सङ्घवाटादिभिः कृतं हरिस्तोत्रम्
द्रुतं ते मूषकदेहाँस्त्यक्त्वा वै मण्डपान्तरे ॥ ८०॥
सुदिव्या देववज्जाता देवा देव्यश्च शोभनाः ।
सर्वे षोडशवर्षाश्च भासमानाः प्रभाविणः ॥ ८१॥
तुष्टुवुः परमात्मानं संहितास्थं हरिं प्रभुम् ।
``नमो मोक्षप्रदानां तु सतां लक्ष्यैकबिन्दवे ॥ ८२॥
मुक्तानां ध्यानलक्ष्याय सर्वावतारिणे नमः ।
नमः कृष्णाय कृष्णादिस्वामिने परमात्मने ॥ ८३॥
बालकृष्णाय कान्ताय सर्वकान्ताय रक्षिणे ।
श्रीशाय कमलेशाय राधेशाय विहारिणे ॥ ८४॥
नमो देवाधिवासाय सर्वान्तर्यामिणे नमः ।
नमोऽनादिनिधनाय मोक्षदात्रे कृपालवे ॥ ८४१॥
नमः श्रीलोमशायाऽपि सद्भ्यश्चापि नमो नमः ।
नमो व्यासाय दिव्याय स्वयम्प्रकाशिने नमः ॥ ८६॥
नमः पद्मावतीलक्ष्मीप्रज्ञाभूपतये नमः ।
नमस्तस्मै हृदिस्थाय धामस्थाय च ते नमः ॥ ८७॥
प्रसादाय नमश्चापि मण्डपाय च वै नमः ।
नमो मण्डपदेवेभ्यो नमः श्रवणिभ्यस्तथा ॥ ८८॥
तारकेभ्यः पावकेभ्यः सद्भ्यः सदा नमो नमः ।
साध्वीभ्यश्च सतीभ्यश्च वैष्णवेभ्यो नमो नमः'' ॥ ८९॥
वयं पापाः प्रसादेनोद्धृता यदृच्छया त्विह ।
कृपया दिव्यतां प्राप्ताः सतां दर्शनतस्तथा ॥ ९०॥
जातिस्मराः स्म सञ्जाताः कथास्थानप्रभावतः ।
पुनर्जन्म न चेच्छामश्चेच्छामः शाश्वताऽक्षरम् ॥ ९१॥
स्वप्रकाशो हि भगवान् ददातु मन्त्रमुत्तमम् ।
नामधुन्यं प्रददातु येन यास्याम उत्तमम् ॥ ९२॥
अक्षरं परमं धाम परमेश्वरराजितम् ।
इत्येवं बद्रिके ते सम्प्रार्थयामासुरुत्सुकाः ॥ ९३॥
स्वप्रकाशो हि भगवान् ददौ तेभ्यो मनुं तदा ।
``ॐ नमः श्रीकृष्णनारायणाय पतये स्वाहा'' ॥ ९४॥
प्रभो नारायण पद्मावतीनारायण प्रभो ।
जयाकृष्ण ललिताश्रीकृष्ण राधापते विभो'' ॥ ९५॥
धुन्यं ददौ तदा तेभ्यस्तेऽपि चक्रुः प्रकीर्तनम् ।
एकताना अभवँश्च श्रीकृष्णे वल्लभे प्रभौ ॥ ९६॥
इति श्रीलक्ष्मीनारायणीयसंहितायाः तिष्यसन्तानात्मकस्य चतुर्थखण्डे
७०-अध्यायान्तर्गतं मूषकजन्मान्मुक्तैः सङ्घवाटादिभिः कृतं
हरिस्तोत्रं सम्पूर्णम् ।
लक्ष्मीनारायणीयसंहिता । खण्ड ४। अध्याय ७०/८०-९६॥
lakShmInArAyaNIyasaMhitA . khaNDa 4. adhyAya 70/80-96..
Proofread by PSA Easwaran