सारङ्गहूणकृतं कृष्णनारायणस्तोत्रम्
लोमशाद्यो मन्त्रवरः प्राप्तोऽश्वपट्टतीर्थिना ।
तेन पुरा च तं मन्त्रं जजाप हूणभक्तराट् ॥ २४॥
``ॐ नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा'' ।
अष्टोत्तरशतवारं जप्त्वा नेमेऽम्बरे हरिम् ॥ २५॥
अनादिश्रीकृष्णनारायण विष्णो जगद्गुरो ।
बालकृष्ण हरेकृष्ण रक्ष रक्षय मामिह ॥ २६॥
शरणागतसन्त्रातः पाहि सिंहापदस्त्विह ।
अरण्ये त्वां विना कृष्ण रक्षकोऽन्यो न विद्यते ॥ २७॥
हरेकृष्ण बालकृष्ण शीघ्रमायाहि रक्ष नः ।
अन्धकारे वर्धमाने मृत्युर्नः स्यान्न संशयः ॥ २८॥
भक्तोऽस्मि चेत्तव कृष्णनरायण प्ररक्षय ।
प्राणिनां जायते मृत्युः क्वापि नैवाऽत्र संशयः ॥ २९॥
किन्तु कृष्ण प्रसह्याऽत्र देहानां नखभेदनैः ।
महिषीणां त्वकालेऽत्र मृत्युर्योग्यो न मे मतः ॥ ३०॥
यासां दुग्धं हि भगवन् पीयते प्रत्यहं त्वया ।
प्रातर्वै पूजने कृष्ण नैवेद्ये दिवसे निशि ॥ ३१॥
यद्घृतेन प्रदीपं ते कारयामि निशामुखे ।
तासां त्वं रक्षणं चेन्न करोषि निर्दयो नु किम् ॥ ३२॥
यासां सुमधुरं चापि पिच्छलं दधि चोत्तमम् ।
आस्वादयसि कृष्ण त्वं कथं नैव प्ररक्षसि ॥ ३३॥
शीघ्रमायाहि रक्षार्थं नो चेद्भक्तस्तवाऽस्मि यः ।
स एव प्रथमं प्राणाँस्त्यक्ष्यामि पशुहेतवे ॥ ३४॥
आश्रितानां रक्षणं वै कार्यं प्राक्स्वामिना सदा ।
स्वामिनाशे ततो नाशः स्वामिदोषाय नेष्यते ॥ ३५॥
इमा महिष्यो मां कृष्ण वीक्षन्ति रक्षकं प्रति ।
मयि कृष्ण हृदये त्वं स्थितः सन् किन्न पश्यसि ॥ ३६॥
पश्य पश्य हरे कृष्ण महापत्पतिता इमाः ।
भक्षको भक्षक एव मास्तु चास्त्वपि रक्षकः ॥ ३७॥
इत्युक्त्वाऽश्रूणि लक्ष्मि सम्मुमोच भक्तराण्मम ।
सारङ्गहूणो दीर्घं वै श्वासं मुमोच निस्पृहः ॥ ३८॥
इति श्रीलक्ष्मीनारायणीयसंहितायाः द्वापरयुगसन्तानात्मकस्य तृतीयखण्डे
२०९-अध्यायान्तर्गतं सारङ्गहूणकृतं कृष्णनारायणस्तोत्रं सम्पूर्णम् ।
लक्ष्मीनारायणीयसंहिता । खण्ड ३। अध्याय २०९/२४-३८॥
lakShmInArAyaNIyasaMhitA . khaNDa 3. adhyAya 209/24-38..
Proofread by PSA Easwaran