रैवतमनुकृतं नारायणस्तोत्रम्
श्रीनारायण उवाच ।
शृणु लक्ष्मि ! रैवताख्यो मनुर्वैकुण्ठमाप्तवान् ।
तुष्टाव च महाप्रेम्णा दयालुं मां त्वयाऽन्वितम् ॥ १॥
नमः सच्चित्स्वरूपायानन्दसन्दोहवार्धये ।
नमोऽस्त्वेकस्वरूपायोभयरूपाय ते नमः ॥ २॥
नमो हिरण्यकेशाय श्मश्र्वश्मश्रुमते नमः ।
नमः स्तन्याऽस्तन्यवते बीजाऽबीजधृते नमः ॥ ३॥
नमो बहिः प्रचिह्नायाबहिश्चिह्नाय ते नमः ।
नमो विश्वक्प्रवालाय क्वचिद्बालाय ते नमः ॥ ४॥
नमो दक्षिणसत्त्वाय ।
वामसत्त्वाय ते नमः ।
नम ऊर्ध्वस्वरूपायानूर्ध्वरूपाय ते नमः ॥ ५॥
नम आधेयरूपायाधाररूपाय ते नमः ।
नमो द्विदलरूपायाङ्कुरप्रसूतये नमः ॥ ६॥
नमो वैकुण्ठवासाय कुण्ठवासाय ते नमः ।
नमो मानसरूपाय भक्तरूपाय ते नमः ॥ ७॥
नमस्ते करुणासिन्धो नमः सौराष्ट्रवर्धिने ।
नमो रैवतवासाय दामोदराय ते नमः ॥ ८॥
नमः पत्नीव्रताख्याय नमः कृष्णाय विष्णवे ।
नमोऽनन्तस्वरूपाय ममान्तर्यामिणे नमः ॥ ९॥
स्वतन्त्रस्त्वं महाविष्णो न जाने त्वं किमिच्छसि ।
भक्तो यदर्थमाहूतस्तद्वै विधातुमर्हसि ॥ १०॥
दासोऽयं कृपया विष्णो नेयः पारं भवाध्वनः ।
यत्र ते चरणौ स्तस्तद्देशो मे ह्यरणं भवेत् ॥ ११॥
न वै त्याज्यः कृपानाथ दासोऽयं शरणागतः ।
करुणया गृहीतोऽयं न वै तं त्यक्तुमर्हसि ॥ १२॥
यदिष्टं क्षेमकृल्लोके तदिष्टं संविधीयताम् ।
इति स्तुत्वा विरराम रैवतो भक्तसत्तमः ॥ १३॥
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने ५५-अध्यायान्तर्गतं
रैवतमनुकृतं नारायणस्तोत्रं सम्पूर्णम् ।
लक्ष्मीनारायणीयसंहिता । खण्ड १। अध्याय ५५/१-१३॥
lakShmInArAyaNIyasaMhitA . khaNDa 1. adhyAya 55/1-13..
Proofread by PSA Easwaran