राजर्षिवसुकृतं पुण्डरीकाक्षपारं स्तोत्रम्
राजर्षिर्वसुरुवाच ।
नमस्ते पुण्डरीकाक्ष नमस्ते मधुसूदन ।
नमस्ते सर्वलोकेश नमस्ते तिग्मचक्रिणे ॥ १०॥
विश्वमूर्तिं महाबाहुं वरदं सर्वतेजसम् ।
नमामि पुण्डरीकाक्षं विद्याऽविद्यात्मकं विभुम् ॥ ११॥
आदिदेवं महादेवं वेदवेदाङ्गपारगम् ।
गम्भीरं सर्वदेवानां नमामि मधुसूदनम् ॥ १२॥
विश्वमूर्तिं महामूर्तिं विद्यामूर्तिं त्रिमूर्तिकम् ।
कवचं सर्वदेवानां नमस्ये वारिजेक्षणम् ॥ १३॥
सहस्रशीर्षिणं देवं सहस्राक्षं महाभुजम् ।
जगत्संव्याप्य तिष्ठन्तं नमस्ये परमेश्वरम् ॥ १४॥
शरण्यं शरणं देवं विष्णुं जिष्णुं सनातनम् ।
नीलमेघप्रतीकाशं नमस्ये चक्रपाणिनम् ॥ १५॥
शुद्धं सर्वगतं नित्यं व्योमरूपं सनातनम् ।
भावाभावविनिर्मुक्तं नमस्ये सर्वगं हरिम् ॥ १६॥
नान्यत्किञ्चित् प्रपश्यामि व्यतिरिक्तं त्वयाऽच्युत ।
त्वन्मयं च प्रपश्यामि सर्वमेतच्चराचरम् ॥ १७॥
इति वराहपुराणे षष्ठाध्यायान्तर्गतं राजर्षिवसुकृतं
पुण्डरीकाक्षपारं स्तोत्रं समाप्तम् ।
वराहपुराण । अध्याय ६/१०-१७॥
varAhapurANa . adhyAya 6/10-17..
Proofread by PSA Easwaran