपेतात्युपकृदुपगतासक्तकृष्णोऽमरेशः ।
बाणस्थानं प्रविश्य त्रिणयनहतये घोरयुद्धञ्च कृत्वा
बाणीयं दोस्सहस्रं मथितवत उपायाद्वयं नान्यदाप्ताः ॥ ७.१०.७॥
नान्योपायोऽस्मि तेऽङ्घ्रेरिति विततगभीरोदकासारमध्ये
स्थित्वात्मीयोच्चपादस्तवकगजमनः खेदनादोपकर्तुः ।
तत्रागत्यास्थितं सादरमभिरुचिरोद्यानमारन्विलाख्यं
क्षेत्रं प्राप्य प्रदक्षीकरण उरु महाघानि तिष्ठन्ति नान्तः ॥ ७.१०.८॥
क्रूरांहोमुक्तचित्तं विशदमतिकराकाशलाभे तु लब्धे
वाग्वृत्त्या चित्तवृत्त्या तदनुगुणवपुर्वृत्तिभिश्चानुभूय ।
सर्वैरागत्य सेव्यं पुरमुपवनवत्श्रीमदारन्विलाख्यं
प्राप्याऽऽनन्तुं प्रदक्षीकरणमनुकथं सिध्यतीत्याशयो मे ॥ ७.१०.९॥
भूदेवौघैर्मनोवाक्तनुभिरपि सदा सेव्यमानाहितात्मा-
चित्तामोदायुतारन्विलपदनिवसत्तीर्थशेषत्वसिद्धौ ।
मच्चित्तस्याप्रवृत्तिं तदितरविषये देवदेवस्स वेत्ति
स्वान्तर्गुप्तेषु तेनाप्यविदितकपटाः केऽपि नैवात्र सन्ति ॥ ७.१०.१०॥
(तात्पर्यरत्नावलीश्लोकौ)
वैकुण्ठे नित्ययोगाच्छ्रितविवशतयाऽनन्तकीर्त्युज्जवलत्वाच्-
छेषे शायित्वरुक्मिण्यभिमतसुरजिद्बाणदोः खण्डनाद्यैः ।
ग्राहग्रस्तेभरक्षाभिरुचितविषये सन्निधानाच्छुचित्वात्
स्तोतॄणां दुःखजातं विघटयति हरिस्तीर्थ इत्यभ्यधायि ॥
शाठ्याशङ्कासहिष्णुं प्रशमितजनतागर्हणं स्पष्टरक्षं
व्याकुर्वन्तं स्वरक्षाक्रममखिलजनस्नेहितां दर्शयन्तम् ।
स्वीयाक्रन्दछिदोत्कं स्मरणसुविशदं विस्मयार्हद्विभूतिं
स्तोत्रे युञ्जन्तमाह स्तुतिकृदघहरं सप्तमेऽनिष्टचोरम् ॥ ७.१०.११॥
(प्रतिबिम्बलहरी श्लोकः)
तीर्थस्येवात्मसिद्धौ स्वशरणमितरन्नैकमस्तीति तीर्थे
तीर्थीभूतात्मता श्रीगुणनिधिकुरुकाराट्शठारिप्रणीते ।
तीर्थे गाथासहस्रे दशकमिदमधीत्योज्वलान् प्रीतदेवाः
तीर्था एवेति नित्यं सबहुमति वदन्त्यात्मदेवीजनेभ्यः ॥ ११॥
(इति सप्तमशतके दशमं दशकम्)
॥ इति सप्तमशतकं समाप्तम् ॥
॥ श्रीमते वेङ्कटशेषार्यमहादेशिकाय नमः ॥
॥ श्रीमते रामानुजाय नमः ॥
॥ प्रतिबिम्बलहरी - अष्टमं शतकम् ॥
प्रतिबिम्बलहरीवृत्तं - स्रग्धरा
॥ अथ अष्टमं शतके प्रथमं दशकम् ॥
एतद्दशकप्रतिपाद्यगुणविशेषः - दिदृक्षोः दृशिविषयता
॥ सङ्गतिमणिमाला ॥
(वसन्ततिलका)
आरन्विलामधि हरेः पदकिङ्करत्वं
सद्यो भवेदिति मनोरथवाननाप्त्या ।
तस्यातिशङ्कनकृदस्य गुणेष्वलापीत्
इच्छोर्ददात्यथ यथेषितदर्शनं सः ॥
देव्यौ ते श्रीभुवौ स्तः तदितरविबुधाः किङ्करास्ते यथाज्ञं
पाल्या लोकास्त्रयस्ते तव तु परिचिताः स्वेष्टरूपं च रूपम् ।
पापं मां पीडयेत्; स्वम्बुजदृगधरसद्विद्रुमानीलरत्न !
प्राणाधारामृतोर्म्यम्बुधिमथक! पितर्दर्शने ते दयेथाः ॥ ८.१.१॥
द्रष्टुं मार्गं दयेथा इति चिरमहमाक्रुश्य मोहात् समुद्यत्-
बाष्पाशास्याखिलाशो बत! मयि तु कृपा किं तवाख्याभिलापः ? ।
त्वद्वीक्षां मे दयेथास्सुफलचपलसन्तान ! काकुत्स्थ! कृष्ण !
त्वत्भाक्-पीयूष! लीलोद्धृतपृथुशिशिराम्ब्वावृतक्ष्मोत्तमात्मन्! ॥ ८.१.२॥
त्वल्लाभोत्कृष्टनन्दप्रियतमसदसो! बालवर्ष्मन्! यशोदा-
भाग्याप्तोद्धर्षदायिन् ! कुलकलभ ! ममालभ्य ! दासस्य नाथ !
तादृक्षैकाकृतिस्सन् युधि कठिनहिरण्याक्षवक्षोद्विधाकृत्-
वश्योद्यत्पाणिजाब्धे! मम तव दयित! प्रत्ययो नाद्य नैषि ॥ ८.१.३॥
त्वद्दासात्यादरार्हं तव भवति निजं रूपमिष्याः त्वदीयैः
चेष्टाश्चित्राः क्रियास्ते त्वहमघनिधिरित्येकबुद्धौ सशङ्कः ।
कृत्वाजिं तं ततक्ष्मापरिसरनिबिडक्रूरसेनाविनाशिन् !
स्वामिन् ! आप्तामृतानाश्रितगरल ! मम प्राण ! सम्पूर्ण ! हंहो! ॥ ८.१.४॥
सृष्ट्वाहो! प्राणपूर्णामितसमभुवमृद्धृत्य भुक्त्वोद्गिरन्ना-
क्रम्योच्चप्राण! सृष्ट्वाऽमितकमिहशयोन्मथ्य बद्ध्वा च भिन्दन् ! ।
*कल्याणात्मन्! नराणाममरवदमराणां च देवाखिलानां
लोकानां एककात्मन्! कथमहमुपसम्प्राप्नुयां त्वामुपेत्य ? ॥ ८.१.५॥
(*पादोऽयं यतिभङ्गकातरैः ``कल्याणात्मन्नराणां सुरवदमर! हे ! देववर्गेऽखिलानां'' इति पाठ्यः ।)
एत्य प्राप्स्ये कथं त्वां ? मम पुनरवितः ! सप्तलोकास्त्वमेव
ह्यत्रैतेषां प्रक्लृप्ताः त्वमसि सुरवरास्तत्तदिष्टास्त्वमेव ।
उच्चैरुच्चैः पदार्था बहिरपि यदि हा! ते त्वमित्थं स्थितिश्चेत्
लीनारूपात्मवर्गास्त्वमसि परपदेऽनिन्द्रियाश्च त्वमेव ॥ ८.१.६॥
भूतं त्वं भाव्यपि त्वं त्वमसि खलु भवच्चैवमर्थस्थितिश्चेत्
सर्वेशस्ते प्रकारास्तदिदमनिदमित्यत्र शङ्के सपापः ।
दुग्धक्षीरे घृतैतद्रसजलनिधिमध्येऽमृतैतज्जभोग्या-
स्वादास्वादोत्थसौख्य! व्रजकुलतिलकाऽऽश्लिष्टनीळाशुभांस ! ॥ ८.१.७॥
गोपेशाश्लिष्टवन्! अद्भुततरचरितैः सङ्घशो दुर्जरांहो-
मत्पीडाकृद्गुणोच्चैर्बलदितिजयम ! क्रूरतार्क्ष्याधिरूढ! ।
स्फीते शेषे फणाभिः शयित! दशशतैः भाति दुग्धाब्धिशायिन् !
त्वत्सेवोपायमीक्षे न; भवसि च मनोवाक्क्रियाहं त्वमेव ॥ ८.१.८॥
सत्यं खल्वस्यहं त्वं त्विति यदि नरकस्थानि च त्वं भवेस्सं-
प्राप्ते किं श्लाघनीये परमपदसुखे नारकेऽन्यत्र वा किं ? ।
ज्ञानेऽप्युत्पद्यमाने त्वमहमिति भृशं नारकाप्तौ बिभेमि
प्राप्यानन्दं तथोच्चैः स्थित! परमपदे त्वत्पदाप्तौ दयेथाः ॥ ८.१.९॥
उच्चैरुच्चैर्ममैव स्वपदवितरणश्रीमहास्वोपकारे
दोषावाश्लिष्य सम्यक् -प्रतिनिधिमदसून् चिक्रयं स्वात्मनस्ते ।
*ज्योतिष्मन् ! दोश्शिरोयुक्सरसिजनयनानां सहस्राणि बिभ्रत्!
श्रीपादानां च नाम्नामपि **मम भृशमेकाकिनस्तूपकारिन्! ॥ ८.१.१०॥
(*पादोऽयं यतिभङ्गकातरैः
``ज्योतिष्मन्! दोश्शिरोयुक्सरसिजनयनश्रीसहस्राणि बिभ्रत्!'' इति वा पाठ्यः ।
**अत्र यतिभङ्गकातराणां पाठः ``मम सुभृशं त्वेककस्योपकारिन् ! ``इति ।)
(तात्पर्यरत्नावलीश्लोकः)
श्रूर्याद्यैः पत्न्यादिमत्वात् रघुयदुकुलयोरुद्भवात्स्वाश्रितेच्छा-
धीनेहाविग्रहत्वात् सकलचिदचितामन्तरात्मत्वभूम्ना ।
स्वामित्वात्स्वाश्रितावेध्यखिलगुणतया ज्ञानिनामप्यदुःख-
स्थानेच्छापादनाद्यैर्हरिरकथि परं दर्शनेच्छोस्सुदृश्यः ॥ ८.१.११॥
(प्रतिबिम्बलहरीश्लोकः)
सर्वेशं ब्रह्मतातं शिवजनकमसाधारणेशं मुनीनां
देवानां तातमेकं प्रति समजगतामद्वितीयं च तातम् ।
साहस्रेऽस्मिन् ससम्पद्विलसितकुरुकाराट्-शठद्वेषिणेष्टे
भक्ता! योग्योक्तिमालादशकमिदमनेनाप्यमुज्जीवनं नः ॥
(इति अष्टमशतके प्रथमं दशकम्)
॥ अथ अष्टमशतके द्वितीयं दशकम् ॥
प्रतिबिम्बलहरीवृत्तं - स्रग्धरा
एतद्दशकप्रतिपाद्यगुणविशेषः - निस्सङ्गानां सुलभत्वं
॥ सङ्गतिमणिमाला ॥
(वसन्ततिलका)
अन्यत्र निस्पृहतया महितत्वमस्मात्
वक्तुं स्वकीयमथ कान्तमुपेत्य तस्य ।
विश्लेषमाप्ततरुणीव निजानपेक्षां
भूषास्वकान्तिसखिवर्गमधि व्यनक्ति ॥
आस्माका! हा! वयस्या ! धुरि शुभवलया ! लज्जिताऽस्मद्रिपूणां
युष्माकं वाच्यमेकं वचनमिह मया चिन्त्यते क्वापि नेक्षे ।
नश्यच्छाया गलत्कङ्कणततिरवसन्नाऽस्तपीनस्तनश्रीः
मन्नाथं प्राप्य घोरेक्षणगरुडरथं सस्पृहं वेङ्कटेशम् ॥ ८.२.१॥
गत्वापेक्ष्यैकलब्धिक्षमजनरहिता! मे वयस्यास्तु वोऽपि
प्रेक्षे नाद्येदमुक्तेस्सरणिमहह! हा! तीव्रशोकाहमीक्षे ।
चेद्दृश्याब्जोपमाक्षं हृदयमुषममर्त्येशमास्माकनाथं
ह्यादित्सुः स्त्रीत्वपूर्तिं निबिडितवलयान्यातुराऽनेककालम् ॥ ८.२.२॥
कालो गच्छेद्विरामं न तु विरतिमहं पापिनी पश्यतैष्ये;
लोकप्रत्यक्षमाप्तास्म्यपवदनमितः किं ह्रिया ? सल्ललाटाः ! ।
स्फायद्विस्तारिनीलद्युतिवृतपृथुवार्मुग्भकृष्णाहृतैः श्री-
लावण्यं प्राप्तुकामा सह शुभवलयैः दीर्घकालं सहैत्य ॥ ८.२.३॥
*नृत्ताश्चर्यं गृहोद्यद्-ध्वजवरण **कुलन्दाशुभप्रत्यगाशा-
भागस्थं रूढनृत्यद्गरुडमरिसमिज्जिष्णुचक्राप्तिदक्षम् ।
प्रेम्णाऽगां किं प्रदास्ये? ऽत्यजदिह करभूषान्तरङ्गादि सर्वं
मत्पार्श्वं सर्वदाऽहं बहुवलयभृतामत्यजं स्त्रीत्वमग्रे ॥ ८.२.४॥
(* ``मायानृत्तं'' इति पाठान्तरम् ।
** अत्र यतिभङ्गकातरैः ``मधुरश्रीकुलन्दाप्रतीची-'' इति पाठः स्वीकार्यः ।)
चक्रश्रीदक्षहस्तादरणमपि तदाऽत्राऽऽगतिर्नश्च सर्वं
हे! सख्यो!ऽनादिसिद्धं खलु स न सुलभश्चेति युक्तं तु वक्तुं ; ।
कल्पे कल्पे स चैवंविध इति सुधियामप्यमेयात्ममायं
तेजिष्ठं चाऽऽद्यनादिं सुभगतनुरुचिं चेद्वयं चिन्तयामः ॥ ८.२.५॥
प्रत्नं ज्योतिर्विचारे सुभगमपि गिरां मे दवीयोऽमराणां
अप्यानन्त्येन कर्ता विशयमिति *विधायां जहार श्रियं मे ।
दत्ते नोत्फुल्लशीतां तुलसिमपि परं क्रन्दनं ब्रूत कस्मै ?
**निद्राणोच्चाब्जदृग्भ्यां व्रततिवृतसुकेदारवत्कुम्भघोणे ॥ ८.२.६॥
(*अत्र यतिभङ्गकातराः ``विधाऽऽस्तां जहार श्रियं मे'' इति पठन्तु ।
** ``व्यामुग्धस्वप्नगुच्छाम्बुजदृशि सुलताक्षेत्रवत्कुम्भघोणे'' ॥
इति पाठान्तरं श्रीपितामहपादैरेव स्वमातृकायां प्रादर्शि । इदं यतिभङ्गकातरानुगुणम् ॥)
*व्यामुग्धस्स्वे हरिः केशव इति स हि नारायणो माधवो वै-
कुण्ठो गोविन्द इत्युद्गिरमपि जहदारच्य रूपं च चिह्नम् ।
नैलापुष्पाढ्यकेश्यः! प्रकटयति मदीया! जनन्यश्च सख्यः !
किं कुर्यासं? चिराद्वेक्ष्य इति स तु शपे तन्न वो नश्च बन्धः ॥ ८.२.७॥
(*यतिभङ्गकातराणामयं वा पाठः अस्य श्लोकस्य-
व्यामुग्धः केशवस्स्वे हरिरुदधिसुताकान्तवैकुण्ठ एवं
श्रीमान् नारायणोऽपीत्यतिविलपनदो मेऽथ गोविन्द एवम् ।
त्यक्त्वाऽगादेलपुष्पालकसखिजनिकाः ! छादयन् रूपचिह्ने
किं कुर्यासं? तमीक्षै चिरत इति शपे तन्न वो नश्च बन्धः ॥)
सम्बन्धो नास्ति मद्वर्धितशुकपिककाः ! शारिकाः ! केकिनो ! हे !
कान्तिं नः कङ्कणान्यप्यथ हृदपि विना शेष*मेवाहरत्सः ।
प्राप्यो वैकुण्ठलोकः कलशजलनिधिः चाञ्जनाद्रिः स चात्के
पूर्वं सोऽशेषसङ्गत्यजनत इह नो दर्शयत्येव तानि ॥ ८.२.८॥
(* ``मादातुरेकम् । '' इति पाठान्तरम् ।)
कस्यापि स्वं समीक्षाविषयमददतो दुश्शकं स्वस्य कर्तुं
*साश्चर्यं निस्तुलं वामनवटुशुभरूपं प्रदर्श्य प्रपूर्य ।
रोदस्यौ वृद्धिभाजः ततरुचिशतदोश्शालिदेवेशितुर्मे
पूर्त्या लज्जामदां किं मम शुभनिटिला! देयमस्त्यत्र पूर्णाः ! ॥ ८.२.९॥
(* अयं पादः यतिभङ्गकातरैः ``साश्चर्यं खर्वरूपं शुभदवटुदशं सम्प्रदर्श्य प्रपूर्य । ''
इति वा पठ्यः ।)
पूर्णा ! मे सल्ललाटाः ! अहमिह करवै किं ? मदीयं मनस्ते
बन्धो मे नेति हित्वा करयुगलगते शङ्खचक्रे च धृत्वा ।
दीर्घव्याप्तातिसङ्ख्यद्युतिदिवसकृता क्षीरभेन्दुञ्च वृत्वा
तुल्यस्यायान्महाचार्वतुलशितिधरेणाङ्घ्रिनव्याब्जमाप ॥ ८.२.१०॥
(तात्पर्यरत्नावलीश्लोकः)
तार्क्ष्योद्यद्वाहनत्वाच्छुभनयनतया नीलमेघाकृतित्वात्
आश्चर्योच्चेष्टितत्वात् दुरवधरतया योगिभिर्निर्जरैश्च ।
स्वेषु व्यामुग्धभावात्प्रतिहतिविरहाद्दुर्जनादृश्यभावा-
न्निःसङ्गानां जनानां सुलभमत इति प्राह नाथः शठारिः ॥ ८.२.११॥
(प्रतिबिम्बलहरीश्लोकः)
पादाप्त्यासक्तितोऽन्योद्बलविषयसमासक्तिमुज्झित्य कृत्स्नां
कृष्णस्याघादिहीनोत्क्रमगुणजलधेः पादयोरत्र चैताः ।
अन्तादिश्रीसहस्रे दश शुभकविताश्श्रीशठारेः कृतौ स्युः
गातुं गानेन शक्ताः गलदशुभगणास्त्वत्र तत्रापि पूर्णाः ॥
(इति अष्टमशतके द्वितीयं दशकम्)
॥ अथ अष्टमशतके तृतीयं दशकम् ॥
प्रतिबिम्बलहरीवृत्तं - वसन्ततिलका
एतद्दशकप्रतिपाद्यगुणविशेषः - विश्लेषेऽपि स्वानां भोग्यत्वं
॥ सङ्गतिमणिमाला ॥
(वसन्ततिलका)
विश्लेषकाल इह तद्विहृतौ तदीयं
दृष्ट्वा मृदुत्वमभिरक्षणमीहिताऽस्य ।
एकोऽहमस्मि परमस्मि विना सहायः
एको यथाऽयमिति खिन्नमनाः ब्रवीति ॥
अत्राप्यमुत्र च सुरा दनुजाश्च सर्वे
सर्वत्र चेदृगिति तेऽमतयस्स्तुवन्तः ।
आश्लिष्टपद्मनिलयाक्षितिगोपकन्यः
श्रीशङ्खचक्रसुकरः शरणं वदन्ति ॥ ८.३.१॥
मुक्त्वापि कारणचतुश्श्रुतिशास्त्रजालं
मृत्युं जरां जननमामयमत्यजाम ।
ध्वस्तेन्द्रियौघविषयं ज्वलदुग्रचक्रं
धर्तुः दृढं शरणहेतिमिनस्य दासाः ॥ ८.३.२॥
दासान्न शास्ति वहति स्वयमब्जचक्रे
खड्गं धनुश्च दधदेति न पृष्ठतोऽन्यः ।
पादौ भुजौ भृशकरौ नमनाय नेक्षे
दासोऽहमत्र भुवि तं विचिनोमि नित्यम् ॥ ८.३.३॥
भूत्वैकबालवपुरन्नमदंश्च भूमिं
स्वल्पे वहन् वटदले मम नाथ! निद्राम् ।
गाढान्धकारशितिकल्पति कालयानं
पापस्य मे त्वदसिताभवपुर्दिदृक्षोः ॥ ८.३.४॥
केतूच्चवप्रपिशुनोक्तिपुरे च चिञ्चा-
कुड्यां च यत् स्थिरमुपैषि सुखं सनिद्रः ।
किं भक्तदुःखविनिवारणजश्रमो वा ?
वेगाद्वदेदमवनिक्रमणश्रमो वा ? ॥ ८.३.५॥
भूत्वा स्वयं त्वनमनामरभक्तिसेवा-
हेतुस्स साभरणचक्रदरे च बिभ्रत् ।
लोके जिहीर्षुरतिघोरमनन्तरोगं
श्रीनीलरत्नवपुषैति मदन्तराप्त्यै ॥ ८.३.६॥
श्रीस्वश्चचारवसतेस्तु ममोपयान्तो
यान्तो रमोक-उरसो न वदन्ति मेऽर्थम् ।
दासोऽस्ति सुन्दरदरारिधरस्त्वयैक-
*पार्श्वे चरिष्णुरिह कस्त्विति किन्नु कुर्मः?॥ ८.३.७॥
(*``पार्श्वे चरिष्णुरिति कश्चन किं नु कुर्मः ?'' इति वा पठ्यमिति भाति ॥)
त्वत्सुन्दराभरणवत्पदयोरधो मां
स्वेन त्वमिष्यसि कदा स्थिरदास्यकृत्ये ? ।
स्थित्वैव सप्तगिरिभूदधिसंवृतक्ष्मा-
कार्त्स्न्याक्रमद्विततपाद रमेश ! चक्रिन् ! ॥ ८.३.८॥
श्रीमन्! चतुर्वदनरक्तजटावितीमौ
सर्वेशतत्वमननाशकनौ किमुक्त्वा ? ।
एकोच्चकारण ! पुराणविभो ! *मदीश-
श्यामेड्यविग्रहयुतेति वदामि भक्त्या ॥ ८.३.९॥
(``मथन्या-'' इति पाठश्चेत् मूलानुगुणतरः स्यात् ।)
निष्कल्कमुज्ज्वलतपोमुनयस्तु दृष्ट-
पारा नमन्त्यचलबुद्ध्यखिलामराश्च ।
क्षोभोदयं मथितदुग्धमहापयोधेः
पूर्णस्तवे त्वशकनोऽस्मि वदाऽत्र कृत्यम् ॥ ८.३.१०॥
(तात्पर्यरत्नावलीश्लोकः)
श्रीभूमीनायकत्वात् अरिसुकरतया कल्पसिन्धौ शिशुत्वात्
श्रीस्थाने सन्निधानात्सुरहितकरणात् श्रीनिवासत्वयोगात् ।
विक्रान्त्या विष्टपानां विधिदुरधिगमात्स्वेषु सौलभ्यभूम्ना
चैकाकी स्वाश्रितानां विहरणसमये श्रीधरः प्रत्यपादि ॥ ८.३.११॥
(प्रतिबिम्बलहरीश्लोकः)
ध्वस्तोग्रदुर्वचरुगात्मकृपं किरीट-
दीर्घं नगोच्चगृहवत्कुरुकाशठारेः ।
सन्दर्भगुम्भितमिदं दशकं सहस्रेऽ
धीत्य क्रमात् न जनिमेति महापृथिव्याम् ॥
(इति अष्टमशतके तृतीयं दशकम्)
॥ अथ अष्टमशतके चतुर्थं दशकम् ॥
प्रतिबिम्बलहरीवृत्तं - मत्तेभः
एतद्दशकप्रतिपाद्यगुणविशेषः - श्रितविहितसमग्रस्वभूमत्त्वम् ।
॥ सङ्गतिमणिमाला ॥
(वसन्ततिलका)
तस्येति जातमतितापमपाचिकीर्षुः
रक्ताद्रिबालसरिति स्वविभूतिजातम् ।
विप्रान् सहस्रयुगसार्धसुसङ्ख्यकान् च
प्रादर्शयत् प्रभुरिदं प्रमुदा प्रणौति ॥
स्यन्दन्मदाम्बुझरदन्त्यद्रिदन्तयुगकोटिं विलोढ्य दलयन्-
सञ्चारकृत्सुदृढपाकासुहृद्रणगमल्लान्निहत्य परितः ।
*मञ्चेषु योद्धृनृपनिष्क्रान्तये विहितहर्म्यस्थकंसनिहतेः
श्रीबालगोपवपुषो नोऽरुणाद्रिपरगाल्पापगा ह्यसुगतिः ॥ ८.४.१॥
(*अत्र यतिभङ्गकातरैः उत्तरार्ध एवं पठनीयः -
मश्चेषु योद्धृनृपनिष्क्रान्तये विहितहर्म्यस्थकंसनिहति-
श्रीबालगोपवसिभूर्नोऽरुणाद्रिपरगाल्पापगा ह्यसुगतिः ॥)
अस्मत्सुखाप्यगतिं अस्मत्सुधाममरनाथं च नाथमपि मे
वृद्धं त्रिलोकमपि *सृष्ट्वाऽवितारमपि संहारकं त्रिवपुषम् ।
शोणाण्डजोत्प्लुतिकपौष्पासवापगतटोपावृतारुणगिरि
ग्रामाल्पनद्युपगमादिं विना मम न कोऽप्यन्यनित्यसहभूः ॥ ८.४.२॥
(*सृष्ट्वाभिपातुमपहर्तुं क्षमं त्रिवपुषम् । इति पाठान्तरं मातृकायामेव दर्शितं)
मत्स्वामिनोऽनिशममर्त्येशितुर्विततभूद्धारिणो मम विभोः
नाशाय पूर्वदृढसर्वाम्हसां सपदि मत्केशितुर्मम विभोः ।
भूषेत्यगस्त्यदिशि सिद्धेरुणाद्रिपुरगाल्पापगापरतटे
सत्स्वामिनश्चरणयुग्मं विना न मम गत्यन्तरेन्तरपि धीः ॥ ८.४.३॥
अन्या न मेस्ति गतिरल्पेतरत्रिजगदाप्त्यै महर्धिवपुषः
मद्ध्रस्ववर्णिवपुरीशोद्रवाब्धिमथकानीलशोणभपतेः ।
शुम्भत्फलक्रमुकसन्नारिकेलवृतिरम्भाळिरक्तगिरिपु-
र्यल्पापगोद्यदृतसंवासिमत्कपितुरङ्घ्रिं विनाऽद्य किमपि ॥ ८.४.४॥
अन्यत् किमप्यरणमस्मात्परं न खलु सार्थस्थितिस्तदपि तं
हित्वा स्थिरं तु हृदशक्त्याश्रयं मम तदस्यानिशाधिवसतिः ।
संयक्चतुश्श्रुतिगयज्ञाहुतीसुरभिधूमावृताभ्रगमहाः
श्लाघ्या सदुच्चगृहशोणाद्रिपत्तनवरेऽल्पापगा मम गतिः ॥ ८.४.५॥
*सद्रक्षकं मम मदात्मायितं च मम सूरीशमातृपितृभू-
तं स्वस्य चाविषयनैजानुभावमिनमल्पेतराब्धिशयनम् ।
स्वाजत्रिणेत्रसमकल्याणहृद्यगुण साहस्रसौम्यनिलयेऽ
पश्यं दृढोच्चगृहशोणाद्रिपत्तनवरेऽल्पापगापरिसरे ॥ ८.४.६॥
(*अयं अर्धः यतिभङ्गकातरैः ``सद्रक्षकं मम मदात्मायितं च मम सूरीशमातृपितृता-ढ्यं स्वस्य
चाविषयनैजानुभावमिनमल्पेतराब्धिशयनम् । '' इति पाठ्यः ।)
*श्रीशोणशैलनगरेऽध्यल्पशैवलिनि दृष्टस्स शेष्यनुकलं
श्रीशोणदृक्कमलशोणाधरारुणपदारक्तहस्तसुतलैः ।
**श्रीशोणनाभिकमलाशोणपद्मसमवक्षोतिपीतवसनैः
श्रीशोणसन्मकुटहारायुधैश्च मम चित्ते ज्वलन् हि वसति ॥ ८.४.७॥
(*अत्र यतिभङ्गकातराणां
``श्रीशोणशैलपुरि स्वल्पाल्पशैवलिनि दृष्टस्स शेष्यनुकलम् । '' इति पाठः ।
**अत्र यतिभङ्गकातराणां
``श्रीशोणनाभिसुमजाशोणपद्मसमवक्षोतिपीतवसनैः । '' इति पाठः ।)
*चित्ते ममोज्वलतयाधिष्ठितं स्ववनिदेवैश्चतुश्श्रुतिधरैः
**दिक्ष्वाहिताञ्जलि नुतं शोणशैलनगरेऽल्पापगातटगतम् ।
तेजस्विदेवगणनित्याश्रयं प्रबलदैत्योग्रमृत्युमपि न
स्तोतुं विधाविदहमात्ताश्रितत्रिजगदुत्पत्तिरक्षणहतिम् ॥ ८.४.८॥
(*अत्र यतिभङ्गकातराणां पाठः चित्ते ममोज्वलितभासा स्थितं स्ववनिदेवैश्चतुश्रुतिधरैः ।
**अत्र च ``वन्द्यं सहाञ्जलि च तं शोणशैलनगरेऽल्पापगातटगतम् । '' इति)
सृष्टिस्थितिप्रलयकारी परात्परदिगास्यश्शिवोपकृदसौ
मध्येऽवतीर्य स किमप्यर्थमुज्झति न नस्तोत्रमेतदखिलम् ।
दानातिकीर्तियुतविख्यातिगात्मसमसूक्ष्मज्ञताचरणनि-
त्याराधनस्वगुणशोणाद्रिपत्तनगताल्पापगास्थितविभुः ॥ ८.४.९॥
लोकार्हनाथमिह ते ते च सन् सकृपमेतेष्वभीष्टदमिनं
लोकार्हशीतजलभूशोणशैलनगरेऽल्पापगातटगतम् ।
श्रीसद्गुणत्रिशतपङिक्तश्रुतिप्रचितभूदेवनैजवसतेः
अर्हस्थितिं त्रिणयनेशं चतुर्वदनमाश्चर्यमस्म्युपगतः ॥ ८.४.१०॥
(तात्पर्यरत्नावलीश्लोकः)
दुर्दान्तेभेन्द्रभङ्गाच्छुभनिलयतया साम्यतश्चेतरेषां
स्वायत्तत्वेन भानात् श्रितहृदि सततं देवतद्-द्वेषिसङ्गे ।
मित्रामित्रत्वयोगाज्जगदुदयकृतेः देवतात्मत्वमुख्यैः
श्रीमान् वैकुण्ठनाथः श्रितविहितसमग्रस्वभूमाऽन्वभावि ॥ ८.४.११॥
(प्रतिबिम्बलहरीश्लोकः)
भोग्यं सुदुग्धमधुखण्डामृताद्यमिव गीर्णव्यवस्थितभुवं
नाथं नभस्थविधिसृक्-शीतनाभिदलदम्भोजमद्भुतमिनम् ।
उद्दिश्य दिव्यकुरुकासच्छठार्युदितसाहस्रगं दशकमुच्-
छिन्द्यात् पदं सदयमारोप्य तद्भवमहाश्चर्यनाटकमिदम् ॥
(इति अष्टमशतके चतुर्थं दशकम्)
॥ अथ अष्टमशतके पञ्चमं दशकम् ॥
प्रतिबिम्बलहरीवृत्तं - शार्दूलविक्रीडतं
एतद्दशकप्रतिपाद्यगुणविशेषः - रक्षापेक्षाप्रतीक्षत्वं
॥ सङ्गतिमणिमाला ॥
(वसन्ततिलका)
तन्मानसानुभव इत्यपि बाह्यखानां
भूयादसाविति पुनस्त्वभिलाषमुग्धः ।
तादृक्पिपासुरथ तं समयप्रतीक्षं
एहीति पङ्कजसरः चरमीडते व ॥
मायानाटक! वामनात्यघनिधेर्मे कृष्ण दृक्पादपा-
ण्यच्छारक्तसुमो महोमुकुलभूतारक्तदिव्याधरः ।
कान्तश्यामलदिव्यविग्रहदलैः शीतस्तटाको महान्
आम्भोजस्सुरभिर्यथागमनवन्नेह्येकवारं दृशोः ॥ ८.५.१॥
आगच्छेक्षितुमित्यतीव नयने वक्त्रे च शुष्के मयि
ह्रीणे सद्विषयेऽवसीदति *दयावान् त्वं दिनेऽत्र क्वचित् ।
हाहा याह्युदितासितारुणमहानीलाभिनव्योत्तम
क्ष्माभृत्तुल्यमहोमयालकभराश्लिष्टोत्तमाङ्गेश्वर ॥ ८.५.२॥
(*यतिभङ्गभीरवोऽत्र - ``दयां कृत्वा दिने त्वं क्वचित्'' इति पठन्तु ।)
ईश ! श्लिष्टकचोत्तमाङ्ग ! निबिडत्वद्रम्यसामोदसद्-
धामोच्छीततुलस्युरस्स्रगिन! हेत्युन्मोहवद्रोदने ।
मय्युद्यन्मकराभकुण्डलचतुर्बाहुप्रवालाधर-
श्रीढक्काभवलग्नयोग्यमलवार्वार्मुक् यथा नैष्यहो ! ॥ ८.५.३॥
स्वच्छाम्भोब्दवदुज्वलच्छविवपुः ते दिव्यबिम्बाधरो
मध्वापेक्षणपङ्कजे अपि ममाऽऽगत्यान्तरापूरणम् ।
*नीलानल्पकरूप्यशैलसदुदारप्रावृषेण्याब्दवत्
क्षीराब्धावभिवृद्धनिद्र! गदितुं मन्नाथ! नो शक्नुयाम् ॥ ८.५.४॥
(*अयं पादो यतिभङ्गकातरैः ``नीलानल्पकरूप्यशैलगतसत्स्वोदारवर्षाब्दवत्''
इति पठनीयः स्यात् ।)
दासो वक्तुमशक्त एव चरणौ ते दिव्यतेजोमयौ
निस्सीमस्वगुणौ द्विबालमिहिरौ चित्ते मम स्तो यथा ।
चित्तेऽनर्थमहान्धकारमिलने को वाऽभ्युपायोऽब्धिवृ-
त्याढ्यानल्पसमक्षमाभुगमिताम्भोम्भोदपूर्णोज्वल ! ॥ ८.५.५॥
वार्मुग्वर्ण! घटीनटाघजलधेर्मे नेत्र ! कृष्णास्मदी-
शाण्डानामधिपेति पातुमिह मामाक्रुश्य चेदाह्वये ।
व्योम्नो वा परमाद्भुवोऽथ विततक्षीराम्बुधेर्वाऽन्यतो
वा मे दासजनस्य तेऽङ्घ्र्यनुभवायाविर्भवैत्यैकदा ॥ ८.५.६॥
शीताताम्रसरोजजिन्नयनपाण्यङ्घ्र्यब्जशोणाधरः
श्यामासङ्ख्यकरप्रसारिविकसत्सूर्योपमास्मत्प्रभो ! ।
एत्याविर्भव चेन्न ते भुवि न विक्रामत्पदाम्भोजयोः
मूले पूर्वमहं यथैमि धुरि माऽऽहूय स्वदास्ये कुरु ॥ ८.५.७॥
तुल्यं स्वामिवपुः श्रियेति शिथिलस्वान्तोऽहमत्रान्वहं
प्रत्योघीभवदम्बुदायकगणालोकं द्रुतो वास्म्यहम् ।
भूत्वादावनुरूपपञ्चकवशे पाताय राज्ञां शत-
स्याज्यन्तस्सुरथैकवाहक ! न चैष्येष स्वभावो नु ते ? ॥ ८.५.८॥
शीलस्ते कथमेष विद्युदनुकृच्छक्रायुधारूढसत्-
पक्षिन् ! तल्लसदुद्धृतध्वजवरेत्यश्वासवद्रोदने ।
मय्यास्था भवितुं कथन्नु विपुलेदम्भूभरं निर्हरन्
स्यन्दन्मध्वगतत्युदीच्यमधुराविर्भूत! चर्याद्भुत! ॥ ८.५.९॥
आश्चर्यादवतीर्ण! भारतरणस्रष्टा द्रुतेत्थं त्वया-
पीशैवं त्वतिशायिभूजलमरुद्व्योमानलान्याकृतौ ।
दुग्धक्षीरघृतं यथेदमखिलेष्वज्ञातरूपं वसन्
अत्याश्चर्यनिधे! क्व वा पुनरितो द्रक्ष्यामि भोस्त्वामहं ? ॥ ८.५.१०॥
(तात्पर्यरत्नावलीश्लोकः)
आश्चर्येहान्वितत्वात् शुभमकुटतया स्वामिताब्धौ शयित्वात्
जीमूतश्यामलत्वात् श्रितसुलभतया पद्मसूर्योपमाङ्गात् ।
सारथ्यात्पाण्डुसूनोः अवनिभरहृतेरन्तरात्मत्वयोगात्
जीवापेक्षाप्रतीक्षो भवति तदवने श्रीपतिश्चेत्यभाणि ॥ ८.५.११॥
(प्रतिबिम्बलहरीश्लोकः)
द्रक्ष्याम्युज्वलसत्तुलस्यधिपतिं कुत्राहमित्येवमि -
त्यत्रानम्रगिरा सुशीतकुरुकाराजच्छठद्वेषिणा ।
उक्तेऽत्यार्जवयुत्सहस्रक इमा गाथा दशाधीतिनः
प्रत्यक्षं त्विह जन्मनीह विपुलानन्दास्तु नक्तन्दिवम् ॥
(इति अष्टमशतके पञ्चमं दशकं )
॥ अथ अष्टमशतके षष्ठं दशकम् ॥
प्रतिबिम्बलहरीवृत्तं -उपजातिः
एतद्दशकप्रतिपाद्यगुणविशेषः - स्वपदवितरणसज्जत्वं
॥ सङ्गतिमणिमाला ॥
(वसन्ततिलका)
तस्यार्तिशान्तय इतो भगवान् तु सज्जः
मध्ये परं कटिपुरे भरते पुरेव ।
आनन्दसात्म्यकृतबुद्धिरसावतिष्ठत्
ज्ञात्वेतदानन्दवशो ब्रवीति ॥
नक्तन्दिवं स्वस्मृतिजाभिवृद्ध्यै
श्लाघ्यां दयां मे ददतो दयाब्धेः ।
सुशीतपुष्प्यत्तुळसीकनेतुः
सम्पन्नभूः पूः कटिदिव्यदेशः ॥ ८.६.१॥
श्रीमत्कटिस्थानमिदं मनो मे
मत्वैकमन्तस्थ इहोपकारी ।
तदात्तगर्वामतियातुदेह-
नाशाय वृष्टाशुग एकवीरः ॥ ८.६.२॥
एकोऽथ वा द्वौ त्रय इत्युदित्वा
गूढोऽथ सोऽनुस्मृतिनित्यभोग्यः ।
लक्ष्म्यास्थितोराः कटिदिव्यदेश-
मादृत्य तिष्ठत्युपकृत् सुमायः ॥ ८.६.३॥
तेजिष्ठसूर्याप्तकटिस्थलं सा-
मोदागवाटीं कलयन्निवासम् ।
मायोपकृन्मे हतमन्महार्तिः
स्नेहान्मनोदेशमधात्स्वगेहम् ॥ ८.६.४॥
*ससालयामर्त्यगणेड्यभूवै-
कुण्ठालयस्थो घटनर्तकेशः ।
स्वं धाम कुर्वन् कटिदिव्यदेशं
तेनाकरोद्धाम ममापि चित्तम् ॥ ८.६.५॥
(*अत्र यतिभङ्गकातरैः ``ससालयामर्त्यगणेड्यभूत-वैकुण्ठगेहो घटनर्तकेशः''
इति पाठः स्वीकार्यः ।)
घटीनटेशोऽघिमदार्तिजाल-
*हर्तुः मधुद्विड्विभुनित्यवासे ।
पुष्पाटवीशीतकटिस्थलेऽस्मिन्
नुते तु दुःखान्यवधत्त न स्युः ॥ ८.६.६॥
(*हर्तुर्मधुघ्नस्य दिभोर्निवासे - इति पाठे अन्वयक्लेशो न स्यात् ।)
गोविन्दभूम्यम्बरमात्पदाब्जं
नमत्सु भौमेष्वमरैस्समेत्य ।
स्वयं श्रितं श्रीकटिभूपुरं तत्
दुःखप्रशान्त्यै हृदये कुरुध्वम् ॥ ८.६.७॥
पुरः खभूम्यब्धिमुखा मदीया-
श्चर्यस्य वर्याः स्थितयेऽभितोऽपि ।
तथापि हृन्मे कटिदिव्यदेश-
पुरं च दायाप्तनिजप्रदेशौ ॥ ८.६.८॥
श्लाघ्यस्वदायाखिलदिव्यदेशेषु
आदृत्यरागान्निवसन् प्रकृष्टात् ।
तेजिष्ठसूर्याप्तकटिस्थलेऽन्तः
गोपप्रभुः सोऽद्भुत एति वासम् ॥ ८.६.९॥
आश्चर्यनारायणवामनाख्य-
हरेस्स्थितिस्सादरमस्मदन्तः ।
स्थितेस्सुकीर्तिश्रुतिभृच्चतुश्श्रु-
त्युच्चामरागाढ्यकटिस्थलेऽन्तः ॥ ८.६.१०॥
(तात्पर्यरत्नावलीश्लोकः)
भातत्वात् श्रीतुलस्या श्रितहृदिशयनात् श्रीद्धवक्षस्कभावात्
आश्चर्योपक्रियत्वात्सुरगणभजनाद्वैरिविध्वंसकत्वात् ।
श्रीगोविन्दत्वशेषाभिमतविषयतोऽभीष्टसच्चित्तकत्वात्
सर्वाकाराद्भुतत्वात्स्वपदवितरणे सज्ज इत्याह कृष्णः ॥ ८.६.११॥
(प्रतिबिम्बलहरीश्लोकः)
उक्तौ शुभारामकटिस्थलश्री-
पतिं सुसालेट्कुरुकाशठारेः ।
हर्षात् सहस्रे सपयोमृतेऽमूः
दशोच्चवैकुण्ठमुदं नयेयुः ॥
(इति अष्टमशतके षष्ठं दशकम्)
॥ अथ अष्टमशतके सप्तमं दशकम् ॥
प्रतिबिम्बलहरीवृत्तं - मन्दाक्रान्ता
एतद्दशकप्रतिपाद्यगुणविशेषः - स्वजनहृदि रतत्वं
॥ सङ्गतिमणिमाला ॥
(वसन्ततिलका)
चित्तं स्वकीयमितमादरतः प्रयत्नात्
स्वस्माच्च तीव्रतरमस्य विभुं प्रपश्यन् ।
बद्धादरं परममेष जगाद भक्त-
चित्तस्थितावथ महान्तमवाप्य मोदम् ॥
आश्चर्यान्मां स्वशुभपदयोः मूलतः स्थापयेदि-
त्यभ्यर्थ्यैकाकृति बहुदिनान्येवमाक्रन्दतो मे ।
सस्नेहित्वं स्वयमनुविशन् वामनोऽन्तर्मनो मे
स्थैर्याद्दृष्ट्वाऽऽशयमिममिहोत्कर्षवान् स न्यधत्त ॥ ८.७.१॥
दृष्ट्वा कर्तुं चपलहृदयाकर्षकान् मेऽविनेयान्
पञ्चाऽतुल्यान् क्षययुतहतान् सुस्थिरं स्वास्थितेन ।
पीडापीनस्वचरणगजे स्वामिनोद्यत्कृपेण
स्वेनैवेतन्मयि च विहितां श्रीकृपां नैव जाने ॥ ८.७.२॥
जाने नेतः परमपि कृपां तामहं सोऽस्मदन्तः
सर्वाज्ञानक्षयकृदुपविष्टोऽस्त्यतोऽन्यः पुमर्थः ।
को वाऽस्तीति स्फुरति मनने नार्थ एव त्रिलोकी
भ्रान्तिर्वेदं भ्रमयति स मां मोहनैस्साधनैर्वा ॥ ८.७.३॥
मा मां स भ्रामयतु विविधैर्मोहनैर्वञ्चयित्वा
गोपः स्वामी मम हरिवृषो नित्यसूरीश्वराणाम् ।
शुद्धज्योतिर्मयनिजवपुः स्वीयचित्ते न्यधान्मे
लोके श्लाघ्यां सकलविदितां श्रीकृपां स्वां विधाय ॥ ८.७.४॥
कृत्वा लोके सकलविदितं श्रीकृपां स्वां जनौघैः
श्लाघ्यां कीर्तिं भुवि मम निजां दर्शयित्वा स्थिरोऽभूत् ।
दीप्तो नीलातुलमणिगिरिश्रीः *मनःपङ्कजे मे
श्लाघ्या कीर्तिर्भुवि तदपरा का पुमर्थश्च को मे ? ॥ ८.७.५॥
(* ``मदीयान्तरङ्गे'' इति पाठश्चेत् मूलानुगुणतरता ॥)
अर्थं कश्चिन्मम तदितरं चेत् पुमर्थेषु पूर्णं
दद्याद्दाता जगति मदृते स स्वयं कस्य वा स्वम् ।
माहानीलक्षितिधरभवाब्जोपमश्रीतवक्षो-
हस्ताक्ष्यङ्घ्रिस्वरुणिमधरस्वोष्ठनाभ्यब्जशाली ॥ ८.७.६॥
नाभ्यारक्ताधररुचिलसत्कुण्डलस्वच्छदन्तैः
साकं चान्यावयवमभितः तेजसोऽग्रे वरीतुम् ।
साकं शोणाधरमृदुहसेनास्थितस्यास्मदन्तः
हित्वार्थं तं त्वहमिह परां तत्कृपां नो विजाने ॥ ८.७.७॥
नान्यां जानाम्यहमिह दयां ईशिता चोपकृन्मे
हृष्टः कुर्वन्निरुपधिकृपां तस्य पात्रीभवत्सु ।
अल्पस्यान्तर्हृदयमपि मे स्वस्य कुक्षौ त्रिलोकीं
धृत्वा न्यायं निजमजहदेवास्थितोऽभूत्स्थिरत्वम् ॥ ८.७.८॥
कुक्षौ धृत्वा स्थितविधिमुखान् तद्वदस्मांश्च सर्वान्
कुक्षौ धृत्वा स्थितदुरवबोधत्रिलोकीं स्विकायाम् ।
कुक्षौ धृत्वा स्थितमविकृतिं स्वामिनं श्रान्तिहीनं
कुक्षौ धृत्वा स्थिरतरमिहास्थापयं साधुबुद्ध्या ॥ ८.७.९॥
चित्ते मेऽन्तः स्थिरतरमिहास्थापयं साधुबुद्ध्या
विश्लिष्याहं क्षणमपि सदा सर्वदा नैव जह्याम् ।
योग्यस्फालन्निबिडततरङ्गौघशीते पयोधेः
मध्ये स्फायत्फणसमुचितानन्तशय्यं परं नः ॥ ८.७.१०॥
(तात्पर्यरत्नावलीश्लोकः)
भव्यत्वाद्रक्षकत्वात् त्रिजगदधिककारुण्यतो गोपभावात्
नीलाश्माद्रिप्रभत्वात्स्वजनकृतनिजात्मप्रदानप्रभुत्वात् ।
मन्दस्मित्या स्थितत्वाद्धृदि सुकृतिषु चातर्कितानुग्रहत्वात्
स्वानां चित्तानपायात्स्वजनहृदि रतो माधवश्चेत्यवोचात् ॥ ८.७.११॥
(प्रतिबिम्बलहरीश्लोकः)
तेजिष्ठाहिप्रवरशयनं चोत्तमं श्रीप्रियं नः
तत्पादाप्तेः सुशुभकुरुकाभूशठाराति* भक्त्यै ।
युक्तेरुक्ते दश दशशते जन्मनिश्शेषशान्त्यै
एता गाथाः **स्वरुणनयनाभ्यां निजाभ्यां दहेयुः ॥
(*पितामहपादानां मातृकायां एवमेव लिखितं दृश्यते । अत्र अर्थो नास्माकं स्फुरति ।
ततश्च ``॥ंआम्ना । प्रोक्त प्रोक्ता'' इति पठनीयं इति एक ऊहः ।
**अत्र यतिभङ्गभीरूणां ``स्वरुणनिजदृग्पातमाकल्पयेयुः'' इति वा पाठस्स्यात् ।)
॥ इति अष्टमशतके सप्तमं दशकम् ॥
॥ अथ अष्टमशतके अष्टमं दशकम् ॥
प्रतिबिम्बलहरीवृत्तं - स्रग्धरा
एतद्दशकप्रतिपाद्यगुणविशेषः - स्वदास्यस्पष्टयितृत्वं
॥ सङ्गतिमणिमाला ॥
(वसन्ततिलका)
सम्मोदवानिति पुनर्निजनैच्यबुद्धिः
दूरं व्रजेदिति विभावथ ``भूषणं त्वम् ।
देवीव कौस्तुभमिवे''ति च तत्स्वरूपं
सन्दर्शयत्ययमिदं विवृणोति पश्यन् ॥
रक्ताक्षो दीर्घचक्षुः स्वरुणरुगधरः पक्वभूतः तदन्तः
शुभ्रश्रीदन्तचञ्चद्रुचिवरमकरश्रीचलत्कुण्डलश्रीः ।
प्रावृद्भूमेघवर्णः शुभमकुटचतुः श्रीभुजो नम्रशाङ्गः
स्वब्जं चक्रं गदासी दधदिह रमते दासचित्तेऽद्वितीय्यः ॥ ८.८.१॥
दासस्यान्तः स्थितो मे वपुषि च बहिरप्यण्डतोऽन्तश्च वर्ती
शक्यो वक्तुं न चेदृग्विध इति सुतरां यः परस्मात् परश्च ।
*नव्यामोदौघमाध्वीभवसुखनिरवद्योच्चसाराविनाशि-
स्वानन्दोत्कर्षभूमोपरितनसुधियां ज्ञानवत्वेऽद्वितीय्यः ॥ ८.८.२॥
(*``सौरभ्ये नूतनेऽन्तर्मधुनि च निरवद्योच्चसाराविनाशि'' इति पाठान्तरम् ।
ज्ञानश्रेष्ठाद्वितीयं निरुपधिदयया तस्य तत्प्राप्तयेऽन्तः
ज्ञाने मेऽस्थापयं साध्विदमपि कृपया तस्य तत्तादृशैव ।
ज्ञानं प्राणश्शरीरं निरवधि सकलं चापरं व्यर्थमेवे-
तीक्षाप्राप्त्यै प्रवर्त्यान्तमपि पुनरहं चाभवत् स स्वयं च ॥ ८.८.३॥
भूत्वाहंशब्दवाच्यः स्थितमपि करणं चेतनाचेतनानां
विष्ण्वाख्यो ब्रह्मरुद्राकृतिरपि विततीभूतमेकं च हेतुम् ।
माध्वीक्षीरेक्षुखण्डामृतवदतितरां भोग्यभूतं च देहे
प्राणे ज्ञाने च मेऽन्तः स्थितमवगतवानस्मि कञ्चित् पुमांसम् ॥ ८.८.४॥
एकं स्थैर्यात् स्थितं मे तमवगतवतां तद्गतं सूक्ष्मकं वै-
लक्षण्यं दुर्ज्ञमेतत् तदिति किमपि *केषां च विज्ञाय पश्चात् ।
**दुर्दर्शो दूरगत्या परमपि परतो दोषहीनं च सूक्ष्मं
निस्सङ्गं साध्वसाध्वित्यपि दुरवगमं श्लाघ्यमक्षाण्यतीतम् ॥ ८.८.५॥
(*अत्र यतिभङ्गभीरवो ``वा कस्य विज्ञाय पश्चात्'' इति पठन्तु ।
**दुर्दर्श इति पाठेन भवितव्यं इति भाति ।)
एकीभूतं बृहद्दुस्तरमनवधि तत्प्राकृतं वस्तु संयक्
ज्ञात्वा ज्ञात्वा प्रतीदं मतिशुचिरिह बल्यक्षवर्गं च जित्वा ।
सौख्यं दुःखं विजित्यान्तररसविमुखश्चेत्तदा तत्क्षणे स्यात्
मोक्षः सर्वान्तरायात् स हि निजभगवत्प्राप्तिरूपश्च मोक्षः ॥ ८.८.६॥
मत्वा मोक्षश्च मोक्षाभ्युदितपरसुखं तत् स एवेति सम्यक्
सर्वस्मिन् त्यक्तसङ्गाः अपि यदि रुचिमद्वासनात्यागशक्ताः ।
मोक्षस्सोऽयं हि मोक्षोदितसुखमपि चेदं त्वनिश्चित्य को वा
मोक्षो? मोक्षाप्तिसौख्यं किमिति च सुतरां क्लेशिनः खिन्नखिन्नाः ॥ ८.८.७॥
सन्नस्सन्नोवसन्नस्त्विति गृहगजनेष्वन्यबाह्येषु सङ्घी -
भूयाक्रुश्यात्र पातिष्वपि मृतिसमये स्वस्य सोन्मादतुल्यः ।
मोहाधिक्येऽनुरागेऽप्यतिपतति मम स्वामिना पूरुषेण
प्राप्यौपम्यं स्थितेऽस्मिन् सह यदि घटते चित्तमुत्कृष्टलाभः ॥ ८.८.८॥
ऐक्यं गच्छेत् सुलाभः नटदुरुगरुडप्राम्शुके त्वस्मदत्या-
श्चर्योऽसौ तत्तदेव प्रभवति सकलं दुर्लभो लभ्यते चेत् ।
मोक्षं वै कल्पयित्वा निजमतविधया भाविकालेऽद्य भूते
धावन्तो योगिनोऽपि प्रचुरमिह तु सन्त्येव नो सन्ति नैव ॥ ८.८.९॥
*सन् वैस्यान्नैव सन्स्यान्न च भवति तु नो सोऽयमित्यादि पक्षेष्-
वस्मत्स्वामी स्थितोऽयं निरुपम इह मे प्राप्य चित्तं स्थिरोऽत्र ।
शुक्लं पक्षं व कृष्णं क्षयमुदयमिमौ जघ्निमैवं ततश्चा-
दित्यं संवर्धमानं तमसमिव मतिं चामतिं जघ्निमैव ॥ ८.८.१०॥
(* दशके अस्मिन् प्रतिबिम्बलहरीश्लोका गतगाथापर्यन्तं स्रग्धरानिबद्धाः । परं तु असौ
उपरितनश्च शार्दूलविक्रीडिते निबद्धौ । तदिदं परिशील्य पितामहपादाः स्वयमेव अनयोः
स्रग्धरारूपं मातृकापुस्तकावसाने लिखितमिति सूचितवन्तः । परं तु तत्र एकादश्या एव
गाथायाः प्रतिबिम्बः स्रग्धरात्मको दृश्यते । ततश्च अयं श्लोकस्तेषामनुग्रहात् तानेव ध्यायता
दासेन स्रग्धरारूपे दत्तः । वैरूप्यं मास्त्विति स स्रग्धराश्लोक एव उपरि मुद्रापितः । तेषां शार्दूलविक्रीडितश्लोकः तु अत्र दत्तः -
सन्नास्ति स हीति संश्च सुतरां नास्तीति पक्षे स्थितो
ह्यस्मत्स्वाम्यतुलस्समेत्य हृदि मे मध्ये स्थितस्स्थैर्यतः ।
वर्धिष्ण्विन्दुकलां क्षयिष्णुमिव तां वृद्धिं क्षयं च क्षयं
सूर्यं सन्तमसं यथाहमनयं ज्ञानं तथाज्ञानवत् ॥)
(तात्पर्यरत्नावली श्लोकः)
प्रासाधन्येन भानाद्धृदि च विभुतयाऽलम्महिम्ना परत्वात्
माधुर्याद्देहदेह्यादिषु च गततया स्वस्वरूपप्रकाशात् ।
अन्त्यस्मृत्याप्यभावात्स्वपरमपुरुषैक्यभ्रमध्वंसकत्वात्
ज्ञानाज्ञानप्रदत्वात्प्रकटयति हरिः पुंसि दास्यं स्वमूचे ॥ ८.८.११॥
(प्रतिबिम्बलहरीश्लोकः)
*ज्ञानाज्ञाने विनाश्य स्वविनयनशुभस्वर्णभूषाङ्घ्रिमूले
कारुण्यात् स्थापयन्मत्प्रभुविधिशिवरूप्यब्जजानायकेन ।
श्रीसाहस्रे शठारेः दशभिरितदयेनाभिरालोकितस्य
स्वीकुर्यान्नीलरत्नप्रभुरिह दयया पादमूले स्थिरं** तत् ॥
(*अत्र एव श्रीपितामहपादानां शार्दूलविक्रीडितश्लोकः-
ज्ञानाज्ञानविनाशकृत्स्वविनयत्सुस्वर्णभूषाङ्घ्रयधः
कारुण्यात्स्थिरयन्मदीडजशिवाकाराम्बुजाप्रेयसा ।
साहस्रे त्वनुकम्पितस्य दशभिः चाभिः शठद्वेषिणः
कुर्यान्नीलमणिः प्रभुः करुणया नः पादमूले स्थिरान् ॥
** ``नः'' इति पाठश्चेत् मूलानुगुणतरता स्यात् ।
(इति अष्टमशतके अष्टमं दशकम्)
॥ अथ अष्टमशतके नवमं दशकम् ॥
प्रतिबिम्बलहरीवृत्तं - शार्दूलविक्रीडितं
एतद्दशकप्रतिपाद्यगुणविशेषः - स्वदास्यस्पष्टयितृत्वं
॥ सङ्गतिमणिमाला ॥
(वसन्ततिलका)
आत्मस्वरूपमवबुद्ध्य च शेषभाव-
पूर्त्या भजन् वरतनोरथ भावमेषः ।
श्रीव्याघ्रपूःप्रभुकृपामवगाह्य भाती-
यालीगिरा वदति किङ्करतासुनिष्ठाम् ॥
माहानीलधराग्रदिव्यसरसीरक्ताब्जवन्या सम-
श्रीवक्षोधरदृक्कराङ्घ्रिकटिनाभ्यारक्तभस्येशितुः ।
श्रीशेशः सुजलेतखर्वविषयश्रीव्याघ्रपुर्यद्भुत-
स्याऽलभ्यस्य विनाऽभिधामियमवाक् हाम्बाः ! करिष्येऽस्य किं ? ॥ ८.९.१॥
दिव्यं मेरुशिरस्युदीतनिबिडव्याप्तप्रभार्कश्रिया
किञ्चासङ्ख्यकभग्रहैरिव *किरीटेनाऽपि हारैरपि ।
अन्यैश्वापि विभूषणैः विलसतो नाथस्य पुन्नागसद्-
वाटीं व्याघ्रपुरीं विनौति सुतरामम्बाः ! करिष्येऽस्य किम् ॥ ८.९.२॥
(*अत्र यतिभङ्गकातरैः ``तथा मौलेयहारैरपि'' इति पाठः स्वीकार्यः ।)
स्तौतीयं कलहायिताम्बुरुदधिर्वह्न्यापरीतोज्वल-
ज्वालाभिस्सह यान् यथैधितरुचीन् श्लाघ्यान् युयुत्सून् वहन् ।
हेतीन् चक्रमुखान्विशन् युधि सुरारातीन्निहन्तुः स्फुरद्-
रत्नोच्चैर्गृहवत्तरक्षुनगराभामेव नक्तन्दिवम् ॥ ८.९.३॥
स्वश्रीकृन्नगवाटिकेक्षुपृथुसन्नीवारयुक्तानडुह्-
श्रीकेदारसुशीतखर्वविषयश्रीव्याघ्रपुर्यां सतः ।
दीव्यत्सद्गुणितस्त्रिलोकमुदरे निक्षिप्य विक्षेपिनोऽ-
मर्त्येशोऽद्भुतनामकीर्तनमृतेऽद्यामुक्तभूषा ह्यवाक् ॥ ८.९.४॥
आमुक्ताभरणश्रिया च वसने कान्त्या नवोल्लासने
चिन्तायां स्थिरमस्ति*ते दुरवबोधोऽस्याः स्वभावोऽस्य हि ।
स्फीतोन्निद्रसरोजसारसहिमश्रीव्याघ्रपुर्यां सतः
मुख्यस्य त्रिजगत्पतेः पितु**रमज्जत् श्रीकृपायामियम् ॥ ८.९.५॥
(*अत्र यतिभङ्गकातराणां ``तन्ननु च दुर्ज्ञानस्स्वभावोऽस्य हि''। इति पाठः स्यात् ।
**अत्र यतिभङ्गकातराणां ``पितुरियं मग्ना कृपायां ध्रुवम् । '' इति पाठः स्यात् ।)
मग्नायाः सुदयोदधौ सुचिरमृद्धाम्भोब्धिवर्णोपकृत्-
कृष्णस्याप्ततदीयदिव्यकरुणा*या लक्ष्म चास्ति स्फुटम् ।
तेन श्रीकृपया श्रिताध्युषितसुश्रीव्याघ्रपुर्यां कृपा-
संवृद्धक्रमुकोज्वलत्फलसमो मृद्व्यास्तु रक्तोऽधरः ॥ ८.९.६॥
(*अत्र यतिभङ्गकातराणां ``चिह्नं तथाऽस्ति स्फुटम् । '' इति पाठः स्यात् ।)
श्लिष्टोदारसुवर्णदिव्यफणिवल्ल्यापीनसुस्कन्धवत्
पूगानल्पदलप्रसूनफलवद्रम्भाश्रयामोदितैः ।
संश्लिष्यद्दलनारिकेलवनगैर्वातैर्हिमव्याघ्रपु-
र्युच्चैश्चारिसमृद्धकृष्णचरणौ सम्प्राप मुग्धा त्वियम् ॥ ८.९.७॥
मातॄणां किमुपवर्ण्य वच्मि ? किमियं मुग्धा महासम्पदां
स्वर्भाषाश्रुतिवाहिनामधिसवं साज्याग्निधूमोद्गमैः ।
यातैः खे सुदृढे वृतामरपुरे शीते तरक्षोः पुरे
हित्वातिक्रममन्यदाह फणिराट्तल्पस्य नामानि नो ॥ ८.९.८॥
विष्वग्वर्धितगानवेदचतुरारावेऽब्धिघोषाधिके
पूर्णग्राहसरोविकास्यचलसद्दीपोपमाम्भोरुहे ।
सत्केदारवृते तरक्षुनगरे कृष्णस्य शीतोदक-
श्रीवर्णस्य दिवानिशं परमियं नो वक्ति कीर्तिं विना ॥ ८.९.९॥
कोऽन्यो हेतुरिदं सुशीततुळसीसौरभ्यपूर्तौ विना
शैलोच्चैर्मणिसालगेहरुचिरव्राताभिपूर्णे समे ।
दक्षाशातिलकस्य खर्वविषये श्रीव्याघ्रसंज्ञे पुरे
वास्तव्याद्भुतसूपकृच्छुभदयापात्रीबभूव त्वियम् ॥ ८.९.१०॥
(तात्पर्यरत्नावलीश्लोकः)
वैलक्षण्यात्स्वमूर्तेः मकुटमुखमहाभूषणैर्भूषितत्वात्
स्वार्हानेकायुधत्वात्प्रलयसखितयोज्जीवने कर्षकत्वात् ।
भव्यत्वाद्यैश्च सम्पन्निरवधिकतयाऽऽश्चर्यचेष्टत्वयोगात्
निष्ठां दास्ये स्वकीये प्रकटयति हरिश्चेत्यथाज्ञायि तेन ॥ ८.९.११॥
(प्रतिबिम्बलहरीश्लोकः )
कैङ्कर्ये परिपूर्तिमत्त्रिजगतीयोग्याधिनेतुः पदे
योग्यस्येशितृभक्तभक्तपदभाग्भाजश्शठद्वेषिणः ।
*योग्योक्तौ द्रमिडस्रगुज्वलसहस्रेऽस्मिन् दशामू अपि
प्राप्याधीतिजुषः श्रितेष्टभगवत्कैङ्कर्ययोग्या ध्रुवम् ॥
(*अत्र यतिभङ्गकातराणां ``योग्योक्तौ द्रमिडे सहस्रसुमवन्माल्ये दशामू अपि'' इति पाठः ।)
॥ इति अष्टमशतके नवमं दशकम् ॥
॥ अथ अष्टमशतके दशमं दशकम् ॥
प्रतिबिम्बलहरीवृत्तं - स्रग्धरा
एतद्दशकप्रतिपाद्यगुणविशेषः - दास्यस्य अवधेः स्पष्टयितृत्वं
॥ सङ्गतिमणिमाला ॥
(वसन्ततिलका)
शेषत्ववर्णनकथामधि तस्य काष्ठा
तद्भक्तसेवनमिदं परमं सुभोग्यम् ।
इत्यादिकं वकुलभूषण एष वक्ति
शत्रुघ्नमार्गपथिकोऽथ भवन् प्रहृष्टः ॥
भक्तव्यामोहभाजं स्मृतवति मयि तं दास्यकृद्वत्प्रलोभ्य
स्वस्थोग्राघौघमोक्षोचित इति च मया चिन्तिते तु प्रकारे ।
क्रूरोच्चाघस्य मे तत्पदविनतपदस्यैव दास्यं विनाप्ते
त्रैलोक्ये विस्मयार्हेऽप्यहह क इह तत्त्यागहेतुप्रकारः ? ॥ ८.१०.१॥
त्रैलोक्ये विस्तृते स्वेऽप्यपगततमसि श्रेष्ठकैवल्यसौख्ये
वर्षाभ्रश्रीतनोः स्रक्सुमकटकयुते स्वामिनः पादमूले ।
निष्ठानां दास्यकाष्ठोपरि निरुपधिकं श्रीपदेऽत्र प्रणम्य
प्राप्तं सौख्यं फलं मे *स्वघततिमृदितस्यानुरूपं भवेत् किं ? ॥ ८.१०.२॥
(*अत्र मातृका ``मे इत्यस्यानन्तरं ॥।दितस्ये''त्यस्य पूर्वं अस्फुटा ।
अयमस्मदूहतः कलृप्तः पाठः ।)
युक्तं किं मे? तदीयेष्विह भुवि विचरत्स्वत्र मत्स्वामिषूच्चैः
लब्ध्वाल्पत्वे महत्वं सदृशनरतया तद्विसृज्य प्रवेष्टुम् ।
पूर्त्या एतत्त्रिलोक्या वपुरधिवसतः श्रीमहावामनस्य
स्वारक्ताम्भोजदृष्टेर्मम महितसुमामोदिपादाब्जमूले ॥ ८.१०.३॥
का हानिर्मेऽस्ति लोके चरत इह ततां क्ष्मां पुरोच्चां निगीर्या-
प्युद्गीर्यारक्तरुच्याधरमणिकमलारक्तदृष्टेर्ममेशः ।
उच्चैर्जृम्भद्गुणास्यं *भृतनिखिलखसद्रम्यरूपाढ्यचित्तं
चेत्तत्पूजासुमाञ्चत्करमपि चरितुं सत्पथेऽतो दयेत ॥ ८.१०.४॥
(*अत्राऽपि मातृका ``भृतनिखिल इत्यस्यानन्तरं रूपाढ्यचित्तं'' इत्यस्य पूर्वं अस्फुटा ।
अयमस्मदूहतः क्लृप्तः पाठः)
लब्ध्वा कैङ्कर्यमार्गस्थितिजनककृपां मञ्जुपुष्पाङ्घ्रिमूले
सावर्तज्योतिरोघद्युतिसरिदुदितानन्दलाभेऽद्भुतस्य ।
हेये देहे जनित्वा तदुरुशुभगुणान् सम्यगभ्यस्य जातं
सूक्त्याकारेण काव्यामृतमनुभवितुं सर्वमेतत् समं किं ? ॥ ८.१०.५॥
मोक्षावाप्तिर्भवेत् किं त्वनुभवनसमा स्रष्टृता वा त्रिलोक्याः
निस्साम्यात्मोत्थधामारुणमुखगजसंहारकस्वामिनो मे ।
रक्तालम्ब्यर्हकेशानलसमनयनप्रांशुदैत्याखिलासून्
पीत्वापीडं चरद्वेर्नियमयितुरतुल्यातताच्छेद्यकीर्तेः ॥ ८.१०.६॥
प्रादुर्भूय स्वयं सुस्थिरमतुलमहाकीर्तिसिद्ध्यै भवन् सन्
ध्यातृ ब्रह्मादिबीजं परमुपजनने कर्तुरस्यास्त्रिलोक्याः ।
देवस्यैकस्य हित्वा स्वसदृशकिसलाङ्घ्र्योः प्रवेशं तदीय-
श्लाघ्यश्लेषप्रमोदः परमिह महतः सिद्ध्यतु प्रत्यहं नः ॥ ८.१०.७॥
सृष्ट्वा शीताम्बुवार्धिं निजचरणभुजाशीर्षमास्तीर्य नाना
निस्तुल्यं विस्तृतोच्चै रुचिरसुरनगानेकसूर्यातपाढ्यः ।
आनीलो रक्तशैलेडिव शयितवतो दाससङ्गेन सङ्गः
तत्सौन्दर्यस्थचित्तप्रमुदितमनसा सिध्यतु प्रत्यहं नः ॥ ८.१०.८॥
भक्तव्राताधितिष्ठत्प्रबलदुरितहृत्याप्तचातुर्यमूर्तेः
युद्धोद्यच्चक्रशङ्खेषुघिसहितगदास्याद्यसङ्ख्यातहेतेः ।
पञ्चेषोः सुन्दरस्याप्यधिहृदयभुवः तात*कस्यानघानां
दासानां दासदासश्रयणचतुरतैकाकिनो जायतां मे ॥ ८.१०.९॥
(*अत्रापि मातृका ``तात ॥॥इत्यस्यानन्तरं'' अस्फुटा ।
अयमस्मदूहतः क्लृप्तः पाठः । तातकस्य इत्यत्र स्वार्थे कप्रत्ययः ।
तातमूर्तेश्शुचीनां इत्यादिरीत्या वा पदानां निवेशः कार्यः ।)
कल्पे कल्पेऽनुकल्पं प्रथितिमदतसीपुष्पजिद्देहकान्तेः
हृद्यश्रीचक्रपाणेश्चतुरमरतरुश्रीभुजस्येशितुर्मे ।
त्यक्तासंश्लेषदासाश्रितपदयुगलीदासदासा ममेशाः
तेषामेवास्तु दासस्वकुलमनुमतं शेषतैकाकिनो मे ॥ ८.१०.१०॥
(तात्पर्यरत्नावलीश्लोकौ)
व्यामुग्धत्वात्स्वकीयेष्वमलघनरुचा वामनत्वेन चाप-
द्बन्धुत्वाश्चर्यभावादहितनिरसनाल्लोकसृष्ट्यादिशक्तेः ।
अब्धौ शायित्वयोगाच्छ्रितदुरितहृतेश्चातसीपुष्पकान्त्या
त्वाकृष्टेस्स्वीयदास्यावधि विशदयतीत्याह नाथः स्वदास्यम् ॥
इत्थं सूरिर्दिदृक्षोर्दृशि विषयमवैन्निस्पृहैरेव लभ्यं
स्वानां विश्लेषभोग्यं श्रितविहितसमग्रत्वभूतिं शठारिः ।
स्वापेक्षासव्यपेक्षं स्ववितरणपरं हृद्गतं स्पष्टयन्तं
दास्यं स्वं तस्य निष्ठां तदवधिमपि चाप्यष्टमे स्वेष्टवश्यम् ॥ ८.१०.११॥
(प्रतिबिम्बलहरीश्लोकः)
श्लाघ्यस्वीकारपूर्णे त्रिजगति निखिले स्वेन पूर्णस्वरूपं
फुल्लाम्भोजातनेत्रं शुभहिमकुरुकाराट् शठारातिनोक्तम् ।
एतद्गाथासहस्रे दशकमिदमिहाध्येतुमेवं समर्थाः
जीवेयुः सत्पदस्थाः विलसितगृहिणीपुत्रयुक्ता गृहे स्वे ॥
(इति अष्टमशतके दशमं दशकम्)
॥ इति अष्टमशतकं समाप्तम् ॥
॥ श्रीमते वेङ्कटशेषार्यमहादेशिकाय नमः ।
॥ श्रीमते वात्स्यश्रीवेङ्कटशेषार्यमहादेशिकाय नमः ॥
अण्णयगुरुजन्मदिने पूर्णं कृत्वा प्रकाशयन् खगखे ।
प्रतिबिम्बलहर्यास्सन्मुद्रापणमस्मि धन्यजन्माऽहम् ॥
॥ श्रीमते रामानुजाय नमः ॥
॥ प्रतिबिम्बलहरी - नवमशतकम् ॥
॥ अथ नवमशतके प्रथमं दशकम् ॥
प्रतिबिम्बलहरीवृत्तं - शार्दूलविक्रीडितं
एतद्दशकप्रतिपाद्यगुणविशेषः - सर्वेषामापद्येकबन्धुत्वं
॥ सङ्गतिमणिमाला ॥
(मालिनी)
भगवत इति दास्यात् तस्य भक्ताङ्घ्रिदास्यं
वरमिति कथयन् तत्तस्य मूलं प्रसादः ।
भगवत इह गोप्ता कश्चिदन्यो न तस्मा-
दुपदिशति शठारिः कृष्ण एवेति तत्त्वम् ॥
*युष्मच्चित्तगृहीतदारसुतसम्बन्धिस्ववंश्येतरे-
ष्वर्थालोकनिबन्धनादरमृते स्नेहो न रक्षाऽन्यथा ।
अष्टाशाश्च तथाऽध ऊर्ध्वमखिलं सम्भुक्तवत्स्वामिनः
नोज्जीवेमहि दास्यमेत्य यदि न ह्यन्योऽस्ति संरक्षकः ॥ ९.१.१॥
(*युष्माभिस्सुगृहीतदारसुतसम्बन्धिस्ववंश्याः परे
दृष्टार्थाप्तिनिबन्धनादरयुताः स्निग्धा न केऽप्यन्यथा । '' इति च पाठान्तरम् ।)
साहाय्याश्रयदा भवन्त इव ते ते बान्धवाश्चाऽपरे
नेदिष्ठा यदि सम्पदस्ति सुसुस्वादा जलूका यथा ।
सप्ताप्येकशरेण नीलजलदं मे विद्धवन्तं नगान्
नास्त्यर्थः प्लव इत्युपेत्य यदि नासक्तिर्निजोज्जीवने ॥ ९.१.२॥
हस्तेऽर्थेषु चरत्सु मङ्गलमिति स्तुत्वा हृतार्थाः प्रयान्ति-
अज्ञानावहदुःखदैन्यसमये किंवादिनोऽप्यत्र नो ।
क्लृप्ताज्ञानदकृत्यदैत्यहननोदङ्माधुरस्वामिनः
कारुण्याश्रयदास्यजीवनमृते नास्त्येव रक्षास्पदम् ॥ ९.१.३॥
लुप्तार्थे समये सुरक्षकतयाऽऽयत्तीकृता बान्धवाः
दभ्रा एव तदोत्तमर्णतुलिता यान्त्येतदेवान्यथा ।
तत्प्रस्तुत्य किमौत्तराशमधुराजातस्य भव्या गुणाः
रक्षार्था इति जीवने प्रयतनं कार्यं न तादृक् परम् ॥ ९.१.४॥
स्वेनैव स्वमतीव कार्यचतुरम्मन्यास्समाधुर्यवाक्-
स्त्रीणामीप्सितभोगपूरितहृदो गच्छन्त्यतोऽन्यत् क्रमात् ।
भूकम्पावहकृत्यदैत्यहननोदङ्माधुरस्वामिनो
हित्वा पथ्यभिगन्तृदास्यकरणान्नो सौख्यमुज्जीवनात् ॥ ९.१.५॥
नैवाहो ! सुखमन्यदेतदविचिन्त्यर्तं कति प्राक्तनाः
उत्पन्नाश्च विनाशिताश्च बहवो जातस्य सम्पद्भुवि ।
प्रत्नायां ज्वलितोत्तराशमधुरापुर्यां तु दिव्यान् गुणान्
उक्त्वोज्जीवनमन्तरेण न परं ह्युक्तस्त्वयं सङ्ग्रहः ॥ ९.१.६॥
माऽऽयासोऽत्वलमेव चिन्तनमिदं स्पष्टं बत क्ष्मातले
नास्त्यन्यन्निखिलात्मनां सुविततेऽवादिष्म सङ्क्षेपतः ।
नैवावद्यमिहोत्तराशमधुराजातस्य गोश्रीयुजो
गोपालस्य हि नो गुणोऽनघगुणान् सङ्कीर्त्य नित्यं स्थितिः ॥ ९.१.७॥
सानन्दस्थितिरेष एव हि गुणो हन्तोत्कटस्याङ्घ्रिसं-
स्तुत्या कालविनोदनेच्छुमनसां स्पष्टानवद्यात्मनाम् ।
भोगोपायतयोत्तराशमधुराजातस्य दिव्या गुणा
आशास्याश्रयताश्रया इति धियो नैकोऽप्युपायोऽधिकः ॥ ९.१.८॥
तस्मादभ्यधिकं न किञ्चिदिति तच्चित्तेऽभिलाष्य श्रवस्-
संस्कारे श्रवसोर्भिदेव विगलत्प्राक्छिन्नभोगोऽप्यतः ।
*जातं श्रीतगृहोत्तराशमधुरायामुच्चपट्टध्वजैः
कृष्णं माल्यविभूषितांसकमृते नास्त्येव रक्षाकरः ॥ ९.१.९॥
(*अत्र यतिभङ्गभीरूणां कृते ``जातं श्रीतगृहोत्तराशमधुरापुर्युच्चपट्टध्वजैः''
इति पाठः ॥)
श्रीकृष्णं हि विनैव नास्ति शरणं तत्सिद्धये चिन्तयन्
भूभारोद्धृतिमौत्तराशमधुरामेत्यावतीर्णोऽभवत् ।
युष्मत्स्वं यदि तत् समर्प्य पदयोस्तस्मै दृढं जीवत
युष्मत्स्वं निखिलं ततोऽन्यदिह न ह्यत्रास्तु चिन्ताऽपि मा ॥ ९.१.१०॥
(द्रमिडोपनिषत्तात्पर्यरत्नावली श्लोकः)
आपद्बन्धुत्वकीर्त्या दृढमतिजननाद्दैत्यनाशाय भूमौ
जातत्वादुत्तरस्यां पुरि मधुरपदालङ्कृतायां दयाब्धेः ।
बन्धोः कृष्णस्य पादाश्रयणमिह विना नो सहायः पुमर्थो
रक्षासामर्थ्यहानेर्भविन इति हितं कारिसूनुर्बभाषे ॥ ९.१.११॥
(प्रतिबिम्बलहरीश्लोकः)
नैवान्यत्तदपेक्षयास्ति किमपीहेत्यध्यवस्यैव तत्
कृष्णं स्रग्धरदोष्कमेत्य कुरुकाराजत्-शठारीरितम् ।
निर्दोषं दशकं सहस्रगमिदं सद्द्राविडीनां गिरां
शक्ता अध्ययने महोपकृतिनः प्रागेव मत्स्वामिनः ॥
(इति नवमशतके प्रथमं दशकम्)
॥ अथ नवमशतके द्वितीयं दशकम् ॥
प्रतिबिम्बलहरीवृत्तं - स्रग्धरा
एतद्दशकप्रतिपाद्यगुणविशेषः - चिरकृतकरुणत्वम् ।
॥ सङ्गतिमणिमाला ॥
(मालिनी)
यदि निरुपधिकोऽयं बन्धुरस्यैव सर्वाः
उचितमिति तु कर्तुं तास्सपर्यास्स पश्यन् ।
चिरकृतशयनं तं तिन्त्रिणीग्राममध्ये
भवति किमिति चार्तस्त्वेकरूपं शयालोः ॥
स्वच्छोर्म्यास्ताम्रपर्ण्याः हिमतटवृतिमत्तिन्त्रिणीग्रामशायिन् !
प्राक्काले त्वत्कृपां श्रीसरसिजनिलया श्रीकृपां चाभ्युपेत्य ।
*त्वद्गेहं मार्जयित्वा सविधि च कुलपारम्परीदास्यभाजां
दासानां नः कृपाकृद्विवृतसुवदनः पश्य तेऽक्ष्यम्बुजाभ्याम् ॥ ९.२.१॥
(*अत्र यतिभङ्गभीरूणां कृते ``त्वद्गेहं भार्जयित्वा सविधि च कुलतः
किङ्करत्वं श्रितानां'' इति पाठः ॥)
हेमोत्केतूच्चसालोपवनशिशिरभूतिन्त्रिणीग्रामशायिन् !
कुल्यो भूत्वाभिलष्याप्यतिशुचि भवतो दास्यमेत्यान्तरङ्गम् ।
त्वद्रम्याङ्घ्री न हित्वा क्रमसरणिजुषां नः कृपाकृत्कटाक्षात्
क्ष्मामाद्दण्डेन तुल्यं कुरु पदकमलं भूषणं ह्युत्तमाङ्गे ॥ ९.२.२॥
कत्यह्नां(बह्वह्नां)स्वापकाले व्यथितनिजतनुः स्वापकालः कियान् स्यात् ?
भृत्याचर्यान्तरङ्गान् चिरनिजजनतामार्गगान् नोऽनुकम्प्य ।
उत्थायोन्मील्य दीर्घाम्बुजनयनयुगस्त्वं त्वदब्जश्रिया च
त्रैलोक्ये सेवमाने स्थितिमय कृपया तिन्त्रिणिग्रामशायिन् ! ॥ ९.२.३॥
चिञ्चाकुट्यां शयानो वरगुणवनितासीन ! वैकुण्ठसुस्थ !
स्वच्छं मच्चित्तमध्यं त्वजहदपि निजं माऽन्वगृह्णाः कृपां मे ।
कृत्वा शीतैर्गुणैस्ते त्रिजगति विवशेऽस्मासु नृत्यत्सु हर्षात्
स्वच्छोदाभ्रप्रवालस्फुरदधरफलारुण्यमायाहि दृष्टुम् ॥ ९.३.४॥
द्रष्टुं त्वां विद्रुमाभाधरफलरुचिरारुण्यमैत्वा मदन्तः
ज्योत्स्नायुन्मौक्तिकोद्यद्धवलभहसकृत्तिष्ठ सुश्रीदृगब्जम् ।
प्रावालैस्ताम्रपर्ण्यास्सुदरवृततटे चैञ्चकुट्यां शयान !
ग्राहग्राहोत्थदन्तिव्यसनहर ! सरो नीतवन् ! क्रुद्धतार्क्ष्यम् ॥ ९.२.५॥
आरुह्य क्रूरतार्क्ष्यं कनकगिरिवरस्थायिकालाभ्रतुल्यः
क्रुद्धो धृत्वाऽथ शङ्खार्यसिसगदधनूनस्मदार्तेर्निहन्तः ! ।
स्वामिन्! क्रुद्धारिषु श्रीमकुटधर ! लसत्सस्यकेदारचिञ्चा-
कुट्यास्सङ्क्रुद्धमालिप्रभृतिनिहतये त्वग्रणीस्तत्र कोपात् ॥ ९.२.६॥
धूत्वास्माकार्तिमस्मान् इह तु निजतयाऽऽदाय तद्वत्सुराणां
भूत्वा हृष्टारुणाब्जोदकशिशिरमहीशी(श्री)तचिञ्चाकुटीश ! ।
दृष्टवा त्वद्दासकोलाहलमतिमुदितानन्दितेष्वन्तरावि-
स्नेहेष्वस्मासु पश्यत्स्विदममतिजनैरेकदाऽऽस्वास्मदग्रे ॥ ९.२.७॥
चन्द्रस्पृग्गेहचिञ्चाकुटिपुरवसते! देव! वैकुण्ठवासिन् !
प्रत्यक्षं नस्समस्ते चरणयुगलके प्रीतिमेत्यात्र लोके ।
यावद्भक्ति स्वकोक्तेरहमहमिकया शक्तितः क्लृप्तपूजेऽ-
प्यास्वैवन्देशसुक्ष्मातल इह च धृतस्वासिकश्चैकवारम् ॥ ९.२.८॥
*सस्यान्तः पङ्कचञ्चत्-शफरशिशुसुकेदारचिञ्चाकुटीश!
कालस्सन्नुग्रकर्मायुधधर! दितिभूवंशविच्छेदकारिन् ! ।
दासेष्वस्मासु शीतेक्षणयुगमुदितं गात्रमम्लानपुष्पा-
कारं पातुं सुचित्रे जगति सकृदिहाऽप्यास्व लब्धावकाशः ॥ ९.२.९॥
(*अत्र यतिभङ्गभीरूणां कृते ``सस्यान्तः पङ्कचञ्चत्-शफर-शिशुगण-
क्षेत्र-चिञ्चाकुटीश !'' इति पाठः ॥)
उच्चण्डाचारहेतीश्वर! गर ! सुरसम्पत्तये दैत्यदुःखा-
*पादि-क्रूरप्रचारामृत! मम शुभकेदारचिञ्चाकुटीश! ।
निस्तुल्याकारलक्ष्म्या तदुपमधरया चापि संवाह्यमानं
मृद्वङ्घ्रिं मार्जितं कुर्विह गतिमथ वाह्वानमागस्विनो मे ॥ ९.२.१०॥
(*अत्रापि तेषां कृते ``पादि-क्रूर-प्रचारामृत! मम-शुभयुक्क्षेत्रचिञ्चाकुटीश''
इति पाठः ॥)
(द्रमिडोपनिषत्तात्पर्यरत्नावली श्लोकः)
लक्ष्मीसम्बन्धभूम्ना मितधरणितया पद्मनेत्रत्वयोगात्
स्थित्याद्यैस्स्वैश्चरित्रैः स्वहृदपहरणात् श्रीगजेन्द्रावनाच्च ।
तार्क्ष्यांसौ चाधिरुद्यारिगणनिरसनाद्देवदुष्प्रापताद्यैः
दुष्कर्मोन्मूलनाद्यैस्सुचिरकृतदयो माधवश्चेत्यवोचत् ॥ ९.२.११॥
(प्रतिबिम्बलहरी श्लोकः)
कुर्वाह्वामागतिं वेत्यतिरवमथिताब्धिं श्रितस्यादरात्तं
सम्यक्-श्रीताम्रपर्ण्यद्भुतजलवळुदी-देशभृत्-श्रीशठारेः ।
जिह्वाव्यापारगाथादशशतजदशाख्यैतदभ्यासशक्ताः
सातत्यात् क्रान्तलोकत्रयचरणयुगं चिन्तयन्त्येव चित्ते ॥
(इति नवमशतके द्वितीयं दशकम्)
॥ श्रीमते वेङ्कटशेषार्यमहादेशिकाय नमः ॥
॥ अथ नवमशतके तृतीयं दशकम् ॥
प्रतिबिम्बलहरीवृत्तं - वसन्ततिलका
एतद्दशकप्रतिपाद्यगुणविशेषः - शीलसिन्धुत्वम् ।
॥ सङ्गतिमणिमाला ॥
(मालिनी)
सुचिरकृतदयस्त्वं मत्प्रियायाऽऽस्व तिष्ठ
प्रवद किमपि चेहीत्यर्थिनं तं शठारिम् ।
प्रति सकलमिदं ते पैतृकं लप्स्यते तत्
क्रमत इति तदुक्त्या वक्ति तुष्टोऽस्य शीलम् ॥
भूत्वैकमेव बहु रक्षितसप्तलोका-
भिख्यासहस्रयुगतुल्यमहत्वशाली ।
मेघायितासितशुभाश्रयदिव्यदेहो
नारायणो भवति नो दयितस्स एव ॥ ९.३.१॥
सृष्ट्वा स एव विततं जगदुद्दधार
भुक्त्वा स एव तदमात् पुनरुद्गिरंश्च ।
आस्ते स एव स च सोऽपि स चापि सर्वं
अन्यत्स एव वयमेतदभूम विज्ञाः ॥ ९.३.२॥
दुर्बोधवेदपरमार्थविदाप्तशास्त्रं
दुर्ज्ञेयमेनमवबोधयतीह तस्मात् ।
संसाररोगहरभेषजमत्र सर्वं
प्राज्ञाः प्रणम्य हरिमेव विदाम्बभूवुः ॥ ९.३.३॥
आस्माकभोगसुखभेषजमित्युदारं
उत्कृष्टसूरिगणसंस्तुतमस्मदीशम् ।
देवं शितिं सुलभकृष्णमिहोर्ध्वलोकं
देवं ददानमयि ! मानस ! मा जहीहि ॥ ९.३.४॥
सम्प्रार्थ्य चित्त ! बलवद्दुरितोऽप्यहं त्वा-
मेतद्-दृढं तदवदं खलु मा जहीहि ।
आरामवृत्तशुभशीततुलस्युदात्त-
मालस्य निस्समतनोश्श्रयणं हि कार्यम् ॥ ९.३.५॥
श्लिष्या सुभूषकमलासुभुजालतैव
यस्यासुरोग्रसमरं क्रियमाणमेव ।
यस्यामृतं च जलधौ मथनीयमासीत्
तस्यैकरूप्यभजनात् शिथिलं मनो मे ॥ ९.३.६॥
भूत्वैकदेहजनरत्वहरित्वयुक्तो
देहन्तमेकमभिवृद्धनखैर्बिभेत्तुः ।
स्थानं महाखगतमीक्षितुमेकरूपात्
वैकुण्ठमिच्छति निशादिनयोर्मनो मे ॥ ९.३.७॥
कर्तुं विना द्विविधकर्म विनाश्य सत्तां
उज्जीवनं प्रददतस्त्वपुनर्भवाय ।
स्थानं स वेङ्कटनगोऽस्ति महापृथिव्यां
कैङ्कर्यमत्र रचयन्ति सुराश्चरन्तः ॥ ९.३.८॥
नत्वा सुपुष्पजलदीपसुधूपहस्ताः
एधामहे त्विति गिरः प्रचुरास्तवातः ।
नित्यानवद्यसुगुणोरगतल्पशायिन् !
जाने न ते पदपरिष्वजनप्रकारम् ॥ ९.३.९॥
सन्नालपङ्कजभवस्तव नाभिवर्ती
भ्राजन्महापरशुभृत्तव देहभागी ।
दासत्वमेत्य च सुरास्तव सेवकास्ते
कालेऽखिले किमिति शीलमहं स्तवानि ? ॥ ९.३.१०॥
(द्रमिडोपनिषत्तात्पर्यरत्नावली श्लोकः)
नैकश्रीनामवत्वाज्जगदुदयसंस्थापनाद्यैः हरित्वात्
दानान्मोक्षस्य हेयप्रतिभटघटकश्रेणिसम्पत्तिमत्वात् ।
प्रह्लादाह्लादकत्वाद्वृषगिरिकटके सन्निधानादिकृत्यैः
शर्वादेस्स्वाङ्गदानादकथि यदुपतिः शीलरत्नाकरोऽसौ ॥ ९.३.११॥
(प्रतिबिम्बलहरीश्लोकः)
निस्सीमशीलचरणोपरि भूषणाढ्य -
सौन्दर्यभूमकुरुकाशठकोपवाचाम् ।
मालासहस्रग इदं दशके यथा वा
वैकुण्ठरोहणमुपान्तजुषां स्वभावः ॥
(इति नवमदशके तृतीयं दशकम्)
॥ श्रीमते वेङ्कटशेषार्यमहादेशिकाय नमः ॥
॥ अथ नवमशतके चतुर्थं दशकम् ॥
प्रतिबिम्बलहरीवृत्तं - उपजातिः
एतद्दशकप्रतिपाद्यगुणविशेषः - पतित्वात् सम्बन्धाद्रक्षितृत्त्वम् ।
॥ सङ्गतिमणिमाला ॥
(मालिनी)
भगवत इति शीलं भावयन् श्रीपतेस्तं
झटिति पुरत एनं द्रष्टुमिच्छन्नलाभात् ।
निजखगणगतृष्णां वर्णयन् खिन्नवाचो-
पगतवति च तस्मिन् वक्ति तृप्तिं निजां ताम् ॥
नीलाञ्जनव्याप्तदृगम्बुजस्थ-हेमाभया भास्वदुरःश्र्यधीश !।
अत्युष्णकीलारिसरेखशङ्ख-हस्तेच्छति त्वां मम दृष्टुमक्षि ॥ ९.४.१॥
त्वां नेत्र! द्रष्टुं हृदयं ममेच्छत् निस्सङ्ख्यचिन्तं लपति स्थिरं सत् ।
सुरर्षिदुर्दशतमं सदैव न प्राप्य रन्तेत्यहमाह्वयामि ॥ ९.४.२॥
दासाधमस्याह्वयतो मनो मे श्वेवाल्पपुच्छो वदति स्वदैन्यम् ।
वर्षात्तदारक्षितवन्! धृताद्रिः गा मोहमेम्येति दयेति दूरम् ॥ ९.४.३॥
युक्तं न्विदं हीति तवैत्य दास्यं त्वत्तस्तु लभ्यः क इवेति नित्यम् ।
सुरासुरैर्दुर्ग्रह ! सिंहरूप ! स्वामिन् ! मनो मुह्यति मेऽविवेकि ॥ ९.४.४॥
नृसिंहरूपेशममर्त्यनाथं ब्रह्माणमादौ किल सृष्टवन्तम् ।
तल्पे सुतेजोभुजगे शयानं श्यामं पदे द्रष्टुमपेक्षि चेतः ॥ ९.४.५॥
द्रष्टुं ममापेक्ष्य मनोरथान्तः व्यधां स्थिरं त्वामखिलामराणाम् ।
वृद्ध ! स्फुरज्ज्योतिरुरुप्रभोर्ध्वं एकात्तमुत् त्वां मनुते मनो मे ॥ ९.४.६॥
नृसिंहरूपातिबलासुरोरस्तटं द्विधाकृन्नखराङ्कुशाढ्य ! ।
मुदा सदैवानुभवे ममान्तर्भागेऽमल ! स्वादृतनित्यवास ! ॥ ९.४.७॥
पदार्थबुद्धया अपि षट्समय्याः सन्तं निरोधं तु समात्मभूतम् ।
सुसूक्ष्ममादिं सकलामराणां तं कारणं कृष्णमहं समैक्षे ॥ ९.४.८॥
आतृप्ति वीक्ष्याक्षियुगस्य हृष्टः छित्वा पुराकर्म सवासनञ्च ।
अवोचमण्डेशसुरेशदासो भक्तामृतास्वादकसूक्तिमालाः ॥ ९.४.९॥
दासोऽयमित्याहितसत्कृपं मे महान्तमापूर्णयशस्सुपक्षम् ।
ध्वजे धरं विं सुमितक्षमाङ्घ्रिं प्राप्यास्मदुज्जीवनसद्विधाहो ! ॥ ९.४.१०॥
(द्रमिडोपनिषत्तात्पर्यरत्नावली श्लोकः)
लक्ष्मीवक्षस्कभावात्स्वजनसुलभतापर्वतोद्धारणाद्यैः
दुर्ज्ञेयत्वात् सुरादेरखिलपतितया नाकिनां वृद्धभावात् ।
स्वेषां हृद्वासितायाः स्वजनवशतया तत्र चासक्तिभूम्ना
स्वस्वामित्वादिबन्धाज्जगदवति हरिश्चेत्यभाणीच्छठारिः ॥ ९.४.११॥
(प्रतिबिम्बलहरीश्लोकः)
सदामदानेकपहन्तृक्लृप्तौ पङ्काढ्यभूसत्कुरुकाशठारेः ।
उक्ते सहस्रे शतशो दशेमाः नित्यातिभोग्यात्मपतिं प्रदद्युः ॥
॥ इति नवमशतके चतुर्थं दशकम् ॥
॥ अथ नवमशतके पञ्चमं दशकम् ॥
प्रतिबिम्बलहरीवृत्तं - स्रग्धरा
एतद्दशकप्रतिपाद्यगुणविशेषः - स्वगुणगरिमसंस्मारकत्वम् ।
॥ सङ्गतिमणिमाला ॥
(मालिनी)
सकलगतममुं सञ्चिन्तयन् पूर्वपङ्क्तौ
सपदि निजमुदे तद्बाह्यसंश्लेषकाङ्क्षः ।
तदलभजशुचेद्धो नायकीभावमाप्तः
उपवनगशुकादीन् तत्स्मृतिः प्रेक्ष्य रौति ॥
भोग्यप्राणाः ! पुमांसो ! मम सविधगता यूयमप्याह्वयानाः
कामं मत्प्राणहत्यै न कुरुत रसवत्कूजितं स्त्रीपिकाः ! भोः ! ।
मद्भोग्यप्राणकृष्णं न हि मदुपकृतं यूयमाक्रुश्यथात्रा-
गत्यै हृत्वा ममासून् वितरितुमनसां प्रार्थनीयस्त्वियान् किं ? ॥ ९.५.१॥
नैवापेक्ष्याथ किञ्चिद्बत! मयि सरसास्सारसस्त्रीजना ! भोः !
यूयं युष्मत् पुमांसोऽप्यतिरसशिथिलाः क्रूजथोद्गद्गदाढ्यम् ।
गोविन्दो विस्मयार्हो न भवति ऋजुधीरेव सर्वेष्वसत्यः
चेत्थं चेतो भवेयुर्मम पुनरसवोऽसंशयं तत्करस्थाः ॥ ९.५.२॥
हस्तस्था एव तस्याखिलमदसुचया वञ्चकक्रौञ्चवध्वः !
यूयं यां काञ्चिदुक्त्वा चरथ परिसरेऽन्योन्यक्लृप्तानुषङ्गाः ।
प्राणा मे पापवत्याः अपि सुकृतमुचः किन्नु तिष्ठेयुरत्र ?
श्रुत्वाऽप्यन्योन्यमुद्गद्गदसरससमाह्वानचित्रारवान् वः ॥ ९.५.३॥
श्रुत्वाऽऽह्वानध्वनिं वोऽद्भुतचरित इहाऽऽयाति नास्माककृष्णः
यूयं युष्मत्पुमांसोऽप्युपरि न कुरुतारावमुच्चैर्मयूर्यः ! ।
व्यापारैर्वाक्क्रियान्तःकरणमपि च नः प्रोष्य तत्रैव याताः
स्थित्वा कायोऽसवश्चान्तर उचितपुरावासनातो भ्रमन्ति ॥ ९.५.४॥
मध्ये स्थित्वा भ्रमन्त्यो मम दयिततराः ! शारिका ! हारिकायः
युष्मत्सङ्गेऽवकाशो न हि किमपि ततः कार्ष्ट माऽव्यक्तशब्दम् ।
हर्तैतत्सप्तलोक्यास्सहजमसदृशं चैन्द्रजालं प्रदर्श्य
श्रीविष्टोरास्स नोऽसून् व्यवसित इह नस्साधु साध्वेव भोक्तुम् ॥ ९.५.५॥
मत्वा श्रेयो मया वर्धित ! शुक! सुतरां मुञ्च बालध्वनिं त्वं
भोग्याव्यक्तं कृथा मा मदखिलदयितप्राणकाकुत्स्थदेवः ।
त्वच्छोणास्योपमास्यस्सुभगनयनवान् सुष्ठुहस्ताङ्घ्रियुक्तः
त्वद्भोग्यश्यामवर्णः प्रणयपरतयाऽऽश्लिष्य विश्लिष्टवान्माम् ॥ ९.५.६॥
श्लिष्यन्विश्लिष्य दृश्याम्बुजनयनयुगो रक्तबिम्बाधरश्री-
रास्माकात्रासनीलज्वलितमणिरिवालङ्कृताश्चर्यकृष्णः ।
नम्रीभूतेन्द्रचापास्स्फुरदुरुचपलाचञ्चला ! मेघमालाः !
युष्मद्रूपप्रकाशं न कुरुत कृपया तत्तु मत्प्राणमृत्युः ॥ ९.५.७॥
युष्मान्मत्प्राणमृत्युस्तदिति मम कृताभ्यर्थनायाश्च यूयं
सञ्जल्प्याव्यक्तवाचा हतपिकशिशवः ! कृष्णनामानि चैव ।
क्षीरान्नं ह्यस्तनान्नैर्दधि च पृथुकवत् भोजयित्वाऽक्षराणां
शिक्षायास्सत्स्वभावाः! प्रति मम तु सतीं यूयमृद्धिं ह्यदत्त ॥ ९.५.८॥
हे ! भृङ्गाः ! सत्स्वभावैस्सहितमधुकरैः कार्ष्ट मा गीतिशब्दं
युष्मच्छब्दा व्रणान्तर्विवरकृतमहाहेतिवेधेन तुल्याः ।
शीतागाधाम्बुपूरे सरसि सरसिजेनोत्थितेनोपमेया-
कर्णान्ताक्षस्स कृष्णो मदसुमपहरन् दूरतोऽगादुपेतः ॥ ९.५.९॥
देहत्यागोत्कचित्ता वयमपि परमाकाशराजैकभावाः
कैदाराः ! नारदौघाः ! किमिह हि भवतां पङ्क्तिबन्न्धादितःस्यात् ?।
रम्यालङ्कारयुङ्मद्वपुरपि गमनाभ्यासचुञ्चु क्रमेण
सद्यत् सौख्यं प्रवृद्धं जगति समुदितं सर्वतो वर्धतां च ॥ ९.५.१०॥
(द्रमिडोपनिषत्तात्पर्यरत्नावलीश्लोकः)
प्राणत्वादद्भुतत्वादपि च सुविदितत्वेन भव्यत्वयोगात्
लक्ष्मीवक्षस्त्वभावाद्रघुकुलजननान्नीलरत्नाभमूर्त्या ।
कृष्णत्वादब्जदृक्त्वात्परमपतितया चेश्वरं संश्रितानां
ऊचे धीमान् शठारिः स्वगुणगरिमसंस्मारकं सर्वदर्शी ॥ ९.५.११॥
(प्रतिबिम्बलहरीश्लोकः)
सौख्यं प्राप्यानुभोक्तुं सुखजनकतया सार्वभौमान् गुणान् स्वान्
स्तोतुं कालाननन्तानपि कृतकरुणं स्वस्य साश्चर्यचेष्टम् ।
उद्दिश्यैतत्सहस्रे सुरुचिरकुरुकाधीट्शठारातिवाचां
एकेनैषां नवानां त्रिजगदपि समाकर्णने विद्रुतं स्यात् ॥
(इति नवमशतके पञ्चमं दशकम्)
॥ अथ नवमशतके षष्ठं दशकम् ॥
॥ श्रीमते वेङ्कटशेषार्यमहादेशिकाय नमः ॥
प्रतिबिम्बलहरीवृत्तं - मन्दाक्रान्ता
एतद्दशकप्रतिपाद्यगुणविशेषः - विस्मर्तुं चाप्यशक्यत्वम् ।
॥ सङ्गतिमणिमाला ॥
(मालिनी)
इति विरहजदुःखः पूर्वसंश्लेषवृत्तं
सह(८७)दशकगिरोक्तं चिन्तयन् प्राप्य सत्ताम् ।
श्वशुरसदनभुक्तान् जानकीवाञ्जनेये
वदति शठरिपुस्तान् वायुतीराप्त-भोगान् ॥
वीथ्यां वीथ्यां कुवलसुरभौ श्रीमरुत्तीरपुर्यां
आदृत्यास्मान् स्मृतिषु वसतो ह्यद्भुतस्याद्भुतानाम् ।
चेतो हन्त ! द्रवति सुतरामात्मनो दुर्भरत्वात्
उत्कण्ठापि प्रवहति बतोच्चापलः किं करोमि ? ॥ ९.६.१॥
सत्कासारोपवनसुमरुत्तीरपुर्यां पितर्मे
स्मृत्यां स्मृत्यां द्रवति शिथिलं दुःखहृत्सद्गुणानाम् ।
उक्तावुक्तौ हदपि मम सन्दह्यते गीतिकाले-
स्वात्माहं त्वत्परिचरविधां चिन्तितुं नैव शक्तः ॥ ९.६.२॥
सौशील्याद्यैर्मम च हृदयं वञ्चयन्मां प्रविश्य
छित्वा भूत्वा मदसुरदतो मेऽन्तरात्मानमिष्टम् ।
श्रीमद्रम्योपवनसुमरुत्तीरपुर्यां पितुर्मे
नाऽहं ज्ञातुं कपटमसिताम्भोदवर्णस्य शक्तः ॥ ९.६.३॥
स्वस्मिन् तिष्ठत्स्वखिलभुवनेष्वात्तमर्यादमेतन्-
मध्ये स्थातुस्स्वयमपि तथा स्वोपकर्तुर्न शक्ष्ये ।
दिव्यामोदोपवनसुमरुत्तीरपुर्यां पितुर्मे
सत्क्षुद्रात्मानुभवचतुरश्रीकृपां ज्ञातुमेव ॥ ९.६.४॥
मच्चित्ते श्रीयुतनिजकृपाकारिवत् सम्प्रविश्य
श्लाघ्यात्मानं सह च वपुषा भुक्तवत्स्वामिनो मे ।
ऋद्धश्रीकोपवनसुमरुत्तीरपुर्याः पितुर्मे
वृद्धश्यामद्युतिकवपुषो हन्त ! कृष्णस्य मायाः ॥ ९.६.५॥
मत्कृष्णीयं कपटचरितं भासते मे ऋजुत्वात्
श्लाघ्यो भुक्तस्त्वधिकचपलेनायमात्मा त्वृजीषम् ।
भूत्वा ज्ञानं किमपि सहजं प्राप्य नक्तन्दिवं मत्-
कृष्णेत्युक्तिस्तदनिलतटश्रीपुरीमेव नौति ॥ ९.६.६॥
स्तौति श्रीतानिलतटपुरं तत्स्थकृष्णेति वक्ति
स्मृत्वोत्कण्ठारुगुपचयमुद्द्राव्य शैथिल्यमेति ।
दास्येनाङ्गीकृतिपरवतेवास्मदात्मोपभोक्त्रा-
श्चर्येणोनानुभव इह मे श्लाघ्य आत्मा गृहीतः ॥ ९.६.७॥
एत्वात्मानं स्वयमननुभूतात्मवत् भुक्तवान्मे
नित्यं चैत्याखिलमपि स मां भुक्तवान् स्वप्रसिद्ध्यै ।
कालाम्भोभृज्जलदभमरुत्तीरसद्रम्यबन्धोः
दास्यं प्राप्तं ननु विसदृशं श्लाघितेनात्मना मे ॥ ९.६.८॥
श्रीमद्दीर्घच्छदसरसिजाक्षस्य बिम्बाधरस्या-
श्चर्यानीलोज्वलजलदभश्रीमरुत्तीरधाम्नः ।
औज्वल्यश्रीयुतततचतुर्बाहुदैवाम्बुधेस्तद्-
दास्येनाप्तं फलमधिगतः कस्य वात्माऽऽत्मना मे ? ॥ ९.६.९॥
दृष्ट्या दृष्टे त्वयि ! तु कबली त्वाङ्गृहीत्वा करोमी-
त्युत्कान्मत्तः प्रथममपहायैव मामुत्सुकस्सन् ।
कार्त्स्न्येनैव स्वयमिह स मां पीतवान् मेघतुल्य-
श्रीमान् श्रीमारुतटपुरीबान्धवश्शीघ्रकारी ॥ ९.६.१०॥
(द्रमिडोपनिषत्तात्पर्यरत्नावली श्लोकः)
आश्चर्येहान्वितत्वादखिलपतितया चान्तरात्मत्वभूम्नाऽ
शक्ये शक्तत्वभूम्ना जलदतनुतया भव्यताकर्षकत्वात् ।
औदार्यादेर्विशिष्टादपि च भवभृतां रक्षणे तीव्रसङ्गा-
द्विस्मर्तुं नैव शक्यो हरिरिति शठजित्कंसजेतारमाह ॥
(प्रतिबिम्बलहरीश्लोकः)
कंसं हत्वा जगदुपकृतं तं तु सन् शीघ्रकारी
केतुभ्राजद्वरणकुरुकाराट् -शठद्वेषिसूक्तौ ।
एतत्पङ्क्त्या दशशतगया रम्यया जन्मनाशात्
नश्येदस्मत्भवमृगमहातृष्णिका सत्यमेव ॥
(इति नवमशतके षष्ठं दशकम्)
॥ अथ नवमशतके सप्तमं दशकम् ॥
प्रतिबिम्बलहरीवृत्तं - शार्दूलविक्रीडितम् ।
एतद्दशकप्रतिपाद्यगुणविशेषः - घटकमुखसुविस्रम्भणीयत्वम् ।
॥ सङ्गतिमणिमाला ॥
(मालिनी)
अनिलतटपुरेऽथाप्राप्तिगर्भं गुणानां
स्मरणजनिततोषं शीलयन् प्राप्त्यभावे ।
चरति मनसि धत्ते दूत्यपङ्क्तिं चतुर्थीं
विरहजनितखेदप्रेयसी सन् शठारिः ॥
आस्माकोपवनेऽधिकुल्यमुदिताहाराशमत्रास्थिताः !
स्वाद्वारक्तपदास्सुनारदवराः ! श्रीमूळिधामस्थितेः ।
मद्दूता ! मकरन्दमञ्जुतुलसीमौलेर्घटीनृत्तवन्-
मन्नेतुर्मम के निवेशयत वः पादान्भवद्बन्धुभिः ॥ ९.७.१॥
विश्लेषं भवदीयबन्धुभिरसम्प्राप्यैव यूयं च वः
सारस्यः ! पतिभिर्युतास्सुसुखिताः श्रीमूळिधामौकसा ।
तेन स्वेन वियोजिता स्वजनतः *सम्प्राप्तगर्हाऽस्मि किं
तत्र स्वैर्वसतो भवाम न हि किं योग्या वयं पृच्छत ॥ ९.७.२॥
(* ``प्राप्तापवादा'' इति पाठान्तरम् ।)
किं योग्या न भवाम ? पृच्छत तटाकाम्भस्सु भक्ष्यान् विचिन्-
वानास्सारसजातयो ! बकगणाः ! शीतालुमूळ्यौकसः ।
रक्ताम्भोजसुमोपमेक्षणकराङ्घ्रेः रक्तबिम्बाधर-
स्यैतत्पद्मपलाशनीलशुभसद्देहश्रियः स्वामिनः ॥ ९.७.३॥
दिव्यश्रीवपुषो मया प्रहितसद्दूत्ये कठोराघया
नाथस्योज्वलमूळिधामनगरद्वारेऽलमम्भोधराः! ।
तस्या देहि सुभव्यदेहमिति चेत् ब्रूत स्वकायश्रियं
निष्कास्याञ्जनभः पदं च भवतां निर्वासयेत् किं प्रभुः ? ॥ ९.७.४॥
स्वच्छे खे त्वरितं प्रधाव्य हुतभुक्च्चक्रोपमश्रीतटिद्-
भास्वद्वारिधराः ! ज्वलत्सुमहसः श्रीमूळिधामौकसः ।
ब्रूत स्वच्छनभः परं पदमिति कूराघमच्चित्तगस्-
योद्यत् पुष्पमधुप्रवाहचिकुरस्यास्माकदूत्यं वचः ॥ ९.७.५॥
दौत्योक्तीर्वदतातिरम्यसुवचोलाभाः ! अळीनां गणाः !
काले सारघ! पीतिकौपवनकश्रीमूळिधामौकसः ।
वक्षोमध्यनिवेशितोत्तमवधूकस्यास्मदुक्त्याकृतीः
दौत्योक्तीर्मम चेत् ब्रवीत वलयैरुच्चैर्दुकूलश्रियम् ॥ ९.७.६॥
सज्योतिर्वलयानि पट्टवसनं हृत्वा ममोग्रांहसो
दोश्शलेषं जहतो विसारियशसः श्रीमूळिधामौकसः ।
पद्माक्षोज्वलबिम्बभाभृदधरं दृष्ट्वैकदैकं वचः
शुद्धं क्रौञ्चगणास्ततोपवनगाः ! ब्रूताद्वितीयं मम ॥ ९.७.७॥
एकं ब्रूत ममाततोपवनगाः ! भक्ष्यं विचित्यान्तरुद्-
भूतानन्दमितादरा ! भ्रमरका ! भृङ्गाश्च यूयं समे ।
प्राकारैः गुरुभिर्दृढैः परिवृतश्रीमूळिधामस्थित-
स्यात्मक्षेत्रभवातसीसुमतनोर्मौलौ तुलस्योद्यतः ॥ ९.७.८॥
दृश्यां श्रीतुलसीं स्वमूर्ध्नि दधतश्चक्रं मनोज्ञं करे
तोयोद्दूढसुबालसारस ! हरेः श्रीमूळिधामौकसः ।
वक्षोज श्रितभूषण विरहभौ, नेत्राब्जयुग्मं जलैः
पूर्णं स्वं स्वयमाहरन्विरहणं ब्रूतानुकम्पा न्वियं ? ॥ ९.७.९॥
ब्रूतेयं करुणा नहीति विपुलेष्वम्भस्सु भक्ष्यं विचि-
त्योच्चैस्सौरव्यमितादरा ! मृदुगताः ! हे ! राजहंसाः! क्रमात् ।
कार्श्यं प्राप्य वपुर्भृशं शिथिलतां सन्मेखलाप्याप्य मे
नाशात् पूर्वमिहान्तरात्मन इदं श्रीमूलिधामौकसः ॥ ९.७.१०॥
(द्रमिडोपनिषत्तात्पर्यरत्नावलीश्लोकः)
रम्यात्वाच्छ्रीतुलस्या श्रितजनसहितत्वेन पद्माक्षतायाः
स्वामित्वात्सत्परञ्ज्योतिरितिकथनतः श्रीधरत्वातिकीर्त्या ।
पुष्पश्यामत्वभूम्ना रथचरणमुखस्वायुधत्वाद्युदन्तैः
शौरेर्धीमान् शठारिः घटकमुखसुविस्रम्भणीयत्वमाह ॥ ९.७.११॥
(प्रतिबिम्बलहरीश्लोकः)
उद्दिश्योज्वलतेजसं रुततया श्रीमूळिधामास्थितं
विश्लेषासह -चार्वनक्षरसुवाक्कीरेरितालापवत् ।
त्यक्तप्रच्युतिभावदिव्यकुरुका-भास्वच्छठारीरिते
साहस्रेऽच्युतिके त्विदं दशकमभ्यासेन रोगं हरेत् ॥
(इति नवमशतके सप्तमं दशकम्)
॥ अथ नवमशतके अष्टमं दशकम् ॥
प्रतिबिम्बलहरीवृत्तं - उपजातिः
एतद्दशकप्रतिपाद्यगुणविशेषः - सुमत्या लक्ष्म्या श्लिष्टत्वम् ।
॥ सङ्गतिमणिमाला ॥
(मालिनी)
शठरिपुरिति दूतान् प्रेयसीभावमाप्य
प्रतिवचनलभार्थी प्रेषयित्वाऽनवाप्य ।
प्रतिवचनमथाहं तस्य वासं व्रजेयं
स्वयमिति कृतबुद्धिर्वक्ति नौकभियात्राम् ॥
तस्य स्थिरस्थानमनोरथानां चित्तेऽखिलाघौघनिवर्तकायाः ।
क्रूरांहसो मेऽस्ति किमाप्त्युपायः सुमागवत्शीतलनौनगर्याः ॥ ९.८.१॥
कुशाग्रशक्त्यायतनेत्रनीलालतावलग्नाम्बुजवासिनीशः ।
निवासमारामवृताञ्च नौकां दासस्य चाभ्येतुमहः कदा नु ? ॥ ९.८.२॥
सदाभिगन्तव्यदिनं कदेति क्रियान्तरादत्तहृदस्म्युदश्रुः ।
निर्दोषनारायणवासनौकासभाप्रवेशैकदिनं न जाने ॥ ९.८.३॥
दिनं न जाने मम यत्त्वहं चानिवृत्तदास्याचरणे प्रवृत्तः ।
उत्तुङ्गपुष्पाटविनौपुरीश ! खड्गायताक्ष्याः प्रिय ! नीलिकायाः ॥ ९.८.४॥
श्रियः प्रियस्यावनिदेव्यधीशः निर्वाहकस्याखिललोकभाजाम् ।
वैकुण्ठराजः प्रियवासनौकां दृष्ट्वा मदक्ष्णोः प्रमुदः कदा नु ? ॥ ९.८.५॥
भृङ्गाढ्यपुष्पागवृतां तु नौकां वशे विधाय स्थित ! मद्व्रजेश ! ।
तवैव भक्तोऽस्म्यनघोऽप्यनन्यः दृष्ट्वाऽत्र दृष्ट्याः प्रमुदः कदा नु ? ॥ ९.८.६॥
महाबलेरीशत आत्तभूमे ! श्रीवल्लभास्तामरदैत्यवैर ! ।
नौकास्थ ! नारायण ! पूर्ण ! मे हा ! हेति त्वदाप्तवधिया दयेथाः ॥ ९.८.७॥
मां वा दयेथा दययार्पय स्वं पदार्थयन् स्वे शुभपादमूले ।
विनामतिं तावकचिन्तनार्हसुधीद ! देवोत्तम ! नौपुरीश ! ॥ ९.८.८॥
सुरर्षिदुर्दर्शतनोस्सदैकस्यादेः त्रयाणामवितुस्त्रिलोक्याः ।
देवस्य हादर्यपदं तु नौकां भाग्यादितः प्राप्स्यति हन्त को वा ? ॥ ९.८.९॥
हन्ताप्तिकालस्तु कदेत्यजस्रं क्षुब्धो ह्वये श्रीदयितेति चित्ते ।
सुमेतशाखागणमध्यनौकां ममैत्य तिष्ठन् ! वररत्नकान्ते ! ॥ ९.८.१०॥
(द्रमिडोपनिषत्तात्पर्यरत्नावली श्लोकः)
वल्लीमध्यत्वयोगादपि च सुविदितश्रीवचोवाच्यभावात्
भूम्याद्यैश्वर्ययोगादवतरणदशासाहचर्यात्स्वभर्तुः ।
सन्धातृत्वात्सुबोधप्रददुरितहरत्वात्समासन्नभावात्
लक्ष्म्याः श्रीशं शठारिः प्रथयति च सुमज्जानिभावेन नाथम् ॥ ९.८.११॥
(प्रतिबिम्बलहरीश्लोकः)
नानामणिश्रीगृहनौपुरस्थे सुसालशुम्भत्कुरुकाशठारेः ।
सगीतिकद्राविडगीसहस्रे दद्युर्दशामूः क्षितिशास्तिमुक्ती ॥
(इति नवमशतके अष्टमं दशकम्)
॥ अथ नवमशतके नवमं दशकम् ॥
प्रतिबिम्बलहरीवृत्तं - मन्दाक्रान्तायुगनिबद्धं
एतद्दशकप्रतिपाद्यगुणविशेषः - स्वसिद्ध्युन्मुखत्वम् ।
॥ सङ्गतिमणिमाला ॥
(मालिनी)
शठरिपुरिति नौकामार्गमध्येऽवसन्नो
व्रजकुलवृषभस्यासङ्गतो गोपिकानाम् ।
कुलमखिलमधाद्यां एकरात्र्यां व्यथां तां
विरह इह तु सन्ध्याकाल एवाऽऽप्य रौति ॥
मल्लीगन्धी मलयपवनो बाधते हन्त ! हा! मां
सान्ध्यं गानं किमपि रुचिरं बाधते हा ! शरीरम् ।
सन्ध्याप्यस्तोन्मुखदिनकरा मोहयत्येव हा ! हा!
सन्ध्यारक्तास्सुभगजलदा हन्त ! छिन्दन्ति देहम् ।
सौम्योत्फुल्लाम्बुजसमदृशा स्वामिनाऽस्मद्वृषेण
गोपालानां नृहरितिलकेनास्मदाश्चर्यभूम्ना ।
गाढाश्लिष्टं स्तनयुगमिमौ बाहुपाशौ च बिभ्रत्-
येकाकिन्यप्यभवमह! हा! गम्यदेशं न जाने ॥ ९.९.१॥
एकाकिन्यो वयमिह बत प्राप्यदेशं न विद्मो
घुष्यद्घण्टा मलयमरुतः पत्रवंशश्च हा ! हा! ।
सन्ध्याऽहर्द्विट् सुभगसरसश्चाङ्गरागश्च हा ! हा!
बाधन्ते हा! पिकगणरवाः यूथिकाशीतवाताः ॥
सृष्ट्वानल्पां भुवमपि धरन् भक्षयन्नुद्गिरन्स्तां-
क्रामन् रक्षन्नखिलमपि गोपालमायाविहारी ।
युद्धक्ष्मायामसुरशमनो हन्त ! नायाति नाथः
स्थित्वाऽसूनां मम हि तदितरो रक्षणे कोऽभ्युपायः ? ॥ ९.९.२॥
स्थित्वाऽसूनां मम हि तदितो रक्षणे हा ! सृतिः को-
रोजद्वन्द्वे मे भजति मृदुतां भज्यमानेऽल्पमध्ये ।
कृत्वा दुःखावहपरमसम्भोगमङ्गेऽवगाह्य
त्यक्त्वा क्षिप्त्वा तृणवदिह नो वञ्चकः श्लिष्टकृष्णः ॥
बालः सिंहोऽसदृश इह नाऽऽयाति साश्चर्यचेष्टो
नेत्रे पद्मे अधरमणिरारक्त आनीलशीताः ।
श्लिष्टाः केशाः द्वियुगभुजपाशाश्च यातास्स्थिरत्वं
पापिष्ठाया मम मनसि हा ! हन्त ! तन्वन्ति बाधाम् ॥ ९.९.३॥
पापिष्ठाया मम मनसि हा ! हन्त ! तन्वन्ति बाधां
शीतोदीच्यो मरुदपि बतात्युष्णरूपश्च वातः ।
शीतश्चन्द्रस्सकलजनतादर्य उष्णश्च चन्द्रः
मृद्वी शय्या कुसुमरचिताप्यग्निमध्येव हन्त ! ॥
स्वर्णश्रीभृत्छदकगरुडारूढदैवालिनाद्य
स्त्रीत्वं पुष्पं रुचिरमिदमामर्दितं हा ! मदीयम् ।
हन्तैता मे व्यथयितृविधा आत्मनो दुर्भरा मे
नास्मच्चेतोऽप्यहह! समयेऽस्मिन् सहायो बभूव ॥ ९.९.४॥
अस्मच्चेतोप्यहह! समयेऽत्राऽसहायं बभूवा-
याता सन्ध्याप्यथ बत! पुरो गोप्रवेशानुकूला ।
गोपस्यास्मत्कमितुरहहाऽभ्यन्तरङ्गं च वज्रं
भोग्यो वेणुध्वनिरपि हिनस्त्यद्य मां हन्त ! हन्त ! ॥
साहाय्यैकप्रवणमनसो मामिकाः प्राणसख्यो
हा! तस्याशापरवशतया पूर्वमस्मन्मृतास्स्युः ।
व्याप्तासूनां मम हि बत संरक्षणे कोऽभ्युपायः
तस्यात्यन्तं बत! न सुलभः श्रीदयाप्राप्तिकालः ॥ ९.९.५॥
तस्यात्यन्तं बत! न सुलभः श्रीदयाप्राप्तिकालः
नैवास्माकं भवति हि कृपा तत् कृपातः कृपाऽन्या ।
नात्मा तिष्ठेत् तदसमकृपाप्राप्तिपर्यन्तमेषा
सायं सन्ध्या शमितदिवसाऽप्येति चित्तं च नेक्षे ।
दिव्यस्सेव्यस्सह सहशिवब्रह्मणोदारलक्ष्म्या
वध्वात्मानं मम शुभतरो विग्रहो हा! हिनस्ति ।
प्राप्यो देशः क ? इह तदितः किङ्करिष्यामि वाहो !
कस्याग्रे वा कथमिव हि ! हे ! मातरः किं नु वक्ष्ये ? ॥ ९.९.६॥
कस्याग्रे वा कथमिव हि ! हे ! मातरः! किं नु वक्ष्ये ?
व्याप्तात्मार्हो ह्ययमतिपृथुः शीतलोदीच्यवायुः ।
कालाब्दश्रीसुभगतनु-मत्कृष्णमायागृहीतं
*तच्चेदस्मद्धृदयमसहायं तदायत्तमासीत् ॥
सम्पद्युक्तागरुसुरभिसद्धूपवीणासुतन्त्री-
क्वाणैरार्द्रैः शिशिरसुभगैरङ्गरागैस्समेतः ।
युद्धोत्साहं दधदभिनवान् मल्लिकासूनगन्धान्
आदायोच्चैर्बत ! बत ! किरंश्चौत्तरो वाति वायुः ॥ ९.९.७॥
(*अत्र यतिभङ्गभीरूणां कृते ``तच्चेदस्मद्धृदयसखं तत् तदायत्तमासीत्''
इति पाठः ।
उच्चैर्जृम्भन् तरुणपवनो वाति गन्धं नवं सं-
गृह्णन् हन्ताऽप्यतिकृशतरा हन्त ! सन्ध्याऽपि जाता ।
कृत्वाऽऽश्लेषं तमथ विरहं कुर्वतः क्रूरमेतत्
कृष्णस्याहो ! विविधकुहनाचेष्टितं कृष्णतोऽपि ॥
किं चैतस्मादुपरि मधुमद्गन्धवन्मल्लिकासं-
श्लिष्टस्रग्भ्यः शिशिररुचिरात् चन्दनात् पञ्चमेभ्यः ।
इष्टाश्लेषं मधुरकृपया ख्यातगोपीभ्य एव
स्थातुं शक्ष्ये त्वहमुदितया वेणुगीत्या तया नो ॥ ९.९.८॥
नोज्जीविष्याम्यहमुदितया वेणुगीत्या तयैवै-
तस्योपर्यप्यरुणरुचिमद्भूषणाभ्यां निजाभ्याम् ।
*मध्ये मध्ये किमपि नयनाभ्यां च दूतीभवद्भ्यां
उक्त्वा गीत्या सरसवचसा चाप्यभिप्रेत्य किञ्चित् ॥
कृत्वा मुह्यन्मुखमपि परं सव्यथं ध्वस्तमुग्ध-
स्त्रीविश्लेषव्यसनमपि तद्गीतगीतिप्रकारान् ।
नो जानीमः किमपि वयमाश्चर्यमाश्चर्यमाः ! हा !
किं चाऽऽयाताऽप्यसुहरनिशाऽऽयाति नाश्चर्यचेष्टः ॥ ९.९.९॥
(*अत्र यतिभङ्गभीरूणां कृते ``मध्ये मध्ये किमपि च दृशा दूतभावं भजन्त्या''
इति पाठः ।)
आयातैषा स्वसमयनिशाऽऽयाति नाऽऽश्चार्यचेष्टः
सोच्चैर्घण्टाध्वनिबलिबलीवर्दसंश्लेषवत्यः ।
श्लाघ्या गावस्तरुणवयसो हन्त ! हृष्यन्ति हृद्याः
क्रूरा वेणुध्वनय इह हाऽव्यक्तवर्णाश्च कर्णे ॥
कान्त्या पूर्णा ह्युपचिततमा यूथिका जातिमल्लीः
गाहङ्गाहं मधुरमधुपा हन्त ! नृत्यन्ति भृङ्गाः ।
तुङ्गैर्भङ्गैर्जलनिधिरपि व्योम्नि हृष्यत्यहोक्त्वा
किं जीविष्याम्यहह ! कृपणा तं विनैतद्दशायाम् ॥ ९.९.१०॥
(द्रमिडोपनिषत्तात्पर्यरत्नावलीश्लोकः)
पद्माक्षत्वप्रसिद्ध्या जगदवनतया भव्यताद्यैश्च सार-
ग्राहित्वाद्वेणुनादैः हृषितजनतया स्वाङ्गदानादजादेः ।
श्यामत्वाद्गव्यचोरत्वत उत सरसस्मेरचेष्टत्वभूम्ना
नः कूटस्थोऽत्र सिद्ध्युन्मुखसमयतया ख्यापयामास कृष्णम् ॥ ९.९.११॥
(प्रतिबिम्बलहरीश्लोकः)
तं विश्लिष्य क्षणमपि धृतावक्षमाणामसूनां
सद्भूषाणां व्रजगसुदृशां सायमाक्रन्दनेन ।
हित्वा तं तद्विरहमसहेनैव जातव्यथेन
श्रीमारश्रीसहितकुरुकाराट् -शठारातिना क्ष्माम् ।
भुक्त्वोद्गीर्य प्रथितयशसं भान्तमुद्दिश्य नाथं
प्रोक्ते गाधादशशतमिते प्राप्य चैता दशाऽपि ।
क्ष्मायामुच्चैस्स्थितिमपि गता जीवतोच्चार्य भक्ताः !
व्यामुग्धं तं स्वशरणधियाऽऽनम्य सम्यक् तथोक्तम् ॥
(इति नवमशतके नवमं दशकम्)
॥ अथ नवमशतके दशमं दशकम् ॥
प्रतिबिम्बलहरीवृत्तं - मन्दाक्रान्ता
एतद्दशकप्रतिपाद्यगुणविशेषः - अहः प्रतीक्षत्वं
॥ सङ्गतिमणिमाला ॥
(मालिनी)
व्रजयुवतिगिरैवं प्राप्त्यलाभान्मुनीन्द्रे
विलपति ``कथमेवं खिद्यते देहपाते ।
भवति तव यदिष्टं कृष्णपुर्यां स्थितं मां
भज सुख''मिति वाचा शान्तिमान् शास्ति नस्तत् ॥
श्रीशं नत्वा दुरितहतये प्राप्य वर्धध्वमुच्चैः
सायं प्रातस्सरसिजदलैस्सोपचारं समर्प्य ।
अब्धेर्भङ्गैर्निहतवरणश्रीलसत्कृष्णपुर्यां
मध्येतोयं वटदलशयं तत्पदाम्भोजयुग्मम् ॥ ९.१०.१॥
माध्वीस्यन्दिप्रसवकरमभ्यर्च्य यूयं श्रयध्वं
कर्कट्याप्तक्षितिवरवृतागाधखातान्तिकस्थाम् ।
शुक्रस्पर्श्युद्वरणवृतिकां श्रीपुरीं कृष्णनाम्नीं
नत्वा दासाः ! प्रतिदिनमहो प्रेक्ष्य सत्तां लभध्वम् ॥ ९.१०.२॥
भक्ता ! युष्मद्दुरितहतये यूयमैक्यं प्रपन्नाः
फुल्लाम्लानप्रसवकरमभ्यर्च्य यूयं श्रयध्वम् ।
गायद्भृङ्गोपवनवृतिमत्कृष्णपुर्याप्तवासं
ब्रह्माण्डानामधिपतिममुं नित्यसूरीशितारम् ॥ ९.१०.३॥
एणीश्रीकृन्नयनविलसद्भव्यनीलानुरूपो
मध्वम्लानैः कुसुमनिचयैर्यूयमेत्याश्रयध्वम् ।
*आकाशोत्सारणदवरणव्याप्तिमत्कृष्णपुर्यां
स्वेनासक्तस्स भवति जगन्नायको रक्षको वः ॥ ९.१०.४॥
(*अत्र यतिभङ्गभीरूणां कृते ``आकाशोत्सार्यतुलवरणव्याप्तिमत्कृष्णपुर्यां''
इति पाठः ॥)
सर्वेषां सन्नखिलशरणं स्वाङ्घ्रियुग्माश्रितानां
देहान्ते सत्युपकृतिचणस्स्वेषु वैकुण्ठदाता ।
*रक्षादक्षोद्वरणवृतिलक्ष्मीलसत्कृष्णपुर्यां
धात्रीनाथो भवति हि निजस्नेहिषु स्नेहशाली ॥ ९.१०.५॥
(*अत्र यतिभङ्गभीरूणां कृते ``रक्षादक्षोद्वरणवृतिमत्-श्रीलसत्कृष्णपुर्यां''
इति पाठः ॥)
स्वीयं पादं शरणमयतां स्नेहिभूतोऽखिलानां
शोणस्वर्णप्रभतनुहिरण्याख्यवक्षोविदारी ।
श्लाघ्यस्वर्णारचितवरणव्याप्तिमत्कृष्णपुर्यां
सक्तोऽजस्रं स्वयमकपटस्नेहिषु स्नेहसत्यः ॥ ९.१०.६॥
आदृत्य स्वं शरणमयतां सत्यभूतोऽखिलानां
मिथ्याभूतो बहिरधिगतप्रह्वभावाखिलानाम् ।
केदारोद्यद्विहृतिशफरश्रीलसत्कृष्णपुर्याः
स्वाम्याश्लेषी मनसि दधतां किङ्करस्सन्निकृष्टः ॥ ९.१०.७॥
सर्वेषां स्वं भवति चरणौ संश्रितानां विधेयो
रक्षत्याधिप्रभृति च विना संसृतिं संविनाश्य ।
रक्तैस्स्वर्णै रचितवरणव्याप्तिमत्कृष्णपुर्यां
नित्यं नित्यं नमत परमे स्थायिनः पादमेव ॥ ९.१०.८॥
पादे व्याधिः प्रशममयते प्रत्यहं सेव्यमाने
नावद्यं मां श्रयति तदितो न्यूनता का ममास्ति ? ।
जिह्वाजाग्रन्निगमविबुधादर्यसत्कृष्णपुर्यां
दुःखं नैवास्त्यखिलजगतां कारणं संश्रितानाम् ॥ ९.१०.९॥
नास्ति क्लेशो मम पुनरितो न्यूनता नास्ति लोके
पद्मस्थश्रीनियतवसतीभूतवक्षस्स्थलस्य ।
प्राकाराग्र्यैः परिवृतभुवि प्रास्तरैः कृष्णपुर्यां
प्रोक्तायां चेत् अनिशमसुखान्यन्तिकं नाश्रयन्ति ॥ ९.१०.१०॥
(द्रमिडोपनिषत्तात्पर्यरत्नावली श्लोकः)
सर्वश्रेष्ठ्यात्स्वकीयैरपि जगदवनादण्डषण्डाधिपत्यात्
नीलाया वल्लभत्वादमृतवितरणाद्भक्तसुस्निग्धभावात् ।
दासानां सत्यभावादतिसुजनतयाऽथो जगत्कारणत्वात्
श्रीमान् वेलाप्रतीक्षो भवभयहरणे चेत्यभाणीच्छठारिः ॥
इत्थं सर्वैकबन्धुं चिरकृतकरुणं शीलसिन्धुं पतित्वात्
सम्बन्धाद्रक्षितारं स्वगुणगरिमसंस्मारकं प्राह कृष्णम् ।
विस्मर्तुं चाप्यशक्यं घटकमुखसुविस्रम्भणीयं सुमत्या
लक्ष्म्या श्लिष्टं स्वसिद्ध्युन्मुखसमयमनेहः प्रतीक्षं सुमित्रम् ॥ ९.१०.११॥
(प्रतिबिम्बलहरी श्लोकः)
दूरक्लेशं दुरितविहतिं काङ्क्षमाणास्समूलं
प्रोत्तुङ्ग्रौकोनिवहकुरुकाराट्-शठारिप्रणीते ।
*गाथारूपद्रमिडमयसाहस्रगे पञ्चके द्वे
एते गीत्वा प्रणमत पदे तस्य सञ्जातनृत्तम् ॥
(*अत्र यतिभङ्गभीरूणां कृते ``गाथारूपद्रविडमयसत्सहस्रे त्विमौ द्वौ'' इति तृतीयपादे
``पाङ्क्तौ गीत्वा'' इति तुरीयपादे च पाठः ॥)
(इति नवमशतके दशमं दशकम्)
॥ इति नवमशतकं समाप्तम् ॥
॥ श्रीमते वेङ्कटशेषार्यमहादेशिकाय नमः ॥
॥ श्रीमते रामानुजाय नमः ॥
॥ प्रतिबिम्बलहरी - दशमशतकम् ॥
प्रतिबिम्बलहरीवृत्तं - शार्दूलविक्रीडितं
॥ अथ दशमशतके प्रथमं दशकम् ॥
एतद्दशकप्रतिपाद्यगुणविशेषः - स्वानां सद्गतित्वं
॥ सङ्गतिमणिमाला ॥
(वसन्ततिलका)
देहावसानसमये ध्रुव एव मोक्षः
श्रीकृष्णपूर्वसतिनेति समीरितोऽसौ ।
मार्गोऽथ दीर्घ इति तत्र सहाय आप्तो
भूया ममेति भजतेऽत्कगमोहनेशम् ॥
सन्नालाब्जतटाकभूषितधरे श्रीमोहनाख्ये पुरे
रत्या साध्वनिशं स्थितं सुररिपुच्छिद्भिश्चतुर्भिर्भुजैः ।
युक्तं वक्रसुकुन्तलं सरसिजस्वक्षं सुबिम्बाधरं
नान्योपाययुता वयं परगतौ श्रीकालमेघं विना ॥ १०.१.१॥
नान्यैकास्त्यपि सर्वजन्मसुगतिर्नो रम्यशीतोज्वलत्-
भूषास्रक्तुलसीभृतो दशशताभिख्यावतस्वामिनः ।
कल्याणाढ्यचतुश्श्रुतिज्ञवसतौ श्रीमोहनाख्ये पुरे
कल्याणाङ्घ्रियुगस्य तस्य पदयोश्छायातटाकं विना ॥ १०.१.२॥
त्वां हित्वा वयमन्यदेकशरणाभावा इति क्रोशनं
भक्त्याऽऽस्थाय चतुर्मुखेशसहितामर्त्येषु निध्यायिषु ।
जित्वेदं त्रिजगत् प्रपाल्य चरतः श्रीमोहनाख्यां पुरीं
अस्मत्क्लेशनिराकृतेः परमितस्साध्वाश्रयामो वयम् ॥ १०.१.३॥
अस्मान् दुःखनिवृत्तये मुखमुपेत्येतीति कृत्वा स्तुतिं
औज्वल्याढ्यसुविग्रहं मुनिषु चान्विष्यत्सु देवेषु च ।
निद्रातुस्सुविशालभोगिशयने श्रीमोहनाख्ये पुरे
स्तोष्यामश्चरणौ सुदुःखहतये दासास्समागच्छत ॥ १०.१.४॥
मात्रेकासखकारणेन जगतामण्डे सतामष्टदिक्ष्-
वप्युद्यन्मधुरेक्षु*गारुणमहानीवारवृद्ध्यै च नः ।
भास्वज्यौतिषवर्ष्मणाद्ध्युषित आकल्पे पुरे मोहने
नृत्यामो रचितप्रदक्षिणमहो दासास्समागच्छत ॥ १०.१.५॥
(*``युक्तवृहदारक्ताभशालिश्रियै । '' इति पाठान्तरम् ।)
*गोपालो घटनर्तकस्त्रिजगतां पीडाकृतामन्तकः
दैत्यानां; स्तुवतां च नो दिविषदां भोग्यो मुनीनामपि ।
शीतक्ष्माजलऋद्धियुक्तसुभगैः केदारकैस्संवृते
स्वाप्तोऽस्याम्बुजपादतो न शरणं नोऽन्यत् पुरे मोहने ॥ १०.१.६॥
(*श्रीपितामहपादानां श्लोकोऽत्र न समग्रतया लभ्यते ।
अतः अस्माभिः अयं कल्पितः ॥)
भूत्वाऽनन्तमहाप्रकृत्यनुपमोपादानमम्भोऽभित-
स्सृष्ट्वा तत्पथिकादिपद्मजपुरोबीजञ्च सर्वान् सुरान् ।
लोकान् संसृजतः परीत्य निलयं नो मोहनाख्यं पुरं
ध्वस्तान्योपधिकं प्रदक्षिणकृतां दुःखं विनश्येद्द्रुतम् ॥ १०.१.७॥
नश्येयुर्दुरितानि मङ्क्षु नमताऽऽश्रित्यैत्य दासास्सहा-
त्युच्चाक्रीडलसत्सरोञ्चितरुचिश्रीमोहनाख्ये पुरे ।
दीव्यन्नामसहस्रकं बलिपलाशान्तः प्रवेशापदे
सूतं पङ्क्तिरथेन सन्मरकतै रत्नैस्तटाकोत्तमम् ॥ १०.१.८॥
स्वच्छाम्भस्सरसीपदाब्जनयनस्वारक्तबिम्बाधरा-
नल्पाकल्पिचतुर्भुजानिशसुरद्विट्-छेत्तृशौर्याम्बुधेः ।
*देवस्याप्तनिवासमुज्ज्वलवनं श्रीमोहनाख्यं पुरं
प्रत्यासन्नमुपागतास्स्म परमं चास्माकरक्षास्स्थलम् ॥ १०.१.९॥
(*``देवस्योपवनोज्ज्वलाप्तवसति श्रीमोहनाख्यं पुरम् ॥ '' इति पाठान्तरम् ।)
*अस्मत्प्राप्तमनुत्तमं स्वशरणं हीत्यादितेयोत्तमैः
प्राप्योपद्रवकृद्बलिष्ठदितिभूभीत्या प्रपन्नेष्वितः ।
स्वेष्टं रूपमुपेत्य रक्षणकृतः श्रीमोहनाख्यापुर-
श्रीनामैव विचिन्तयेत विनुतोच्चार्यास्मदीया जनाः ! ॥ १०.१.१०॥
(*``अस्मत्प्राप्तमनारतं स्वशरणं श्रेष्ठं सुरैरुत्तमैः ॥ '' इति पाठान्तरम् ।)
(द्रमिडोपनिषत्तात्पर्यरत्नावली श्लोकः)
दैत्यानां नाशकत्वाद्विधृततुलसिकामौलिभावाज्जयित्वात्
सर्पाधीशे शयत्वात् निरविधकपरञ्ज्योतिरुल्लास्यभावात् ।
लोकानां स्रष्टृभावाद्दशरथसुतताश्रान्तिहारित्वमुख्यैः
आकारैः सद्गतिः स्याज्जलदतनुरुचिश्चेति तेनाभ्यधायि ॥ १०.१.१०॥
(प्रतिबिम्बलहरीश्लोकः)
आस्माका ! विनुतेति कुम्भशिरसं नृत्यन्तमुद्दिश्य वाक्-
कैङ्कर्ये कुरुकाशठारिरचिते लब्धे सहस्रे त्विदम् ।
श्रीमत्सुन्दरदिव्यदेशमहित श्रीमोहनाम्न्यै पुरे
दत्तं श्रीदशकं विनोतुमनसां दुःखं विनष्टं भवेत् ॥
(इति दशमशतके प्रथमं दशकं )
॥ अथ दशमशतके द्वितीयं दशकम् ॥
प्रतिबिम्बलहरीवृत्तं - शार्दूलविक्रीडितं
एतद्दशकप्रतिपाद्यगुणविशेषः - अध्वक्लेशापहर्तृत्वम् ॥
॥ सङ्गतिमणिमाला ॥
(वसन्ततिलका)
क्लेशानपोह्य पथि नैजभुवस्स्वभक्तान्
देवो नयेदिति वदन् शठवैरिसूरिः ।
श्रीमाननन्तनगरं प्रति क्लृप्तयात्रः
श्रीमोहनाख्यपुरतो भवति प्रहृष्टः ॥
*नश्येन्नः प्रतिकूलमत्र निखिलं श्रीकेशवेत्युक्तितः
नित्यं भीषणकर्मकृद्यमभटाः अप्यत्कयानाक्षमाः ।
भोगीशे सविषे यथेष्टशयनस्यालापगीभृङ्गसत्-
श्रीकेदारवृतं ह्यनन्तपुरमुत्श्रीकं विशेमाऽधुना ॥ १०.२.१॥
(*``प्रत्यूहाः प्रलयं प्रयान्ति निखिलाः श्रीकेशवेत्युक्तितः ॥ ''
इति पाठान्तरम् ।)
शैलश्रीकगृहान्तिके निबिडिते पुन्नागकुन्दैः स्फुरत्-
गन्धाढ्योपवने त्वनन्तनगरे नामाद्भुतस्यैककम् ।
उक्तं त्वेकसहस्रमेव दधतां चित्ते तदुच्चैः पदं
गत्वा चेद्विशथाद्य सप्तसुजनिष्वायान्ति दुःखानि नो ॥ १०.२.२॥
तार्क्ष्यं चारयति ध्वजं च कुरुते यस्सर्वलोकादनोद्-
गारी चेत्तदितामनन्तनगरीं यूयं प्रविष्टा दृढम् ।
नश्येयुर्निखिलानि रोगदुरितान्यस्माभिरुक्तं स्फुटं
यूयं त्वेकसहस्रतो वदत तन्नामैककं निश्चितम् ॥ १०.२.३॥
निश्शङ्कं वदताऽऽवृतां जलधिना विस्तीर्णवारा पुरं
केदाराञ्चितभूस्फुरत्परिमलाक्रीडामनन्ताभिधाम् ।
कुर्वाणैः कृतपुण्यपूजपुञ्जकरणाश्चर्यप्रकारा अहो!
कृत्वा स्नेहमधिष्ठिताय विधिना पुष्पार्पणैरर्चनाम् ॥ १०.२.४॥
कृत्वा पुण्यमथाम्बुना सुशुचिना साकं सुमैः स्वामिनं
सम्पूज्य स्मरतास्य नाम च ततश्चेमं छिनत्युद्भवम् ।
स्फीतोद्यानसमृद्ध्यनन्तनगरीस्वाम्यब्जपादाश्रयाः
नित्या एव भवन्ति चाथ सुदृढं स्पष्टं वदामो वयम् ॥ १०.२.५॥
मूले चामरतामुपेत्य चरतामाप्ते पुरेऽनन्तसं-
ज्ञे सेनेश्वरपूजनेऽत्र दधते कैङ्कर्यमन्तस्सुराः ।
आस्माकाः ! श्रुणुतोदितं वयमपि प्राप्याऽऽश्रयेमान्तिके
गोविन्दं तु कुमारतातबलवद्दुःखस्य विध्वंसकम् ॥ १०.२.६॥
गोविन्दस्य हृतांहसोऽखिलजगत्प्राण्यादितेयान् परान्
सर्वान् सृष्टवतः फणीन्द्रशयने स्वप्तुर्मम स्वामिनः ।
*तोयापातमुखोच्चलत्शफरकेदाराञ्चितानन्तपुर्-
यावासे बहिरेव मार्जनधुरालाभे खरागोद्धृतिः ॥ १०.२.७॥
(*अत्र यतिभङ्गभीरूणां कृते ``तोयापातमुखोच्चलत्शफरसत्-क्षेत्राञ्चितानन्तपुर्-''
इति पाठः ।)
क्रूरांहस्सुखनाश्यमस्तु जनितुः कामस्य यूनोऽनिशं
स्वात्मोत्सर्गधिया गृहीतमुज्ज्वलमनन्ताख्यं पुरं चक्षते ।
शेषे स्फीतफणे सदाऽऽप्तशयनस्याऽङ्घ्री समासेवितुं
*भो! वोऽस्मज्जनमध्यगा ! वयमवोचाम स्फुटं गच्छत ॥ १०.२.८॥
(*अत्र यतिभङ्गभीरूणां कृते ``भो वोऽस्मज्जनमध्यगा वयमिहाब्रूम स्फुटं गच्छत''
इति पाठः ।)
अस्माभिर्भवतां स्फुटं प्रकथितः कालोऽप्युपेतोऽन्तिके
संयक्क्षेमयुतं पुरं च निबिडोद्यानं ह्यनन्ताभिधं
धूपं सत्सुरभीणि दोषरहितं पुष्पाणि सम्पाद्य च
स्तोत्रे वामनपादयोरिति कृते नश्यन्त्यघानि स्वयम् ॥ १०.२.९॥
नश्येयुस्स्वयमेव सान्वयमघान्युक्ते सदा माधवे-
त्यर्हस्वरणावृतावनन्तनगरे श्रीपद्मनाभाय वै ।
दिव्यालेपनदीपधूपकमलस्मेरप्रसूनानि सं-
चिन्वानास्स्तुतिपेशला निरवधिस्फायद्यशश्शालिनः ॥ १०.२.१०॥
(द्रमिडोपनिषत्तात्पर्यरत्नावलीश्लोकः)
ऊचे श्रीकेशवत्वाद्भुतचरितखगाधीशकेतुत्वयोगात्
आसन्नत्वात्पतित्वादमरपरिषदामादिभूतत्वभूम्ना ।
व्यापारैः सृष्टिमुख्यैरपि च भुजगशायित्वमुख्यैश्चरित्रैः
अध्वक्लेशापहर्ता भवति च भगवानित्यनन्यः शठारिः ॥ १०.२.११॥
(प्रतिबिम्बलहरीश्लोकः)
कल्याणैः स्वगुणैरनन्तनगरे निस्सीमकीर्तिं जग-
द्धेतुं गुच्छसुमागषण्डकुरुकामारोक्तिसाहस्रगे ।
पञ्चासञ्जितपञ्चकेऽत्र कुशला नित्यं तु लोकं गताः
श्लिष्येयुः वलयाढ्यदिव्यवनितावंशोपमांसद्वयम् ॥
(इति दशमशतके द्वितीयं दशकम्)
॥ अथ दशमशतके तृतीयं दशकम् ॥
प्रतिबिम्बलहरीवृत्तं - उत्कृतिविशेषः - प्रहर्षिणी-युगरूपः
एतद्दशकप्रतिपाद्यगुणविशेषः - अस्थानशङ्कार्हरागता
॥ सङ्गतिमणिमाला ॥
(वसन्ततिलका)
गत्वा तदीयमथ शेषपुरं स्वशेष-
वृत्तिं चिकीर्षुरनवाप्य मनोरथं तम् ।
आशङ्कतेऽस्य विपदं निजपार्श्वगेऽपि
गोचारणाय गतवानिति गोपिकेव ॥
वंशश्रीर्भुजयुगली बतैति कार्श्यं
कार्श्यं मे विरहमपीयताऽविचिन्त्या-
प्युत्कूजन्त्युपवनकोकिला बतामी
संश्लिष्यन्नटति बतैष बर्हिसङ्घः ।
राज्यद्गोगणवनचारणे त्वदात्तं
त्वेकाहं दशशतकल्पमस्ति हन्ताऽ-
म्भोजश्रीसदृशदृशा विबाधसे हा!
कारुण्यं तव न हि कृष्ण ! निर्दयस्त्वम् ॥ १०.३.१॥
कारुण्यं तव न हि कृष्ण ! निर्दयस्त्वं
विस्तीर्णस्तनपरिरम्भणेष्वमाना-
नन्दौघः खमतिपतन् मतिं विमोह्य
व्याप्तस्स्वस्वपिति समं निवृत्त्य चात्र ।
अन्तस्थास्वनुविवरान्तरेत्य चात्माऽ-
सह्योऽसावुपरि च रम्भणाभिलाषो
विश्लेषं जनयति होत्तरोत्तरं ते
नेतोऽहं तव गमने गवानुगत्यै ॥ १०.३.२॥
स्यादन्तो मम तव गोगणानुयाने
हाऽऽत्मोष्णश्वसितमुपेत्य दह्यते मे
साहाय्ये भवति न कोऽप्यहं स्थिता ते
नेक्षे सञ्चरणमिहाञ्जनाभमूर्तेः ।
एकाहं तव विरहे न याति नान्यो-
न्योपम्येक्षणशफरीयुगास्त्रशान्तिः
हेत्थं नो व्रजकुलगोपिका जनित्वा
दासीनां त्वयि जनितैकतैव नाश्या ॥ १०.३.३॥
दासीनां स्मरसि न चैकतास्थितेर्नो
गोविन्द! प्रियविरहिव्यथा स्मृता नो
हित्वा नो मनसि विचिन्त्य गोष्ठगा गास्-
तासां त्वं वनभुवि चारणाय यासि ।
पक्वोच्चामृतमधुरप्रवाह ईदृक्-
पापाया मम मनसोऽन्तरस्थ आत्मा
मग्नस्तेऽरुणफलबिम्बभोष्ठशाठ्या-
नुच्चोक्तिस्मरणदशासु दह्यते हा ! ॥ १०.३.४॥
नीचोक्तिस्मृतिषु विदह्यते मदात्मा
गोपङ्क्तीः सुखयितुमह्नि यात ! कृष्ण !
हो! वाति प्रविकचमल्लिकासमीरे
हाऽऽयाता समदगजोपमाऽपि सन्ध्या ।
गन्धाढ्यं मणिवदुरस्थयूथिकाभिः
कृत्वा संस्तनमधरामृतं वितीर्योत्-
कृष्टालङ्कृतिरुचि हन्त ! दास्यभाजां
अस्माकं शिरसि निधेहि हस्तपद्मम् ॥ १०.३.५॥
दासीनां शिरसि निधेहि नोऽब्धिरम्य-
श्रीदृष्टे ! तव शुभपादपद्मभाज-
स्तन्मध्ये त्वदभिमताश्च सन्त्यनेकाः
तत्तिष्ठत्विह न सहामहे वधूत्वात् ।
तीक्ष्णोच्चैर्विपुलदृशोर्जलं न तिष्ठत्-
येवं नो हृदयमपीति हेतुना ते
गोपङ्क्तेःगतिरतिचारणाय भीदो-
द्दाहोऽग्नौ जतुरिव विद्रुतो मदात्मा ॥ १०.३.६॥
आत्मा मे द्रवदनलाप्तजातुषाभो-
द्दाही विश्लथसितकङ्कणौघकाञ्चि;
प्रच्योतद्विमलदृगब्जमुक्तमुद्य-
द्वैवर्ण्याश्रितकुचमस्तबाहुशोभम् ।
नीलश्रीमणिवरवर्ण! तेऽरुणाब्ज
श्रीमृद्वम्बुज-चरण-क्लमं त्वमेतः
गोप्रीत्यादरकृदितः प्रचारणे स्यात्
किं वाऽत्र प्रतिबलिषु त्वयाऽसुरेषु ? ॥ १०.३.७॥
तत्र स्यात् किमभिमुखेषु हासुरेष्वि-
त्यात्मा सन् मम शुचमेति मास्म गा गाः
स्नेहाशे अपि परिरम्भणं त्रयं मत्-
चित्तस्थं व्यथयति मत्करान्न गच्छेः ।
आकर्षन्निजनयनाम्बुजाधरश्री-
दोः पीतोज्वलवसनानि सम्प्रदर्श्योद्-
भङ्गोद्यद्-द्वयणुकवलग्नबालगोप-
स्त्रीभिस्त्वत्प्रियसुगुणास्पदैश्चर त्वम् ॥ १०.३.८॥
सञ्चार्य त्वदभिमताभिरुत्तमाभिः
त्वच्चित्तव्यसननिवर्तनेऽखिलेऽपि
ह्यानन्दं वयमधिकं भजेम नोढ-
स्त्रीत्वाः स्मो न सुरभिचारणाय गच्छेः ।
स्वामिन्नो भृशमसुरा निजेष्टरूपाः
तत्रस्था बहु विचरन्ति कंसदिष्टाः
तत्प्राप्तौ तव सह तैश्च तत्र नाना-
नर्थास्युर्मम वचनं हहाः ! श्रुणु त्वम् ॥ १०.३.९॥
जायेरन् श्रुणु वचनं ममात्यनर्थाः
दैत्येशा बत! बलिनो हि कंसदिष्टाः
स्थित्वान्तस्तपिषु चरन्ति तापसेषु
प्राचुर्यात् तव विसहायताऽपि रामम् ।
नादृत्याप्यसहचरो भवानितीत्थं
हा! बाह्यान्तरमपि दह्यते मदात्मा
हृद्यस्ते परमपदात् गवां प्रचारो
बिम्बश्रीस्वधर ! मदीयगोपदेव !॥ १०.३.१०॥
(द्रमिडोपनिषत्तात्पर्यरत्नावली श्लोकः)
अम्भोजाक्षत्वकीर्त्या यदुकुलजतया चात्मनश्श्यामलत्वात्
गोविन्दत्वात् प्रियोद्यद्वचनपरतया चक्रराजायुधत्वात् ।
श्रीनीलाश्मप्रभत्वादतिसुभगतया गोपनिर्वाहकत्वात्
अस्थानस्नेहशङ्कास्पदरस उदितः श्रीपतिः कारिजेन ॥ १०.३.११॥
(प्रतिबिम्बलहरीश्लोकः)
बिम्बश्रीस्वधरमदीयगोपदेव-
स्वाम्यङ्घ्र्योरुपरि तु चारु ताम्रपर्णीं-
शङ्खाञ्चत्तटकुरुकर्द्धिमच्छठारेः
रम्यश्रीसमुदितवाक्-सहस्रमध्ये ।
तारुण्ये व्रजसुदृशां विमर्शबद्धा-
तच्छलेषव्यसनपदैकयैव तत्र
प्रत्यूहे प्रियसुरभिप्रचारणस्यै-
तत्प्रोक्तं दशकमपीह तस्य योगः ॥
(इति दशमदशके तृतीयं दशकम्)
॥ अथ दशमशतके चतुर्थं दशकम् ॥
प्रतिबिम्बलहरीवृत्तं - वसन्ततिलका
एतद्दशकप्रतिपाद्यगुणविशेषः - भक्तिभाजां सुप्रापत्वं
॥ सङ्गतिमणिमाला ॥
(वसन्ततिलका)
तद्भक्तियोगविभवं परिवक्तुकामः
आरभ्य मध्य इह तं बहुधानुभूय ।
तद्गोपिकेव तममुं स्ववशेऽथ नीत्वा
सुप्रापतां वदति तस्य तु भक्तिभाजाम् ॥
कालाम्बुदोपमतनोः कमलाभदृष्टेः
तोयाभ्रवाय्वनलभूतनुचक्रपाणेः ।
प्रख्यातसूरिभिरपक्रमनव्यभूम्नो
दामोदरस्य चरणाश्रयणस्तपोध्वा ॥ १०.४.१॥
अप्यूर्ध्वभाग्दिविषदामधिकोऽत्र दृष्टुं
तद्ध्यानशून्यमनसां सुशको न नित्यम् ।
लक्ष्मीसमास्थितततनूररुणेक्षणोऽत्र
मां स्वीकरोत्यपहरन् द्विविधं च कर्म ॥ १०.४.२॥
स्वीकृत्य चक्रवति नः किमिवास्ति केन
नेदं पुनर्गति वयं गतजन्मखेदाः ।
रम्यासिमीनसमतोज्वलनेत्रनीला-
प्रेयःपदे समभिवीक्ष्य शिरस्यकार्षम् ॥ १०.४.३॥
मूर्ध्नि व्यधां सुमसमौ चरणौ वटाल्प-
पत्राधिशाय्यनिमिषेषु समानतेषु ।
आस्थाय वेङ्कटगिरिं स्वयमस्मदन्तश्-
चेतस्थिरस्य चलनाक्षमतादृढोऽस्मि ॥ १०.४.४॥
स्वामी सुदर्शनकरः कुहनामहान-
श्लाघ्यः परैरृतसमोऽप्यनृते पटुर्नः ।
नित्याभिलाषणपदं स हि नागतल्पः
निश्चित्य चास्मि हृदयाच्चलनाक्षमत्वम् ॥ १०.४.५॥
ज्ञानेन चेतसि निवेशयतां सदैव
नाथस्य नागशयनस्य कृपाकरस्य ।
विस्तीर्णखस्थविधुयुक्तजटाधरेशं
भागे निवेशितवतश्चरणौ नतोऽस्मि ॥ १०.४.६॥
नित्यं मनो! नम परात्परतः परं स्वं
रोगः कियानपि न पाति भवं विनाश्य ।
स्वामी मधुद्विडतिनीलमणिस्थभो मे
भूषासमारुणसुवर्ण*पराक्रमारी ॥ १०.४.७॥
(* ``सुशूरचक्रः ॥ '' इति पाठान्तरम् ।)
सूरीडगाधहृदयामरदूरवर्ती
कल्पस्थिरप्रळयसृक् कृतगोचरस्य ।
विस्तारिसुन्दरभुजोद्धृतभूभृतोऽङ्घ्र्योः
मच्चित्त ! विस्मृतिमृते भव मङ्गलं ते ॥ १०.४.८॥
पूर्वं परेण फणितैः भणितिप्रकारैः
भक्त्या प्रपद्य कृतदास्यमथाध्वगत्यै ।
अद्राक्षमम्बुजसमौ चरणौ तदैव
मुक्त्वा गतानि विलयं द्विविधान्यघानि ॥ १०.४.९॥
कृत्वा तदेकविषयं विधिनात्मचित्तं
नित्यं जलैर्नवसुमैरपि धूपदीपैः ।
प्रत्याशमेत्य सुमनस्स्तुतये स्वभाव -
भाजः पदे स्वसुभजे खलु माधवस्य ॥ १०.४.१०॥
(द्रमिडोपनिषत्तात्पर्यरत्नावली श्लोकः)
श्रीमद्दामोदरत्वादमरपरिषदामप्यगम्यत्वभूम्ना
चक्राधीशायुधत्वात् वटदलशयनात् नागराजे शयत्वात् ।
वक्षःस्पर्शोन्मुखत्वात् परमपुरुषतामाधत्वादियोगात्
दुष्प्रापोऽयं भजद्भिः सुगम इति दृढं माधवं सोऽभ्यधत्त ॥ १०.४.११॥
(प्रतिबिम्बलहरीश्लोकः)
मल्लाजिकृद्भुजपतिं वळुतीवलाख्य-
देश्योदितान्तमुखनिस्समवाक्सहस्रे ।
प्राप्येक्षयैत्य परतः परतः परं तं
प्राप्याविमास्तु पठतां दश कृष्णपादौ ॥
(इति दशमशतके चतुर्थं दशकम्)
॥ अथ दशमशतके पञ्चमं दशकम् ॥
प्रतिबिम्बलहरीवृत्तं - अनुष्टुप्
एतद्दशकप्रतिपाद्यगुणविशेषः - बहुविधभजनप्रक्रियत्वं
॥ सङ्गतिमणिमाला ॥
(वसन्ततिलका)
तद्भक्तियोगमहिमानमथोपदिश्य
सङ्क्षेपतो वदति तस्य विधास्तु सर्वाः ।
आशु स्वकीयपदनेतृसुसम्भ्रमेण
पद्यैर्मिताक्षरमयैस्त्वरितश्शठारिः ॥
कृष्णस्य चरणद्वन्द्वसमाश्रयणचेतसः! ।
नारायणेति श्रीनाम तस्य ध्यायत निश्चितम् ॥ १०.५.१॥
नारायणो मम स्वामी भूदेवीवल्लभः पुरा ।
वारणस्य निहन्तैव जगतः कारणं परम् ॥ १०.५.२॥
स्वयमेव स लोकात्मा सृष्ट्वोद्धृत्य स्वयं जगत् ।
निगीर्य स्वयमुद्गीर्य स्वयमीष्टे च रक्षितुम् ॥ १०.५.३॥
रिरक्षिषोर्जलेऽम्भोधेः कान्तिमत् -फणितल्पिनः ।
समर्प्य पादयोः पुष्पाण्यन्वेषयत चान्वहम् ॥ १०.५.४॥
प्रत्यहं श्रयताम्लानि पुष्पाण्यासाद्य भक्तितः ।
तस्य गायत नामानि सुप्रापो मोक्ष एव वः ॥ १०.५.५॥
आदृत्य वेङ्कटे तिष्ठत्यतसीसुमसच्छविः ।
विषाढ्यपूतनास्तन्यपाय्यास्यस्स हि माधवः ॥ १०.५.६॥
माधवेतीति शक्ताश्चेत् उच्चारयितुमादरात् ।
न दोषाणीषदायान्ति न हेयान्याश्रयन्ति च ॥ १०.५.७॥
जलपूर्णाभ्रवर्णस्य ये नामानि पठन्ति ये ।
ये केऽपि तेऽमरा एव पापान्यायान्ति नान्तिकम् ॥ १०.५.८॥
अमराणां सुदुष्प्रापं स्वीयानां सुलभं परम् ।
दुरितानि विनश्येयुस्स्थिरं प्रणमतां ध्रुवम् ॥ १०.५.९॥
भिया कर्मोद्बलाज्ञानमेवं सङ्घाः पलायिताः ।
अभ्यर्च्य संसरःपुष्पैर्दीर्घं ध्यायत बान्धवम् ॥ १०.५.१०॥
(द्रमिडोपनिषत्तात्पर्यरत्नावली श्लोकः)
नाम्नां सङ्कीर्तनेन स्वपरिबृढतया भावनातोऽनुवेलं
संस्मृत्या पुष्पदानाध्ययनसुवचनैः स्तोत्रनृत्यादिकृत्यैः ।
धर्मैर्वर्णाश्रमोक्तैः बहुविधभजनप्रक्रियो दीर्घबन्धुः
श्रीमान्नारायणश्चेत्यकथयदखिलद्रामिडब्रह्मदर्शी ॥
(प्रतिबिम्बलहरी श्लोकः)
सर्वेश्वरकृपापीडीकृतिशीलशठद्विषः ।
दशकं सूक्तिसाहस्रे भक्तानां करुणागमः ॥
(इति दशमशतके पञ्चमं दशकम्)
॥ अथ दशमशतके षष्ठं दशकम् ॥
प्रतिबिम्बलहरीवृत्तं - शार्दूलविक्रीडितं
एतद्दशकप्रतिपाद्यगुणविशेषः - स्वदाने तीव्रोद्योगोत्वं
॥ सङ्गतिमणिमाला ॥
(वसन्ततिलका)
भक्तिप्रकारमुपदिश्य हरेः शठारिः
स्वस्मिन् रतिं च विपुलां प्रविचिन्त्य विद्धः ।
सौशील्यमुख्यसुगुणानभिसम्प्रकीर्त्य
चित्तेन साकमनुभूतिमथाऽऽतनोति ॥
दासानां स्वकृपोपलम्भमनसां दासस्य मे चक्रभृत्
पर्याप्तः स्वकृपाप्रदो भवति सोऽप्याज्ञाप्रकारेण नः ।
नो वाञ्छाम्यहमुद्भवं पृथुजगन्मध्ये त्वितोऽज्ञानदे
भ्रान्तिं त्वं त्यज भव्यचित्त ! विनमेर्वाट्टारुनेतुः पदे ॥ १०.६.१॥
वाट्टारीशपदे विनम्य महति छेत्स्स्यन् जगत्युद्भवं
हृद्भव्याप्यशृणोर्विरोधिजयिनं मत्स्वामिनं केशवम् ।
गीत्वाऽनेकसुगीतिभिश्चिरकृतं निर्मूल्य कर्माऽखिलं
हित्वा प्राकृतवत् प्रवृत्तिमपि तं नारायणं स्मः श्रिताः ॥ १०.६.२॥
सङ्कीर्त्योपगता वयन्तु बहुधा नामानि नारायणं
भूलोकेऽधिकसम्पदृद्धिविलसद्वाट्टारुनाथोऽधुना ।
दित्सुः सन्त्वरते पदं मम परं स्वाज्ञाप्रकारादितः
कर्माणीतिविधानि चित्त ! मम भो ! न स्युः यथा चिन्तितम् ॥ १०.६.३॥
स्थित्वा मद्धृदयान्तरे विततसच्छास्त्रं त्विदं द्राविडं
प्रावोचत् बलिहृद्धिरण्यहृदयाच्छेदी स वाट्टार्प्रभुः ।
राजस्वात्तभयेषु पाण्डवकृते त्वात्तायुधो भारते
हे ! सच्चित ! परं पदं वितरितुं स्वामी दयेताऽपि नः ॥ १०.६.४॥
आरोढुं परमं पदं शुभसृतेर्दातुस्तु वाट्टार्प्रभोः
गीतोक्तेर्विधयाहमाप्तुमलभे चेतो! हसेर्नारकम् ।
मध्वृध्यत्तुलसीसुमाञ्चितपदस्यारुह्य रम्यं स्वयं
तार्क्ष्यं सञ्चरतः पदाब्जयुगलं स्यादुत्तमाङ्गे मम ॥ १०.६.५॥
सा पादाब्जयुगी विभाति शिरसि स्वामी ममाम्भोजदृक्
मच्चित्तं न जहाति नित्यवसतिं त्वस्मन्महापूरुषः ।
शैलोत्तुङ्गसुधाम्नि शेषशयने वाट्टारुपुर्यां सतः
प्राप्ता मत्तजिघांसुदन्तिरदविच्छेत्तुस्सशिञ्जे पदे ॥ १०.६.६॥
प्राप्ताश्शिञ्जितवत्पदे मम मनो गोविन्द आत्मालयं
स्वीचक्रे सतरङ्गवारिधिवृतावाचीनभूभूषणे ।
शैलौघोपमरत्नसौधविलसद्वाट्टारुपुर्यां सतः
पादाब्जोपरि सौरभाढ्यतुलसी मद्देहगा मोदते ॥ १०.६.७॥
श्रीमद्विग्रहसत्सुगन्धितुलसीगन्धाढ्यमौलेर्यथा
स्वेष्टं संयुगदक्षचक्रविलसत्पाणेर्जलश्रीभृतः ।
नित्यं नीलगिरिश्रियं च सुतनौ वाट्टार्पुरस्थेशितुः
कां कृत्वोपकृतिं कृतिं बत ! मया मच्चेतसि स्फोरणम् ॥ १०.६.८॥
भास्वद्वक्षसि नित्ययौवनजुषा देव्या श्रिया भास्वतः
लक्ष्म्यां मोहजुषस्सुरम्यवसतौ वाट्टारुपुर्यां वसन् ।
सञ्चार्योत्तमपक्षिणं निहतवान् युद्धोत्करक्षःकुलं
विश्लेषं न हि याति चेतसि सदा हित्वाप्युपेक्षां मम ॥ १०.६.९॥
कुर्वश्लेषमृते स्वदास्यमिति मामत्यन्तदासं व्यधात्
जन्मापोह्य तदा हिरण्यवपुरुद्भेदी नृसिंहीभवन् ।
दासत्वे महतां श्रिते त्वसुलभार्थावाप्तिरीतिं प्रभू
रेखादीप्तिमदास्यनागशयने वाट्टार्पुरेऽदर्शयत् ॥ १०.६.१०॥
(द्रमिडोपनिषत्तात्पर्यरत्नावली श्लोकः)
चक्रित्वात् केशवत्वादिभिरपि च तथा श्रीशनारायणत्वात्
स्नेहित्वात्पाण्डवानामभिमततुलसीपूजनीयत्वभावात् ।
अम्भोजाक्षत्वगोविन्दत उत सुयशः श्रीपतित्वादिभावैः
श्रीमान् तीव्रोद्यमोऽयं स्वपदवितरणे चेति तेनाभ्यभाषि ॥ १०.६.११॥
(प्रतिबिम्बलहरी श्लोकः)
स्वीये शिञ्जतवत्पदे प्रदर्श्य नरके क्रूरे प्रवेशापहे
वाट्टार्स्वामिनि मञ्जुलर्द्धिकुरुकाश्रीमत्शठद्विट्कृते ।
*गाथात्मद्रविडस्रजामिह सहस्रे नैव तृप्यन्ति तत्
दिव्ये कर्णसुखर्जुसूक्तिदशकं श्रुत्वा स्थितास्सूरयः ॥
(*अत्र यतिभङ्गभीरूणां कृते ``गाथात्मद्रविडस्रजामिह न वै
तृप्तास्सहस्रे त्विदं'' इति पाठः ॥)
(इति दशमशतके षष्ठं दशकम्)
॥ अथ दशमशतके सप्तमं दशकम् ॥
प्रतिबिम्बलहरीवृत्तं - स्रग्धरा
एतद्दशकप्रतिपाद्यगुणविशेषः - स्वजनतनुकृतात्यादरत्वं
॥ सङ्गतिमणिमाला ॥
(वसन्ततिलका)
काले त्वया वृत उपेहि तु मामितीर्य
तद्देहसक्तहृदयस्सशरीरमेव ।
नेतुं स्वलोकमभिकाङ्क्षति युक्तमेत-
न्नैवेत्यरण्यगिरिसुन्दरमस्ति रुन्धन् ॥
कैङ्कर्यं रक्षितस्वाः तनुत ऋजुगिरः ! पण्डिताः ! श्रीवनाद्रीट्
चोरस्स्वाश्चर्यभूतो भृशमतिकपटो मायिकव्यात्मनैत्य ।
मच्चित्तात्मान्तरैक्यं सविधसदपरिज्ञातरीत्यैव भुक्त्वा
तन्मच्चित्तात्मरूपः स्वयमभवदहो ! सर्वदेहेषु पूर्णः ॥ १०.७.१॥
भूत्वा सर्वं स्वयं तन्निखिलमपि जगद्वयाप्य जीवश्च भूत्वा
भूत्वाऽहंशब्दवाच्यः स्वयमथ च नवन् स्वं स्वयं वै ततो मे ।
मध्वेव क्षीरमेवैक्षवममृतमपि श्रीवनाद्रेश्च नाथो
भूत्वैव स्थायितां सोऽगमदखिलमदात्मीयसर्वस्वभोक्ता ॥ १०.७.२॥
भुक्त्त्वात्मानं प्रियं मे निखिलमपि वपुः प्राकृतं मे प्रविश्या-
प्यात्मीयं मां च सर्वं स्वयमभिमतकृत्स्वद्भुतस्वामिनाऽऽप्तम् ।
दक्षाशेड्यं वनाद्रिं दिशमभिविनमन् साञ्जलिस्संश्रितोऽहं
हीतो गच्छेयमूर्ध्वं किमनुपधि कृपा कीदृशी स्वामिनो हा ! ॥ १०.७.३॥
भूत्वात्मानश्च लोकास्स्वयमजहदिदं मद्वपुस्सम्प्रचार्य
गत्वा पादेन देशं सुखकरमसमप्रेक्षितिश्शोधकस्सन् ।
भूमध्ये दक्षिणाशातिलकमिव लसत्श्रीवनाद्रिं गिरिं नो
नाशायाऽनाश्रितानां त्यजति न हि कृपा स्वामिनः कीदृशीव ? ॥ १०.७.४॥
नाशायानाश्रितानां श्रितशुभजनताश्रेयसे चाऽपि चिन्ता -
तीतानि ध्यायिनां स्वं प्रतिसुखजलधिप्राप्तये सन्मुनीनाम् ।
गीत्या पूर्णास्सुगाथात्मकमधुरकृतीः सन्नहं स्वेन गीत्वा
मत्स्वामी तन्न तन्नेति च वदति मुदा श्रीवनाद्रीश एव ॥ १०.७.५॥
कल्पे कल्पे विचित्रं त्रिजगदपि निजस्वल्पकुक्षौ निवेश्य
प्राधान्येनाऽभिरक्षन् निजशुभवसतिश्रीवनाद्रीशनाथः ।
श्रीव्यामुग्धोऽतिमुग्धो मदवनसवने ब्रह्मरुद्राद्यदृष्टः
स्वामी तेषूच्चभक्त्या स्वपदनतनुतिष्वेव क्लृप्तानुकम्पः ॥ १०.७.६॥
हे ! मत्स्वामिन्! दयां देह्ययधिकमिति निजस्वामिना त्र्यम्बकेन
ज्ञानोच्चब्रह्मणा च स्वनिवहविभुना देवराजाऽमरैश्च ।
अज्ञानाख्यान्धकारापहमुनिभिरपि स्तूयमानेश्वराद्रिः
स्वाज्ञानध्वान्तहाद्रिर्भवति मणिमयश्श्रीवनाढ्याद्रिरेव ॥ १०.७.७॥
श्रीशावासं वनाद्रिं कलशजलनिधिं मामकं चोत्तमाङ्गं
वैकुण्ठं श्रीशहृद्यं शिशिरतटभुवं वेङ्कटं मच्छरीरम् ।
दुर्विज्ञानप्रकृत्यावृतमपि च ममात्मानमेवं मनो-वाक्-
कायं चैकैकमेकक्षणमपि न जहात्येककल्पादिहेतुः ॥ १०.७.८॥
कालादेरेक एवादिम इति विदितस्त्वेक उत्पाद्य लोकान्
सङ्कल्पादेव कल्पं प्रति दधदखिलान् संहरन् क्रीडतो मे ।
प्राप्तस्याम्भोधिशैलीं रुचिरशिशिरितं स्वामिनः श्रीवनाद्रिं
मा त्याक्षीर्मङ्गलं ते हृदय !; वपुरसुध्वंसनं संवदस्व ॥ १०.७.९॥
मायायास्ते महत्या हृदि कलय हतिं श्रीवनाद्याश्रितास्मत्-
स्वामिन्! भूत्वाहमेव त्वमिममवितवन् ! पञ्चवृद्धेन्द्रियार्थाः ।
पञ्चाक्षं पञ्चकर्मेन्द्रियसहितमहापञ्चभूतानि चात्र
ह्येतत्जीवाप्तमूलप्रकृतिमहदहङ्कारचेतांसि चैव ॥ १०.७.१०॥
(द्रमिडोपनिषत्तात्पर्यरत्नावली श्लोकः)
अत्याश्चर्यस्वभावात् हृदयगततया स्वस्तुतौ प्रेरकत्वात्
स्वामित्वात् सर्वभूतान्तरनुगततया स्वस्तुतौ कर्तृभावात् ।
आपद्बन्धुत्वयोगात् बहुविधसविधस्थानवत्त्वेन देवः
श्रीमानत्यादरः स्यात्स्वजनपरिकरेष्वित्यथो सञ्जगाद ॥ १०.७.११॥
(प्रतिबिम्बलहरी श्लोकः)
सृष्टस्याष्टाभिरस्य प्रकृतिपरिणतेर्दुष्टपञ्चेन्द्रियाणां
नाशायापि प्रविश्य स्वयमहमिति च स्वेन सन्तं स्वयं च ।
भृङ्गाहङ्कारपूर्णोपवनसुकुरुकाश्रीशठारेस्सहस्रे
श्लाघ्याहङ्कारवाचां दशकमिदमिह श्रीवनाद्यर्थमेव ॥
(इति दशमशतके सप्तमं दशकम्)
॥ अथ दशमशतके अष्टमं दशकम् ॥
प्रतिबिम्बलहरीवृत्तं - वसन्ततिलका
एतद्दशकप्रतिपाद्यगुणविशेषः - स्वेच्छातुष्टत्वं
॥ सङ्गतिमणिमाला ॥
(वसन्ततिलका)
देहेऽपि हेय इति मे यदि मोहवान् त्वं
मुक्तिं प्रयच्छसि कुतस्तु विलम्बितो मे ।
मूकेत् स पृष्ट इति तत्र निदानमस्य
स्वेच्छेति सुन्दरहरिं भजतेऽभिधास्थम् ॥
श्रीमद्वनाद्रिरिति गामवदं तदैव
श्रीशो ममैत्य हृदि पूर्णतया प्रविष्टः ।
श्लाघ्योच्चरत्नमणिमत्कनकापसव्ये
श्रीशास्थितं पदमुपेत्य पुरी श्र्यभिख्या ॥ १०.८.१॥
आख्यास्थितोऽत्र समुपेत्य महोपकारी
मा गामिति स्वहृदि पूर्णतया प्रविष्टः ।
भुक्त्याभ्रवार्धिगिरिलोकसुसप्तकानां
तृप्तेतरोदरमहं सुहितं त्वगृह्णाम् ॥ १०.८.२॥
प्रापं भवास्तिमजहाञ्च रुजं च माऽगां
मायां न्यवर्तयमगारसुखे स्थिरां ताम् ।
केतूच्चगोपुरगृहश्र्यभिधापुरेश-
पादाश्रयस्य सुकरत्वविधा ममाहो ! ॥ १०.८.३॥
कैषा सुखाश्रयविधेति दृशोस्सुखिन्योः
भूत्वाऽतिहृष्टहृदयो मुदितो भवामि ।
धावच्छुकोपवनवत्-श्र्यभिधापुरेशः
शुद्धं भवत् परममुन्नतखं प्रदद्यात् ॥ १०.८.४॥
रम्यालिपूर्णवनवत्-श्र्यभिधापुरीशः
वैकुण्ठमेव मम मय्युदितोक्ति दित्सुः ।
अन्तः प्रविश्य मम मांसकुसूलमद्य
वैय्याकुलीप्रदमघौघमहन् स्वयं मे ॥ १०.८.५॥
श्रीनामपुर्यधिपतिस्स वनाद्रिसंज्ञ-
शैलेन्द्र एव निवसन् उपकार्युपेत्य ।
अद्यावसेयमिति माऽविशदाप्तपूर्तिः
*स्पृह्यत्वमेत्य मुदितोस्म्यमृतं निपीय ॥ १०.८.६॥
(* ``पीतामृतोऽस्मि मुदितस्स्पृहणीय एव ॥ '' इति पाठान्तरम् ।)
नन्दद्-द्विरेफवनवत्-श्र्यभिधापुरेशः
वीक्ष्याभिनन्दितुमयन्न दृशोरपैति ।
भुक्त्वा तमात्तमुद ऊनमितोस्ति किम्मे ?
प्रापं नमोगिरमथोत्तमदास्यहृष्टः ॥ १०.८.७॥
स्थित्वाऽपयाति न दृशोरधिकाभिसन्धिः
सूक्ष्मे हृदध्वनि रसः स्वरसप्तकस्य ।
सच्चूर्णयुङ्मणिगृहश्र्यभिधापुरेशः
मन्मानसेऽद्य दृढमाविशदात्तवृद्धिः ॥ १०.८.८॥
कृत्वाऽद्य मामपि सदर्थमधात् मयि स्वं
मां बाह्यगं खलु तदाऽधित किं चिकीर्षुः ।
शैलोपमोज्वलगृहश्र्यभिधापुरीशः
एकोत्तरेऽभि निविशामि निवेदनेऽहम् ॥ १०.८.९॥
आप्तोऽन्ति मोदकृतकिङ्करतस्तवाङ्घ्री
प्राप्तोऽर्थनीयमिदमेव परं मदीश ! ।
शास्त्रज्ञवेदविदितश्र्यभिधापुरेशः
निस्सङङ्गदास्यकधियां न किलास्ति दुःखम् ॥ १०.८.१०॥
(द्रमिडोपनिषत्तात्पर्यरत्नावली श्लोकः)
लक्ष्मीकान्तत्वयोगात् विपदि सखितया दिव्यदेशस्थितत्वात्
मोक्षोद्योगात्तदर्थं कृतशपथतया सर्वतस्सन्निधानात् ।
दृष्ट्यन्तस्सन्निवासादतिवितरणतस्स्वस्वभावप्रकाशात्
स्वामित्वात्तुष्यतीत्थं स्वयमनुपधितः श्रीपतिश्चेत्यगायि ॥ १०.८.११॥
(प्रतिबिम्बलहरीश्लोकः)
केदारपूर्तिविपुलश्र्यभिधापुरोप-
र्यार्यौघवासकुरुकाशठहोक्तिपूर्णे ।
ज्ञाताधुनोक्तदशकैर्द्रमिडे सहस्रे
भक्तैर्महोज्वलखमव्यमपास्तदुःखैः ॥
(इति दशमशतके अष्टमं दशकम्)
॥ अथ दशमशतके नवमं दशकम् ॥
प्रतिबिम्बलहरीवृत्तं - मन्दाक्रान्ता
एतद्दशकप्रतिपाद्यगुणविशेषः - सुखार्चिर्मुखसरणिमुखत्वं
॥ सङ्गतिमणिमाला ॥
(वसन्ततिलका)
एवं मुनिस्स्वपरभक्तिदशानुभूतिः
मुक्तस्य भोगविषये परमां पिपासाम् ।
उत्पादयन्नयति वह्निमुखाध्वमुख्ये
मां कुम्भघोण इति भावनयेति गोपम् ॥
व्याप्ताभ्रालङ्कृतिजलधरास्तूर्यघोषानघुष्यन्
अब्धिर्वीचीकरनिकरमुद्धृत्य निम्नो ननर्त ।
सप्तद्वीपी व्यधरदुपदासम्पदं मत्सुबन्धोः
दासान् मोदात् स्थिरगुणनिधेर्वीक्ष्य नारायणस्य ॥ १०.९.१॥
दासान् मोदात् शुचिजलधरा वीक्ष्य नारायणस्य
स्वार्णन् पूर्णान् *नभसि च घटान् पूरयामासुरुच्चैः ।
स्थित्वाऽम्भोलङ्कृतजलधयो घोषयन्नद्रिदीर्घान्
नेमुर्लोका नभसि परितः तोरणान् सन्निबद्ध्य ॥ १०.९.२॥
(*``वियति कलशान् पूरयामासुरुच्चैः ॥ '' इति पाठान्तरम् ।)
नेमुर्लोका नभसि मुमुचुर्धूपसत्पुष्पवृष्टिं
दासानां धुर्युपरि च पुरा पादविक्रान्तभूमेः ।
पार्श्वद्वन्द्वेऽप्यनघमुनयोऽप्यत्र वर्धध्वमित्या-
गत्याऽग्रे सञ्जगुरयमिहाध्वेति वैकुण्ठभाजाम् ॥ १०.९.३॥
माध्वीपूर्णप्रसवतुलसीमौळिमन्माधवस्य
स्वीयानां धुर्युपगतसुरा विश्रमौकांसि तेनुः ।
तेजोवन्तस्फुटमनिमिषा दर्शयन्तः स्वहस्तान्
अत्यक्रामन् मुखरमुरजा वीचिमत्सिन्धुघोषम् ॥ १०.९.४॥
एते स्वीया इति पथि गता माधवस्येति देवेष्-
वप्यायाताः प्रविशत मम स्थानमित्यर्थिषूच्चैः ।
गीताः सूच्चैः कुशलगरुडैः किन्नराश्चाप्यगायन्
वेदश्लाघ्याननबुधगणा यागमन्तस्समर्प्य ॥ १०.९.५॥
अन्तर्मुक्ते सवनजफले सौरभोद्गन्धिधूपैः
सर्वत्रासन् दिविमुखरिताः काहलाश्शङ्खमिश्राः ।
कान्त्या कान्तेक्षणयुवतयः मङ्गलानि प्रमोदात्
पेठुः स्वर्गाद्यवत भुवनं चक्रिदासा इतीत्थम् ॥ १०.९.६॥
देवीष्वेवं सवसु मरुतो मङ्गलाशासनौत्का-
स्वन्वेतास्संस्तुतिमरचयन् शायिनः केशवस्य ।
निम्नेऽब्धौ द्युत्मणिमकुटवत्कुम्भघोणेशितुर्मे
गोपालस्यास्वकुलभवनं दासभावं गतानाम् ॥ १०.९.७॥
गोविन्दस्यान्वयसरणितो दासभूता इतीमे
प्रत्युद्गच्छत्यनघमकुटे स्वस्वदेशेऽमरौघे ।
उच्चैः दीव्यद्-ध्वजवरणवत् गोपुरं चाभियाताः
वैकुण्ठं श्रीसुभगवपुषो माधवस्य प्रवेष्टुम् ॥ १०.९.८॥
वैकुण्ठेऽस्मिन्नमरनिवहा गोपुरस्थाः प्रविष्टे
वैकुण्ठीयाः प्रविशत पदं स्वामिनो ! नोऽस्मदीयम् ।
वैकुण्ठस्था दधति मुनयस्सूरयो विस्मयं ``श्री -
वैकुण्ठाप्तिः प्रकृतिजनुषां भाग्य''मेवेत्यपूर्वम् ॥ १०.९.९॥
अस्मद्भाग्यात् परममविशन्तेति सद्वेदवेद्याः
स्वीये स्थाने क्रममजहतः क्षालयामासुरङ्घ्रिम् ।
श्रीमच्चूर्णं निधिमपि घटं तीर्थपूर्णं प्रदीपं
पूर्णेन्द्वास्यास्सुरयुवतयोऽभ्येत्य दधुः कराग्रे ॥ १०.९.१०॥
(द्रमिडोपनिषत्तात्पर्यरत्नावली श्लोकः)
स्वामित्वात् श्रीशनारायण इति यशसा विक्रमाद्विष्टपानां
श्रीमत्वाच्चक्रवत्वात् जलनिधिशयनाच्चापि गोविन्दभावात् ।
वैकुण्ठस्वामिभावादपि च निजजनानर्चिराद्याख्यगत्या
स्वं लोकं प्रापयेच्छ्रीपतिरिति कथयां श्रीशठारिर्बभूव ॥ १०.९.११॥
(प्रतिबिम्बलहरीश्लोकः)
तस्मिन् प्रत्युद्गतवति मणिश्रीमहामण्डपे सं-
वासप्राप्तौ निरवधिमहानन्ददासैस्सहैव ।
स्फायत्गुच्छोपवनकुरुकासच्छठद्विट्सहस्त्रे
छन्दोरूपे त्विह तु दशकाभ्यासिनस्स्युर्मुनीन्द्राः ॥
(इति दशमशतके नवमं दशकम्)
॥ अथ दशमशतके दशमं दशकम् ॥
प्रतिबिम्बलहरीवृत्तं - शार्दूलविक्रीडितं
एतद्दशकप्रतिपाद्यगुणविशेषः - मोक्षदत्वं मुक्तभोग्यत्वञ्च
॥ सङ्गतिमणिमाला ॥
(वसन्ततिलका)
अग्न्यादिमार्ग इति सप्रणयं स्वयात्रां
कृत्वा पदेऽथ परमे वसतिं समाधौ ।
दृष्ट्वाऽथ विच्युतिमवाप्य ततोऽतिखिन्नः
तं मोक्षदं नुवति मुक्तजनाभिभोग्यम् ॥
सृष्ट्यर्थं मनने स्थितास्थितचतुर्वक्त्र ! त्रिणेत्रोपकृत् !
मद्बिम्बाधरनीलनूतनमणे! पद्माक्ष ! मद्वञ्चक ! ।
पूर्णप्राण ! ममैककस्य शिरसोऽप्युच्चैरुपेत्य स्थितं
सम्मन्येऽहमितो न गन्तुमपि मा कार्षीस्स्वमायां मयि ॥ १०.१०.१॥
मा मा वञ्चय मालयेव भवतो वक्षस्थया पूर्णया
सौरभ्यावहरम्यकुन्तलभृता लक्ष्म्या त्वयाऽहं शपे ।
त्वं त्वा स्नेहमृते घृणां मम तवाप्यैक्येन चात्मापृथक्-
भावादङ्ग्यकरोः किलैत्य बत! मामाहूय च स्वीकुरु ॥ १०.१०.२॥
आदृत्याश्रितपद्मभूशिवसुरेन्द्राद्याखिलानां पुरा
बीजं नाभिसरोजकन्द परमस्थानां च तत्तादृशम् ।
एकालम्बनयष्टिमात्मविषये जाने न च त्वां विनो-
पेतो मे क्षतनीलरत्न ! बत! मामाहूय च स्वीकुरु ॥ १०.१०.३॥
ऊर्ध्वस्थोज्ज्वलशीतलप्रकृतितन्मध्यस्थवर्यः त्वमे-
वाहो! खोज्वलतेजसि त्वमिह सन् ब्रह्मा हरस्त्वं सह ।
उत्कृष्टैरमरैरनादिसकलस्रष्टा मुनिस्त्वं स मे
भारे वोद्वृतया विचिन्त्य किमु मां संसारचारेऽक्षिपः ॥ १०.१०.४॥
त्वत्तो मां त्वमपोह्य चिन्तयसि चेत् गन्तुं बहिस्तर्ह्यहं
कं वाऽश्रित्य किमत्र हन्त किमहं वाच्यं मदीयं च किम् ।
शान्त्यै तप्यदयस्सुपीतजलवत् श्लाघ्यात्मनाऽऽतृप्ति मां-
पातुं मे पिबतोऽप्यतृप्तिजनकापूर्वामृतीभूत! मे ॥ १०.१०.५॥
स्वक्ष्माभादतसीद्युतेऽब्जनयन ! श्रीरक्तबिबाधर !
त्वद्योग्यात्मवपुर्गुणाब्जनिलयस्त्रीप्रेमवन्! स्नेह ! मे ।
भृत्वाऽतृप्तिकरामृतं मम मम प्राणान् स्वमप्यान्तरं
भुक्त्वा तृप्तियुतोऽन्वभूस्स्थिरमितोऽप्यच्छेदतो भुङ्क्ष्व माम् ॥ १०.१०.६॥
सौन्दर्योज्वलपङ्कजोदितवधूस्नेहाधिकस्नेह ! मे
पार्श्वस्थेन्दुकलाद्वयोत्थितमहानीलाचलश्रीजुषा ।
स्वामिन्नेकलसद्वराहवपुषा दंष्ट्रा गृहीतक्षम !
त्वां लब्ध्वाऽपि कथं त्यजानि मथितानीलार्णवेतः परं ? ॥ १०.१०.७॥
त्वां लब्ध्वा किमिति त्यजेयमसमं प्राणं महान्तं मम
श्लिष्टात्म द्विविधं च कर्म फलभुक् चात्मा फलं तच्च सन् ।
कृत्स्नैतत्त्रिजगन्महागहनरूप्येतत् प्रविष्टश्च सन्
कृत्स्नं व्याप्य च लीनवन्! जगदुपादानप्रधानैक ! मे ॥ १०.१०.८॥
कृत्स्नैतत्त्रिजगत्प्रभृत्यखिलवस्त्वेकाद्युपादानमा-
द्येकं त्वाऽसदृशं कदा सविधतस्त्वामेव भोक्ष्याम्यहम् ।
तत्राऽत्रासम ! कृत्स्न ! सर्वग ! महामूलप्रकृत्याकृते !
मूलातुल्य! समस्तगाऽऽतत विशन् उद्यन्ननन्ताप्यहो ! ॥ १०.१०.९॥
सर्वार्थस्थतताधऊर्ध्वगमहानन्तप्रकृत्याकृते!
तद्व्याप्याऽपि ततो महोच्चविकसत्सद्ज्ञानमुक्ताकृते ! ।
तद्व्याप्याऽपि ततो महोज्ज्वलितमत्यानन्ददिव्याकृते !
तद्वयाप्याऽपि ततोऽतिशायिमदभीष्टावाप्तये माऽवृणोः ॥ १०.१०.१०॥
(द्रमिडोपनिषत्तात्पर्यरत्नावली श्लोकाः)
ब्रह्मेशान्तःप्रवेशात् जलनिधिसुतया सन्निरोद्धव्यभावात्
दिव्यश्रीविग्रहत्वात् अखिलतनुतयाऽतृप्तपीयूषभावात् ।
पद्माबन्धुत्वभूम्युद्धरणकरणतः पुण्यपापेशितृत्वात्
मुक्तेर्दाताऽनुभाव्यो हरिरिति शठजिद्दर्शयन् मुक्तिमाप ॥
एवं स्वानां गतिं व्यध्वजदुरितहरास्थानशङ्कार्हरागं
सुप्रापं भक्तिभाजां बहुविधभजनप्रक्रियं श्रीशठारिः ।
तीव्रोद्योगं स्वदाने स्वजनतनुकृतात्यादरं प्राह चान्ते
स्वेच्छातुष्टं सुखार्चिर्मुखसरणिमुखं मोक्षदं मुक्तभोग्यम् ॥ १०.१०.११॥
॥ निगमनम् ॥
इत्थं सेव्यं सुभोग्यं शुभसुभगतनुं सर्वभोग्यप्रकृष्ठं
श्रेयस्तद्धेतुभूतं प्रपदनसुलभं स्वाश्रितानिष्टजिष्णुम् ।
भक्तच्छन्दानुरक्तं निरुपधिसुहृदं सत्पदव्यां सहायं
श्रीशं प्राह स्वसिद्धेः स्वयमिह करणं स्वप्रबन्धे शठारिः ॥ १॥
आद्ये स्वीयप्रबन्धे शठजिदभिदधे संसृतेर्दुस्सहत्वं
द्वैतीयीके स्वरूपाद्यखिलमथ हरेरन्वभूत् स्पष्टदृष्टम् ।
तार्तीयके स्वकीयां भगवदनुभवे स्फोरयामास तीव्रां
आशां तुर्ये यथेष्टं भगवदनुभावादाप मुक्तिं शठारिः ॥ २॥
श्रीमान् सीमातिलङ्घिस्थिरतरकरुणः सर्ववित् सर्वशक्तिः
स्वामी सर्वस्य जन्तोः स्वचरणयुगळस्वीकृतास्माकभारः ।
किं नः कृत्यं स्वहेतोः किमिह न सुलभं का विपत्तिर्भवित्री
कस्यान्यस्याधमर्णा वयमिति विदुषामाह तुङ्गत्वमन्ते ॥ ३॥
शास्त्रे देहातिरिक्तात्मनि तदधिपतौ तत्प्रसादाद्युपाये
तस्मान्निःश्रेयसाप्तौ तदपचरणतोऽनन्ततापाभिघाते ।
तद्भक्तानां प्रभावे तदुपसदनतः स्वान्तकालुष्यशान्तौ
सारं वेद्यं स्ववेदे सकलमकथयत् सानुकम्पः शठारिः ॥ ४॥
इत्थं सत्सम्प्रदायक्रमसमधिगताशेषवर्णार्हेवेद-
श्रद्धाशुद्धाशयानामघटयदनघं कौतुकं वेङ्कटेशः ।
संयक्त्वे तस्य साक्षात् शठरिपुरथवा सर्वसाक्षी स साक्षी
सावद्यत्वेऽपि सोढुं प्रभवति भजतामप्रकम्प्यानुकम्पः ॥ ५॥
शोकः श्लोकत्वमभ्यागत इतिवदतः शुद्धबोधार्णवोद्य-
न्नानाकल्लोलनाथानुभवरसपरीवाहतः श्राव्यवेदात् ।
वेदान्ताचार्यकश्रीबहुमतबहुविद्वेङ्कटेशोद्धृतेयं
रम्या तात्पर्यरत्नावलिरनघगुणा रञ्जनी रङ्गभर्तुः ॥ ६॥
(प्रतिबिम्बलहरी श्लोकः)
आक्रुश्याजहराकृतिं हरिमिह प्रह्वानमौत्कण्ठ्यसं-
शान्त्यै मुक्तसमुत्कतास्तकुरुकाराजच्छठारीरितम् ।
अन्ताद्युक्तमिदं सहस्रमिति सम्पूर्णं महोत्कण्ठया
त्वन्ताद्युत्कदशोदिता अधिगता जाता इहैवोत्तमाः ॥
(इति दशमशतके दशमं दशकम्)
॥ इति दशमशतकं समाप्तम् ॥
॥ इति श्रीप्रतिबिम्बलहरी सम्पूर्णा ॥
॥ श्रीमते वेङ्कटशेषार्यमहादेशिकाय नमः ॥
॥ श्रीमते रामानुजाय नमः
॥ श्रीमते वेङ्कटशेषार्यमहादेशिकाय नमः ॥
Proofread by Aruna Narayanan