रघुवीरसुप्रभातम्
परिणतिपरिशंसी मन्दमन्दं निशाया
मृदुमधुरनिनादो जृम्भतेऽयं मृदङ्गात् ।
करतलपरिमृष्टाद् बन्दिनामागतानां
रघुकुलजलधीन्दो नाथ ते सुप्रभातम् ॥ १॥
मुहुरविकलगीतैर्मोहयन्निन्द्रियौधं
श्रुतिपुटविवराभ्यां मन्दमन्तः प्रविश्य ।
अयमपहरति द्राङ्मानसं वेणुनादो
रघुकुलजलधीन्दो नाथ ते सुप्रभातम् ॥ २॥
उदयति निशि यस्मिन् सद्गणो धिक्कृतोऽभूत्
स तु पतनमुपैष्यत्युन्नतिं धिग् घिगिन्दोः ।
प्रभवति हि विभूत्यै सद्गणस्योन्नतिस्ते
रघुकुलजलधीन्दो नाथ ते सुप्रभातम् ॥ ३॥
अयमुदयति गूढः किञ्चिदुच्चैः सरिद्भिः
श्रयति सपदि भास्वानंशुजालैः परीतः ।
हरिहरिदसिताक्ष्याः कङ्कताभां कराब्जे
रघुकुलजलधीन्दो नाथ ते सुप्रभातम् ॥ ४॥
दशशतकरजालं द्राक् प्रसार्यांशुमालि
न्यमरदिगसिताक्ष्याश्लेषणायोन्मुखेऽस्मिन् ।
कलमिह रचयन्ते गीतमेता विहङ्ग्यो
रघुकुलजलधीन्दो नाथ ते सुप्रभातम् ॥ ५॥
विकचजलजगन्धानाहरन् मन्दवात-
श्चिरमयमवगाह्य स्रोतसिं ह्रादिनीनाम् ।
शमयति तव देव्याः स्वेदबिन्दून् मुखाब्जे
रघुकुलजलधीन्दो नाथ ते सुप्रभातम् ॥ ६॥
जनकनृपतिकन्या पूर्वमेव प्रबुद्धा
कथमपि विरचय्याश्लेषभेदं तवैषा ।
रचयति ननु दूरे क्लेशमावीजनात् ते
रघुकुलजलधीन्दो नाथ ते सुप्रभातम् ॥ ७॥
तव चरणसरोजद्वन्द्वसंवाहनेन
ह्ययमपि गमयित्वा शर्वरीं निर्निमेषम् ।
अरुणनयनकोणः प्राञ्जलिर्वायुसूनू
रघुकुलजलधीन्दो नाथ ते सुप्रभातम् ॥ ८॥
कमपि कुलिशपाणेरायुधेनाप्यभेद्यं
रचयसि यदि सेतुं देव संसारसिन्धोः ।
तरति सुखमिदानीं सर्व एवात्र लोके
रघुकुलजलधीन्दो नाथ ते सुप्रभातम् ॥ ९॥
इति कृष्णकविविरचितं श्रीरघुवीरसुप्रभातं सम्पूर्णम् ।
स्तोत्रसमुच्चयः २ (७०)
Proofread by Rajesh Thyagarajan