राजसत्तमेभ्यः हरिणा दत्ताः स्वमन्त्राः
सर्वोत्कृष्टं गृहे यद्यद्राज्ये राष्ट्रे तथोत्तमम् ।
तत्तच्छ्रीकृष्णसेवायां न्यधुस्ते राजसत्तमाः ॥ ७५॥
आरार्त्रिकं प्रचक्रुश्च पपुः पादामृतं हरेः ।
प्रसादं भक्षयामासुः श्रीस्वामिकृष्णहस्ततः ॥ ७६॥
सेवयामासुरत्यर्थं पादसंवाहनादिभिः ।
एनं प्रसादयामासुर्भक्त्या पद्मावतीपतिम् ॥ ७७॥
जगृहुस्ते महामन्त्रान् प्रज्ञानारायणाननात् ।
``ॐ नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा'' ॥ ७८॥
``शरणं श्रीकृष्णनारायणोऽस्तु मम सर्वदा ।
कालमायापापकर्मशत्रुयाम्यकुहृद्भयात् ॥ ७९॥
शूलमीनध्वजधनुश्चक्रस्वस्तिवानव'' ।
``ब्रह्माऽहं श्रीकृष्णनारायणभक्तोऽस्मि शाश्वतः'' ॥ ८०॥
``ब्राह्म्यहं श्रीकृष्णनारायणदासी भवामि ओम्'' ।
``ॐ नमः श्रीकृष्णनारायणाय पतये स्वाहा'' ॥ ८१॥
``अनादिश्रीकृष्णनारायणः स्वामी पतिश्च मे'' ।
``बालकृष्णः परब्रह्म मम वै शाश्वतः पतिः ॥ ८२॥
पिता बन्धुः सुहृन्मित्रं रक्षकः पोषकोऽस्तु सः'' ।
``बालकृष्णाय विद्महेऽनादिकृष्णाय धीमहि ।
तन्नः श्रीशः प्रचोदयात् ॥ ८३॥
``ॐ श्रीलक्ष्म्यै महालक्ष्म्यै दुःखभङ्क्त्र्यै श्रियै नमः'' ।
``ॐ मां श्रीबालकृष्णाय समर्पयामि ॐ नमः'' ॥ ८४॥
``कृष्णनारायणभक्तोऽहं श्रीहरिः शरणं मम'' ।
``श्रीकृष्णो वल्लभः स्वामी श्रीस्वामी शरणं मम'' ॥ ८५॥
``श्रीकृष्णः श्रीहरिः स्वामी श्रीपतिः शरणं मम'' ।
``श्रीकृष्णो वैष्णवाचार्यः प्रभुः पद्मावतीपतिः ॥ ८६॥
स्वामी मे शाश्वतः कान्तस्तस्याऽहं स्वामिनी प्रिया'' ।
``प्रभुः कृष्णः पारमेशः श्रीकृष्णः शरणं मम'' ॥ ८७॥
``प्रभुः कृष्णः पार्वणो नारायणः शरणं मम'' ।
एतान्मन्त्रान् ददौ कृष्णनारायणः स्वयं हरिः ॥ ८८॥
``कृष्णनारायण कृष्णनारायण नरायण ।
अनादिश्रीकृष्णनारायण राधारमायण ॥ ८९॥
``प्रभो नारायण माधवीश्रीनारायण प्रभो ।
जयानारायण श्रीललितानारायण! विभो'' ॥ ९०॥
``कम्भरागोपाललालः स्वामी पतिश्च मामव'' ।
एवं मन्त्रान् नामधुन्यं ददौ चापि स्वयं हरिः ॥ ९१॥
इति श्रीलक्ष्मीनारायणीयसंहितायाः तिष्यसन्तानात्मकस्य चतुर्थखण्डे
७९-अध्यायान्तर्गतं राजसत्तमेभ्यः हरिणा दत्ताः स्वमन्त्राः ।
लक्ष्मीनारायणीयसंहिता । खण्ड ४। अध्याय ७९/७५-९१॥
lakShmInArAyaNIyasaMhitA . khaNDa 4. adhyAya 79/75-91..
Proofread by PSA Easwaran