सनत्कुमारप्रोक्तं विष्णुरक्षास्तोत्रम्
अथवा केशवाद्यैस्तु रक्षां कुर्यात्प्रयत्नतः ।
केशवः पातु पादौ मे जङ्घे नारायणोऽवतु ॥ ११४॥
माधवो मे कटिं पातु गोविन्दो गुह्यमेव च ।
नाभिं विष्णुश्च मे पातु जठरं मधुसूदनः ॥ ११५॥
ऊरू त्रिविक्रमः पातु हृदयं पातु मे नरः ।
श्रीधरः पातु कण्ठं च हृषीकेशो मुखं मम ॥ ११६॥
पद्मनाभः स्तनौ पातु शीर्षं दामोदरोऽवतु ।
एवं विन्यस्य चाङ्गेषु जपकाले तु साधकः ॥ ११७॥
निर्भयो जायते भूतवेतालग्रहराक्षसात् ।
पुनर्न्यसेत्प्रयत्नेन ध्यानं कुर्वन्समाहितः ॥ ११८॥
पुरस्तात्केशवः पातु चक्री जाम्बूनदप्रभः ।
पश्चान्नारायणः शङ्खी नीलजीमूतसन्निभः ॥ ११९॥
ऊर्द्ध्वमिन्दीवरश्यामो माधवस्तु गदाधरः ।
गोविन्दो दक्षिणे पार्श्वे धन्वी चन्द्रप्रभो महान् ॥ १२०॥
उत्तरे हलधृग्विष्णुः पद्मकिञ्जल्कमसन्निभः ।
आग्नेय्यामरविन्दाक्षो मुसली मधुसूदनः ॥ १२१॥
त्रिविक्रमः खड्गपाणिर्नैरृत्यां ज्वलनप्रभः ।
वायव्यां माधवो वज्री तरुणादित्यसन्निभः ॥ १२२॥
ऐशान्यां पुण्डरीकाक्षः श्रीधरः पट्टिशायुधः ।
विद्युत्प्रभो हृषीकेश ऊर्द्ध्वे पातु समुद्गरः ॥ १२३॥
अधश्च पद्मनाभो मे सहस्रांशुसमप्रभः ।
सर्वायुधः सर्वशक्तिः सर्वाद्यःसर्वतोमुखः ॥ १२४॥
इन्द्रगोपप्रभः पायात्पाशहस्तोऽपराजितः ।
स बाह्याभ्यन्तरे देहमव्याद्दामोदरो हरिः ॥ १२५॥
एवं सर्वत्र निश्छिद्रं नामद्वादशपञ्जरम् ।
प्रविष्टोऽहं न मे किञ्चिद्भयमस्ति कदाचन ॥ १२६॥
एवं रक्षां विधायाथ दुर्द्धर्षो जायते नरः ।
सर्वेषु नृहरेर्मन्त्रवर्गेष्वेवं विधिर्मतः ॥ १२७॥
इति नारदपुराणे पूर्वभागे एकसप्ततितमाध्यायान्तर्गतं
सनत्कुमारप्रोक्तं विष्णुरक्षास्तोत्रंसमाप्तम् ।
बृहन्नारदीयपुराण । पूर्वभाग । अध्याय ७१/११४-१२६॥
bRRihannAradIyapurANa . pUrvabhAga . adhyAya 71/114-126..
Proofread by PSA Easwaran