सनकादिभिः कृतं विष्णुस्तोत्रम्
तस्मिन् युद्धे महाघोरे सनकाद्यास्ततो हरिम् ।
तुष्टुवुः पुण्डरीकाक्षं वाराहं वपुरास्थितम् ॥ १॥
जय प्रपन्नार्तिहर प्रभो हरे
जयस्व गोविन्द सनातनात्मन् ।
जयादिदेवेश जयामरेश
जयस्व देव त्रिपुरारिसंस्तुत ॥ २॥
नमो नमो देव महामते हरे
महावराहाय नमोऽस्तु भूयः ।
नमः समस्तेश वराहरूपिणे
जनार्दनाय प्रभविष्णवे नमः ॥ ३॥
नमो वरेण्याय वराय देव
त्रिविक्रमायादिवराहरूपिणे ।
नमो नमो भूपविलासविक्रम
प्रभो हरे देव सनातनाय ॥ ४॥
अचिन्त्यरूपाय हिरण्यरेतसे
विनाशकर्त्रे क्षितिपालनाय ।
नताः स्म देवं वरदं वरेण्यं
नताः स्म विष्णो नियता जनार्दन ॥ ५॥
नताः स्म शङ्खारिगदासीधारिणे ।
नताः स्म शार्ङ्गायुध देवदेव ॥ ६॥
कृष्ण कृष्ण हृषीकेश देवदेव सनातन ।
नारायन पुराणात्मन् योगिध्येय जगत्पते ॥ ७॥
जहीमं दानवं विष्णो चक्रेण मधुसूदन ।
निर्विघ्नाः सन्तु लोकाश्च दानवस्य वधाद्धरे ॥ ८॥
एते देवा नमस्यन्ति भीतास्त्वां शरणं गताः ।
जहि क्षिप्रं दुरात्मानं विप्राणां भयवर्धनम् ॥ ९॥
इत्युक्त्वा ते मुनिवरा वाचमायम्य संस्थिताः ।
देवाश्च मुनयश्चैव संस्थिता भयविक्लवाः ॥ १०॥
इति हरिवंशान्तर्गतं सनकादिभिः कृतं विष्णुस्तोत्रं सम्पूर्णम् ।
हरिवंश । अनुबन्ध - परिशिष्ट । अध्याय अ४२/५९८॥
harivaMsha . anubandha - parishiShTa . adhyAya a42/598..
Proofread by PSA Easwaran