सूर्यकृतं नारायणस्तोत्रम्
ॐ नमः तेजःप्रसवित्रे बृहतेऽव्ययतेजसे ।
तेजस्विभ्योऽव्ययतेजःप्रदात्रे ब्रह्मणे नमः ॥ २९॥
यस्य गावो भूरिशृङ्गा अयासो भान्ति वर्षणे ।
ईशनीषु तदीशेषु यस्य भ्राज्योऽन्वयं ययुः ॥ ३०॥
नमो भ्राजिष्णवे तस्मै गोमते गोप्रसारिणे ।
हृत्तमोद्राविणे दिव्यासाय देवाय ते नमः ॥ ३१॥
प्रकाशयितृसंराजे स्वप्रकाशकृणे नमः ।
नमो भावित्तिविप्राय ज्ञानप्रबोधसूरिणे ॥ ३२॥
नमः श्राणविधातस्ते नम आत्मसदात्मने ।
नमो राजिष्णवे दीव्यन् सप्तभाजनुदायिने ॥ ३३॥
नमो भौमाय रक्ताय नमो दिव्याय विद्युते ।
नमः सूर्याय चोग्राय नमो हिरण्मयाय ते ॥ ३४॥
नमः खानेयसद्धेम्ने नम उदर्यतेजसे ।
नम उडुपभावाय नमो यावत्प्रभात्मने ॥ ३५॥
नमः कार्यस्वरूपाय नमः कारणरूपिणे ।
हिरण्मयाय देवाय ब्रह्मणे परमात्मने ॥ ३६॥
त्वं स्रष्टा त्वं पोषयिता संहर्ताऽपि त्वमेव वै ।
त्वमेव परमं तेजस्तेजस्विनां दृगग्रजम् ॥ ३७॥
सदा तेजःप्रदानेन रक्ष मां परमेश्वर ।
चक्षुष्मन्तश्च यावन्तो भजिष्यन्ति प्रभाप्रभुम् ॥ ३८॥
त्वमेव भगवान् भावान् प्रभावाॅंश्च प्रभास्वरः ।
त्वमेव नेत्रवान् त्राताऽऽमत्राता चाऽवनीश्वरः ॥ ३९॥
महश्चक्षुः स्वर्गचक्षुर्भुवश्चक्षुस्त्वमेव हि ।
भौमचक्षुः सर्वचक्षुश्चक्षुषां चक्षुषे नमः ॥ ४०॥
ॐ ॐ ॐ भूर्भुवः स्वस्तत् ॐ तत्सवितुर्वरेण्यम् ।
भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् ॥ ४१॥
इति मन्त्रं तु यः कोऽपि जपेद्ध्यायेदतन्द्रितः ।
हिरण्मयः परो देवः साक्षाद्याति तदग्रतः ॥ ४२॥
अयुतं जपनात्तस्य स्वयं सूर्यो महान्प्रभुः ।
वरदो भवते तस्य भगवत्त्वं ददाति च ॥ ४३॥
दिव्यं करोति तच्चक्षुरुद्घाटयति चान्तरम् ।
उत्तेजयति चात्मानं सम्पादयति ब्रह्म तत् ॥ ४४॥
तस्माद्ध्यानपरो भूत्वा जपेत्स्वश्रेयसे सदा ।
स्तोत्रं सूर्यकृतं स्वोपास्त्यर्थं हिरण्मयस्य वै ॥ ४५॥
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने ४२-अध्यायान्तर्गतं
सूर्यकृतं नारायणस्तोत्रं सम्पूर्णम् ।
लक्ष्मीनारायणीयसंहिता । खण्ड १। अध्याय ४२/२९-४५॥
lakShmInArAyaNIyasaMhitA . khaNDa 1. adhyAya 42/29-45..
Proofread by PSA Easwaran