सञ्जयप्रोक्तं भीकृष्णमहिमावर्णनम्

सञ्जयप्रोक्तं भीकृष्णमहिमावर्णनम्

एकतो वा जगत्कृत्स्नमेकतो वा जनार्दनः । सारतो जगतः कृत्स्नादतिरिक्तो जनार्दनः ॥ ७॥ भस्म कुर्याज्जगदिदं मनसैव जनार्दनः । न तु कृत्स्नं जगच्छक्तं भस्म कर्तुं जनार्दनम् ॥ ८॥ यतः सत्यं यतो धर्मो यतो ह्रीरार्जवं यतः । ततो भवति गोविन्दो यतः कृष्णस्ततो जयः ॥ ९॥ पृथिवीं चान्तरिक्षं च दिवं च पुरुषोत्तमः । विचेष्टयति भूतात्मा क्रीडन्निव जनार्दनः ॥ १०॥ स कृत्वा पाण्डवान्सत्रं लोकं सम्मोहयन्निव । अधर्मनिरतान्मूढान्दग्धुमिच्छति ते सुतान् ॥ ११॥ कालचक्रं जगच्चक्रं युगचक्रं च केशवः । आत्मयोगेन भगवान्परिवर्तयतेऽनिशम् ॥ १२॥ कालस्य च हि मृत्योश्च जङ्गमस्थावरस्य च । ईशते भगवानेकः सत्यमेतद्ब्रवीमि ते ॥ १३॥ ईशन्नपि महायोगी सर्वस्य जगतो हरिः । कर्माण्यारभते कर्तुं कीनाश इव दुर्बलः ॥ १४॥ तेन वञ्चयते लोकान्मायायोगेन केशवः । ये तमेव प्रपद्यन्ते न ते मुह्यन्ति मानवाः ॥ १५॥ इति महाभारते उद्योगपर्वणि ६६ अध्यायान्तर्गतं सञ्जयप्रोक्तं भीकृष्णमहिमावर्णनं सम्पूर्णम् । महाभारत । उद्योगपर्व । अध्याय ६६/७-१५॥ mahAbhArata . udyogaparva . adhyAya 66/7-15.. Proofread by PSA Easwaran
% Text title            : Sanjayaproktam Bhikrishnamahimavarnanam
% File name             : sanjayaproktaMbhIkRRiShNamahimAvarNanam.itx
% itxtitle              : bhIkRiShNamahimAvarNanam (sanjayaproktaM mahAbhAratAntargatam)
% engtitle              : sanjayaproktaM bhIkRRiShNamahimAvarNanam
% Category              : vishhnu, vishnu, krishna, mahAbhArata
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : mahAbhArata | udyogaparva | adhyAya 66/7-15||
% Indexextra            : (Scans 1, 2, 3, 4, 5, Gujarati, Bengali, Hindi)
% Latest update         : October 18, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org