श्रीराजगोपालस्तवः

श्रीराजगोपालस्तवः

श्रीराजगोपालमुखारविन्दं वन्दामहे मोहनमिन्दिरायाः । यदीयसन्दर्शननन्दितानां न मुक्तिलाभोदितमोदवाञ्छा ॥ १॥ वाञ्छाधिकानेकपुमर्थदान- दक्षोत्पलोल्लासिकटाक्षवीक्षम् । श्रीराजगोपालमुखामृतांशुं पश्येम शश्वद्भवतापनुत्यै ॥ २॥ नुतं श्रुतीनां ततिभिस्तताभि- स्तथानविच्छिन्नमियत्तयापि । श्रीराजगोपाल तवानुभाव- मज्ञः कथं स्तोतुमलं भवामि ॥ ३॥ भवन्ति लोकाः सकला विचित्रा- स्त्वदेकदेशाश्चिदचिद्विशिष्ट । श्रीराजगोपाल तव स्वरूपं ततो विचित्र प्रवदन्ति सन्तः ॥ ४॥ सन्तस्तुवन्तीश तवानुभावं अन्त(र्मु)स्सुखाः सन्ततयुक्तचित्ताः । तापत्रयार्तो विषयानुवृत्त- चित्तः कथं स्तोतुमहं प्रवृत्तः ॥ ५॥ प्रवृत्त एव स्वयमेव वक्तुं पादाम्बुजद्वन्द्वसमाश्रितानाम् । विस्रम्भसम्पद्विरहादिहाहं त्वां रक्ष रक्षेति कदर्थयामि ॥ ६॥ missing in the manuscript तदर्थतत्तत्पुरुषार्थदान- गुणप्रदानेन हितायसि त्वम् ॥ ७॥ त्वमेक एवासि परं निधान- मध्यक्षितं भक्तिभराजिताक्षैः । विश्वेश शश्वद्बहुशः स्मृतीनां विश्रान्तिभूमिश्च तथा श्रुतीनाम् ॥ ८॥ श्रुतिस्तु सत्त्वोत्तरशास्त्रमासीत् भवांश्च सत्चैकगुणः पुराणः । एवं स्थिते त्वत्र कथं नुतः स्या आकर्षणं चैव बलाद्धटेद ॥ १॥ तत्त्वप्रकाशो विशयं श्रुतीनां विष्वङ्मुखीनामबहुश्रुतेभ्यः । ``वेदैश्च सर्वैरहमेव वेद्यः'' इत्येवकारेण निराचकर्थ ॥ १०॥ चकर्थ गीतां यदि वत्सल त्वं त्वमेव विष्णुर्यदि कृष्णरूपः । गीता च मानं यदि तत्त्वसिद्धौ कुतोऽन्यतोऽस्मत्पदवाच्यता स्यात् ॥ ११॥ स्याद्धि प्रमाणं भगवन्नचाल्यं नाम्नां सहस्रं बहुभिः किमन्यैः । जगत्प्रभुं देवमिति प्रकृत्य त्वमेवमित्यस्य कृतोत्तरत्वात् ॥ १२॥ दत्तोत्तरो विष्णुपुराणरत्न- गतैर्वचोभिर्विचिकित्सितांशः । विष्णोः सकाशादिति यान्यवोचं सामान्यतः प्रश्नमुपर्यसक्तम् ॥ १३॥ असक्तचित्तैः परतत्त्वविद्या- निष्ठैरनुष्ठानपरैरनेकैः । नानादिशास्थैः परतत्त्वरूपं व्यचार्यहो विष्णुपुराणमानैः ॥ १४॥ मानेषु या यत्प्रतिकूलितार्था सा न स्मृतिः शस्यत इत्युदीर्णा । मनुस्मृतिः कर्मसमर्च्यमाह नारायणं त्वां पुरुषं परं च ॥ १५॥ चकास्ति यत्सूत्रसमूह एवं सर्वात्मन्ना तत्त्वबुभुत्सुसेव्यः । योऽसौ महाभारतवेदमादौ नारायणस्यैव कथां जगाद ॥ १६॥ दयालुनालोड्य समस्तशास्त्रं नारायणध्येयतमत्वमुक्त्वा । भुजं समृद्धृत्य मुनीन्द्रवृन्दे त्रिः सत्यमित्याह समानमेये ॥ १७॥ ये त्वन्यदेवाभ्यधिकत्वमूचुः केचित् प्रबन्धाः प्रति कल्प मान्याः । रजस्तमःस्पृष्टचतुर्मुखेन समीरिता इत्यवधीरितास्ते ॥ १८॥ तेनेह मानानि विचार्य सम्यक् प्रामाणिकाः सत्त्वगुणोत्तरास्त्वाम् । श्रीराजगोपाल परं पुमांसं वदन्ति सन्तो जगदेकहेतुम् ॥ १९॥ हेतुत्वमन्यत्र कथं घटेत संवर्तसिन्धौ सकले विलीने । कृत्स्नैः सिसृक्षाकृतयोगनिद्रे त्वयि प्रमाणैरभिधीयमाने ॥ २०॥ नेतस्त्वदीयाखिलकारणत्वे- नातः परं मानमवेक्षणीयम् । यन्नारशब्दाभिहितेषु मुख्य- स्त्वन्नाभिपद्मादुद्भूत स्वयम्भूः ॥ २१॥ भूदेवगुप्त्यै यदवातरस्त्वं सञ्जायमानो बहुधादिदेव । तेनैव केचित्तव भूम्न्यसीम्नि सिद्धान्ततामानशिरे सशङ्काः ॥ २२॥ शङ्का कृता वा यदजो भवन्न- प्यात्मेच्छयैवावतरामि जन्म । कर्माविदित्यं मम वेत्तुरेव जन्मापि न स्यादिति गायसि त्वम् ॥ २३॥ त्वदीयकल्याणगुणाकरत्वं श्रुतं रमेशा missing चलन्ति केचित् । कचित् missing in the manuscript missing in the manuscript ॥ २४॥ प्रत्यक्षमुख्याखिलमानवेद्यम् । कृत्स्नं च मिथ्येत्यभिधाय मेयं ये निर्विशेषं च वदन्ति वेधम् ॥ २५॥ वेद्यं सदक्षैरपि निर्विकल्प इदन्तयासक्तिमुपैति लिङ्गम् । व्याप्तिं पुरस्कृत्य तथोपमानं साम्यं च मेयं गमयत्यदृष्टम् ॥ २६॥ दृष्टा हि शब्दस्य च शक्तिधर्म- पुरस्कृतिर्लक्षणया पदानि । सर्वाण्यपि स्वार्थविबोधकानी- त्युदीरणं है परिहासयोग्यम् ॥ २७॥ योग्ये च शब्दे परिकल्प्य शक्ति- मन्यत्र सर्वत्र पदे पदज्ञाः । सम्बन्धयुक्तेऽनुपपत्तिमेव दृष्टा श्रयन्तीश्वरलक्षणं च ॥ २८॥ चञ्चत्प्रकृत्यर्थमुपर्युदञ्चत् स्वप्रत्ययार्थत्वविशेषवाचाम् । चयः पदानां निजतत्तदर्थ- भेदोदिताकाङ्क्षकमन्वियाय ॥ २९॥ यात्येवमर्थानुसृतिं विहाय सम्बन्धसिद्धावपि लक्षणां च । अलक्षिते लक्षणयाभिधेये पर्यायभावं वद वाक्यजातम् ॥ ३०॥ तन्मुच्यतां वाचकताप्रकार- विचारणा ब्रह्म सलक्षणं च । जन्मादिना किं नु विशेष्यमिष्ट- मुतोपलक्ष्यं सगुणं द्विधापि ॥ ३१॥ पिनद्धमेकेन विशेषणेन गृहादि काकाद्युपलक्षणीयम् । अतो बृहत्त्वादिविशिष्टमेव ब्रह्मोपलक्ष्यं न तु निर्विशेषम् ॥ ३२॥ विशेषमालम्ब्य मनोऽप्युपास्तौ प्रवर्तते ध्येयगतं हि कञ्चित् । तथैव विद्याश्च परा गृणन्ति ततो भवद्भव्यगुणा न मिथ्या ॥ ३३॥ मिथ्यागुणोपासनतो यदि स्यात् उपासनानिर्वचनीयतत्त्वे । है शुक्तिरूप्याधिगमाद्भवेयुः समाधिभाजो भुवि सर्व एव ॥ ३४॥ एवं भगो श्रेष्ठगुणानुबद्धं त्वां निर्गुणं हेयगुणैरशून्यम् । श्रुत्यां वदन्त्यां त्रितयाविरोधात् सामान्यतो योऽपि विशेषसक्तः ॥ ३५॥ सक्तो गुणैर्हेयगुणैरसक्तो भवान् रमेशोभयलिङ्गयुक्तः । अद्रेश्यमव्यक्तमिति प्रवाद्य प्रत्यक्षितार्थातिविलक्षणत्वात् ॥ ३६॥ त्वमेव जीवं प्रलपन्त्यभेद- वादादविद्यान्धमुपाधिभिन्नम् । प्रकाशमात्रस्य सतस्तिरोधिः स्वरूपनाशादिभयान्निरस्यः ॥ ३७॥ स्यादप्यवच्छिन्नमुपाधिपक्षे ब्रह्मानवच्छिन्नमतो द्वयं च । अयुक्तमेतच्चिदचिच्छरीर- स्त्वमेक एवासि विभूतिमांश्च ॥ ३८॥ चमत्कृतिः सा किल दर्शनीया यन्मायिनोऽसत्यगिरैव सर्वम् । समर्थयन्ते व्यवहारसत्यं है शुक्तिरूप्यं च ततः किमासीत् ॥ ३९॥ आसीरहेयो भगवंस्त्वमुक्तः पराशराद्यैः परतत्त्वविद्भिः । ᳚समस्तकल्याणगुणात्मकोऽसौ᳚ इत्यादिभिर्वाक्यशतैर्गुणाढ्यः ॥ ४०॥ आढ्यो विभूत्या परया गुणैश्च लक्ष्मीमहीभ्यामभिसेव्यमानः । पादारविन्दानतसूरिवृन्द चक्रादिदिव्यायुधचूथधारी ॥ ४१॥ रिरक्षिषासक्तमनोमनोज्ञ- वपुः किरीटादिमनू पुरान्तैः । विभूषणैर्भूषित ईश शेषं वैकुण्ठलोके त्वमलङ्करोषि ॥ ४२॥ करोषि दुग्धाम्बुनिधौ रमेश शेषे शयालुः सनकादिसेव्यः । तापत्रयोपप्लवतप्तचित्त- चतुर्मुखाभ्यर्थनयावतारान् ॥ ४३॥ अवातरस्त्वं प्रथमं विधीश- मध्ये स्वयं विष्णुसमाह .. । ॥ missing in the manuscript ... तनोषि रक्षाम् ॥ ४४॥ रक्षन् हि वेदापहृतेर्विरिञ्चि भवान् महापातकतस्त्रिणेत्रम् । प्रद्युम्नसङ्कर्षणरूपतस्तौ कृत्येष्वधिष्ठाय करोति शक्तौ ॥ ४५॥ शक्तिः कुतः स्यात् त्रिदिवाधिराज्ये पुरन्दरस्य त्वमुपेन्द्ररूपः । साचिव्यकारी यदि तस्य नासि नासीररक्षाकरणैकदक्षः ॥ ४६॥ क्षयार्णवे देव चराचराणि सर्वाणि नापि प्रणिधाय धृत्वा । दंष्ट्रैकदेशेन मनोज्ञमीनो मनोस्तनोषि स्म हितोपदेशम् ॥ ४७॥ शं साधुबन्धो मथने पयोधेः सुधार्थमभ्यर्थनया सुराणाम् । पृष्ठप्रदेशोद्धृतमन्थशैलः कूर्मस्वरूपः समधाः सुधाजम् ॥ ४८॥ जन्तूनिमग्नान प्रलयाम्बुराशौ विलोक्य लोकेशमहावराहः । भूत्वा .. .. भूरिदयोद्दधार (दयापूरित उद्दधार) धरां स्वदंष्ट्रामुखतः सखेलम् ॥ ४९॥ खेलग्नवल्गत्सटमट्टहास- स्फुटद्विषन्निष्ठुरधृष्टभावः । सैंह व्यधात् संहननं महत्ते प्रह्लादमन्वर्थसमाह्वयं हि ॥ ५०॥ हितं वितन्वन् द्विषते हि याच्ञां विधाय वेधःकरधौतपादः । पादाम्बुजस्यन्दिमरन्दधारा- शङ्कादगङ्गामकरोस्त्रिलोक्यै ॥ ५१॥ लोकक्षयोद्युक्त लिप्तकृत्स्न- क्षत्रक्षयाय सृजो जकृत्याम् । परश्वथाग्नौ रुधिरह्रदे च कृताहुतिः कल्पिततर्पणस्त्वम् ॥ ५२॥ त्वमीशवंशं मिहिरस्य सीता- मनो मुनीनामुटजाटविं च । क्रमेण सुग्रीवविभीषणर्द्धि- मलञ्चकर्थादिकवेर्वचांसि ॥ ५३॥ सितायुतक्षीरतुला ललास हलास्त्रहेलानवमञ्जरीभिः । लीलालता सा किल माधवस्य समेधिता गोपविलासिनीभिः ॥ ५४॥ भिन्नाञ्जनश्यामतनुं मनोज्ञं सशङ्खचक्राग्रचतुर्भुजाढ्यम्म् । पीताम्बरं कौस्तुभभूषितं त्वां तुष्टाव देवक्यवलोक्य सूनुम् ॥ ५५॥ स्तुवन्नमन् स्वं वसुदेव आत्म- जातं परं त्वामभिवीक्ष्य साक्षात् । संसारनिस्तारमयाचमानः कंसादहिंसां तव याचते स्म ॥ ५६॥ स्मरन्ति सन्तोऽप्यनघं भवन्तं स्वस्रीयमात्मान्तकरं निशम्य । कंसो निहन्तुं चकमेऽनघं त्व- मघातयश्रित्रमिदं स्वसारम् ॥ ५७॥ सारं स्वकं दर्शयितुं यदीह हन्तुं द्विषन्तं यदि वाभिलाषः । पीतस्तनायास्तव पूतनाया वयोविधेर्नाथ परं विरुद्धम् ॥ ५८॥ विरुद्धचित्तः शकटासुरस्ते पादारविन्दद्वयभङ्ग्मिमार । निरन्तरप्रीतिकृतो मुकुन्द- पदारविन्दं मृतिमृग्यमासीत् ॥ ५९॥ आसीत्तृणावर्तसमुत्थचक्र- वात्यासमुत्थापितमस्य वीक्ष्य । कण्ठं गृहीत्वाथ निहत्य मह्यां शिशुं शयालुं जननी सशङ्का ॥ ६०॥ शङ्का यशोदाहृदयोदितापि सा जृम्भमाणे वदनारविन्दे । प्रदर्श्य विश्वं विशद विचित्रं न चित्रमत्रेति निराकृताभूत् ॥ ६१॥ भूमौ ममाङ्घ्रिद्वितयाश्रितानां स्वकर्मनाशेन न कर्मबन्धः । न कर्मनैरर्थ्यमपि प्रसज्ये- तेति स्वयं ताशपाशबद्धः ॥ ६२॥ बद्धस्त्वमस्ताश्रितकर्मबन्ध हैयङ्गवीनापहृतिं विधाय । शापाददाः मोचनमर्जुनाभ्या- मुलूखलाकर्षणलीलयैव ॥ ६३॥ missing in the manuscript कथं तथाप्यर्जुननाशहेतु- भूतां व्यतानीरतिबाललीलाम् ॥ ६४॥ लास्यं सुरस्यं नवनीतमोष- रोषोपशान्त्यै व्रजसुन्दरीणाम् । पुरः करस्थे नवनीत भाण्डे व्यधा यथा ता हृषिता भवेयुः ॥ ६५॥ युतोऽप्रजेनेश समग्रबाल- लीलारसौघान रसिकोपसेव्यान् । देवक्यलभ्यान् कलभप्रगल्भ सदा यशोदासुलभान् व्यतानीः ॥ ६६॥ नीतं त्वया दुग्धमुखं यदृद्धिं नन्दव्रजे नन्दितगोकुलेन । श्रीराजगोपाल सबाललीलं स्तेयेन तत्सर्वमहार्यनूनम् ॥ ६७॥ नूनं मिथो गोपवधूमनोऽपि मनोहरत्वं नवनीतचोरः । मोहाज्जवेनापजहर्थ तेन नातानि ताभिस्त्वयि रोषलेशः ॥ ६८॥ शस्ते त्वया वत्सल वत्सदैत्ये त्वत्पालितान् बाल विलासकाले । वत्सान् विशङ्के त्रिदशास्त्वदीया- वतारचारित्रसरूपरूपान् ॥ ६९॥ पातुं गवां वृन्दमथ प्रवृत्तो वृन्दावनान्ते यदुनन्दन त्वम् । वेणुक्वणेनेव विधाय तृप्तिं निवर्तयामासिथ चित्रचर्य ॥ ७०॥ यदा भवान् भावुकवेणुनादा- दुन्मादयामास तदा त्वदादि । जडाजडात्मत्वविभागशून्य- महो बभूवाखिलमन्यदेव ॥ ७१॥ देवेश तादृङ्मुरलीनिनाद- सोन्मादचित्ता व्रजसुन्दराङ्ग्यः । त्यक्तान्ययोगास्त्वयि सानुरागा बभू वुरित्यत्र विचित्रता का ॥ ७२॥ कान्तस्मितालङ्कृतवक्त्रचन्द्र- सङ्गक्वणद्वेणुकनत्कराब्जम् । व्यत्यस्तपादाम्बुजमम्बुजाक्ष भवद्वपुर्भक्तजनोपजीव्यम् ॥ ७३॥ व्यक्तोक्तिभङ्गी मुरली सखी ते घोषाङ्गनानां कृतचित्तमोहा । श‍ृङ्गारलीलारसचारुरास- विलाससाचिव्यकरी किलासीत् ॥ ७४॥ सीदत्सु सर्वेषु विषाग्निमिश्र कृष्णापयःपानवशात् किशोरः । भवानभीः कालियमस्तरत्न- रुच्यर्चिताङ्घ्रिः प्रणनर्त चित्रम् ॥ ७५॥ त्रातस्त्वसौ केशवशेषितोऽपि शेषत्वसम्पद्भवनं बभूव । नृत्यत्वदीयाङ्घ्रियुगाङ्कनेन नित्यप्रसक्तस्वफणासहस्त्रः ॥ ७६॥ सहस्रसङ्ख्यैः सपयोभिरह्नि सह स्वचित्तानुविधायिकृत्यैः । गोपालबालैर्यमुनावनान्ते तदीयदारैर्व्यहरद्रजन्याम् ॥ ७७॥ न्याय्यं किमेतद्रजकन्यकासु सरोविहारैकपरासु राजन् । गृहीततीरस्थदुकूलक स्म कुन्दस्थितः प्रार्थयसेऽञ्जलिं ताः ॥ ७८॥ ताभिः कृतश्चैककराञ्जलिस्त्वं कार्यान्तरासक्तकरान्तराभिः । अकार्यमेवाकथयो विधिज्ञ विरोधगन्धोऽत्र कथं विधीनाम् ॥ ७९॥ नान्यच्चरित्रं भवतोऽतिचित्रं यत्सत्पवर्षोऽपि च सप्तवर्षात् । दीनानि दीनानि गवां कुलानि लीलोद्धृताद्रिः समपालयस्त्वम् ॥ ८०॥ त्वदीयसङ्कल्पलनेन देव रक्षा यदि स्थावरजङ्गमानाम् । महीघ्रमुद्धृत्य भुजेन वर्षात् गोगोपरक्षा रचिता नु चित्रा ॥ ८१॥ त्रातुं त्वयि स्वानचिरादरातीन् निराचिकीर्षत्यपि कंसकर्णे । जजाप वृन्दावनवासिनं त्वां त्वरान्वितस्तस्य वधे सुरर्षिः ॥ ८२॥ सुरर्षिवृन्दैरपि चिन्त्यमानं पादारविन्दं तव नन्दसूनो । ब्रह्मा । । । । । । स्थिरत्रसानां सुलभं बभूव ॥ ८३॥ वधाय कंसस्य रथाधिरूढे विहाय गोपीं मधुरां यथासौ । । । । । । । । । । निरणायि भोगः ॥ ८४॥ गच्छंश्च वीथ्यां मथुरावधूभिः कुब्जाङ्गवैरूप्यनिराकृतिज्ञः । बालः किलायं वसुदेवसू नु- रिति स्मरस्मेरमुदीक्ष्यसे स्म ॥ ८५॥ स्मृतत्वदीयाखिलबाललीलौ जगत्पितरत्वं पितरौ विमुच्य । बन्द्धाद्व्यधाः कंसकृता स्वरूप- साक्षात्कृतिप्रीतियुतौ नितान्तम् ॥ ८६॥ नितान्ततान्तां शिशुपालपाप- प्रसक्तिवार्ताश्रवणेन कृष्ण । त्वां रुक्मिणीं रुक्मसमानशोभा- माहृत्य हृद्यामकृथाः कृतार्थाम् ॥ ८७॥ अर्थादमर्त्याधिपतेरमित्रान् संहर्तुमुद्युक्तमना मनाक् त्वम् । सत्यानुरोधादकरोन्मुरारे पुरं सुरावासमपारिजातम् ॥ ८८॥ तं त्वां भजन्तः शरणं शरण्यं रणेषु पार्थात्र भवत् कृतार्थाः । पाञ्चालपुत्रीपरिभूतिधूति- प्रवीणनामस्मरणप्रभावा ॥ ८९॥ भावाहितत्वन्महिमप्ररोहा भर्तुः शुकव्यासपराशराद्याः । श्रीराजगोपाल तवाखिलासु लीलासु कूलङ्कषवाग्विलासाः ॥ ९०॥ विलासवत्यंसकसव्यहस्तं स्मेराननाब्जं कमनीयकायम् । करान्तरेणादृतकेलियष्टि- मभीष्टदं त्वां शरणं भजेयम् ॥ ९१॥ जयं यदीदं कलिकालखेलद् दुर्वृत्तजातं तव कल्किमूर्त्या अद्यैव सद्याचनयानवद्य तथा यतेथाः स्वजनावनाय ॥ ९२॥ यदेव देवात्र परत्र चापि हितं सतां चानुमतं हितज्ञ । तन्मे तवाङ्घ्री शरणं गताय रम्यं रमाधीश विधेहि सम्यक् ॥ ९३॥ समीच्यसम्यक्त्वधिया विमुग्धो समीचि सम्यक्त्वधिया च नाथ । कथं त्वहं मे हितमेतदेव । तदेव देहीत्यपि याचिताहे ॥ ९४॥ हे देव भोगीशखगेशमुख्यै- र्दिव्यैर्दिवारात्रविभागशून्यम् । संसेव्यमानं तव पादपद्म- युगं कदाहं करवाणि साक्षात् ॥ ९५॥ क्षान्तिः क्षमानाथ मदीयदोष- लाभादलभ्यादखिलेऽपि लोके । अतीव सौहित्यमुपेत्य मुक्तिं बद्धात् स्वतन्त्रान्मम संविधत्ताम् ॥ ९६॥ तामेव देवीं शरणं प्रपद्ये दधाम हेतुं महतीं त्वदीयाम् । यासीत् स्वयं संसृतिचकवात्या- भ्रमातिदुःख्यज्जनजीवनाय ॥ ९७॥ यत्सत्सु वात्सल्यमिति प्रसिद्धं त्वदीयकल्याणगुणेषु रत्नम् । तदेव पूर्वोत्तरदोषराशी उपेक्ष्य रक्षेदिति निश्चयो मे ॥ ९८॥ मेधा दृढा माधव ते परत्वेऽ- प्यपायतायां यदुपेयतायाम् । परीक्ष्य रक्ष त्रितयं तदेतत् समग्रमागोऽन्यदुपेक्षणार्हम् ॥ ९९॥ अर्हद्भिरङ्घ्र्योर्भवतोऽर्पितं मां सहास्मदीयेन दयार्द्रचित्त । श्रीराजगोपाल तथा विधेहि यथा भवेयं भृतकिङ्करश्रीः ॥ १००॥ इति श्रीराजगोपालस्तवः सम्पूर्णः । Proofread by Rajesh Thyagarajan
% Text title            : Shri Rajagopala Stava 05 11
% File name             : rAjagopAlastavaH.itx
% itxtitle              : rAjagopAlastavaH
% engtitle              : rAjagopAlastavaH
% Category              : vishhnu, krishna
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : From stotrArNavaH 05-11
% Indexextra            : (Scan)
% Latest update         : October 9, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org