राजा पुण्यनिधिकृतं विष्णुस्तोत्रम्
राजा विष्णुस्तु विप्ररूपं तुष्टाव प्रेमविह्वलः ।
नमस्ते मे सुतानाथ! प्रसीद कमलापते ॥ ४६॥
विप्ररूप नमस्तुभ्यमपराधं क्षमस्व मे ।
नमस्ते पुण्डरीकाक्ष चक्रपाणे श्रियःपते ॥ ४७॥
नमः श्रीवत्सचिह्नाय नमः कौस्तुभधारिणे ।
पार्वतीपतये तुभ्यं लक्ष्मीशाय नमोनमः ॥ ४८॥
माणिकीपतये प्रभानाथाय विष्णवे नमः ।
श्रीनिवासाय श्रीकृष्णनारायणाय ते नमः ॥ ४९॥
पद्मेशाय पद्मावतीस्वामिने हरये नमः ।
पद्मिनीशाय कृष्णाय भार्गवीशाय ते नमः ॥ ५०॥
नारायणाय रामाय सीतायाः पतये नमः ।
सरस्वतीपतये ते गङ्गायाः स्वामिने नमः ॥ ५१॥
विरजायाः पतये ते श्रीदुर्गापतये नमः ।
मत्सुतापतये हंसामञ्जुलापतये नमः ॥ ५२॥
कृष्णविप्रात्मने तुभ्यं हृदन्तरात्मने नमः ।
दयामूर्ते नमस्तुभ्यं कम्भरापतये नमः ॥ ५३॥
नमो ध्वजधनुर्मत्स्यशूलहस्ताय ते नमः ।
स्वस्तिवरदहस्ताय कान्तरूपाय ते नमः ॥ ५४॥
मया निगडपाशाभ्यां बद्धस्त्वं परमेश्वर ।
अजानतस्ते भक्तस्य त्वपराधान् क्षमस्व मे ॥ ५५॥
एवं स्तुत्वा कृष्णनारायणं श्रीपुरुषोत्तमम् ।
पादयोः पतितः पश्चाल्लक्ष्मीं तुष्टाव वैष्णवीम् ॥ ५६॥
नमः कृपास्वरूपायै स्वलब्धायै नमो नमः ।
नमः सुतास्वरूपायै दिव्यदेव्यै नमो नमः ॥ ५७॥
गूढतन्व्यै कृष्णनारायणपत्न्यै च ते नमः ।
विष्णुवक्षोनिवासायै कमलायै नमो नमः ॥ ५८॥
राधायै च सरस्वत्यै पद्मिन्यै ते नमो नमः ।
दुर्गायै च महालक्ष्म्यै शारदायै च ते नमः ॥ ५९॥
गङ्गायै च तुलस्यै च वृन्दायै ते नमो नमः ।
पद्मावत्यै च भार्गव्यै कम्भरायै च ते नमः ॥ ६०॥
सिद्ध्यै पुष्ट्यै स्वधायै च स्वाहायै सततं नमः ।
दक्षिणायै मङ्गलायै पार्वत्यै च श्रियै नमः ॥ ६१॥
माणिक्यायै प्रभायै च ललितायै च ते नमः ।
जयायै जानकीदेव्यै द्रोपद्यै ते नमो नमः ॥ ६२॥
नारायण्यै च सन्ध्यायै षष्ठ्यै देव्यै नमो नमः ।
मातृकायै च कृष्णायै मञ्जुलायै नमो नमः ॥ ६३॥
श्रद्धामेधाभूतिधात्रीहंसाख्यायै च ते नमः ।
धरण्यै सर्वविद्यायै बुद्ध्यै गोप्यै नमो नमः ॥ ६४॥
प्रकृत्यै ते जगन्मातः पुत्र्यै भूयो नमो नमः ।
पुत्रीभावे मया चाधिक्षिप्तं वा शासनं कृतम् ॥ ६५॥
त्वङ्कारकरणं लक्ष्मि! क्षमस्व मम सर्वथा ।
लोका वां शिशवः सर्वे जगतां पितरौ युवाम् ॥ ६६॥
सुतापराधः क्षन्तव्यः पितृभ्यां च प्रसीदतम् ।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने ४३८-अध्यायान्तर्गतं
राजा पुण्यनिधिकृतं विष्णुस्तोत्रं सम्पूर्णम् ।
लक्ष्मीनारायणीयसंहिता । खण्ड १। अध्याय ४३८/४६-६६॥
lakShmInArAyaNIyasaMhitA . khaNDa 1. adhyAya 438/46-66..
Proofread by PSA Easwaran