रमापतिस्मरणम् अथवा कमलेशमाला
श्रीगणेशाय नमः ।
मुकुन्दमिन्दीवरपत्रनेत्रं नदात्मजं योगिमनोनिकेतम् ।
वृन्दारकाभिष्टुतपादपद्मं पार्थस्य मित्रं मनसा स्मरामि ॥ १॥
ब्रह्मेन्द्रगङ्गाधरवन्दिताय मुकुन्ददेवाय परात्पराय ।
नमः समस्तासुरनाशकाय पक्षीशयानाय रमेश्वराय ॥ २॥
आश्लिष्टराधाकुचकुड्मलाय गोपालकृष्णाय नमोऽस्तु तस्मै ।
गोवर्धनं यो गिरिमुच्चशृङ्गं लोकोपकाराय किलोद्दधार ॥ ३॥
कृपानिधे दीनशरण्य शौरे दैत्याटवीदाव रमेश देव ।
त्वत्पादपङ्केरुहयुग्मस्वेवां नक्तन्दिवं प्राप्तुमहं समीहे ॥ ४॥
तदा मम स्यादभिलाषसिद्धिस्तदैव जायेत ममातिमोदः ।
यदा यतीद्रेडितसच्चरित्रो मयि प्रसन्नो भगवान्मुरारिः ॥ ५॥
कुशाग्रसूक्ष्मापि मतिर्गतीनां ज्ञातुं न शक्नोति तव स्वरूपम् ।
अहं कथं वा मुसलाग्रबुद्धिर्ज्ञातुं क्षमः स्यां खलु तं भवन्तम् ॥ ६॥
नाहं नदीष्णो निखिलागमेषु न च प्रवीणः कविताकलायाम् ।
तस्मादशेषान् गदितुं गुणांस्ते शौरे न शक्तो बत मन्दभाग्यः-॥ ७॥
इति रमापतिस्मरणं (अथवा कमलेशमाला) सम्पूर्णम् ॥
Proofread by PSA Easwaran