श्रीपुरुषोत्तमस्तोत्रम्
श्रीशाण्डिल्य उवाच -
आम्नायाभिगतानां च स्वाचार्याणां महात्मनाम् ।
स्तोत्रावलिं प्रवक्ष्यामि श्रेयसे भक्तये गुरोः ॥ १॥
निरञ्जनं नित्यमनन्तमाद्यं यन्नेति नेति श्रुतिसम्मतं च ।
तद्धाम दैवं परमं परेभ्यो वन्दे मुकुन्दं पुरुषोत्तमं तम् ॥ २॥
अणोरणीयान्महतो महीयान् दूरेऽप्यदूरे बहिरन्तरं च ।
विरुद्धधर्माश्रयमाप्तकामं वन्दे मुकुन्दं पुरुषोत्तमं तम् ॥ ३॥
परास्य शक्तिः सहजाः स्वभावाः छाया च मायाद्भुतकार्यकर्त्री ।
यद्विश्वमानन्दरसात्मरूपं वन्दे मुकुन्दं पुरुषोत्तमं तम् ॥ ४॥
रिरंसया यः परिपूर्णकामो निजात्मरूपामकरोत्स्वलीलाम् ।
नित्यामखण्डामगुणां गुणाढ्यां वन्दे मुकुन्दं पुरुषोत्तमं तम् ॥ ५॥
यो निर्गुणः प्राकृतसद्गुणश्च निजात्मकामोऽपि सदाप्तकामः ।
कामं द्विधासीबहुधा रमामि वन्दे मुकुन्दं पुरुषोत्तमं तम् ॥ ६॥
ऋषिस्वरूपैर्विविधैः स्वरूपैस्तपःप्रसिद्धैर्व्रजद्भृद्धधूनाम् ।
यूथैरसङ्ख्यै रमते स्वसिद्धैर्वन्दे मुकुन्दं पुरुषोत्तमं तम् ॥ ७॥
अकारणं कार्यकरी यदृच्छा विधाय तां दोषगुणैर्विमुक्तः ।
सृष्टिं विचित्रामवलोकते यो वन्दे मुकुन्दं पुरुषोत्तमं तम् ॥ ८॥
शुद्धं तथाद्वैतमनन्तरूपं जगत्स्वरूपेण च विद्धमेकम् ।
न चान्ययोगोऽत्र न सम्प्रयोगो वन्दे मुकुन्दं पुरुषोत्तमं तम् ॥ ९॥
स्तोत्रं यदेतत्पुरुषोत्तमस्य निरूपितं यद्धरणीधरेण ।
दधाति वाचि प्रशृणोति वा यः स याति देवं पुरुषोत्तमं तम् ॥ १०॥
इति श्रीशाण्डिल्यसंहितायां पञ्चमे भक्तिखण्डे एकादशोऽध्याये
श्रीपुरुषोत्तमस्तोत्रं सम्पूर्णम् ।
Proofread by Manish Gavkar