साधुभिः कृतं बालकृष्णस्तोत्रम्

साधुभिः कृतं बालकृष्णस्तोत्रम्

ये भजन्ति सदा कृष्णनारायणपरेश्वरम् । स्तुवन्ति प्रत्यहं श्रीमद्बालकृष्णं प्रभुम्पतिम् ॥ ४०॥ ``कृष्णनारायण कृष्णनारायण नरायण । बालकृष्णाऽनादिकृष्णनारायण रमायण'' ॥ ४१॥ एवं रटन्ति नित्यं तं परमेशं हि साधवः । तेषां सत्सङ्गलाभेन पुरुषार्थचतुष्टयम् ॥ ४२॥ नमस्तेभ्यः समस्तेभ्यः साधुभ्योऽस्तु मुहुर्मुहुः । नमः साधुस्वरूपाय श्रीकृष्णस्वामिने नमः ॥ ४३॥ नमः सर्वाधिपतये सर्वपूर्वाय चक्रिणे । नमोऽवतारपूज्याय सृष्टीनां प्रभवे नमः ॥ ४४॥ ज्ञानानां प्रभवे तस्मै कर्मणां प्रभवे नमः । ईश्वराणां प्रशास्त्रे च देवानां प्रभवे नमः ॥ ४५॥ ऋषीणां च ग्रहाणां च ऋक्षाणां प्रभवे नमः । विद्युतां तैजसानां च मेघानां प्रभवे नमः ॥ ४६॥ वर्षाणां च भूधराणां नदीनां प्रभवे नमः । सर्वौषधीनां भक्ष्याणां तृप्तीनां प्रभवे नमः ॥ ४७॥ नमो धर्मादिरूपाणां जनयित्रे परात्मने । तस्मै रसानां प्रभवे रत्नानां प्रभवे नमः ॥ ४८॥ ऋत्वादीनां प्रभवे च वार्तानां प्रभवे नमः । विश्वानां प्रभवे सर्वविद्यानां प्रभवे नमः ॥ ४९॥ व्रतानां प्रभवे तस्मै मन्त्राणां प्रभवे नमः । सिद्धीनां प्रभवे सर्वौजसां च प्रभवे नमः ॥ ५०॥ लक्ष्मीनां पतये तस्मै श्रीस्वामिने नमो नमः । नमस्तस्मै वरदाय प्रजेशाय महात्मने ॥ ५१॥ अणवे महते तस्मै सर्वगाय नमो नमः । नमो यज्ञस्वरूपाय नमः पूजात्मकाय च ॥ ५२॥ नमः शस्त्रास्त्रधाराय माधवीष्टाय ते नमः । नमस्तीर्थाय देवाय वेदिशीलाय ते नमः ॥ ५३॥ नमो वीर्याय कामाय सदानन्दाय ते नमः । नमः श्रीबालकृष्णायाऽभयदानाय ते नमः ॥ ५४॥ वरदाय वरेण्याय नमस्तेऽप्रतिमाय च । हव्यकव्यादिरूपाय मेध्याय विष्णवे नमः ॥ ५५॥ पङ्क्तिपावनरूपाय नारायणाय ते नमः । नमः शुद्धाय बुद्धाय सर्वनेत्राय ते नमः ॥ ५६॥ दृश्यादृश्यस्वरूपाय दम्पतीरूपिणे नमः । त्यागिने च सुवर्णाय सौम्यरूपाय ते नमः ॥ ५७॥ नमः कान्ताय श्रीशाय वल्लभार्याय ते नमः । वत्सलायोपजीव्याय मृत्युघ्नाय च ते नमः ॥ ५८॥ अप्रमेयाय बृहते कुलालाय नमो नमः । रक्षोघ्नाय विषघ्नाय भक्तवेद्याय ते नमः ॥ ५९॥ निर्विशेषाय हृद्याय मोक्षदाय च ते नमः । नमो गोपालबालाय कम्भराश्रीभवाय च ॥ ६०॥ कामदाय च युवतीसेविताय नमो नमः । नमो वृद्धातिवृद्धाय पुराणाय च ते नमः ॥ ६१॥ लोकधात्री त्वियं भूमिर्मूर्तिर्दिव्या हि ते मता । द्यौः सर्वं मस्तकं यस्य पातालं पादसंज्ञितम् ॥ ६२॥ सृष्टयश्चोदरे यस्य तस्मै कृष्णाय ते नमः । अनादिश्रीकृष्णनारायणाय परमात्मने ॥ ६३॥ कुङ्कुमवापिकाक्षेत्रवासबालाय ते नमः । सर्वहृत्सु निवासायाऽन्तर्यामिणे च ते नमः ॥ ६४॥ नारायणस्तवेनैवं ये स्तुवन्त्यात्मनां पतिम् । श‍ृण्वन्ति स्तवनं चैवं तेषां भाग्योदयो भवेत् ॥ ६५॥ इति श्रीलक्ष्मीनारायणीयसंहितायाः तिष्यसन्तानात्मकस्य चतुर्थखण्डे ५५-अध्यायान्तर्गतं शर्करापुरे सत्सङ्गे साधुभिः कृतं बालकृष्णस्तोत्रं सम्पूर्णम् । लक्ष्मीनारायणीयसंहिता । खण्ड ४। अध्याय ५५/४०-६५॥ lakShmInArAyaNIyasaMhitA . khaNDa 4. adhyAya 55/40-65.. Proofread by PSA Easwaran
% Text title            : Sadhubhih Kritam Balakrishna Stotram
% File name             : sAdhubhiHkRRitaMbAlakRRiShNastotram.itx
% itxtitle              : bAlakRiShNastotram (sAdhubhiHkRitaM lakShmInArAyaNIyasaMhitAntargatam)
% engtitle              : sAdhubhiHkRRitaM bAlakRRiShNastotram
% Category              : vishhnu, vishnu, krishna, lakShmInArAyaNIyasaMhitA, stotra
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : lakShmInArAyaNIyasaMhitA | khaNDa 4 | adhyAya 55/40-65||
% Indexextra            : (Scans 1, 2, 3, 4)
% Latest update         : May 15, 2026
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org