श्रीरङ्गनाथस्तोत्रम्
नमः श्रीरङ्गनाथाय नमः श्रीरङ्गशायिने ।
नमः श्रीरङ्गदेवाय श्री श्रीनिवासाय ते नमः ॥ १॥
नमो भगवते तुभ्यं वासुदेवाय ते नमः ।
सङ्कर्षणाय प्रद्युम्नाय अनिरुद्धाय ते नमः ॥ २॥
पुरुषाय नमस्तुभ्यं अच्युताय पराय च ।
वासुदेवाय ताराय नमः श्रीरङ्गशायिने ॥ ३॥
केशवाय नमस्तेऽस्तु नमो नारायणाय च ।
माधवाय नमस्तुभ्यं गोविन्दाय च ते नमः ॥ ४॥
ॐ नमो विष्णवे देव मधुसूदन ते नमः ।
त्रिविक्रम नमस्तेऽस्तु नमस्ते वामनाय च ॥ ५॥
श्रीधराय नमस्तुभ्यं हृषीकेश नमोऽस्तु ते ।
नमोऽस्तु पद्मनाभाय नमो दामोदराय च ॥ ६॥
मत्स्यकूर्मवराहाय हंसाश्वशिरसे नमः ।
नमोऽस्तु जामदग्न्याय दत्ताय कपिलाय च ॥ ७॥
वेदव्यासाय बुद्धाय नृसिंहाय ते नमः ।
रामलक्ष्मणशत्रुघ्नभरतात्मन् नमोऽस्तु ते ॥ ८॥
कृष्णाय बलभद्राय नमस्साम्भाय कल्किने ।
अनन्तानन्दशयने पुराण पुरुषोत्तम
रङ्गनाथ जगन्नाथ नाथ तुभ्यं नमो नमः ॥ ९॥
इति श्रीरङ्गनाथस्तोत्रं सम्पूर्णम् ।
Proofread by Aruna Narayanan