श्रीराधाकृतं श्रीकृष्णनारायणस्तोत्रम्
श्रीराधिका उवाच ।
ॐ नमः श्रीपरब्रह्म परेश परमात्मने ।
अनादिश्रीकृष्णनारायणायाऽक्षरशासिने ॥ १॥
त्रेतासन्तानसत्पित्रे राधाकान्ताय योगिने ।
लक्ष्मीनारायणाय श्रीमाणिक्यावाहिने नमः ॥ २॥
स्वप्रभास्वामिने मञ्जुलालकायात्मवासिने ।
ईशापारवतीशाय नमः सगुणमूर्तये ॥ ३॥
हंसज्योतिस्वरूपाय शक्त्यैश्वर्यादिसम्भृते ।
कुङ्कुमवापिकाक्षेत्रप्रकटाय नमो नमः ॥ ४॥
सर्वधामाधिपेशाय नमोऽन्तर्यामिणे मुहुः ।
स्वर्गमोक्षादिदात्रे ते नमः श्रीहरये नमः ॥ ५॥
निरवधिसमैश्वर्यगुणवैभवशालिने ।
असङ्ख्यमुक्तसेव्यायाऽक्षराधिपतये नमः ॥ ६॥
एकोऽपि बहुधा दृष्टः कृष्णनारायणादिमान् ।
ईशेशान्यादिरूपश्च तस्मै श्रीस्वामिने नमः ॥ ७॥
परविद्याधिदेवाय ब्रह्मप्रियाऽधिशायिने ।
गीतोपनिषत्पतये जयन्तीपतये नमः ॥ ८॥
एकादशीप्रियायाराधनाकान्ताय शार्ङ्गिणे ।
महालक्ष्मीश्वरायापि भक्तीशाय नमो नमः ॥ ९॥
मुक्तेशाय रमेशाय गङ्गेशाय नमो नमः ।
पतिव्रताधिपतये रुक्मिणीशाय ते नमः ॥ १.१०॥
कामदुघाधिनाथस्त्वं पृथ्वीशस्त्वं रतीश्वरः ।
विभूतीशोऽसि संज्ञेशः शं करोतु प्रसेविनाम् ॥ ११॥
कमलाकान्त देवीश मोहिनीधव सिद्धिप ।
उर्वशीश्वर बुद्धीश पार्वतीश विधेहि शम् ॥ १२॥
दीक्षाधीश च लीलेश नारायणीपते प्रभो ।
विरजाकान्त भगवन् वृन्दानाथ विधेहि शम् ॥ १३॥
सरस्वतीप्रिय स्वर्णरेखाप्रिय सितापते ।
देविकेश्वर तुलसीविहार प्रविधेहि शम् ॥ १४॥
विभावर्यधिनाथस्त्वं मूर्तीश्वरो जयेश्वरः ।
गोमतीशो मौक्तिकेशो भवान् भवतु रुक्मदः ॥ १५॥
प्रेमसखीपते गोदावरीश कपिलेश्वर ।
धात्रीपते स्वर्णगौरीपते सर्वप्रदो भव ॥ १६॥
ललितेश्वर रम्भेश कुमुद्वतीपते प्रभो ।
शीतलाधिपते उमाकान्त विधेहि शं सदा ॥ १७॥
हेमन्तेश्वर नन्देश शान्तिस्वामिन् कलापते ।
नन्दिनीनाथ दुर्गेश विजयेश विधेहि शम् ॥ १८॥
सन्ध्याधिनाथ कस्तूरीप्रिय धन्याऽधिनायक ।
सावित्रीवर दोलाधिरोह पुष्पासुगन्धभाक् ॥ १९॥
सविताधिपते चित्रलेखेश्वर नमोऽस्तु ते ।
पूर्णिमाधिपते ब्रह्मन् शारदाकान्त माधव ॥ १.२०॥
मञ्जरीश्वर योगिनीचक्रकान्त विधेहि शम् ।
प्रेयसीश श्रेयसीश विकुण्ठेशाऽरुणापते ॥ २१॥
जोष्ट्रीश्वर शबरीश पम्पेश गालवीपते ।
याज्ञसेनीपते वसुमतीश विजयोऽस्तु ते ॥ २२॥
सुदुघानाथ च पद्मावतीपालक केशव ।
भार्गवीपाणिसङ्ग्राह पद्मिनीवर चाऽच्युत ॥ २३॥
श्रीमतीश जरत्कार्वीपते लीलावतीश्वर ।
कलावतीप्राणनाथ कदलीश जयोऽस्तु ते ॥ २४॥
कान्तिमतीपते कालिन्दीश रेवापते प्रभो ।
वर्धिनीश सुमित्रेश पुण्यनैधेयिकापते ॥ २५॥
बन्दुलेश सुशीलेश मानसेश जनार्दन ।
शर्मवतीश्वर कृष्ण माधवीश नमोऽस्तु ते ॥ २६॥
कर्णोत्पलेश दीर्घिकापतेऽक्षमालिकापते ।
उदुम्बरीपते ऋतम्भराधीश जयोऽस्तु ते ॥ २७॥
बदरीश च कुब्जेश हैमीश मङ्गलापते ।
महावेदीपते कृष्णापते त्वां चिन्तये हृदि ॥ २८॥
इति श्रीलक्ष्मीनारायणीयसंहिता । खण्ड २। अध्याय प्रथमाध्यायान्तर्गतं
श्रीराधाकृतं श्रीकृष्णनारायणस्तोत्रं सम्पूर्णम् ।
लक्ष्मीनारायणीयसंहिता । खण्ड २। अध्याय १/१-२८॥
lakShmInArAyaNIyasaMhitA . khaNDa 2. adhyAya 1/1-28..
Proofread by PSA Easwaran