साधुः चैतन्यकोयनिकृतं हरिस्तोत्रम्
असङ्ख्याः साधवो यत्र स्वतःप्रकाशरूपिणः ।
दिव्या वसन्ति ऋषयः शरण्यं प्रभजन्ति च ॥ २८॥
नमस्तस्मै नृनाट्याय सर्वान्तर्यामिणे नमः ।
आभ्यन्तरेभ्यः शधुभ्योऽवनं करोति यो हरिः ॥ २९॥
नमस्तस्मै कृष्णनारायणाय परमात्मने ।
आध्यात्मिकेभ्यस्तापेभ्यश्चाधिदैविकतस्तथा ॥ ३०॥
आधिभूतादिकष्टेभ्यो रक्षकाय नमो नमः ।
सामन्तविक्रमात् क्रूराल्लुण्ठकाद्वनचन्द्रकः ॥ ३१॥
सुखादेवी च तत्पत्नी वणिजो येन रक्षिताः ।
सायनायनसाधोस्तु समागमेन मोक्षिताः ॥ ३२॥
स कृष्णो वर्तते रक्षाकरस्तस्मै नमो नमः ।
धनिष्ठकोषं विप्रं च वाराङ्गनासु वर्तितम् ॥ ३३॥
स्नेहलतां च तत्पत्नीं गुरुं सोमायनं तथा ।
नृपं मालवसिंहं च ररक्ष मोक्षणं ददौ ॥ ३४॥
नमस्तस्मै परेशाय श्रीकान्ताय तु शार्ङ्गिणे ।
राजीवाख्यं नृपं राज्ञीं साध्वीं कुन्दनदेविकाम् ॥ ३५॥
अरक्षयत्तथाऽमोक्षयद्यस्तस्मै ते नमो नमः ।
देवविश्रामस्य रक्षां काण्डिकायाश्च मोक्षणम् ॥ ३६॥
कृतं येन च तस्मै श्रीहरये वै नमो नमः ।
हर्षुलमालिनं पत्नीं तस्य विद्रुमवल्लकीम् ॥ ३७॥
उद्दधार हरिर्यः श्रीपतिस्तस्मै नमो नमः ।
शाणधरं पितृहणं कर्षुकं च ररक्ष यः ॥ ३८॥
वृषहं निम्बदेवं च तस्मै कृष्णाय ते नमः ।
भाण्डं कालीन्दरं साधुकमलायनयोगतः ॥ ३९॥
मोक्षणं चाप्रापयद्यस्तस्मै कृष्णाय ते नमः ।
नर्तकं रायणदेवं बोधायनस्य योगतः ॥ ४०॥
गायकं नाकिरालाख्ये पत्तने तु व्रतर्दिनम् ।
राजानं पुण्ड्रवर्माणं य उद्दधार ते नमः ॥ ४१॥
वायकं तूलवायाख्यं समुद्दधार यः प्रभुः ।
काष्ठहारं तथा जङ्गलदेवं ते नमो नमः ॥ ४२॥
पण्यकृद्वात्सल्यधीरं पत्नीं मञ्जुलिकां तथा ।
साधुं साध्वीं कृतवान् यस्तस्मै तुभ्यं नमो नमः ॥ ४३॥
तिलकरङ्गं वनपं शिखादेवीं च तत्प्रियाम् ।
उद्दधार हरिर्यः स हृदयस्थोऽपि रक्षतु ॥ ४४॥
क्षेत्रपं नाञ्जकदेवं तथा स्तेनमहामयम् ।
उद्दधार हरिर्यश्च तस्मै कृष्णाय वै नमः ॥ ४५॥
किरातं सागराख्यं तत्पत्नीं च सारिकां तु यः ।
उद्दधार हरिर्यश्च तस्मै श्रीपतये नमः ॥ ४६॥
हूणं सारङ्गनामानं ररक्ष यश्च ते नमः ।
यज्ञराधं पुष्कसं च ब्रह्मायनप्रसङ्गतः ॥ ४७॥
कुटुम्बयुक्तं यः कृष्णोऽमोक्षयत्ते नमो नमः ।
कपिक्षयं तु चाण्डालं प्राज्ञेश्वरं द्विजं तथा ॥ ४८॥
अमोक्षयद्धरिर्यश्च तस्मै कृष्णाय ते नमः ।
नालीकरं लोहकारं पत्नीं कुन्दनिकां च यः ॥ ४९॥
अमोक्षयद्भवपाशात्तस्मै श्रीविष्णवे नमः ।
चर्मकारं मङ्गलाख्यं पत्नीं विभावरीं च यः ॥ ५०॥
विषाद्ररक्ष भगवान् यस्तस्मै वै नमो नमः ।
रथकारं हरिदासं पत्नीं श्रीमानवीं तु यः ॥ ५१॥
अमोक्षयत् प्रभवे ते वारं वारं नमो नमः ।
शिलाहारं दामशिलादकं पत्नीं कलाभिधाम् ॥ ५२॥
तद्भृत्याँश्चाऽमोक्षयद्यस्तस्मै कृष्णाय ते नमः ।
शिल्पिनं सञ्जयदेवं पत्नीं केशवतीं च यः ॥ ५३॥
राजानं खड्गवर्माणं तथाऽन्यान् शिल्पिनोऽपि च ।
उद्दधार हरिस्तस्मै बालकृष्णाय वै नमः ॥ ९४॥
चित्रकृत्सम्भरदेवं च चित्रंसरितां प्रियाम् ।
चित्रकारानपरान् योऽमोक्षयत्ते नमो नमः ॥ ५५॥
अङ्गारहारिणं मौक्तिकेशिनं तु निजाश्रितम् ।
तथाऽपरान् कर्मचारान् यो ररक्ष च ते नमः ॥ ५६॥
चक्रधरं लुब्धकं यः पौतिमाष्योपदेशतः ।
अमोक्षयद्धि संसारात्तस्मै कृष्णाय ते नमः ॥ ५७॥
वाटधरं पिशुनं यो नृपं सुतारसिंहकम् ।
घट्ययनप्रसङ्गेनाऽमोक्षयत्ते नमो नमः ॥ ९८॥
वाटधरं सवासं च द्वैपीराज्ञीमरक्षयत् ।
अमोक्षयच्च यः कृष्णस्तस्मै नित्यं नमो नमः ॥ ५९॥
गृहकारं शिवजयं वृषपर्वप्रसङ्गतः ।
अमोक्षयत्तु यः कृष्णस्तस्मै श्रीहरये नमः ॥ ६०॥
यश्च सङ्गरयादस्कं जालकारममोक्षयत् ।
पत्नीं रूपावतीं शुक्लायनर्षिसेवया हरिः ॥ ६१॥
तथा जात्या भरवाटमुद्यमश्रीतिनामकम् ।
सतीश्वरीं च तत्पन्नीं वल्लवीश्चोद्दधार यः ॥ ६२॥
उष्ट्रपालं दीर्घरम्भं रामायनप्रसङ्गतः ।
उद्दधार हरिर्यस्तं वल्लभं प्रणमे प्रभुम् ॥ ६३॥
रत्नप्रभं खरपालं नृसिंहस्वामियोगतः ।
उद्दधार हरिर्नारायणस्तं प्रणमाम्यहम् ॥ ६४॥
गदार्दनेश्वरं वैद्यं तत्पन्नीं च मुकुन्दिनीम् ।
अमोक्षयद्धि संसाराद्यस्तं नमामि मापतिम् ॥ ६५॥
कीशनकुलपालस्य देश्यावनस्य मोक्षणम् ।
तत्पत्न्याः पुरिकायाश्च चक्रे यस्तं नमामि वै ॥ ६६॥
नापितं हर्षधर्माख्यं पत्नीं निगमिकां च यः ।
भूभृतं स्वर्णधन्वानं राज्ञीं च पञ्चदेविकाम् ॥ ६७॥
कल्याणधामसाधोस्तु समागमेन तान् प्रभुः ।
उद्दधार हरिर्नारायणस्तं प्रणमामि वै ॥ ६८॥
यश्च रूटाणकीदेवीमाभीरीं दैत्यधर्षिताम् ।
अरक्षयद्ब्रह्मप्रियामध्ये रूपेश्वरीं तु ताम् ॥ ६९॥
मन्दारकलिकाद्याश्च तथाऽन्या दिव्यरूपिणीः ।
व्यधाच्छ्रीभगवान् पत्नीस्तं नमामि जनार्दनम् ॥ ७०॥
धीवरं धीरपर्वाणं निर्वाणायनयोगतः ।
कृत्वा तु पावनं कृष्णोऽमोक्षयत्तं नमाम्यहम् ॥ ७१॥
तारकादर्शकं शूलारोपकं चोद्दधार यः ।
सुपथानकभूपं च कृतशल्यां शूल्यङ्गनाम् ॥ ७२॥
उद्दधार जटी भूत्वा हरिश्रीकृष्णनन्दनः ।
गोपालनन्दनं कृष्णं वल्लभ तं नमाम्यहम् ॥ ७३॥
ज्वालाप्रसादनामानं चाग्निदं च प्रभावतीम् ।
नारायणायनयोगादमोक्षयन्नमामि तम् ॥ ७४॥
लवादनं तु गरदं नृपं श्रीमानवेश्वरम् ।
शान्तेश्वरं युवराजं सूर्यकान्तं तु सैन्यपम् ॥ ७५॥
किंशुकायनयोगेन समुद्दधार यः प्रभुः ।
श्रीकृष्णं देशिकं भक्तहृदयस्थं नमामि तम् ॥ ७६॥
विखण्डलं शस्त्रधरं भार्यां हरसतीं च यः ।
निर्मोहनायनयोगादमोक्षयच्च ते नमः ॥ ७७॥
एवं लक्ष्मि स्तवनं वै साधुश्चैतन्यकायनिः ।
चक्रे नेमे हरिं सर्वस्थितं च परितस्तदा ॥ ७८॥
इति श्रीलक्ष्मीनारायणीयसंहितायाः द्वापरयुगसन्तानात्मकस्य
साधुः चैतन्यकोयनिकृतं हरिस्तोत्रं सम्पूर्णम् ।
लक्ष्मीनारायणीयसंहिता । खण्ड ३। अध्याय २३५/२८-७८॥
lakShmInArAyaNIyasaMhitA . khaNDa 3. adhyAya 235/28-78..
Proofread by PSA Easwaran