श्रीपुरुषोत्तमाष्टकम्
दिव्यभूषणहेमनिर्मितभूषितं तुलसीप्रियं
टाहिआ-धरराजशेखरराजपूजितसुन्दरम् ।
विश्ववन्दितचक्रधारकघोषकारकवैभवं
नौमि तं पुरुषोत्तमं वरदायकं परमेश्वरम् ॥ १॥
गुण्डिचामखधारकं जनरञ्जनं रथहासिनं
नीलपर्वतनीलमाधवभक्ततारणदुर्लभम् ।
प्रेममिश्रितवारिशीतलचन्दनायितकेशवं
नौमि तं पुरुषोत्तमं वरदायकं परमेश्वरम् ॥ २॥
दारुदैवतसर्वसुन्दरवेशकारितकौशलं
श्रीमहाप्रभुरूपमोहक इन्दिराप्रियवल्लभम् ।
रत्नमण्डपपूज्यपूजकरूपरूपिणमीश्वरं
नौमि तं पुरुषोत्तमं वरदायकं परमेश्वरम् ॥ ३॥
वेणुवादकगोपनायकक्षीरसागरशायिनं
राघवं मधुसूदनं भज लक्ष्मणाग्रजधन्विनम् ।
शान्तिदायकबुद्धभास्वरजैनजीवनरक्षकं
नौमि तं पुरुषोत्तमं वरदायकं परमेश्वरम् ॥ ४॥
भोगकारक-अन्नखादकदिव्यजीवनयापिनं
धर्मरक्षकदुष्टनाशकशिष्टपालनकारितम् ।
क्षेत्रपूजितनेत्रमोहकनीरजाननमञ्जुलं
नौमि तं पुरुषोत्तमं वरदायकं परमेश्वरम् ॥ ५॥
नीलसागरतीरमन्दिरसज्जितं सुखसम्पदं
पूर्णकारणकार्यघोषितभेदबोधितभक्तिदम् ।
कूटवञ्चकचञ्चलाश्रितहारमण्डितकौस्तुभं
नौमि तं पुरुषोत्तमं वरदायकं परमेश्वरम् ॥ ६॥
दर्शनं नवयौवनं कलितं कलेवरधारिणं
कोटिभास्करदीप्तिधूपितदेवमानवदुर्लभम् ।
नन्दिघोषविहारकारणपार्थसारथिभाषिनं
नौमि तं पुरुषोत्तमं वरदायकं परमेश्वरम् ॥ ७॥
पापपङ्किललोकदण्डितनन्दतारकचञ्चलं
दासभाजनशोकनाशनखेदभेदनसौष्ठवम् ।
हे रमावर कृष्णनागरजानकीचरनिर्जरं
नौमि तं पुरुषोत्तमं वरदायकं परमेश्वरम् ॥ ८॥
इति श्रीप्रदीप्तनन्दशर्मविरचतं श्रीपुरुषोत्तमाष्टकं सम्पूर्णम् ।
Composed, encoded, proofread by Dr. Pradipta kumar Nanda, Kendrapara, Orisa pknanda65 at gmail.com