पुरुषोत्तमस्तोत्रम् १२
यः श्रीपरब्रह्म बृहत्परः पुमान्, सर्वावतारैश्च वृहत्प्रमुक्तकैः ।
ईशैश्च जीवैरभिवन्दितो हृदि,
बहिश्च सोऽव्यात्पुरुषोत्तमोऽत्र वः ॥ २०१॥
यो बालकृष्णो भुवि कम्भरासुतो,
गोपालकृष्णात्मजसर्ववल्लभः ।
सर्वात्मसृष्ट्यादिधृतावतारकः,
सर्वावतारी सततं प्ररक्षतात् ॥ २०२॥
इति श्रीलक्ष्मीनारायणीयसंहितायाः द्वापरयुगसन्तानात्मकस्य
पुरुषोत्तमस्तोत्रं सम्पूर्णम् ।
लक्ष्मीनारायणीयसंहिता । खण्ड ३। अध्याय २३७/२०१-२०२॥
lakShmInArAyaNIyasaMhitA . khaNDa 3. adhyAya 237/201-202..
Proofread by PSA Easwaran