श्रीरङ्गनाथस्तुतिमाला

श्रीरङ्गनाथस्तुतिमाला

विघ्नविघाताय परं चित्ताश्रय वाहिनीपतिं रुचिरम् । सद्रत्नावलिविततं कमलाकरभावतः प्रथितम् ॥ १॥ राजदनल्पकवनितासहवासपरं सुचिन्तनीयपदम् । अमरकृतादरमाश्रय रङ्गपतिं चित्त सत्कविप्रथितम् ॥ २॥ रङ्गेश नामसदृशं खलु चेष्टितं ते रथ्यासु हन्त वनितां च पुरस्करोषि । गृह्णासि वेषनिचयं च सहस्रधा त्वं लोकांश्च नर्तयसि कर्मगुणैर्निबद्धान् ॥ ३॥ रङ्गेश तिष्ठसि रमानिकटे कुतस्त्वं नृत्ताय किं कथय युक्तमिदं तथा चेत् । रत्नाकरस्य दुहिता खलु सर्वदात्री भक्ताय दातुमिति किन्नु विरक्तयत्नः ॥ ४॥ सम्राजत्कमालाङ्गके सुविमले भास्वद्रथाङ्गप्रिये पद्मानन्दविधायिनि प्रकलितावास्ते तवास्थेकथा । भक्तानाममृतप्रदे द्विजवरैः संसेव्यपादे सति श्रीरङ्गोडुपदा(ता)वपूर्वविभवे कोऽसावलज्जः शशी (?) ॥ ५॥ तिष्ठन् किं गृहकार्यं कमलायै रङ्गनाथ वेदयसि । रत्नाकरतनयायै धनिकश्वशुरत्वमेवमेव भुवि ॥ ६॥ श्रियञ्च भूमिञ्च सुपश्यताद्य श्रीरङ्गबन्धो भवतोपदिष्टा । अस्त्यप्रमादाय धनाधिकैर्हि कर्तव्यता कार्यवशेन लोके ॥ ७॥ सूर्यप्रभाख्यपेटीमध्येन्द्रमणिप्रभासुपरिपाटी । रङ्गेन्दुदृष्टिधाटी लसति स्मरतापपात्रितवधूटी ॥ ८॥ भास्वन्मण्डलशोभिते नरवरैः सम्मानिते सत्करैः आज्ञापालनतत्पराखिलजने हस्त्यश्वसेनाधने । सिंहाङ्कासनशोभमानवपुषि प्रोद्वेजितस्वद्विषि श्रीरङ्गाम्बुधिमेखलापरिवृढे वन्दीबुभूषामहे ॥ ९॥ कारुण्यमञ्जुलदरस्मितकान्तिपूरा शक्रोपलासितशरीरसुकान्तिधारा । आनन्दनीं कुवलयस्य चिरं गतव सूर्यप्रभापि भवतास्ति शशिप्रभेव ॥ १०॥ आराधितो द्युमणिनासि पुरा तदानीं दत्ता कथं नु भवते परमा प्रभा स्वा । तेनार्यमेव भुवने प्रथितेन भाव्यं प्राप्तेन विष्णुपदमप्यरुणेन पूर्वम् ॥ ११॥ या विनतानन्दनता तार्क्ष्यस्य हि रङ्गधुर्य विख्याता । तां हंसाय च दिशता प्रथिता भवता कृपाकरता ॥ १२॥ तावकमरालपत्रं मनसामीशाद्य मृग्यते चित्रम् । तव च पदाब्जं सत्रं वहतीदं किं न चित्रपदमित्रम् ॥ १३॥ सत्स्वेव पत्रिनिवहेषु चकोरचक्र- क्रौञ्चादिमेषु जवनेषु च रङ्गधुर्य । सत्सङ्गमाप कुत एष स राजहंसः ज्ञातं निदानमिह तन्मुखराग एव ॥ १४॥ हंसं गतं भवन्तं भजन्ति लोकाश्च रङ्गशिशिरकर । ये तेऽहंसङ्गततां भजन्ति युक्तं यथाक्रतुन्यायात् ॥ १५॥ श्रीरङ्गनरपते तव सङ्गात्सिंहः स्वरूपताशाली । सद्विपदमनायासं हिनस्ति वनदेशशयनमातनुते ॥ १६॥ श्रीरङ्गचन्द्र भवदासनसङ्गतोऽयं पञ्चाननस्तु चतुराननमत्यशेत । यत्संज्ञया भवति युक्तमिदं परं तु षट्पञ्चवक्त्रसहितावपि चेति चित्रम् ॥ १७॥ इभेन वृत्तिं चरतोऽस्य रङ्गिन् तवास्ति सङ्गादनिभास्यवृत्तिः । वने कृतासक्तिरयं मृगेन्द्रोऽ- वने कृतासक्तिरिदं च चित्रम् ॥ १८॥ स्वामिन् सुवर्णशुभकेसरिवाहनश्री- रङ्गेशितुस्तव च कुत्र सुवर्णलब्धिः । ज्ञातं दिशन्ति कवयो भवते सुवर्ण- जातं हि नाम तु तथा धनरक्षणाय ॥ १९॥ कमलसदनाङ्गपालीकुङ्कुमयुततावकाङ्गसृतधूली । इभहिंसनकरवाली विलसति रङ्गक्षमापते व्याली ॥ २०॥ हस्तीष्टदानतत्पर तद्दारणसादराममुं भुवने । आलोच्य मृगविशेषं रङ्गिन् किं शिक्षयन्नधः कुरुषे ॥ २१॥ व्यालीप्रियोऽसि भगवन् भुजगेन्द्रतल्प तस्मादमुं वरहितां सुविलक्ष्य यालीम् । वाहाधिकारमदिशः प्रबलं जनेभ्यो गृह्णासि सोऽञ्जलिवधूः सुविचार्यमेतत् ॥ २२॥ यालीवाहनशोभिनि कालीकृतदेववैरिमुखशशिनि । रङ्गक्षमामघोनि स्तुतिक्रियाकर्तृतां बुभूपानि (बुभूपाणि) ॥ २३॥ शेषस्थितिं भूषयतापि सम्य- गशेषवृत्तिर्भवतोपक्लप्ता । न चित्रमेतत्त्रिजगद्विरूढ- स्वभावशीलाकृतिरूपभाजा ॥ २४॥ रङ्गेशिता त्वं स भुजङ्गवर्यः सम्बन्धितास्ते ह्युभयोः समाना । फणां सुकान्तां भवददङ्गजात- वराय यत्प्रादिशदेष मुख्याम् ॥ २५॥ उत्सङ्गभाजा भवताद्य राज- त्यत्यद्भुतं कुण्डलिराजवर्यः । अमूल्यशक्रोपलदर्शनीया रङ्गप्रभो स्फाटिकपेटिकेव ॥ २६॥ चक्रित्वकुण्डलित्वे गूढपदत्वं बिलेशयत्वं च । पर्यायतोऽस्य यद्वच्छेषस्य तथा तवेत्युभौ मिलितौ ॥ २७॥ आश्रितसुवर्णगरुडं श्रितजनकल्याणसम्पदां नीडम् । कृतरिक्तभावपीडं भज रङ्गपतिं श्रुतित्रयीचूडं २८॥ आरुढपक्षिराजे सेवागतनिखिलनिर्जरसमाजे । हृदय वस रङ्गराजे सुन्दरतररूपविजितचेतोजे ॥ २९॥ अधिगतसुपर्णवृत्तो रङ्गपतिश्चापि कनकधाराणाम् । दाता भवसि सदा त्वं रत्नाकरकन्यकाश्रयेण किमु ॥ ३०॥ मुष्णासि चेतांसि न चित्रमेतत् किशोरभावे दधिहारिवृत्तिः । पुष्णासि रङ्गाधिप वीनशोभां नवीनशोभाकृदसीति चित्रम् ॥ ३१॥ एतत्सहायभूम्ना धरणीजाताप्तिरिह बभूव पुरा । कुशलवसुवृद्धिहेतुस्त्विति हि सुवर्णीकरोषि कपिमेनम् ॥ ३२॥ तव परिचयतः कपिरपि पीताम्बरधरणमातनुते । नर इव तथापि शाखापरिचयतो नैव निववृते युक्तम् ॥ ३३॥ अरुणमुखहनुमदंसप्रतष्ठिर्त त्वां स्मरामि संलक्ष्य । इन्दिन्दिरस्य रङ्गिन्नशोकसुमगुच्छवृन्तलग्नस्य ॥ ३४॥ निशिचरलोककृतान्तं निजांसभागप्रकाशितानन्तम् । भक्तावलिषु महान्तं विषयीकुरु लोचने हनूमन्तम् ॥ ३५॥ कल्पतरुमूलशालिनमाकलयन् कल्पते भवाटव्याः । सञ्चरणाय न चैनं पञ्चशराभिख्यचोरदुर्गायाः ॥ ३६॥ रङ्गिन् परिग्रहवशात्तव कल्पवृक्षो दातृप्रसिद्धिमगमत् सति चान्यवृक्षे । स्यालं तमेनमपरं च विचार्य वृक्ष- मस्यालमस्य विषये सदनुग्रहेण ॥ ३७॥ स्यालत्वमेव कलयन्नकृथा वदान्य- मेनं स चेन्मधुपसङ्गतिभाक् सुराणाम् । पाता भवत्यहह रङ्गपते सुरद्रुः । यत्संविचार्य करणीयमतस्त्रिलोके ॥ ३८॥ भूमौ वदान्यविभवं किमयं प्रकाशं कर्तुं भुवं सुरतरुर्हि परिष्करोति । सत्युज्ज्वले सकलकल्पककल्पकद्रौ त्वय्येनमाश्रयतु को जडभावभाजम् ॥ ३९॥ चन्द्रप्रभापि प्रथते प्रभाते सङ्गेऽपि भास्वत्त्वदुरुप्रभायाः । रङ्गप्रभो युक्तमिदं विभाति भवत्पदाप्तावविरोधिभावः ॥ ४०॥ नामायोगः क्षीणता नैव बिम्बे सत्येवं किं भास्वताप्नोत्वथाद्य । रङ्गिन् सङ्गं चन्द्रमाः स्यादथैव- मायोगं ते वीक्ष्य सक्तस्त्वपूर्वम् ॥ ४१॥ तुभ्यं स्वबिम्बादमृतं सुधांशू रङ्गिन् समुद्धृत्य गृहागताय । तुभ्यं ददौ रन्ध्रमतोऽस्य जातं मध्येऽंशुकं त्वं च ददासि तस्मै ॥ ४२॥ स्थानं ददावक्षिणि यस्य नित्यं तस्मै क्षमः स क्षणदाधिनाथः । दत्ते प्रभामुत्सववासरे स्वा मादानदानोचितमेव पात्रम् ॥ ४३॥ करिवरमिह पूर्वं ग्राहबन्धादरक्ष- स्तदधिगतगरिम्णा दन्तिवाहस्पृहाभूत् । तव पतदिनवाह ग्राहनिर्बन्धतो मां मदजुषमिह मोक्तुं कः समर्थस्त्वदन्यः ॥ ४४॥ सद्गोत्रभेदपरदाररतं सुरेन्द्रं त्यक्त्वागमत् कथमसौ सुरदन्तिराजः । गोत्रोद्धृतौ प्रथितधर्मजदारमान- दाने रतं भुवि समीक्ष्य भवन्तमेव ॥ ४५॥ सुरदन्त्यपि बर्हिर्मुखभावं भजते विभो तव तु । दन्तीन्द्रो बत रङ्गपतेऽश्नात्यघानि सर्वेषाम् ॥ ४६॥ सुरदन्तिनमासाद्य च चलस्थितिं कलयते विभो सुकृति (सुकृती) । सुकृतं निनाश्य भजतेऽचलस्थितिं त्वां गजस्थमालोक्य ॥ १७॥ हारिद्रचूर्णसुविलेपनलोभनीयां मूर्तिं कथं कलयसे बत रङ्गबन्धो । आभीरवामनयना इव वश्चनीया नैतास्तु चोलवनिताः कुटिलस्वभावाः ॥ ४८॥ नीलाम्बुदप्रकरकान्तिसुहृच्छरीर रम्यद्युते कथय किं भवितुं सुरक्तः । हारिद्रचूर्णसुविलेपनमातनोषि को वेद रङ्गचरितं न जगत्प्रसिद्धम् ॥ ४९॥ चञ्चत्पयोधररुचिं सुहरिद्रयाक्तं पीताम्बरं भ्रमतु वीक्ष्य च देहमद्य । पद्मां ततः सविधगां स्ववशं नयामो रङ्गिन् मनः किमिति सापि च रङ्गनिष्ठा ॥ ५०॥ हारिद्रचूर्णसङ्गादुज्ज्वलवपुषस्तव श्रियो रङ्गिन् । धिक्कुर्वन्ति हि शोभां धातुविचित्रितविधूपलग्राव्णः ॥ ५१॥ परस्परं दर्पणदर्शनीये गण्डस्थले ते जयतः श्रियश्च । सत्योस्तयोर्दर्पणधारणं किं रङ्गेश द्रष्टुं नु समं निजाङ्गम् ॥ ५२॥ मुकुरसदनमध्यस्थास्नु किं नीलरत्नम् । सितरुचिशुभरोचि श्यामलं किं नु नूत्नम् । इति विविधपदव्या वर्णितं निःसपत्नं भवतु सकलललोकश्रेयसे रङ्गरत्नम् ॥ ५३॥ मुकुरसदनमध्ये प्रस्फुरद्दीप्ररूपं दिशि दिशि च भवन्तं वीक्ष्य पद्मा द्विरूपा । नयनहृदयचोरं मायया धावनोत्कं बहुलकलितरूपं त्वां रुणद्धीति शङ्के ॥ ५४॥ प्रतिफलसि मुकुरदेशे जडेऽपि हृदये न मे कथं स्फुरसि । विमलय पदरजसा तत्समलं चेद्रङ्गभूमिपते ॥ ५५॥ स्वामिन् योषाद्वयमपि रङ्गक्ष्मापाल युक्तमेव तव । एकप्रकृतिकतापि च तयोर्मुदे ते भवत्यधिकम् ॥ ५६॥ पार्श्वद्वयेऽपि लक्ष्मीभूम्योर्मध्यस्थतां प्रपन्नेन । रङ्गिन् भवता भार्याद्वयानुसृतिरत्र शिक्ष्यते नुणाम् ॥ ५७॥ सेनेशप्रमुखेषु विश्वजनिषु त्वच्छासनप्रेप्सुषु स्वामिन् सत्सु कथं नु धान्यगणनां त्वं द्रष्टुमुद्युञ्जसे । कार्पण्यात् स भवान्न विश्वसिति किं कार्पण्यमात्रैर्नरै- स्तुभ्यं वेद्यत एव तत्परिचयाज्जातं स्थिरं किं त्वयि ॥ ५८॥ स्वयमेव धान्यगणनां पश्यति सति भवति सत्सु मित्रेषु । मित्रं हेम्नोऽर्थेऽलं धान्याथे स्वयमिति स्फुटा नीतिः ॥ ५९॥ कथं निशीथेऽस्त्वभिषेककालस्तव श्रियश्चापि च रङ्गबन्धो । कालव्यवस्था भवता कृतैव यद्वा स कालो युवयोः प्रभुर्न ॥ ६०॥ गर्भीकृतानि भुवनानि बहून्नते श्री- रङ्गक्षमादयित सन्ति तथापि चाद्य । यन्मज्जनं तव च वक्षसि संस्फुरन्त्या लक्ष्म्याश्च साधु भुवनैरिति चित्रमेतत् ॥ ६१॥ सुविमलपवित्रवपुषोर्भवतोः श्रीरङ्गनायकौ स्नानम् । सम्पश्यतां नराणामलमशुचिं व्यपोहति विचित्रम् ॥ ६२॥ शिबिकान्तःस्फूर्तिरियं युक्तं पुरुषार्थदाननिरतस्य । रङ्गेन्दौ स्फुरति दिने रूपं ह्यकलङ्कमसितमिति चित्रम् ॥ ६३॥ सङ्केतमैश्वरं यन्न सदर्थं नैव तद्विभाति मम । चतुरन्तत्वं भजते वाहनमिदमद्य येन रङ्गपते ॥ ६४॥ दानं शोभनकरता स्ववशागतहार्दवृतियुक्तम् । सद्यूथपते तव बत शिबिकारोहो रजस्कताप्यन्ते ॥ ६५॥ स्वामिन् जगद्गुरुरसि प्रथते च भार- वाहो वहन्ति बत पञ्चजनास्त एते । आलोचयंस्तव सुवैभवमद्भुतस्य वासं दिशेन्न हृदये भुवि रङ्गभूप ॥ ६६॥ घोटोद्यत्खरकूटगाढघटनासञ्जातभूयोरजः- पालीफेनरसार्दिता समलगन्मेरोस्तवोर्ध्वस्थले । रङ्गिन् देवपदं ततो विरचितं तस्यां धरित्र्यां न चेत् इत्थं राजसमाधिकारिकपदं विज्ञैः कुतः कथ्यते ॥ ६॥ चञ्चद्भवद्धोटखुराभिघातमाशङ्क्य सूर्योऽगमदस्तशैलम् । चन्द्रेऽस्ति लग्नं तदिदं हि चिह्नं रवेस्तदारभ्य तथैव वृत्तिः ॥ ६८॥ रङ्गिन् भवद्धोटशिखानिबद्ध- भूषाविशेषोल्लसितोर्ध्वसीम्नः । चञ्चस्त्वरापसृतिसाहचर्यं सच्चामरौ पार्श्वयुगे दधाते ॥ ६९॥ मद्वृत्तियोग्योऽर्हति जिह्मगत्व- मित्थं तदध्यापयसीव सप्तिम् । आस्तामिदं तार्क्ष्यमथोऽमृतस्य दाता त्वयं तद्विषदो न हि स्यात् ॥ ७०॥ मोचेक्षुमधुरवृत्तौ पत्रिप्रवरोज्ज्वले रथे वृत्तिः । सद्रूपशोभितेऽस्मिन्नुद्याने रङ्गभूप युक्तमिदम् ॥ ७१॥ कृतप्रतिकृतं भुवि प्रथितमेव रङ्गप्रभो यदत्र मनुजा भवत्समुपकृष्टचित्तास्तदा । भवद्रथसुकर्षणादिह कृतज्ञतां तन्वते क्षमं खलु यतस्तुतैर्जयति नित्यसख्यं तव ॥ ७२॥ अधिगतरथं भवन्तं पश्यन्तो भुवि मनोरथं प्राप्य । मोदन्ते रङ्गपते दाता त्वं खलु मनःपूर्वम् ॥ ७३॥ आलोक्य रथनिविष्टं नित्यसुतुष्टं जगल्लये शिष्टम् । न भजति कदापि कष्टं रङ्गिणमिष्टं जनो दृशा स्पष्टम् ॥ ७४॥ आरोहति स्यन्दनमम्बुजाक्षे रोहन्ति चक्षूंषि तमाश्रितानाम् । तस्मिन्न चक्षुर्विषये मनांसि तत्स्थानमेषां तु समाक्रमन्ति ॥ ७५॥ श्रीरङ्गनाथ नवमोत्सववासरेषु ये तीर्थवारिणि निमज्जनमाचरन्ति । ते बाह्यमान्तरतमं च रजो व्यपोह्य जन्मान्तरेऽपि शुचितामुपयान्ति हुन्त ॥ ७६॥ श्रीरङ्गराज किमिदं विपरीतमास्ते यस्तीर्थवारिषु विगाहनमातनोति । पुंसोऽपि तस्य रजसा विगमोऽपि सत्त्व प्रादुर्भवश्च शुचिभूतशरीरता च ॥ ७७॥ परिणीतामपि पद्मां वर्षे वर्षे किं तु परिणयसि । प्रणयवशा खलु नवा नवा सा विभाति रङ्गविभो ॥ ७८॥ जितेन्द्रियोऽस्मीति बभाण पूर्वं रङ्गक्षमापालक यादवत्वे । रुचिर्विवाहे कथमाविरासी- ज्ज्ञातं पतत्रीश्वरवाहनोऽसि ॥ ७९॥ प्राप्ताब्जोदररम्यकान्ति भवतो रङ्गेश दृष्ट्योर्युगं कुञ्चद्वक्त्रसरोजवासरसिकापादाब्जयोः संस्फुरत् । पश्यद्भिः प्रणयापराधकुपितां पद्मां पदाम्भोजयोः पाणिभ्यामगृहीस्त्वमित्यनुकलं लोकैः समालोक्यसे ॥ ८०॥ परिणयविधौ न भवतो रङ्गपते मातुलाहेर्वाहः । न हि हीनता ततः स्यादहीनवृत्त्योः सदा युवयोः ॥ ८१॥ डोलाधिरोहस्तव रङ्गधुर्य- प्रभो विवाहे भवतीति चित्रम् । पिता पुराणोऽसि भवान् रमापि प्रसूर्जनानामिति विश्रुता यत् ॥ ८२॥ परिणयनविधौ ते रङ्गबन्धो रमायाः करतलकृतमल्लीसूनगुच्छात् पतद्भिः । अरुणमणिधरित्र्यां पुष्पवृन्दैर्विशीर्णैः कृत इव हि हुताशे लाजहोमप्रकारः ॥ ८३॥ कस्त्वं रङ्गपतिः प्रदर्शय शुभं वेष नु किं दीयते किं तेऽभीष्टतमं ददासि यदि तत् तद्वाञ्छितं कथ्यते । अद्यैवाभिगृहाण ते परिणये वाञ्छेति मां लोभयन् अन्योन्यालपनेन सोऽयमधुना गृह्णाति तस्याः करम् ॥ ८४॥ करग्रहविधौ श्रियो मणिमयावनौ बिम्बितं जिघृक्षति करं तदा भवति रङ्गपृथ्वीपते । करग्रहसमर्थता बत नृपेत्यनाकर्णयन् सखीगिरमिव प्रभो लिखसि लज्जया भूतले ॥ ८५॥ उद्वाह्य पद्मां धरणीञ्च ताभ्यां पद्मालयाद्रङ्गपतेऽर्धवीथ्या । त्वां सम्प्रयान्तं सदनं निरीक्ष्य नो यान्ति याम्यं सदनं पुमांसः ॥ ८६॥ राज्यौ न दृश्ये सकलैरिति त्वं प्रावृत्य वस्त्रैः शिबिकां प्रयासि । युक्तं हि राज्ञस्तव तत्परं दु नान्ये पुमांसोऽत्र तनूभवेभ्यः ॥ ८७॥ पद्मावनिभ्यां रुचिरद्विपार्श्वे श्रीरङ्गधात्रीपतिसार्वभौमः । चाम्पेयगुच्छावलिमध्यगालि- रीतिं ह्यपूर्वां प्रकटीकरोति ॥ ८८॥ पार्श्वद्वयगतमहिलं परमपुमांसं पयोजपदमृदुलम् । परतरचञ्चत्खुरलं पश्य विलोचनपयोजरुचितरलम् ॥ ८९॥ व्यालम्बिकुसुममालं जगदवनासक्तसकलशुभलीलम् । उज्ज्वलवासवनीलं हृदये कुरु जन तमेनमयमूलम् ॥ ९०॥ जागरणकिञ्चिदरुणप्रभाक्षिनीलोत्पलप्रभापूरैः । श्रितजनताम्बूलभारं रङ्गपते त्वं ददासीव ॥ ९१॥ परिणयकाले राज्ञां मुच्यन्ते निगलबद्धजनवृन्दाः । भवता किं रङ्गपते बध्यन्ते प्रेमपाशतः सर्वे ॥ ९२॥ रक्षा श्रुता यथा वा भवतो न तथा किमाश्रितानां च । स्ववशा निराश्रयाश्चेदिति किं रङ्गिन् श्रिताघमभिहन्सि ॥ ९३॥ पूर्वं यादवतायामुक्तं गोपैरवाद्यघोषमिति । तत्परिचयवशतः किं ह्यवाद्यघोषं विराजसे रङ्गिन ॥ ९४॥ स्कन्धस्य रुचिकृदेतद्वाहनमिति लोभयन्मनुजान् । संवाह्य तैश्च रङ्गिन् धत्से तेषां भरन्यासम् ॥ ९५॥ तोलुक्किनियानिति हि प्रसिद्धिरेतस्य वाहनस्य भुवि । रङ्गपते लोचनयोरप्येतद्रोचते नितराम् ॥ ९६॥ निगमशिखरोक्तमधुना प्रकटीकुर्वन् विराजसे शब्दः (शब्दम्) । दशमामुत्सवरात्रिं नवमान्तेनातनोषि रङ्गपते ॥ ९७॥ पुष्पशिबिकान्तरङ्गे दुष्परिहरपापभञ्जनोत्तुङ्गे । तनुकान्तिजितानङ्गे धिनु सङ्गं चित्त रङ्गिणि शुभाङ्गे ॥ ९८॥ वहन्त एते जडसालभञ्जिकाकृतीन्नरान् वीक्ष्य च राघवत्वे । शिलावधूकृत्कपटत्वधारिणीं सञ्चिन्त्य रङ्गिन् स्ववशेऽद्य सन्ति ॥ ९९॥ शिबिकादण्डकृतांसप्रतिमा रङ्गिन् विभीषयन्तीव । वहतो भगवद्दृष्टा वयमपि शक्नुमोऽत्रेति ॥ १००॥ कुसुमचतुरन्तयाने शोभिनि यद्वत् कुबेरसुविमाने । सजलापयोदायमाने रमस्व रङ्गिणि मनो रमेशाने ॥ १०१॥ पुष्योत्सवो यथामत्यमुष्य रङ्गप्रभोरवर्णितराम् । कौण्डिन्यवंशमुक्तामणिना श्रीविजयराघवाख्येन ॥ १०२॥ कविगौरवेण नास्मिन् रमतां कविपरिषदत्युदारवचाः । कस्य कवेरस्य विभोरुपरि निबद्धं स्वदेत न जगत्सु ॥ १०३॥ रोगनिवारणकामैः सह्यन्ते ह्यौषधेषु कटुकत्वम् । भवदूरीकरणपरैः साधारणतापि चात्र सोढव्या ॥ १०४॥ रुचिरार्थेषु न गच्छंस्तेषां दोषैकदृष्टिरिह कोऽपि । निम्बदलरुचिरभावामौष्ट्रीं रीतिं समेतु का हानिः ॥ १०५॥ अवशेन गृह्णन्नामाप्यजामिलो मुक्तिमेति किल विदितम् । ज्ञात्वा जनिता कविता प्रसविष्यति भक्तिमद्भुतामस्मिन् ॥ १०६॥ रङ्गविभुस्तुतिमालां स्वीकुरुतां स स्वयं सुकारुण्यात् । निरवधिदयापयोधिः श्रीरङ्गनिवाससादरो भूमा ॥ १०७॥ सद्गुणगुम्भनमधुरां ग्राह्यां सर्वैर्विशिष्य विषयधुराम् । स्तुतिमालामम्लानां स्वीकुरु रङ्गक्षमाविभो स्वामिन् ॥ १०८॥ ॥ इति श्रीरङ्गनाथस्तुतिमाला सम्पूर्णा ॥ Proofread by Musiri Janakiraman
% Text title            : Ranganatha Stutimala
% File name             : ranganAthastutimAlA.itx
% itxtitle              : raNganAthastutimAlA
% engtitle              : ranganAthastutimAlA
% Category              : vishhnu, shataka
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Musiri Janakiraman
% Description-comments  : From stotrArNavaH 06-35
% Indexextra            : (Scan)
% Latest update         : August 29, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org