पुण्डरीककृतं १ विष्णुस्तोत्रम्
पुण्डरीक उवाच ।
नमस्ते जगदाधार सर्गस्थित्यन्तकारण ।
नारायण नमस्तेऽस्तु परमात्मन्परायण ॥ २१॥
परमार्थस्त्वमेवैको भवाप्ययविवर्जितः ।
नित्यानन्दस्वरूपं त्वां विदन्ति ध्यानचक्षुषः ॥ २२॥
चिन्मात्रं जगतामीशमधिष्ठानं परात्परम् ।
कथं नु मूढहृदयास्त्वां जानन्ति सुनिर्मलम् ॥ २३॥
कामार्थलिप्सासम्भ्रातचेतसोऽत्यन्तदुःखिनः ।
गतागतपथे श्रान्ताः सुखभाजः कदाचन ॥ २४॥
अनुकम्पय मां नाथ सुदीनं शरणागतम् ।
मूढं दुष्कृतकर्माणं पतितं भवसागरे ॥ २५॥
कोऽन्यस्त्वत्सदृशो बन्धुर्ब्रह्माण्डे नाथ वर्त्तते ।
स्वकर्त्तव्यानपेक्षो यो दीनानाथदयालुकः ॥ २६॥
उच्चावचभ्रमाद्दुःखं जलयन्त्रघटीमिव ।
अजस्रमधिकर्त्तारं परित्राहि कृपाम्बुधे ॥ २७॥
योगक्षेमाभिसन्धाना ये मूढास्त्वामुपासते ।
लीलाविमुक्तिदं ते वै त्वन्मायापरिमोहिताः ॥ २८॥
नारायणेति त्वन्नाम कीर्तितं तु यदृच्छया ।
त्वत्तोऽधिकं जगन्नाथ चतुर्वर्गैकसाधनम् ॥ २९॥
त्वं तु तैस्तैः पृथग्यज्ञैस्तास्ताः सिद्धीः प्रयच्छसि ।
त्वमेकः शरणं नाथ पतितानां भवार्णवे ॥ २.५.३०॥
ज्ञाननौकासमारूढः करुणाक्षेपणीकरः ।
परं पारं प्रभो नेतुं संसाराब्धेर्विचेतनम् ॥ ३१॥
त्वमेक ईशिषे भक्त्यानन्यया परिचिन्तितः ।
येऽन्ये मुक्तिप्रदा देवाः शास्त्रेषु परिनिष्ठिताः ॥ ३२॥
दुःखाब्धिकुम्भयोनिं ते त्वद्भक्तिं प्रापयन्ति वै ॥ ३३॥
तन्मे प्रसीद भगवन्पदपङ्कजे ते
भक्तिं दृढां वितर नाथ भवाब्धिमुच्चैः ।
घोरं सुदुस्तरममुं हि यया तरेय-
मष्टाङ्गयोगजनितश्रमवर्जितोऽपि ॥ ३९३॥
धर्मार्थकामनिचयैः कुमतिप्रगृह्यैः
क्षुद्रैरमीभिरहिताल्पसुखैर्न कार्यम् ।
आज्ञापयाङ्घ्रिनलिनद्वयचिन्तनेऽद्य
सान्द्रानुवर्धितसुखार्णवमज्जनं मे ॥ ३५॥
इति श्रीस्कन्दपुराणे वैष्णवखण्डे पुरुषोत्तमजगन्नाथमाहात्म्ये
पञ्चमाध्यायान्तर्गतं पुण्डरीककृतं विष्णुस्तोत्रं समाप्तम् ।
स्कन्दपुराण । वैष्णवखण्ड । पुरुषोत्तमखण्ड । अध्याय ५/२१-२५॥
skandapurANa . vaiShNavakhaNDa . puruShottamakhaNDa . adhyAya 5/21-25..
Proofread by PSA Easwaran