राजा प्रजापालकृतं विष्णुस्तोत्रम्
राजा (प्रजापाल) उवाच ।
नमामि देवं जगतां च मूर्त्तिं गोपेन्द्रमिन्द्रानुजमप्रमेयम् ।
संसारचक्रक्रमणैकदक्षं क्षितीधरं देववरं नमामि ॥ १२॥
भवोदधौ दुःखशतोर्म्मिभीमे जरावर्त्ते कृष्णपातालमूले ।
तदन्तमेको दधते सुखं मे नमोऽस्तु ते गोपतिरप्रमेय ॥ १३॥
व्याध्यादियुक्तः पुरुषैर्ग्रहैश्च सङ्घट्टमानं पुनरेव देव ।
नमोऽस्तु ते युद्धरते महात्मा जनार्दनो गोपतिरुग्रबाहुः ॥ १४॥
त्वमुत्तमः सर्वविदां सुरेश त्वया ततं विश्वमिदं समस्तम् ।
गोपेन्द्र मां पाहि महानुभाव भवाद्भीतं तिग्मरथाङ्गपाणे ॥ १५॥
परोऽसि देव प्रवरः सुराणां पुंसः स्वरूपोऽसि शशिप्रकाशः ।
हुताशवक्त्राच्युत तीव्रभाव गोपेन्द्र मां पाहि भवे पतन्तम् ॥ १६॥
संसारचक्रक्रमणान्यनेकान्याविर्भवन्त्यच्युत देहिनां यत् ।
त्वन्मायया मोहितानां सुरेश कस्ते मायां तरते द्वन्द्वधामा ॥ १७॥
अगोत्रमस्पर्शमरूपगन्धमनामनिर्देशमजं वरेण्यम् ।
गोपेन्द्र त्वां यद्युपासन्ति धीरास्ते मुक्तिभाजो भवबन्धमुक्ताः ॥ १८॥
शब्दातिगं व्योमरूपं विमूर्त्तिं विकर्म्मिणां शुभभावं वरेण्यम् ।
चक्राब्जपाणिं तु तथोपचारादुक्तं पुराणे सततं नमामि ॥ १९॥
त्रिविक्रमं क्रान्तजगत्त्रयं च चतुर्मूर्त्तिं विश्वगतां क्षितीशम् ।
शम्भुं विभुं भूतपतिं सुरेशं नमाम्यहं विष्णुमनन्तमूर्त्तिम् ॥ २०॥
त्वं देव सर्वाणि चराचराणि सृजस्यथो संहरसे त्वमेव ।
मां मुक्तिकामं नय देव शीघ्रं यस्मिन् गता योगिनो नापयान्ति ॥ २१॥
जयस्व गोविन्द महानुभाव जयस्व विष्णो जय पद्मनाभ ।
जयस्व सर्वज्ञ जयाप्रमेय जयस्व विश्वेश्वर विश्वमूर्त्ते ॥ २२॥
इति वराहपुराणे षट्त्रिंशाध्यायान्तर्गतं
राजा प्रजापालकृतं विष्णुस्तोत्रं समाप्तम् ।
वराहपुराण । अध्याय ३६/१२-२२॥
varAhapurANa . adhyAya 36/12-22..
Proofread by PSA Easwaran