सूतप्रोक्तं २ वासुदेवमाहात्म्यम्

सूतप्रोक्तं २ वासुदेवमाहात्म्यम्

इति चोक्तं द्विजश्रेष्ठा यत्पृष्टोऽहमिहास्मि वः । लीलावतारकर्माणि कीर्तितानीह सर्वशः ॥ ४६॥ पतितः स्खलितश्चार्तः क्षुत्त्वा वा विवशो ब्रुवन् । हरये नम इत्युच्चैर्मुच्यते सर्वपातकात् ॥ ४७॥ सङ्कीर्त्यमानो भगवाननन्तः श्रुतानुभावो व्यसनं हि पुंसाम् । प्रविश्य चित्तं विधुनोत्यशेषं यथा तमोऽर्कोऽभ्रमिवातिवातः ॥ ४८॥ मृषा गिरस्ता ह्यसतीरसत्कथा न कथ्यते यद्भगवानधोक्षजः । तदेव सत्यं तदु हैव मङ्गलं तदेव पुण्यं भगवद्गुणोदयम् ॥ ४९॥ तदेव रम्यं रुचिरं नवं नवं तदेव शश्वन्मनसो महोत्सवम् । तदेव शोकार्णवशोषणं नृणां यदुत्तमश्लोकयशोऽनुगीयते ॥ ५०॥ न तद्वचश्चित्रपदं हरेर्यशो जगत्पवित्रं प्रगृणीत कर्हिचित् । तद्ध्वाङ्क्षतीर्थं न तु हंससेवितं यत्राच्युतस्तत्र हि साधवोऽमलाः ॥ ५१॥ स वाग्विसर्गो जनताघसम्प्लवो यस्मिन् प्रतिश्लोकमबद्धवत्यपि । नामान्यनन्तस्य यशोऽङ्कितानि य- च्छृण्वन्ति गायन्ति गृणन्ति साधवः ॥ ५२॥ नैष्कर्म्यमप्यच्युतभाववर्जितं न शोभते ज्ञानमलं निरञ्जनम् । कुतः पुनः शश्वदभद्रमीश्वरे न ह्यर्पितं कर्म यदप्यनुत्तमम् ॥ ५३॥ यशः श्रियामेव परिश्रमः परो वर्णाश्रमाचारतपःश्रुतादिषु । अविस्मृतिः श्रीधरपादपद्मयो- र्गुणानुवादश्रवणादिभिर्हरेः ॥ ५४॥ अविस्मृतिः कृष्णपदारविन्दयोः क्षिणोत्यभद्राणि शमं तनोति च । सत्त्वस्य शुद्धिं परमात्मभक्तिं ज्ञानं च विज्ञानविरागयुक्तम् ॥ ५५॥ यूयं द्विजाग्र्या बत भूरिभागा यच्छश्वदात्मन्यखिलात्मभूतम् । नारायणं देवमदेवमीश- मजस्रभावा भजताऽऽविवेश्य ॥ ५६॥ अहं च संस्मारित आत्मतत्त्वं श्रुतं पुरा मे परमर्षिवक्त्रात् । प्रायोपवेशे नृपतेः परीक्षितः सदस्यृषीणां महतां च श‍ृण्वताम् ॥ ५७॥ एतद्वः कथितं विप्राः कथनीयोरुकर्मणः । माहात्म्यं वासुदेवस्य सर्वाशुभविनाशनम् ॥ ५८॥ य एवं श्रावयेन्नित्यं यामक्षणमनन्यधीः । (श्लोकमेकं तदर्धं वा पादं पादार्धमेव वा ।) श्रद्धावान् योऽनुश‍ृणुयात्पुनात्यात्मानमेव सः ॥ ५९॥ द्वादश्यामेकादश्यां वा श‍ृण्वन्नायुष्यवान् भवेत् । पठत्यनश्नन् प्रयतः ततो भवत्यपातकी ॥ ६०॥ पुष्करे मथुरयां च द्वारवत्यां यतात्मवान् । उपोष्य संहितामेतां पठित्वा मुच्यते भयात् ॥ ६१॥ देवता मुनयः सिद्धाः पितरो मनवो नृपाः । यच्छन्ति कामान् गृणतः श‍ृण्वतो यस्य कीर्तनात् ॥ ६२॥ ऋचो यजूंषि सामानि द्विजोऽधीत्यानुविन्दते । मधुकुल्या घृतकुल्याः पयःकुल्याश्च तत्फलम् ॥ ६३॥ पुराणसंहितामेतामधीत्य प्रयतो द्विजः । प्रोक्तं भगवता यत्तु तत्पदं परमं व्रजेत् ॥ ६४॥ विप्रोऽधीत्याप्नुयात्प्रज्ञां राजन्योदधिमेखलाम् । वैश्यो निधिपतित्वं च शूद्रः शुध्येत पातकात् ॥ ६५॥ कलिमलसंहतिकालनोऽखिलेशो हरिरितरत्र न गीयते ह्यभीक्ष्णम् । इह तु पुनर्भगवानशेषमूर्तिः परिपठितोऽनुपदं कथाप्रसङ्गैः ॥ ६६॥ तमहमजमनन्तमात्मतत्त्वं जगदुदयस्थितिसंयमात्मशक्तिम् । द्युपतिभिरजशक्रशङ्कराद्यैः दुरवसितस्तवमच्युतं नतोऽस्मि ॥ ६७॥ उपचितनवशक्तिभिः स्व आत्मनि उपरचितस्थिरजङ्गमालयाय । भगवत उपलब्धिमात्रधाम्ने सुरऋषभाय नमः सनातनाय ॥ ६८॥ स्वसुखनिभृतचेतास्तद्व्युदस्तान्यभावो- अप्यजितरुचिरलीलाकृष्टसारस्तदीयम् । व्यतनुत कृपया यस्तत्त्वदीपं पुराणं तमखिलवृजिनघ्नं व्याससूनुं नतोऽस्मि ॥ ६९॥ इति श्रीमद्भागवतमहापुराणे द्वादशस्कन्धे द्वादशाध्यायान्तर्गतं सूतप्रोक्तं वासुदेवमाहात्म्यं समाप्तम् । भागवतपुराण । अध्याय १२/१२/४६-५४॥ bhAgavatapurANa . adhyAya 12/12/46-54.. Proofread by PSA Easwaran
% Text title            : Sutaproktam 2 Vasudevamahatmyam
% File name             : sUtaproktaM2vAsudevamAhAtmyam.itx
% itxtitle              : vAsudevamAhAtmyam (sUtaproktaM 2 bhAgavatapurANAntargatam iti choktaM dvijashreShThA yatpRiShTo.ahamihAsmi vaH)
% engtitle              : sUtaproktaM 2 vAsudevamAhAtmyam
% Category              : vishhnu, vishnu, krishna, bhAgavatapurANa, mAhAtmya
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : bhAgavatapurANa | adhyAya 12/12/46-54||
% Indexextra            : (Text 1, 2, 3, Scans 1, 2, 3, 4, 5, 6, Hindi)
% Latest update         : October 18, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org