सनत्कुमारप्रोक्तं विष्णुमाहात्म्यम्

सनत्कुमारप्रोक्तं विष्णुमाहात्म्यम्

अनादिनिधनः श्रीमान्हरिर्नारायणः प्रभुः । स वै सृजति भूतानि स्थावराणि चराणि च ॥ १९॥ एष सर्वेषु भूतेषु क्षरश्चाक्षर एव च । एकादशविकारात्मा जगत्पिबति रश्मिभिः ॥ २०॥ पादौ तस्य महीं विद्धि मूर्धानं दिवमेव च । बाहवस्तु दिशो दैत्य श्रोत्रमाकाशमेव च ॥ २१॥ तस्य तेजोमयः सूर्यो मनश्चन्द्रमसि स्थितम् । बुद्धिर्ज्ञानगता नित्यं रसस्त्वप्सु प्रवर्तते ॥ २२॥ भ्रुवोरनन्तरास्तस्य ग्रहा दानवसत्तम । नक्षत्रचक्रं नेत्राभ्यां पादयोर्भूश्च दानव ॥ २३॥ रजस्तमश्च सत्त्वं च विद्धि नारायणात्मकम् । स आश्रमाणां मुखं तात कर्मणस्तत्फलं विदुः ॥ २४॥ अकर्मणः फलं चैव स एव परमव्ययः । छन्दांसि तस्य रोमाणि अक्षरं च सरस्वती ॥ २५॥ बह्वाश्रयो बहुमुखो धर्मो हृदि समाश्रितः । स ब्रह्मपरमो धर्मस्तपश्च सदसच्च सः ॥ २६॥ श्रुतिशास्त्रग्रहोपेतः षोडशर्त्विक्क्रतुश्च सः । पितामहश्च विष्णुश्च सोऽश्विनौ स पुरन्दरः ॥ २७॥ मित्रश्च वरुणश्चैव यमोऽथ धनदस्तथा । ते पृथग्दर्शनास्तस्य संविदन्ति तथैकताम् । एकस्य विद्धि देवस्य सर्वं जगदिदं वशे ॥ २८॥ नानाभूतस्य दैत्येन्द्र तस्यैकत्वं वदत्ययम् । जन्तुः पश्यति ज्ञानेन ततः सत्त्वं प्रकाशते ॥ २९॥ इति महाभारते शान्तिपर्वणि २७१ अध्यायान्तर्गतं सनत्कुमारप्रोक्तं विष्णुमाहात्म्यं सम्पूर्णम् । महाभारत । शान्तिपर्व । अध्याय (२८६)२७१/१९-२९॥ mahAbhArata . shAntiparva . adhyAya (286)271/19-29.. Proofread by PSA Easwaran
% Text title            : Sanatkumaraproktam Vishnumahatmyam
% File name             : sanatkumAraproktaMviShNumAhAtmyam.itx
% itxtitle              : viShNumAhAtmyam (sanatkumAraproktaM mahAbhAratAntargatam)
% engtitle              : sanatkumAraproktaM viShNumAhAtmyam
% Category              : vishhnu, vishnu, mahAbhArata, mAhAtmya
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : mahAbhArata | shAntiparva | adhyAya (286)271/19-29||
% Indexextra            : (Scans 1, 2, 3, 4, 5, Gujarati, Bengali, Hindi)
% Latest update         : November 15, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org