श्रीश्रीप्रेमधामदेवस्तोत्रम्

श्रीश्रीप्रेमधामदेवस्तोत्रम्

देव-सिद्ध-मुक्त-युक्त-भक्त-वृन्द-वन्दितं पाप-ताप-दाव-दाह-दग्ध-दुःख-खण्डितम् । कृष्ण-नाम-सीधु-धाम-धन्य-दान-सागरं प्रेम-धाम-देवमेव नौमि गौर-सुन्दरम् ॥ १॥ स्वर्ण-कोटि-दर्पणाभ-देह-वर्ण-गौरवं पद्म-पारिजात-गन्ध-वन्दिताङ्ग-सौरभम् । कोटि-काम-मूर्च्छिताङ्घ्रि-रूप-रास-रङ्गरं प्रेम-धाम-देवमेव नौमि गौर-सुन्दरम् ॥ २॥ प्रेम-नाम-दान-जन्य-पञ्च-तत्त्वकात्मकं साङ्ग-दिव्य-पार्षदास्त्र-वैभवावतारकम् । श्याम-गौर-नाम-गान-नृत्य-मत्त-नागरं प्रेम-धाम-देवमेव नौमि गौर-सुन्दरम् ॥ ३॥ शान्ति-पुर्यधीश-कल्यधर्म-दुःख-दुःसहं जीव-दुःख-हान-भक्त-सौख्यदान-विग्रहम् । कल्यघौघ-नाश-कृष्ण-नाम-सीधु-सञ्चरं प्रेम-धाम-देवमेव नौमि गौर-सुन्दरम् ॥ ४॥ द्वीप-नव्य-गाङ्ग-बङ्ग-जन्म-कर्म-दर्शितं श्रीनिवास-वास-धन्य-नाम-रास-हर्षितम् । श्री हरिप्रियेश-पूज्यधी-शची-पुरन्दरं प्रेम-धाम-देवमेव नौमि गौर-सुन्दरम् ॥ ५॥ श्री शची-दुलाल-बाल्य-बाल-सङ्ग-चन्चलं आकुमार-सर्व-शास्त्र-दक्ष-तर्क-मङ्गलम् । छात्र-सङ्ग-रङ्ग-दिग्जिगीषु-दर्प-संहरं प्रेम-धाम-देवमेव नौमि गौर-सुन्दरम् ॥ ६॥ वर्ज्य-पात्र-सारमेय-सर्प-सङ्ग-खेलनं स्कन्ध-वाहि-चौर-तीर्थ-विप्र-चित्र-लीलनम् । कृष्ण-नाम-मात्र-बाल्य-कोप-शान्ति सौकरं प्रेम-धाम-देवमेव नौमि गौर-सुन्दरम् ॥ ७॥ स्नान-गाङ्ग-वारि-बाल-सङ्ग-रङ्ग-खेलनं बालिकादि-पारिहास्य-भङ्गि-बाल्य-लीलनम् । कूत-तर्क-छात्र-शिक्षकादि-वाद-तत्परं प्रेम-धाम-देवमेव नौमि गौर-सुन्दरम् ॥ ८॥ श्री निमै-पण्डितेति-नाम-देश-वन्दितं नव्य-तर्क-दक्ष-लक्ष-दम्भि-दम्भ-खण्डितम् । स्थापितार्थ-खण्ड-खण्ड-खण्डितार्थ-सम्भरं प्रेम-धाम-देवमेव नौमि गौर-सुन्दरम् ॥ ९॥ श्लोक-गाङ्ग-वन्दनार्थ-दिग्जिगीषु-भाषितं व्यत्यलङ्कृतादि-दोष-तर्कितार्थ-दूषितम् । ध्वस्त-युक्ति-रुद्ध-बुद्धि-दत्त-धीमदादरं प्रेम-धाम-देवमेव नौमि गौर-सुन्दरम् ॥ १०॥ सूत्र-वृत्ति-टिप्पनीष्ट-सूक्ष्म-वाचनाद्भुतं धातु-मात्र-कृष्ण-शक्ति-सर्व-विश्व-सम्भृतम् । रुद्ध-बुद्धि-पण्डितौघ-नान्य-युक्ति-निर्धरं प्रेम-धाम-देवमेव नौमि गौर-सुन्दरम् ॥ ११॥ कृष्ण-दृष्टि-पात-हेतु-शव्दकार्थ-योजनं स्फोट-वाद-श‍ृङ्खलैक-भित्ति-कृष्ण-बीक्षणम् । स्थूल-सूक्ष्म-मूल-लक्ष्य-कृष्ण-सौख्य-सम्भरं प्रेम-धाम-देवमेव नौमि गौर-सुन्दरम् ॥ १२॥ प्रेम-रङ्ग-पाठ-भङ्ग-छात्र-काकु-कातरं छात्र-सङ्ग-हस्त-ताल-कीर्तनाद्य-सञ्चरम् । कृष्ण-नाम-सीधु-सिन्धु-मग्न-दिक्-चराचरं प्रेम-धाम-देवमेव नौमि गौर-सुन्दरम् ॥ १३॥ आर्य-धर्म-पाल-लब्ध-दीक्ष-कृष्ण-कीर्तनं लक्ष-लक्ष-भक्त-गीत-वाद्य-दिव्य-नर्तनम् । धर्म-कर्म-नाश-दस्यु-दुष्ट-दुष्कृटोद्धरं प्रेम-धाम-देवमेव नौमि गौर-सुन्दरम् ॥ १४॥ म्लेच्छ-राज-नाम-बाध-भक्त-भीति-भञ्जनं लक्ष-लक्ष-दीप-नैश-कोटि-कण्ठ-कीर्तनम् । श्री-मृदङ्ग-ताल-वाद्य-नृत्य-काजि-निस्तरं प्रेम-धाम-देवमेव नौमि गौर-सुन्दरम् ॥ १५॥ लक्ष-लोचनाश्रु-वर्ष-हर्ष-केश-कर्तनं कोटि-कण्ठ-कृष्ण-कीर्तनाध्य-दण्ड-धारनम् । न्यासि-वेश-सर्व-देश-हा-हुताश-कातरं प्रेम-धाम-देवमेव नौमि गौर-सुन्दरम् ॥ १६॥ श्री-यतीश-भक्त-वेश-राढ-देश-चारनं कृष्ण-चैतन्याख्य-कृष्ण-नाम-जीव-तारनम् । भाव-विभ्रमात्म-मत्त-धावमान-भूधरं प्रेम-धाम-देवमेव नौमि गौर-सुन्दरम् ॥ १७॥ श्री-गदाधरादि-नित्यानन्द-सङ्ग-वर्धनं अद्वयाख्य-भक्त-मुख्य-वाञ्छितार्थ-साधनम् । क्षेत्रवास-साभिलाष-मातृतोष-तत्परं प्रेम-धाम-देवमेव नौमि गौर-सुन्दरम् ॥ १८॥ न्यासिराज-नील-शैल-वास-सार्वभौमपं दाक्षिनात्य-तीर्थ-जात-भक्त-कल्प-पादपम् । राम-मेघ-राग-भक्ति-वृष्ति-शक्ति-सञ्चरं प्रेम-धाम-देवमेव नौमि गौर-सुन्दरम् ॥ १९॥ ध्वस्त-सार्वभौम-वाद-नव्य-तर्क-शाङ्करं ध्वस्त-तद्विवर्त-वाद-दानवीय-डम्वरम् । दर्शितार्थ-सर्व-शास्त्र-कृष्ण-भक्ति-मन्दिरं प्रेम-धाम-देवमेव नौमि गौर-सुन्दरम् ॥ २०॥ प्रेम-धाम-दिव्य-दीर्घ-देह-देव-नन्दितं हेम-कञ्ज-पुञ्ज-निन्दि-कान्ति-चन्द्र-वन्दितम् । नाम-गान-नृत्य-नव्य-दिव्य-भाव-मन्दिरं प्रेम-धाम-देवमेव नौमि गौर-सुन्दरम् ॥ २१॥ कृष्ण-कृष्ण-कृष्ण-कृष्ण-कृष्ण-नाम-कीर्तनं राम-राम-गान-रम्य-दिव्य-छन्द-नर्तनम् । यत्र-तत्र-कृष्ण-नाम-दान-लोक-निस्तरं प्रेम-धाम-देवमेव नौमि गौर-सुन्दरम् ॥ २२॥ गोदवर्य-वाम-तीर-रामानन्द-संवदं ज्ञान-कर्म-मुक्त-मर्म-राग-भक्ति-सम्पदम् । पारकीय-कान्त-कृष्ण-भाव-सेवनाकरं प्रेम-धाम-देवमेव नौमि गौर-सुन्दरम् ॥ २३॥ दास्य-सख्य-वात्स्य-कान्त-सेवनोत्तरोत्तरं श्रेष्ठ-पारकीय-राधिकाङ्घ्रि-भक्ति-सुन्दरम् । श्रीव्रज-स्वसिद्ध-दिव्य-काम-कृष्ण-तत्परं प्रेम-धाम-देवमेव नौमि गौर-सुन्दरम् ॥ २४॥ शान्त-मुक्त-भृत्य-तृप्त-मित्र-मत्त-दर्शितं स्निग्ध-मुग्ध-शिष्ट-मिष्ट-सुष्ठ-कुण्ठ-हर्षितम् । तन्त्र-मुक्त-वाम्य-राग-सर्व-सेवनोत्तरं प्रेम-धाम-देवमेव नौमि गौर-सुन्दरम् ॥ २५॥ आत्म-नव्य-तत्त्व-दिव्य-राय-भाग्य-दर्शितं श्याम-गोप-राधिकाप्त-कोक्त-गुप्त-चेष्टितम् । मुर्च्छिताङ्घ्रि-रामराय-बोधितात्म-किङ्करं प्रेम-धाम-देवमेव नौमि गौर-सुन्दरम् ॥ २६॥ नष्ट-कुष्ठ-कूर्म-विप्र-रूप-भक्ति-तोषणम् आमदास-विप्र-मोह-मुक्त-भक्त-पोषणम् । काल-कृष्ण-दास-मुक्त-भट्टथारि-पिञ्जरं प्रेम-धाम देवमेव नौमि गौर-सुन्दरम् ॥ २७॥ रङ्गनाथ-भट्ट-भक्ति-तुष्ट-भङ्गि-भाशणं लक्ष्म्यगम्य-कृष्ण-रास-गोपिकैक-पोषणम् । लक्ष्म्यभीष्ट-कृष्ण-शीर्ष-साध्य-साधनाकरं प्रेम-धाम-देवमेव नौमि गौर-सुन्दरम् ॥ २८॥ ब्रह्म-संहिताख्य-कृष्ण-भक्ति-शास्त्र-दायकं कृष्ण-कर्ण-सीधु-नाम-कृष्ण-काव्य-गायकम् । श्रीप्रतापरुद्र-राज-शीर्ष-सेव्य-मन्दिरं प्रेम-धाम-देवमेव नौमि गौर-सुन्दरम् ॥ २९॥ श्रीरथाग्र-भक्त-गीत-दिव्य-नर्त्तनाद्भुतं यात्रि-पात्र-मित्र-रुद्रराज-हृच्-चमत्कृतम् । गुण्डिचागमादि-तत्त्व-रूप-काव्य-सञ्चरं प्रेम-धाम-देवमेव नौमि गौर-सुन्दरम् ॥ ३०॥ प्रेम-मुग्ध-रुद्र-राज-शौर्य-विर्य-विक्रमं प्रार्थिताङ्घ्रि-वर्जितान्य-सर्व-धर्म-सङ्गमम् । लुण्ठित-प्रताप-शीर्ष-पाद-धूलि-धूसरं प्रेम-धाम-देवमेव नौमि गौर-सुन्दरम् ॥ ३१॥ दाक्षिनात्य-सुप्रसिद्ध-पण्डितौघ-पूजितं श्रेष्ठ-राज-राजपात्र-शीर्ष-भक्ति-भूषितम् । देश-मातृ-शेष-दर्शनार्थि-गौर-गोचरं प्रेम-धाम-देवमेव नौमि गौर-सुन्दरम् ॥ ३२॥ गौर-गर्वि-सर्व-गौड-गौरबार्थ-सज्जितं शाष्त्र-शाष्त्र-दक्ष-दुष्ट-नास्तिकादि-लज्जितम् । मुह्यमान-मातृकादि-देह-जीव-सञ्चरं प्रेम-धाम-देवमेव नौमि गौर-सुन्दरम् ॥ ३३॥ न्यास-पञ्च-वर्ष-पूर्ण-जन्म-भूमि-दर्शनं कोटि-कोटि-लोक-लुब्ध-मुग्ध-दृष्टि-कर्षणम् । कोटि-कण्ठ-कृष्ण-नाम-घोष-भेदिताम्बरं प्रेम-धाम-देवमेव नौमि गौर-सुन्दरम् ॥ ३४॥ आर्त-भक्त-शोक-शान्ति-तापि-पापि-पावनं लक्ष-कोटि-लोक-सङ्ग-कृष्ण-धाम-धावनम् । राम-केलि-साग्रजात-रूप-कर्षणादरं प्रेम-धाम-देवमेव नौमि गौर-सुन्दरम् ॥ ३५॥ व्याघ्र-वारणैन-वन्य-जन्तु-कृष्ण-गायकं प्रेम-नृत्य-भाव-मत्त-झाडखण्ड-नायकम् । दुर्ग-वन्य-मार्ग-भट्ट-मात्र-सङ्ग-सौकरं प्रेम-धाम-देवमेव नौमि गौर-सुन्दरम् ॥ ३६॥ गाङ्ग-यामुनादि-बिन्दु-माधवादि-माननं माथुरार्त्त-चित्त-यामुनाग्र-भाग-धावनम् । स्मारित-व्रजाति-तीव्र-विप्रलम्भ-कातरं प्रेम-धाम-देवमेव नौमि गौर-सुन्दरम् ॥ ३७॥ माधवेन्द्र-विप्रलम्भ-माथुरेष्ट-माननं प्रेम-धाम-दृष्टकाम-पूर्व-कुञ्ज-काननम् । गोकुलादि-गोष्ठ-गोप-गोपिका-प्रियङ्करं प्रेम-धाम-देवमेव नौमि गौर-सुन्दरम् ॥ ३८॥ प्रेम-गुञ्जनालि-पुञ्ज-पुष्प-पुञ्ज-रञ्जितं गीत-नृत्य-दक्ष-पक्षि-वृक्ष-लक्ष-वन्दितम् । गो-वृषादि-नाद-दीप्त-पूर्व-मोद-मेदुरं प्रेम-धाम-देवमेव नौमि गौर-सुन्दरम् ॥ ३९॥ प्रेम-बुद्ध-रुद्ध-बुद्धि-मत्त-नृत्य-कीर्त्तनं प्लाविताश्रु-काञ्चनाङ्ग-वास-चातुरङ्गनम् । कृष्ण-कृष्ण-राव-भाव-हास्य-लास्य-भास्वरं प्रेम-धाम-देवमेव नौमि गौर-सुन्दरम् ॥ ४०॥ प्रेम-मुग्ध-नृत्य-कीर्त्तनाकुलारिटान्तिकं स्नान-धन्य-वारि-धान्य-भूमि-कुण्ड-देशकम् । प्रेम-कुण्ड-राधिकाख्य-शास्त्र-वन्दनादरं प्रेम-धाम-देवमेव नौमि गौर-सुन्दरम् ॥ ४१॥ तिन्तिडी-तलस्थ-यामुनोर्म्मि-भावनाप्लुतं निर्जनैक-राधिकात्म-भाव-वैभवावृतम् । श्याम-राधिकाप्त-गौर-तत्त्व-भित्तिकाकरं प्रेम-धाम-देवमेव नौमि गौर-सुन्दरम् ॥ ४२॥ शारिका-शुकोक्ति-कौतुकाढ्य-लास्य-लापितं राधिका-व्यतीत-कामदेव-काम-मोहितम् । प्रेम-वश्य-कृष्ण-भाव-भक्त-हृच्-चमत्करं प्रेम-धाम-देवमेव नौमि गौर-सुन्दरम् ॥ ४३॥ श्री-प्रयाग-धाम-रूप-राग-भक्ति-सञ्चरं श्री-सनातनादि-काशि-भक्ति-शिक्षणादरम् । वैष्णवानुरोध-भेद-निर्विशेष-पञ्जरं प्रेम-धाम-देवमेव नौमि गौर-सुन्दरम् ॥ ४४॥ न्यासि-लक्ष-नायक-प्रकाशानन्द-तारकं न्यासि-राशि-काशि-वासि-कृष्ण-नाम-पारकम् । व्यास-नारदादि-दत्त-वेदधी-धुरन्धरं प्रेम-धाम-देवमेव नौमि गौर-सुन्दरम् ॥ ४५॥ ब्रह्म-सूत्र-भाष्य-कृष्ण-नारदोपदेशकं श्लोक-तुर्य-भाषणान्त-कृष्ण-सम्प्रकाशकम् । शब्द-वर्त्तनान्त-हेतु-नाम-जीव-निस्तरं प्रेम-धाम-देवमेव नौमि गौर-सुन्दरम् ॥ ४६॥ आत्म-राम-वाचनादि-निर्विशेष-खण्डनं श्रौत-वाक्य-सार्थकैक-चिद्विलास-मण्डनम् । दिव्य-कृष्ण-विग्रहादि-गौण-बुद्धि-धिक्करं प्रेम-धाम-देवमेव नौमि गौर-सुन्दरम् ॥ ४७॥ ब्रह्म-पारमात्म्य-लक्षणाद्वयैक-वाचनं श्री-व्रज-स्वसिद्ध-नन्द-लील-नन्द-नन्दनम् । श्री-रस-स्वरूप-रास-लील-गोप-सुन्दरं प्रेम-धाम-देवमेव नौमि गौर-सुन्दरम् ॥ ४८॥ राधिका-विनोद-मात्र-तत्त्व-लक्षणान्वयं साधु-सङ्ग-कृष्ण-नाम-साधनैक-निश्चयम् । प्रेम-सेवनैक-मात्र-साध्य-कृष्ण-तत्परं प्रेम-धाम-देवमेव नौमि गौर-सुन्दरम् ॥ ४९॥ आत्म-राम-वाचनैक-षष्टिकार्थ-दर्शितं रुद्र-संख्य-शब्द-जात-यद्-यद्-अर्थ-सम्भृतम् । सर्व-सर्व-युक्त-तत्-तद्-अर्थ-भुरिदाकरं प्रेम-धाम-देवमेव नौमि गौर-सुन्दरम् ॥ ५०॥ श्री सनातनानु-रूप-जीव-सम्प्रदायकं लुप्त-तीर्थ-शुद्ध-भक्ति-शास्त्र-सुप्रचारकम् । नील-शैल-नाथ-पीठ-नैज-कार्य-सौकरं प्रेम-धाम-देवमेव नौमि गौर-सुन्दरम् ॥ ५१॥ त्याग-बाह्य-भोग-बुद्धि-तीव्र-दण्ड-निन्दनं राय-शुद्ध-कृष्ण-काम-सेवनाभि-नन्दनम् । राय-राग-सेवनोक्त-भाग्य-कोटि-दुष्करं प्रेम-धाम-देवमेव नौमि गौर-सुन्दरम् ॥ ५२॥ श्री-प्रयाग-भट्ट-वल्लभैक-निष्ठ-सेवनं नील-शैल-भट्ट-दत्त-राग-मार्ग-राधनम् । श्री गदाधरार्पिताधिकार-मन्त्र-माधुरं प्रेम-धाम-देवमेव नौमि गौर-सुन्दरम् ॥ ५३॥ श्री-स्वरूप-राय-सङ्ग-गाम्भिरान्त्य-लीलनं द्वादशाब्द-वह्नि-गर्भ-विप्रलम्भ-शीलनम् । राधिकाधिरूढ-भाव-कान्ति-कृष्ण-कुञ्जरं प्रेम-धाम-देवमेव नौमि गौर-सुन्दरम् ॥ ५४॥ श्री-स्वरूप-कण्ठ-लग्न-माथुर-प्रलापकं राधिकानु-वेदनार्त्त-तीव्र-विप्रलम्भकम् । स्वप्नवत्-समाधि-दृष्ट-दिव्य-वर्णनातुरं प्रेम-धाम-देवमेव नौमि गौर-सुन्दरम् ॥ ५५॥ सात्विकादि-भाव-चिह्न-देह-दिव्य-सौष्ठवं कूर्म-धर्म-भिन्न-सन्धि-गात्र-पुष्प-पेलवम् । ह्रस्व-दीर्घ-पद्म-गन्ध-रक्त-पीत-पाण्डुरं प्रेम-धाम-देवमेव नौमि गौर-सुन्दरम् ॥ ५६॥ तीव्र-विप्रलम्भ-मुग्ध-मन्दिराग्र-धावितं कूर्म-रूप-दिव्य-गन्ध-लुब्ध-धेनु-वेष्टितम् । वर्णितालि-कूल-कृष्ण-केलि-शैल-कन्दरं प्रेम-धाम-देवमेव नौमि गौर-सुन्दरम् ॥ ५७॥ इन्दु-सिन्धु-नृत्य-दीप्त-कृष्ण-केलि-मोहितं ऊर्मि-शीर्ष-सुप्त-देह-वात-रङ्ग-वाहितम् । यामुनालि-कृष्ण-केलि-मग्न-सौख्य-सागरं प्रेम-धाम-देवमेव नौमि गौर-सुन्दरम् ॥ ५८॥ रात्रि-शेष-सौम्य-वेश-शायितार्द्र-सैकतं भिन्न-सन्धि-दीर्घ-देह-पेलवाति-दैवतम् । श्रान्त-भक्त-चक्रतीर्थ-हृष्ट-दृष्टि-गोचरं प्रेम-धाम-देवमेव नौमि गौर-सुन्दरम् ॥ ५९॥ आर्त्त-भक्त-कण्ठ-कृष्ण-नाम-कर्ण-हृद्गतं लग्न-सन्धि-सुष्ठु-देह-सर्व-पूर्व-सम्मतम् । अर्ध-बाह्य-भाव-कृष्ण-केलि-वर्णनातुरं प्रेम-धाम-देवमेव नौमि गौर-सुन्दरम् ॥ ६०॥ यामुनाम्बु-कृष्ण-राधिकालि-केलि-मण्डलं व्यक्त-गुप्त-दृप्त-तृप्त-भङ्गि-मादनाकुलम् । गूढ-दिव्य-मर्म-मोद-मूर्च्छना-चमत्करं प्रेम-धाम-देवमेव नौमि गौर-सुन्दरम् ॥ ६१॥ आस्य-घर्षणादि-चाटकाद्रि-सिन्धु-लीलनं भक्त-मर्म-भेदि-तीव्र-दुःख-सौक्य-खेलनम् । अत्यचिन्त्य-दिव्य-वैभवाश्रितैक-शङ्करं प्रेम-धाम-देवमेव नौमि गौर-सुन्दरम् ॥ ६२॥ श्रोत्र-नेत्र-गत्यतीत-बोध-रोधिताद्भुतं प्रेम-लभ्य-भाव-सिद्ध-चेतना-चमत्कृतम् । ब्रह्म-शम्भु-वेद-तन्त्र-मृग्य-सत्य-सुन्दरं प्रेम-धाम-देवमेव नौमि गौर-सुन्दरम् ॥ ६३॥ विप्र-शूद्र-विज्ष-मूर्ख-यावनादि-नामदं वित्त-विक्रमोच्च-नीच-सज्जनैक-सम्पदम् । स्त्री-पुमादि-निर्विवाद-सार्ववादिकोद्धरं प्रेम-धाम-देवमेव नौमि गौर-सुन्दरम् ॥ ६४॥ सिन्धु-सून्य-वेद-चन्द्र-शाक-कुम्भ-पूर्णिमा सान्ध्य-चान्द्रकोपराग-जात-गौर-चन्द्रमा । स्नान-दान-कृष्ण-नाम-सङ्ग-तत्-परात्परं प्रेम-धाम-देवमेव नौमि गौर-सुन्दरम् ॥ ६५॥ आत्म-सिद्ध-सावलील-पूर्ण-सौख्य-लक्षणं स्वानुभाव-मत्त-नृत्य-कीर्त्तनात्म-वण्टनम् । अद्वयैक-लक्ष्य-पूर्ण-तत्त्व-तत्-परात्परं प्रेम-धाम-देवमेव नौमि गौर-सुन्दरम् ॥ ६६॥ श्री-पुरीश्वरानुकम्पि-लब्ध-दीक्ष-दैवतं केशवाख्य-भारती-सकाश-केश-रक्षितम् । माधवानुधी-किशोर-कृष्ण-सेवनादरं प्रेम-धाम-देवमेव नौमि गौर-सुन्दरम् ॥ ६७॥ सिन्धु-बिन्दु-वेद-चन्द्र-शाक-फाल्गुनोदितं न्यास-सोम-नेत्र-वेद-चन्द्र-शाक-बोधितम् । वाण-वाण-वेद-चन्द्र-शाक-लोचनान्तरं प्रेम-धाम-देवमेव नौमि गौर-सुन्दरम् ॥ ६८॥ श्री-स्वरूप-राय-सङ्ग-हर्ष-शेष-घोषणं शिक्षणाष्टकाख्य-कृष्ण-कीर्त्तनैक-पोषणम् । प्रेम-नाम-मात्र-विश्व-जीवनैक-सम्भरं प्रेम-धाम-देवमेव नौमिगौर-सुन्दरम् ॥ ६९॥ प्रेम हेम-देव देहि-दासरेष मन्यतां क्षम्यतां महापराध-राशिरेष-गण्यताम् । रूप-किङ्करेषु रामानन्द-दास-सम्भरं प्रेम-धाम-देवमेव नौमि गौर-सुन्दरम् ॥ ७०॥ । पञ्चमे शत-गौराब्दे श्री-सिद्धान्त-सरस्वती श्रीधरः कोऽपि तच्छिष्यस्त्रिदण्डी-नौति-सुन्दरम् ॥ ७१॥ सश्रद्धः सप्त-दशकं प्रेम-धामेति-नामकम् । स्तवं कोऽपि पठन् गौरं राधा-श्याम-मयं व्रजेत् ॥ ७२॥ इति विष्णुपाद-श्रील-भक्तिरक्षक-श्रीधर-देवगोस्वामि-विरचितं श्रीश्रीप्रेमधामदेवस्तोत्रं सम्पूर्णम् ।
% Text title            : Prema Dhama Deva Stotram
% File name             : premadhAmadevastotram.itx
% itxtitle              : premadhAmadevastotram (shrIdharadevagosvAmivirachitam devasiddhamuktayuktabhaktavRindavanditam)
% engtitle              : premadhAmadevastotram
% Category              : vishhnu, krishna
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : Shridhara Goswami
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Indexextra            : (Hindi, English)
% Latest update         : November 17, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org