$1
प्रेमेन्दुसागरस्तोत्रम्
$1

प्रेमेन्दुसागरस्तोत्रम्

श्रीप्रेमेन्दुसागरसंज्ञकश्रीकृष्णाष्टोत्तरशतनाममालिका । कलहान्तरितावृत्ता काचिद् वल्लवसुन्दरी । विरहोत्तापखिन्नाङ्गी सखीं सोत्कण्ठमब्रवीत् ॥ १॥ हन्त गौरि स किं गन्ता पन्थानं मम नेत्रयोः । श्रीकृष्णः करुणासिन्धुः कृष्णो गोकुलवल्लभः ॥ २॥ गोविन्दः परमानन्दो नन्दमन्दिरमङ्गलम् । यशोदाखनिमाणिक्यं गोपेन्द्राम्भोधिचन्द्रमाः ॥ ३॥ नवाम्भोधरसंरम्भविडम्बिरुचिडम्बरः । क्षिप्तहाटकशौटीर्यपट्टपीताम्बरावृतः ॥ ४॥ कन्दर्परूपसन्दर्पहारिपादनखद्युतिः । ध्वजाम्भोरुहदम्भोलि यवाङ्कुशलसत्पदः ॥ ५॥ पदपञ्जरसिञ्जानमञ्जुमञ्जीरखञ्जनः । मसारसम्पुटाकारधारि जानुयुगोज्ज्वलः ॥ ६॥ शौण्डस्तम्बेरमोद्दण्डशुण्डारम्योरुसौष्ठवः । मणिकिङ्किणिसङ्कीर्णविशङ्कटकटिस्थलः ॥ ७॥ मध्यमाधुर्यविध्वस्तदिव्यसिंहमदोद्धतिः । गारुत्मतगिरिग्रावगरिष्ठोरस्तटान्तरः ॥ ८॥ कम्बुकण्ठस्थलालम्बिमणिसम्राड् अलङ्कृतिः । आखण्डलमणिस्तम्भस्पर्धिदोर्दण्डचण्डिमा ॥ ९॥ खण्डिताखण्डकोटीन्दुसौन्दर्यमुखमण्डलः । लावण्यलहरीसिन्धुः सिन्दूरतुलिताधरः ॥ १०॥ फुल्लारविन्दसौन्दर्य कन्दलीतुन्दिलेक्षणः । गण्डान्तताण्डवक्रीडाहिण्डन्मकरकुण्डलः ॥ ११॥ नवीनयौवनारम्भजृम्भितोज्ज्वलविग्रहः । अपाङ्गतुङ्गितानङ्गकोटिकोदण्डविक्रमः ॥ १२॥ सुधानिर्यासमाधुर्यधुरीणोदारभाषितः । सान्द्रवृन्दाटवीकुञ्जकन्दरागन्धसिन्धुरः ॥ १३॥ धन्यगोवर्धनोत्तुङ्गश‍ृङ्गोत्सङ्गनवाम्बुधः । कलिन्दनन्दिनीकेलिकल्याणकलहंसकः ॥ १४॥ नन्दीश्वरधृतानन्दो भाण्डीरतटताण्डवी । शङ्खचूडहरः क्रीदागेण्डूकृतगिरीश्वरः ॥ १५॥ वारीन्द्रार्बुधगम्भीरः पारीन्द्रार्बुदविक्रमी । रोहिणीनन्दनानन्दी श्रीदामोद्दामसौहृदः ॥ १६॥ सुबलप्रेमदयितः सुहृदां हृदयङ्गमः । नन्दव्रजजनानन्दसन्दीपनमहाव्रती ॥ १७॥ श‍ृङ्गिनीसङ्घसङ्ग्राहिवेणुसङ्गीतमण्डलः । उत्तुङ्गपुङ्गवारब्धसङ्गरासङ्गकौतुकी ॥ १८॥ विस्फुरद्वन्यश‍ृङ्गारः श‍ृङ्गाराभीष्टदैवतम् । उदञ्चत्पिञ्छविञ्छोलीलाञ्छितोज्ज्वलविग्रहः ॥ १९॥ सञ्चरच्चञ्चरीकालिपञ्चवर्णस्रगञ्चितः । सुरङ्गरङ्गणस्वर्णयूथिग्रथितमेखलः ॥ २०॥ धातुचित्रविचित्राङ्गलावण्यलहरीभरः । गुञ्जापुञ्जकृताकल्पः केलितल्पितपल्लवः ॥ २१॥ वपुरामोदमाध्वीकवर्धितप्रमदामदः । वृन्दावनारविन्दाक्षीवृन्दकन्दर्पदीपनः ॥ २२॥ मीनाङ्कसङ्कुलाभीरीकुचकुङ्कुमपङ्किलः । मुखेन्दुमाधुरीधारारुद्धसाध्वीविलोचनः ॥ २३॥ कुमारीपटलुण्ठाकः प्रौढनर्मोक्तिकर्मठः । अमन्दमुग्धवैदग्धीदिग्धराधासुधाम्बुधि ॥ २४॥ चारुचन्द्रावलीबुद्धिकौमुदीशरदागमः । धीरलालित्यलक्ष्मीवान् कन्दर्पानन्दबन्धुरः ॥ २५॥ चन्द्रावलीचकोरेन्द्रो राधिकामाधवीमधुः । ललिताकेलिललितो विशाखोडुनिशाकरः ॥ २६॥ पद्मावदनपद्मालिः शैव्यासेव्यपदाम्बुजः । भद्राहृदयनिद्रालुः श्यामलाकामलालसः ॥ २७॥ लोकोत्तरचमत्कारलीलामञ्जरिनिष्कुटः । प्रेमसम्पदयस्कान्तकान्तकृतकृष्णायसव्रतः ॥ २८॥ मुरलीचौरगौराङ्गीकुचकञ्चुकलुञ्चनः । राधाभिसारसर्वस्वः स्फारनागरतागुरुः ॥ २९॥ राधानर्मोक्तिशुश्रूषावीरुन्नीरुद्धविग्रहः । कदम्बमञ्जरीहारिराधिकारोधनोद्धुरः ॥ ३०॥ कुडुङ्गक्रोडसङ्गूढराधासङ्गमरङ्गवान् । क्रीडोड्डामरधीराधाताडङ्कोत्पलताडितः ॥ ३१॥ अनङ्गसङ्गरोद्गारिक्षुण्णकुङ्कुमकङ्कटः । त्रिभङ्गिलङ्गिमाकारो वेणुसङ्गमिताधरः ॥ ३२॥ वेणुविस्तृतगान्धर्वसारसन्दर्भसौष्ठवः । गोपीयूथसहस्रेन्द्रः सान्द्ररासरसोन्मदः ॥ ३३॥ स्मरपञ्चशरीकोटिक्षोभकारिदृगञ्चलः । चण्डांशुनन्दिनीतीरमण्डलारब्धताण्डवः ॥ ३४॥ वृषभानुसुताभृङ्गीकामधुक्कमलाकरः । गूढाकूतपरीहासराधिकाजनितस्मितः ॥ ३५॥ नारीवेशनिगूढात्मा व्यूढचित्तचमत्कृतिः । कर्पूरालम्बिताम्बूलकरम्बितमुखाम्बुजः ॥ ३६॥ मानिचन्द्रावलीदूतीकॢप्तसन्धानकौशलः । छद्मघट्टतटीरुद्धराधाभ्रूकुटिघट्टितः ॥ ३७॥ दक्षराधासखीहासव्याजोपालम्भलज्जितः । मूर्तिमद्वल्लवीप्रेमा क्षेमानन्दरसाकृतिः ॥ ३८॥ अभिसारोल्लसद्भद्राकिङ्किणीनिनदोन्मुखः । वाससज्जीभवत्पद्माप्रेक्ष्यमाणाग्रपद्धतिः ॥ ३९॥ उत्कण्ठितार्तललितावितर्कपदवीं गतः । विप्रलब्धविशाखोरुविलापभरवर्धनः ॥ ४०॥ कलहान्तरिताश्यामामृग्यमाणमुखेक्षणः । खण्डितोच्चण्डधीशैव्यारोषोक्तिरसिकान्तरः ॥ ४१॥ विश्लेषविक्लवच्चन्द्रावलीसन्देशनन्दितः । स्वाधीनभर्तृकोत्फुल्लराधामण्डनपण्डितः ॥ ४२॥ चुम्बवेणुग्लहद्युतिजयिराधाधृताञ्चलः । राधाप्रेमरसावर्तविभ्रमभ्रमितान्तरः ॥ ४३॥ इत्येषोन्मत्तधीः प्रेम्ना शंसन्ती कंसमर्दनम् । स्फुरन्तं पुरतः प्रेक्ष्य प्रौढानन्दोत्सवं ययौ ॥ ४४॥ प्रेमेन्दुसागराख्येऽस्मिन्नाम्नामष्टोत्तरे शते । विगाहयन्तु विबुधाः प्रीत्या रसनमन्दरम् ॥ ४५॥ इति श्रीरूपगोस्वामिविरचितस्तवमालायां प्रेमेन्दुसागरस्तोत्रं अथवा श्रीकृष्णाष्टोत्तरशतनामं सम्पूर्णम् ।
$1
% Text title            : premendusAgarastotram
% File name             : premendusAgarastotram.itx
% itxtitle              : premendusAgarastotram athavA shrIkRiShNAShTottarashatanAmam (rUpagosvAmivirachitam)
% engtitle              : premendusAgarastotram
% Category              : vishhnu, krishna, rUpagosvAmin, stavamAlA, aShTottarashatanAma
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : Rupagoswami
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Jan Brzezinski (Jagadananda Das) jankbrz at yahoo.com and Neal Delmonico (Nitai Das) ndelmonico at sbcglobal.net
% Description/comments  : From stavamAlA (rUpagosvAmivirachitA) Garland of Devotional Prayers stavamAlA
% Indexextra            : (Scan, Bengali, Meaning 1, 2, Info)
% Acknowledge-Permission: https://grantha.jiva.org Gaudiya Grantha Mandira
% Latest update         : February 22, 2019
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org