राजा कन्थाधरकृतं श्रीकृष्णनारायणस्तोत्रम्
म्लेच्छता लयमापन्ना दिव्यप्रभा प्रवर्धिता ।
कन्थाधरो विमानस्थो सस्त्रीको देवताऽभवत् ॥ ८८॥
अनादिश्रीकृष्णनारायणं श्रीपुरुषोत्तमम् ।
तुष्टाव परया प्रीत्या विमानस्थोऽतिहर्षितः ॥ ८९॥
परब्रह्म परोद्धारकृपानुग्रहविग्रह ।
तव शिष्येण ऋषिणा तारितौ पापिनौ प्रभो ॥ ९०॥
पुत्रेण तारितौ चापि त्वयाऽपि तारितौ हरे ।
तोयैश्च तारितौ दुष्टौ परोपकृतिशालिभिः ॥ ९१॥
विप्रैश्च तारितौ घोरात्तमसोऽज्ञानवैभवात् ।
नारकी तारितौ कृष्णनारायण तवाश्रयात् ॥ ९२॥
परेश्वराय हृत्स्थाय विप्रस्थाय च ते नमः ।
स्वयम्प्रकाशरूपाय तीर्थात्मकाय ते नमः ॥ ९३॥
नमः शरण्यदेवाय पापिप्राणहिताय च ।
श्रितमोक्षाय बालाय बालकृष्णाय ते नमः ॥ ९४॥
त्वत्प्रतापात्तरन्त्येव यक्षराक्षसपन्नगाः ।
दैत्याश्च दानवा दुष्टा आसुरास्तामसास्तथा ॥ ९५॥
मायिका वासनायुक्ता गर्विष्ठाश्चाभिमानिनः ।
व्यवायिनः पिशितादाः स्तेना आसवपायिनः ॥ ९६॥
वर्णसङ्करकाराश्च गोस्त्रीहत्याकरास्तथा ।
त्वत्प्रतापात्तरन्त्येव कृपानुग्रहशेवधेः ॥ ९७॥
आवां च तारितौ यामस्तव धामाऽमृतं प्रभो ।
इत्युक्त्वा प्रणिपत्यैतौ पुत्र स्वस्ति तवाऽस्तु च ॥ ९८॥
दत्वाऽऽशिषो ययतुश्च लोमशस्याऽऽश्रमं प्रति ।
``ॐ नमः श्रीकृष्णनारायणाय पतये स्वाहा'' ॥ ९९॥
इतिमन्त्रं लोमशाच्च गृहीत्वा तुलसीस्रजम् ।
परमौ वैष्णवौ भूत्वा ययतुर्वैष्णवं पदम् ॥ १००॥
आश्चर्यं परमं प्राप्तास्तैर्थिकाश्च कुटुम्बिनः ।
यदत्र स्नानमात्रेण मुक्तिर्जाता हि शाश्वती ॥ १०१॥
अनादिश्रीकृष्णनारायणस्येयं दया परा ।
राधिके प्रबलेच्छा च करुणा प्रबला हरेः ॥ १०२॥
इति श्रीलक्ष्मीनारायणीयसंहिता । खण्ड २। अध्याय ४२-अध्यायान्तर्गतं
राजा कन्थाधरकृतं श्रीकृष्णनारायणस्तोत्रं सम्पूर्णम् ।
लक्ष्मीनारायणीयसंहिता । खण्ड २। अध्याय ४२/५३-१०२॥
lakShmInArAyaNIyasaMhitA . khaNDa 2. adhyAya 42/53-102..
Proofread by PSA Easwaran