पुण्डरीकाम्बरीषकृतं पुरुषोत्तमस्तोत्रम् ४
त्रिः परिक्रम्य तं कृष्णनारायणं कृताञ्जली ।
तुष्टुवाते मुहुस्तौ च हृदयस्थं दृशोश्चरम् ॥ ३३॥
आवां कामार्थलुब्धौ च पापमात्राभिचारिणौ ।
ऋषीणां कृपया चात्र शरणं ते ह्युपागतौ ॥ ३४॥
अनुकम्पय नौ नाथ सुदीनौ शरणागतौ ।
मूढौ दुष्कृतकर्माणौ पतितौ भवसागरे ॥ ३५॥
कोऽन्यस्त्वत्सदृशो बन्धुर्महाभयनिवारकः ।
स्वार्थशून्यः परार्थैकध्येयोऽनाथपतिः प्रभुः ॥ ३६॥
नारायणेति त्वन्नाम चतुर्वर्गैकसाधनम् ।
``ॐ नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा'' ॥ ३७॥
मन्त्रस्ते मोक्षदश्चातिपापिनां पावकोऽस्ति हि ।
जप्तो भवान् परं पारं प्रापयत्येव तेन हि ॥ ३८॥
तन्नौ प्रसीद देवेश दृढां भक्तिं प्रदेहि नौ ।
घोराद्दुस्तरखाताच्च समुत्तारय केशव ॥ ३९॥
इन्द्रियाणि मनो बुद्धिस्तव मूर्तौ वसन्तु नः ।
आत्मा संस्कारसहितश्चार्पितस्तव पादयोः ॥ ४०॥
प्रसीद देव सर्वात्मन्नसङ्ख्येयशिरोभुज ।
असङ्ख्यघ्राणनयनपाणिपाद नमोऽस्तु ते ॥ ४१॥
षङ्विंशस्त्वं चान्तरात्मन् निष्प्रपञ्चः प्रवर्तसे ।
चतुष्पुमर्थमूर्तिस्त्वं जगन्नाथ नमोऽस्तु ते ॥ ४२॥
त्वदाराधनया कृष्ण भवन्ति सर्वसिद्धयः ।
योगाभ्यासं विना चास्मै कृष्णाय ते नमो नमः ॥ ४३॥
भक्तिं दृढां प्रदेह्यावां नास्त्यन्यत्प्रार्थनीयकम् ।
यावत्प्राणान्धारयावस्तावद्भक्तिर्दृढा त्वयि ॥ ४४॥
ततः पारेऽपि ते भक्तिं देहि नारायणप्रभो ।
अगाधभवपङ्केऽत्र निमग्नयोः परायणम् ॥ ४५॥
दास्यं नाथ सदा देहि चानुकम्पय नौ विभो ।
इति स्तुवन्तौ तौ भक्तौ पेततुर्दण्डवत् क्षितौ ॥ ४६॥
प्रसीदेति वदन्तौ च मुहुश्चक्रतुर्दर्शनम् ।
दिव्यदृष्ट्या विलोक्यैवं नेमतुश्च मुहुर्मुहुः ॥ ४७॥
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने ५८३-अध्यायान्तर्गतं
पुण्डरीक-अम्बरीषकृतं पुरुषोत्तमस्तोत्रं सम्पूर्णम् ।
लक्ष्मीनारायणीयसंहिता । खण्ड १। अध्याय ५८३/३३-४७॥
lakShmInArAyaNIyasaMhitA . khaNDa 1. adhyAya 583/33-47..
Proofread by PSA Easwaran