राज्ञा अश्वशिरसा कृता नारायणस्तुतिः

राज्ञा अश्वशिरसा कृता नारायणस्तुतिः

श्रीवराहः - (राजा अश्वशिरा) उवाच । नमामि याज्यं त्रिदशाधिपस्य भवस्य सूर्यस्य हुताशनस्य । सोमस्य राज्ञो मरुतामनेकरूपं हरिं यज्ञनरं नमस्ये ॥ ४६॥ सुभीमदंष्ट्रं शशिसूर्यनेत्रं संवत्सरे चायनयुग्मकुक्षम् । दर्भाङ्गरोमाणमथेध्मशक्तिं सनातनं यज्ञनरं नमामि ॥ ४७॥ द्यावापृथिव्योरिदमन्तरं हि व्याप्तं शरीरेण दिशश्च सर्वाः । तमीड्यमीशं जगतां प्रसूतिं जनार्दनं तं प्रणतोऽस्मि नित्यम् ॥ ४८॥ सुरासुराणां च जयाजयाय युगे युगे यः स्वशरीरमाद्यम् । सृजत्यनादिः परमेश्वरो यस्तं यज्ञमूर्तिं प्रणतोऽस्मि नाथम् ॥ ४९॥ दधार मायामयमुग्रतेजा जयाय चक्रं त्वमलांशुशुभ्रम् । गदासिशार्ङ्गादिचतुर्भुजोऽयं तं यज्ञमूर्तिं प्रणतोऽस्मि नित्यम् ॥ ५०॥ क्वचित् सहस्रं शिरसां दधार क्वचिन्महापर्वततुल्यकायम् । क्वचित्स एव त्रसरेणुतुल्यो यस्तं सदा यज्ञनरं नमामि ॥ ५१॥ चतुर्मुखो यः सृजते समग्रं रथाङ्गपाणिः प्रतिपालनाय । क्षयाय कालानलसन्निभो यस्तं यज्ञमूर्तिं प्रणतोऽस्मि नित्यम् ॥ ५२॥ संसारचक्रक्रमणक्रियायै य इज्यते सर्वगतः पुराणः । यो योगिभिर्ध्यायते चाप्रमेयस्तं यज्ञमूर्तिं प्रणतोऽस्मि नित्यम् ॥ ५३॥ सम्यङ्मनस्यर्पितवानहं ते यदा सुदृश्यं स्वतनौ नु तत्त्वम् । न चान्यदस्तीति मतिः स्थिरा मे यतस्ततो मावतु शुद्धभावम् ॥ ५४॥ इतीरितस्तस्य हुताशनार्चिः प्रख्यं तु तेजः पुरतो बभूव । तस्मिन् स राजा प्रविवेश बुद्धिं कृत्वा लयं प्राप्तवान् यज्ञमूर्तौ ॥ ५५॥ इति श्रीवराहपुराणे पञ्चमाध्यायान्तर्गता राज्ञा अश्वशिरसा कृता नारायणस्तुतिः समाप्ता ॥ वराहपुराण । अध्याय ५/४६-५५॥ varAhapurANa . adhyAya 5/46-55.. Proofread by PSA Easwaran
% Text title            : Rajna Ashvashirasa Krita Narayana Stutih
% File name             : rAjnAashvashirasAkRRitAnArAyaNastutiH.itx
% itxtitle              : nArAyaNastutiH (rAjnAashvashirasAkRitA varAhapurANAntargatA)
% engtitle              : rAjnAashvashirasAkRitA nArAyaNastutiH
% Category              : vishhnu, vishnu, stuti, varAhapurANa
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : varAhapurANa | adhyAya 5/46-55||
% Indexextra            : (Scans 1, 2, Hindi, English)
% Latest update         : September 4, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org