श्रीरङ्गनाथस्तोत्रम्
श्रीरङ्गे शेषशायी विलसति भगवान् दिव्यवैकुण्ठनाथः
कावेरी दिव्यगन्धा विलसति विरजा दिव्यतीर्थप्रशस्ता ।
श्रीरङ्गं दिव्यरङ्गं विलसति नगरं दिव्यवैकुण्ठमेव
श्रीमन्तः सूरिसङ्घा दिवि च विलसिता रङ्गदेशस्थभक्ताः ॥ १॥
प्रत्युप्तैः पद्मरागरफटिकमरकतैर्दिव्यमाणिक्यसङ्घः
प्राकारैर्गोपुराद्यैर्विलसति विमले दिव्यवैकुण्ठतुल्ये ।
श्रीरङ्गे शेषशायी शतमखमणिभिस्तुल्यकल्याणगात्रो
भक्तानां कल्पवृक्षो दिशतु मम सुखं रङ्गनाथो दयालुः ॥ २॥
अम्भोजाक्षः सुशील शुभगुणनिलयश्चन्द्रकान्ताननाब्जः
वक्षःस्थल्यां विराजन्मणिवरकमलावत्सजाज्वल्यमानः ।
माणिक्यच्छन्नमौलिमणिमयवलयो भक्तकल्याणदाता
वैकुण्ठः शेषशायी दिशतु मम सुखं रङ्गनाथो दयालुः ॥ ३॥
सर्वज्ञः सर्वशक्तः सकलगुणनिधिः सत्यकामः सुरेशः
श्रीवत्सःश्रीनिवासः श्रितजनवरदः सर्वसौहार्दसिन्धुः ।
श्रीरङ्गे दिव्यदेशे सकलजननिधौ शेषतल्पे शयानो
मेघश्यामः कृपालुर्दिशतु मम सुखं रङ्गनाथो मुकुन्दः ॥ ४॥
श्रीरङ्गश्रीनगर्यां ज्वलितमणिफणे नागराजे शयानः
ब्रह्माद्यैः सूरिसद्वैः स्तुतपदकमलः सर्वलोकप्रसिद्धः ।
मुग्धस्मेरः श्रुतीनां शिरसि विलसितः सिन्धुजावत्सवक्षाः
कारुण्याब्धिर्वदान्यो दिशतु मम सुखं रङ्गनाथो मुकुन्दः ॥ ५॥
प्रत्यक्षं परमं पदं दिवि भुवि श्रीरङ्गमत्यद्भुतं
तत्र श्रीभगवान् फणीन्द्रशयनः श्रीरङ्गराजो विभुः ।
लक्ष्मीदिव्यनिवासकौस्तुभमणिः श्रीवत्सवक्षःस्थलो
जीयाद् भूतदयालुरम्बुजमुखः श्रीवैष्णवानां निधिः ॥ ६॥
विलसतु मम चित्त रङ्गनाथो दयालु-
र्विरतरतु मम सौख्यं कल्पकः स्वाश्रितानाम् ।
म जयतु विबुधानां राजराजो मुकुन्दो
विविधकनकभूषाप्रोज्ज्वलदिव्यगात्रः ॥ ७॥
वैकुण्ठतुल्यविमलाखिलदिव्यदेश-
प्राधान्यलक्षितविलक्षणरङ्गपुर्याम् ।
कल्याणकल्पकतरुं कमलायताक्षं
शेषाङ्कशायिनमहं शरणं प्रपद्ये ॥ ८॥
रेखामयाजकलशध्वजशङ्खचक्र-
वज्राद्यलङ्कृततलौ जितपद्मरागौ ।
कान्ताववाङ्मनसगोचरसौकुमार्यौ
श्रीरङ्गराजचरणौ शरणं प्रपद्ये ॥ ९॥
कालाम्बुदश्यामलकोमलाङ्गं
श्रीवत्सपीताम्बरकौस्तुभाद्यैः ।
श्रीभूषणैर्भूषितमम्बुजाक्षं
श्रीरङ्गराजं शरणं प्रपद्ये ॥ १०॥
श्रीरङ्गनाथ मम नाथ तवाङ्घ्रिपद्म-
कैङ्कर्यनिष्ठपरिचारकभृत्यभृत्यम् ।
मां रक्ष दिव्यकृपया करुणामृताब्धे
शीलादिमङ्गलगुणाकर भक्तबन्धो ॥ ११॥
मणिभूषणभूषितनीलतनो
शरणागतवत्सल रङ्गनिधे ।
कमलाधव मङ्गलवारिनिधे
परया कृपया परिपालय माम् ॥ १२॥
निखिलामलदैवतमौलिमणे
भुवनाधिप मङ्गलसारनिधे ।
शरणागतकल्पक रङ्गपते
परया कृपया परिपालय माम् ॥ १३॥
अन्येषां किल दुर्लभश्च सततं स्वस्मिन्नभक्तात्मनां
भक्तानां सुलभः प्रसन्नवदनः कल्याणदो वत्सलः ।
स्वस्ति श्रीस्तनकुङ्कुमादरुणितश्रीनीलगात्रः सदा
दद्याम्मे भगवान् फणीन्द्रशयनः श्रीरङ्गराजो विभुः ॥ १४॥
उन्मीलत्पद्मगर्भद्युतितलमहसा न्यक्कृताः पद्मरागाः
बाह्यैस्तेजःप्ररोहैः शतमखमणयो न्यक्कृता नीलवर्णाः ।
उद्यद्दिव्यप्रकाशैर्नखमणिमहसां न्यकृताश्चन्द्रभासो
भक्तानामिष्टदातुश्चरणकमलयो रङ्गनाथस्य विष्णोः ॥ १५॥
तत्तादृशौ विधिशिवादिकिरीटकोटि-
प्रत्युप्तदिव्यनवरत्नमहःप्ररोहैः ।
नीराजितौ मणिमयोज्ज्वलनूपुराढ्यौ
श्रीरङ्गराजचरणौ शरणं प्रपद्ये ॥ १६॥
आनूपुरार्पितमनोहरदिव्यपुष्प-
सौरभ्यसौरभकरौ मणिनूपुराढ्यौ ।
पद्मोज्ज्वलौ निखिलभक्तजनानुभाव्यों
श्रीरङ्गराजचरणौ शरणं प्रपद्ये ॥ १७॥
अम्भोजस्फारपादो नयनसुभगताकल्पकस्फारजङ्घः
सौन्दर्यस्फारजानुः करिकरकदलश्रीलसद्दीप्यदूरुः ।
जाज्वल्यद्दिव्यशाटीविलसितकटिकः कौस्तुभस्फारवक्षाः
चक्राब्जस्फारबाहुर्दिशतु मम सुखं रङ्गनाथो मुकुन्दः ॥ १८॥
कम्बुग्रीवप्रभातः किसलयविलसद्विद्रुमस्मेरभास्व-
द्दीपोष्ठः कल्पवल्लीमधुरशुभनसः पद्मपत्रायताक्षः ।
सुब्रूरेखः सुफालो मणिमयमफुटस्त्वञ्जनश्यामकेशः
श्रीरङ्गे शेषशायी दिशतु मम सुखं लोकनाथो मुकुन्दः ॥ १९॥
मणिप्रवरभूषणं मकुटदीप्रनीलालकं
विचित्रमणिनू पुरविलसत्पदाम्भोजकम् ।
सरोभवनिभाननं सरसिजेक्षणप्रोज्ज्वलं
भजे नयनसौख्यदं प्रणमतां तु रङ्गेश्वरम् ॥ २०॥
सुशीलमखिलामरप्रवरभोग्यपादाम्बुजं
शशाङ्कसदृशाननं कनकदीप्रपीताम्बरम् ।
दशानननिघातिनं मधुरबिम्बदिव्याधरं
सुशोभितकराम्बुजं खलु भजामि रङ्गेश्वरम् ॥ २१॥
महेन्द्रमणिभास्वरं मणिवरादिभूषोज्ज्वलं
जपाकुसुमविद्रुमज्वलितबिम्बदिव्याधरम् ।
कृपामृतपयोनिधि सुमुखमन्दहासोज्ज्वलं
लसद्विपुलवक्षसं किल भजेम रङ्गेश्वरम् ॥ २२॥
भजेयहिशायिनं रजतशैलकालाम्बुद-
प्रभानिभमहर्निशं प्रणतदिव्यसौख्यप्रदम ।
सुधामयपयोधिजापदसरोजलाक्षामय-
प्रभारुणितवक्षसं सुलभमेव रङ्गेश्वरम् ॥ २३॥
न क्लिश्यन्ते प्रसिद्धं मनसिजकदनैर्भाश्यकारस्य भक्ताः
भक्तोऽपि स्वामिनोऽहं मदनपरवशः पापकर्मास्मि मूर्खः ।
तस्मान्मे दिव्यबन्धो सकलगुणनिधे लोकनाथ क्ष्माब्धे
त्यक्तुं शक्यत्वयाहं न खलु मम निधे रक्ष मां रङ्गनाथ ॥ २४॥
कल्याणकल्पकतरो करुणामृताब्धे
श्रीरङ्गराज जगदेकशरण्यमूर्ते ।
भक्तप्रवत्सल मनोहरदिव्यमूर्ते
पाहि प्रसीद मम वृत्तमचिन्तयित्वा ॥ २९॥
इति श्रीरङ्गनाथस्तोत्रं सम्पूर्णम् ।
Proofread by Gopalakrishnan