राजा रैभ्यकृतं गदाधरस्तोत्रम्
रैभ्य उवाच ।
गदाधरं विबुधजनैरभिष्टुतं धृतक्षमं क्षुधितजनार्त्तिनाशनम् ।
शिवं विशालासुरसैन्यमर्दनं नमाम्यहं हतसकलाशुभं स्मृतौ ॥ २९॥
पुराणपूर्वं पुरुषं पुरुष्टुतं पुरातनं विमलमलं नृणां गतिम् ।
त्रिविक्रमं धृतधरणिं बलोर्जितं गदाधरं रहसि नमामि केशवम् ॥ ३०॥
सुशुद्धभावं विभवैरुपावृतं श्रियाऽऽवृतं विगतमलं विचक्षणम् ।
क्षितीश्वरैरपगतकिल्बिषैः स्तुतं गदाधरं प्रणमति यः सुखं वसेत् ॥ ३१॥
सुरासुरैरर्च्चितपादपङ्कजं केयूरहाराङ्गदमौलिधारिणम् ।
अब्धौ शयानं च रथाङ्गपाणिनं गदाधरं प्रणमति यः सुखं वसेत् ॥ ३२॥
सितं कृते त्रेतायुगेऽरुणं विभुं तथा तृतीये पीतवर्णमच्युतम् ।
कलौ घनालिप्रतिमं महेश्वरं गदाधरं प्रणमति यः सुखं वसेत् ॥ ३३॥
बीजोद्भवो यः सृजते चतुर्मुखस्तथैव नारायणरूपतो जगत् ।
प्रपालयेद्रुद्रवपुस्तथान्तकृद्गदाधरो जयतु षडर्द्धमूर्तिमान् ॥ ३४॥
सत्त्वं रजश्चैव तमोगुणास्त्रयस्त्वेतेषु नान्यस्य समुद्भवः किल ।
स चैक एव त्रिविधो गदाधरो दधातु धैर्यं मम धर्ममोक्षयोः ॥ ३५॥
संसारतोयार्णवदुःखतन्तुभिर्वियोगनक्रक्रमणैः सुभीषणैः ।
मज्जन्तमुच्चैः सुतरां महाप्लवे गदाधरो मामुदधातु पोतवत् ॥ ३६॥
स्वयं त्रिमूर्तिः स्वमिवात्मनाऽऽत्मनि स्वशक्तितश्चाण्डमिदं ससर्ज्ज ह ।
तस्मिञ्जलोत्थासनमार्यतेजसं ससर्ज्ज यस्तं प्रणतोऽस्मि भूधरम् ॥ ३७॥
मत्स्यादिनामानि जगत्सु केवलं सुरादिसंरक्षणतो वृषाकपिः ।
मुख्यस्वरूपेण समन्ततो विभुर्गदाधरो मे विदधातु सद्गतिम् ॥ ३८॥
इति वराहपुराणे सप्तमाध्यायान्तर्गतं राजा रैभ्यकृतं
गदाधरस्तोत्रं समाप्तम् ।
वराहपुराण । अध्याय ७/२९-३८॥
varAhapurANa . adhyAya 7/29-38..
Proofread by PSA Easwaran