श्रीरङ्गराजसुप्रभातम्
॥ श्रीः ॥
श्रीरङ्गभूमितलभूसुरदेशिकेन्द्रैः
श्रीरङ्गवाटमिदमित्युदितैः प्रबोधैः ।
श्रीभूमिपाणिकमलैश्च समाश्रिताङ्घ्रे
श्रीरङ्गराज जगदीश्वर सुप्रभातम् ॥ १॥
कस्तूरिकाकलिकया कलितालकस्य
कन्दर्पकोटिसदृशस्य कृपाम्बुराशेः ।
कल्याणभूमिधर काङ्क्षितधैर्यसिन्धो
श्रीरङ्गराज जगदीश्वर सुप्रभातम् ॥ २॥
लीलाविशेषललिताललितेन्दिरायाः
मालाकवेरतनया मणिरेव साक्षात् ।
श्रीरङ्गराडिति जना निगदन्ति सर्वे
श्रीरङ्गराज जगदीश्वर सुप्रभातम् ॥ ३॥
जम्बूद्रुमादिवसतेः शशिराजमौलेः
सम्भूतनिर्झरनदीहतकल्मषस्य ।
उद्दीपनं वितनुते तव पादसेवा
श्रीरङ्गराज विजयिन् तव सुप्रभातम् ॥ ४॥
श्रीरङ्गराजभवने भुवनैकमान्ये
सीताकराम्बुरुहसेव्यतयातिधन्ये ।
याने विमानशयने वरवेदशृङ्गे
श्रीरङ्गराज जगदीश्वर सुप्रभातम् ॥ ५॥
श्री चन्द्रपुष्करिणिकासरसःप्रतीरे
श्रीवृक्षमूल कमलाक्ष कटाक्षपूरे ।
श्रीसह्यजावरविभूषण दिव्यमूर्ते
श्रीरङ्गराज जगदीश्वर सुप्रभातम् ॥ ६॥
सूर्येन्दुमण्डलमृगेन्द्र सुपर्णशेष-
वालाभिवर्यगजवाजिरथप्रधानैः ।
दिव्यैर्विमानशयने दययात्तनाथ
श्रीरङ्गराज जगदीश्वर सुप्रभातम् ॥ ७॥
लक्ष्मीश केशव हरे नृहरे मुरारे
शौरे रमारमण कारण दीनबन्धो ।
इत्यादरेण वदतामिह वाञ्छितार्थ
श्रीरङ्गराज जगदीश्वर सुप्रभातम् ॥ ८॥
श्रीसुप्रभातविनुतं सुकृताभिधेयं
प्रातस्समाहितमतिर्य इदं पठेत्तु ।
तस्मै भुजङ्गशयनो भुवि रङ्गनाथः
सर्वाणि वाञ्छितफलानि सदा प्रसूते ॥ ९॥
इति श्रीरङ्गराजसुप्रभातं सम्पूर्णम् ।
Proofread by Aruna Narayanan